सूतगीता - अथ द्वितीयोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


आत्मना सृष्टिकथनम् ।
सूत उवाच - श्रुणुत ब्रह्मविच्छ्रेष्ठा भाग्यवन्तः समाहिताः । वक्ष्यामि परमं गुह्यं विज्ञानं वेदसंमतम् ॥१॥ अस्ति कश्चित्स्वत सिद्धः सत्यज्ञानसुखाद्वयः । विश्वस्य जगतः कर्ता पशुपाशविलक्षणः ॥२॥ आकाशादीनि भूतानि पञ्च तेषां प्रकीर्तिताः । गुणाः शब्दादयः पञ्च पञ्च कर्मेन्द्रियाणि च ॥३॥ ज्ञानेन्द्रियाणि पञ्चैव प्राणाद्या दश वायवः । मनो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ॥४॥ तेषां कारणभूतैकाऽविद्या षट्त्रिंशकः पशुः । विश्वस्य जगतः कर्ता पशोरन्यः परः शिवः ॥५॥ आत्मानः पशवः सर्वे प्रोक्ता अज्ञानिनः सदा । अज्ञानमात्मनामेषामनाद्येव स्वभावतः ॥६॥ संसारबीजमज्ञानं संसार्यज्ञः पुमान्यतः । ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥७॥ अज्ञानाकारभेदेनाविद्याख्येनैव केवलम् । पशूनामात्मनां भेदः कल्पितो न स्वभावतः ॥८॥ अज्ञानाकारभेदेन मायाख्येनैव केवलम् । विभागः कल्पितो विप्राः परमातत्वलक्षणः ॥९॥ घटाकाशमहाकाशविभागः कल्पितो यथा । तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ॥१०॥ यथा जीवबहुत्वं तु कल्पितं मुनिपुङ्गवाः । तथा परबहुत्वं च कल्पितं न स्वभावतः ॥१०॥ यथोच्चावचभावस्तु जीवभेदे तु कल्पितः । तथोच्चावचभावश्च परभेदे च कल्पितः ॥१२॥ देहेन्द्रियादिसङ्घातवासनाभेदभेदिता । अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥१३॥ गुणानां वासनाभेदभेदिता या द्विजर्षभाः । माया सा परभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥१४॥ यस्य मायागतं सत्त्वं शरीरं स्यात्तमोगुणः । संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापरः ॥१५॥ तथा यस्य तमः साक्षाच्छरीरं सात्त्विको गुणः । पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः ॥१६॥ रजो यस्य शरीरं स्यात्तदेवोत्पादनाय च । त्रिमूर्तीनां स वै ब्रह्मा भवेद्विप्रा न चापरः ॥१७॥ रुद्रस्य विग्रहं शुक्लं कृष्णं विष्णोश्च विग्रहम् । ब्रह्मणो विग्रहं रक्तं चिन्तयेद्भुक्तिमुक्तये ॥१८॥ शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् । कार्ष्ण्यं तमोगुणाज्जातमिति विद्यात्समासतः ॥१९॥ परतत्त्वैकताबुद्ध्या ब्रह्माणं विष्णुमीश्वरम् । परतत्त्वतया वेदा वदन्ति स्मृतयोऽपि च ॥२०॥ पुराणानि समस्तानि भारतप्रमुखान्यपि । परतत्त्वैकताबुद्ध्या तात्पर्यं प्रवदन्ति च ॥२१॥ ब्रह्मविष्ण्वादिरूपेण केवलं मुनिपुङ्गवाः । ब्रह्मविष्ण्वादयस्त्वेव न परं तत्त्वमास्तिकाः ॥२२॥ तथाऽपि रुद्रः सर्वेषामुत्कृष्टः परिकीर्तितः । स्वशरीरतया यस्मान्मनुते सत्त्वमुत्तमम् ॥२३॥ रजसस्तमसः सत्त्वमुत्कृष्टं हि द्विजोत्तमाः । सत्त्वात्सुखं च ज्ञानं च यत्किञ्चिदपरं परम् ॥२४॥ परतत्त्वप्रकाशस्तु रुद्र्स्यैव महत्तरः । ब्रह्मविष्ण्वादिदेवानां न तथा मुनिपुङ्गवाः ॥२५॥ परतत्त्वतया रुद्रः स्वात्मानं मनुते भृशम् । परतत्त्वप्रकाशेन न तथा देवतान्तरम् ॥२६॥ हरिब्रह्मादिरूपेण स्वात्मानं मनुते भृशम् । हरिब्रह्मादयो देवा न तथा रुद्रमास्तिकाः ॥२७॥ रुद्रः कथंचित्कार्यार्थं मनुते रुद्ररूपतः । न तथा देवताः सर्वा ब्रह्मस्फूर्त्यल्पताबलात् ॥२८॥ ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा । न कश्चित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥२९॥ ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा । कथंचित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥३०॥ तत्त्वबुद्धिः स्वतःसिद्धा रुद्रस्यास्य तपोधनाः । हरिब्रह्मादिबुद्धिस्तु तेषां स्वाभाविकी मता ॥३१॥ हरिब्रह्मादिदेवान्ये पूजयन्ति यथाबलम् । अचिरान्न परप्राप्तिस्तेषामस्ति क्रमेण हि ॥३२॥ रुद्रं ये वेदविच्छ्रेष्ठाः पूजयन्ति यथाबलम् । तेषामस्ति परप्राप्तिरचिरान्न क्रमेण तु ॥३३॥ रुद्राकारतया रुद्रो वरिष्ठो देवतान्तरात् । इति निश्चयबुद्धिस्तु नराणां मुक्तिदायिनी ॥३४॥ गुणाभिमानिनो रुद्राद्धरिब्रह्मादिदेवताः । वरिष्ठा इति बुद्धिस्तु सत्यं संसारकारणम् ॥३५॥ परतत्त्वादपि श्रेष्ठो रुद्रो विष्णुः पितामहः । इति निश्चयबुद्धिस्तु सत्यं संसारकारणम् ॥३६॥ रुद्रो विष्णुः प्रजानाथः स्वराट्सम्राट्पुरन्दरः । परतत्त्वमिति ज्ञानं नराणां मुक्तिकारणम् ॥३७॥ अमात्ये राजबुद्धिस्तु न दोषाय फलाय हि । तस्माद्ब्रह्ममतिर्मुख्या सर्वत्र न हि संशयः ॥३८॥ तथाऽपि रुद्रे विप्रेन्द्राः परतत्त्वमतिर्भृशम् । वरिष्ठा न तथाऽन्येषु परस्फूर्त्यल्पताबलात् ॥३९॥ अस्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं बहिस्तमः । विष्णोरन्तस्तमः सत्त्वं बहिरस्ति रजोगुणः ॥४०॥ अन्तर्बहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः । अतोऽपेक्ष्य गुणं सत्त्वं मनुष्या विवदन्ति च ॥४१॥ हरिः श्रेष्ठो हरः श्रेष्ठ इत्यहो मोहवैभवम् । सत्त्वाभावात्प्रजानाथं वरिष्ठं नैव मन्वते ॥४२॥ अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् । हरः श्रेष्ठो हरेः साक्षादिति बुद्धिः प्रजायते ॥४३॥ महापापवतां नॄणां हरिः श्रेष्ठो हरादिति । बुद्धिर्विजायते तेषां सदा संसार एव हि ॥४४॥ निर्विकल्पे परे तत्त्वे श्रद्धा येषां विजायते । अयत्नसिद्धा परमा मुक्तिस्तेषां न संशयः ॥४५॥ निर्विकल्पं परं तत्त्वं नाम साक्षाच्छिवः परः । सोऽयं साम्बस्त्रिनेत्रश्च चन्द्रार्धकृतशेखरः ॥४६॥ स्वात्मतत्त्वसुखस्फूर्तिप्रमोदात्ताण्डवप्रियः । रुद्रविष्णुप्रजानाथैरुपास्यो गुणमूर्तिभिः ॥४७॥ ईदृशी परमा मूर्तिर्यस्यासाधारणी सदा । तद्धि साक्षात्परं तत्त्वं नान्यत्सत्यं मयोदितम् ॥४८॥ विष्णुं ब्रह्माणमन्यं वा स्वमोहान्मन्वते परम् । न तेषां मुक्तिरेषाऽस्ति ततस्ते न परं पदम् ॥४९॥ तस्मादेषा परा मूर्तिर्यस्यासाधारणी भवेत् । स शिवः सच्चिदानन्दः साक्षात्तत्त्वं न चापरः ॥५०॥ ब्रह्मा विष्णुश्च रुद्रश्च विभक्ता अपि पण्डिताः । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥५१॥ अविद्योपाधिको जीवो न मायोपाधिकः खलु । मायोपाधिकचैतन्यं परमात्मा हि नापरम् ॥५२॥ मायाकार्यगुणच्छन्ना ब्रह्मविष्णुमहेश्वराः । मायोपाधिपरव्यूहा न जीवव्यूहसंस्थिताः ॥५३॥ परमात्मविभागत्वं ब्रह्मादीनां द्विजर्षभाः । समानमपि रुद्रस्तु वरिष्ठो नात्र संशयः ॥५४॥ ब्रह्मा विष्णुश्च रुद्रस्य स्वासाधारणरूपतः । स्वविभूत्यात्मना चापि कुर्वाते एव सेवनम् ॥५५॥ रुद्र स्वेनैव रूपेण विष्णोश्च ब्रह्मणस्तथा । सेवनं नैव कुरुते विभूतेर्वा द्वयोरपि ॥५६॥ केवलं कृपया रुद्रो लोकानां हितकाम्यया । स्वविभूत्यात्मना विष्णोर्ब्रह्मणश्चापरस्य च ॥५७॥ करोति सेवां हे विप्राः कदाचित्सत्यमीरितम् । न तथा ब्रह्मणा विष्णुर्न ब्रह्मा न पुरन्दरः ॥५८॥ एतावन्मात्रमालम्ब्य रुद्रं विष्णुं प्रजापतिम् । मन्वते हि समं मर्त्या मायया परिमोहिताः ॥५९॥ केचिदेषां महायासात्साम्यं वाञ्छन्ति मोहिताः । हरेरजस्य चोत्कर्षं हराद्वाञ्छन्ति केचन ॥६०॥ रुद्रेण साम्यमन्येषां वाञ्छन्ति च विमोहिताः । ते महापातकैर्युक्ता यास्यन्ति नरकार्णवम् ॥६१॥ रुद्रादुत्कर्षमन्येषां ये वाञ्छन्ति मोहिताः । पच्यन्ते नरके तीव्रे सदा ते न हि संशयः ॥६२॥ केचिदद्वैतमाश्रित्य बैडालव्रतिका नराः । साम्यं रुद्रेण सर्वेषां प्रवदन्ति विमोहिताः ॥६३॥ देहाकारेण चैकत्वे सत्यपि द्विजपुङ्गवाः । शिरसा पादयोः साम्यं सर्वथा नास्ति हि द्विजाः ॥६४॥ यथाऽऽस्यापानयोः साम्यं छिद्रतोऽपि न विद्यते । तथैकत्वेऽपि सर्वेषां रुद्रसाम्यं न विद्यते ॥६५॥ विष्णुप्रजापतीन्द्राणामुत्कर्षं शङ्करादपि । प्रवदन्तीव वाक्यानि श्रौतानि प्रतिभान्ति च ॥६६॥ पौराणिकानि वाक्यानि स्मार्तानि प्रतिभान्ति च । तानि तत्त्वात्मना तेषामुत्कर्षं प्रवदन्ति हि ॥६७॥ विष्णुप्रजापतीन्द्रेभ्यो रुद्रस्योत्कर्षमास्तिकाः । वदन्ति यानि वाक्यानि तानि सर्वाणि हे द्विजाः ॥६८॥ प्रवदन्ति स्वरूपेण तथा तत्त्वात्मनाऽपि च । नैवं विष्ण्वादिदेवानामिति तत्त्वव्यवस्थितिः ॥६९॥ बहुनोक्तेन किं जीवास्त्रिमूर्तीनां विभूतयः । वरिष्ठा हि विभूतिभ्यस्ते वरिष्ठा न संशयः ॥७०॥ तेषु रुद्रो वरिष्ठश्च ततो मायी परः शिवः । मायाविशिष्टात्सर्वज्ञः साम्बः सत्यादिलक्षणः ॥७१॥ वरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा । शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरितम् ॥७२॥ शिवस्वरूपमालोड्य प्रवदामि समासतः । शिवादन्यतया भातं शिव एव न संशयः ॥७३॥ शिवादन्यतया भातं शिवं यो वेद वेदतः । स वेद परमं तत्त्वं नास्ति संशयकारणम् ॥७४॥ यः शिवः सकलं साक्षाद्वेद वेदान्तवाक्यतः । स मुक्तो नात्र सन्देहः सत्यमेव मयोदितम् ॥७५॥ भासमानमिदं सर्वं भानमेवेति वेद यः । स भानरूपं देवेशं याति नात्र विचारणा ॥७६॥ प्रतीतमखिलं शम्भुं तर्कतश्च प्रमाणतः । स्वानुभूत्या च यो वेद स एव परमार्थवित् ॥७७॥ जगद्रूपतया पश्यन्नपि नैव प्रपश्यति । प्रतीतमखिलं ब्रह्म सम्पश्यन्न हि संशयः ॥७८॥ प्रतीतमप्रतीतं च सदसच्च परः शिवः । इति वेदान्तवाक्यानां निष्ठाकाष्ठा सुदुर्लभा ॥७९॥ इति सकलं कृपया मयोदितं वः श्रुतिवचस कथितं यथा तथैव । यदि हृदये निहितं समस्तमेत- त्परमगतिर्भवतामिहैव सिद्धा ॥८०॥ ॥इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मना सृष्टिकथनं नाम द्वितीयोऽध्यायः ॥ २॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP