संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|कृष्णभक्तिरत्नप्रकाशः| षष्ठः प्रकाशः कृष्णभक्तिरत्नप्रकाशः प्रथमः प्रकाशः द्वितीयः प्रकाशः तृतीयः प्रकाशः चतुर्थः प्रकाशः पञ्चमः प्रकाशः षष्ठः प्रकाशः कृष्णभक्तिरत्नप्रकाशः - षष्ठः प्रकाशः भगवान श्रीकृष्ण का लीलामय जीवन अनके प्रेरणाओं व मार्गदर्शन से भरा हुआ है। Tags : bookkrishnaकृष्णपुस्तकसंस्कृत षष्ठः प्रकाशः Translation - भाषांतर अथ प्रवक्ष्ये श्रीकृष्णचरणाम्बुजसेवनम् ।समस्तदुःखदमनं नित्यानन्दसुखप्रदम् ॥१॥तदेव श्रीभगवतश्चरणलाभस्य किमुपायस्तदाह – अहो ! अनन्यया भक्त्या, यथा श्रीभगवन्नियमः—भक्त्याहमेकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् ।भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात॥२॥ तथा शुकोक्तिः—न दानं न तपो नेज्या न शौचं न व्रतानि च ।प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥३॥ इति ।भक्तिः किमिति तदाह नारदपञ्चरात्रे—सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम् ।हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥४॥तस्यां भक्तौ त्रिविधं लक्षणं—साधनी, ज्ञानान्विता, प्रेमलक्षणा च । साधनी यथा—श्रवणं कीर्तनं चैव स्मरणं पादसेवनम् ।अर्चनं वन्दनं चेति साधनी षड्विधा मता ॥५॥एतासामादौ श्रवणभक्तिरिति श्रेष्ठा, यथा—श्रवणाज्जायते श्रद्धाप्यरतिर्भक्तिरुत्तमा ।यन्न श्रुतं च तस्यैव कथं सङ्कीर्तनादयः ॥६॥अत आदौ भक्तिश्रवणम्, यथा—पिबन्ति ये भगवत आत्मनः सतांकथामृतं श्रवणपुटेषु सम्भृतम्पुनन्ति ते विषयविदूषिताशयंव्रजन्ति तच्चरणसरोरुहान्तिकम् ॥७॥इति ।संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।लीलाकथारसनिषेवणमन्तरेणपुंसो भवेद्विविधदुःखदवार्दितस्य ॥८॥ अतः श्रवणात्सङ्कीर्तनभक्तिर्जायते, तथा—श्रीकृष्णनामगुणसंश्रवणं समस्तभक्तेर्निदानमपि सद्भिरुदाहृतं तत।यस्माद्भवेद्रतिरलं क्रमशोऽप्यखण्डसङ्कीर्तनस्मरणसेवनवन्दनादौ ॥९॥तदेव हरेर्नाम्नां गुणानां च गानं कीर्तनमुच्यते । यथा—एतावतालमघनिर्हरणाय पुंसांसङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ॥१०॥ इत्यादि ।तथैव—शृण्वन्सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके ।गीतानि नामानि तदर्थकानिगायन्विलज्जो विचरेदसङ्गः ॥११॥तथा पद्यावल्यां [२०]—वेपन्ते दुरितानि मोहमहिमा सम्मोहमालम्बतेसातङ्कं नखरजनीं कलयति श्रीचित्रगुप्तः कृती ।सानन्दं मधुपर्कसम्भृतिविधौ वेधाः करोत्युद्यमंवक्तुं नाम्नि तवेश्वराभिलषिते ब्रूमः किमन्यत्परम् ॥१२॥बृहन्नारदीये [१.३२.४७]—यन्नामोच्चारणादेव महापातकनाशनम् ।यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः ॥१३॥एवं सङ्कीर्तनात्स्मरणं जायते । ब्रह्मवैवर्ते—स्वस्ति श्रीविष्णुलोकाद्धरिचरणरजःपुञ्जपिञ्जोत्तमाङ्गःकालारिः संयमन्यां मधुरिपुवचनादादिशत्यर्कपुत्रम् ।भव्यं चान्यन्मुरारेः स्मरणविघटिताशेषपापान्धकाराःपूर्णा अप्युद्धवन्तो न कथमपि न वा वारणियास्त्वयैव ॥१४॥तथैव स्कान्दे—तदेव पुरुषो मुक्तो जन्मदुःखजरादिभिः ।भक्त्या तु परया नूनं यदैवं स्मरते हरिम् ॥१५॥तत्र श्रीकृष्णस्मरणेन न केवलं दुःखहरणम्, भक्तिमुक्तिदमेव । यथा गोविन्दवृन्दावने प्रथमपटले कृष्ण एव परं ब्रह्म सच्चिदानन्दसुन्दरः ।स्मृतिमात्रेण येषां वै भक्तिमुक्तिफलप्रदः ॥१६॥ इत्यादि ।एवं श्रीकृष्णपादाम्बुजस्मरणेन पादसेवनादौ मतिर्जायतेऽन्तर्निर्मलत्वेन, यथा—प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।धुनोति शमलं कृष्णः सललस्य यथा शरत॥१७॥अथ पादसेवनम्, यथा—तं सुखाराध्यं ऋजुभिरनन्यशरणैर्नृभिः ।कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः ॥१८॥ त्वय्यम्बुजाक्षाखिलसत्त्वधाम्निसमाधिनावेशितचेतसैके ।त्वत्पादपोतेन महत्कृतेनकुर्वन्ति गोवत्सपदं भवाब्धिम् ॥१९॥ अथैवं पादसेवनादर्चने मतिर्जायते । तदर्चनं यथा—यत्पादयोरशठधीः सलिलं प्रदायदूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।अप्युत्तमां गतिमसौ भजते त्रिलोकींदाश्वानविक्लवमनाः कथमार्तिं ऋच्छेत॥२०॥ नारदीये—जलेनापि जगन्नाथः पूजितो क्लेशहा हरिः ।परितोषं व्रजत्याशु तृष्णार्तः सलिलैर्यथा ॥२१॥मानुषं दुर्लभं प्राप्य यो हरिं नार्चयेत्सकृत।मूर्खः परतरस्तस्मात्कोऽन्यस्तस्मादचेतनः ॥२२॥तथैव ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः ।संसारपाशविच्छेदी कस्तं न प्रतिपूजयेत॥२३॥अथ प्रणाममाह नारसिंहे—नमस्कारः स्मृतो यज्ञः सर्वयज्ञेषु चोत्तमः ।नमस्कारेण चैकेन साष्टाङ्गेन हरिं व्रजेत॥२४॥पाद्मे देवदूतविकुण्डलसंवादे—कृत्वापि बहुशः पापं नरो मोहसमन्वितः ।न याति नरकं गत्वा सर्वपापहरं हरिम् ॥२५॥ तत्र दण्डप्रणामं यथा—दण्डप्रणामं कुरुते विष्णवे भक्तिभावतः ।रेणुसङ्ख्यं वसेत्स्वर्गे मन्वन्तरशतं नरः ॥२६॥तत्र प्रदक्षिणमाहात्म्यं, यथा वाराहे—एवं कृत्वा तु कृष्णस्य यः कुर्याद्द्विः प्रदक्षिणाम् ।सप्तद्वीपवतीपुण्यं लभते तु पदे पदे । तत्ख्यातं यत्सुधर्मस्य पूर्वस्मिन्गृध्रजन्मनि ।कृष्णप्रदक्षिणाभ्यासान्महासिद्धिरभूदिति ॥२७॥तथा—पतितः स्खलितो वार्तः क्षुद्बाधाविवशो गृणन।हरये नम इत्युच्चैर्मुच्यते सर्वपातकात॥२८॥अथ ज्ञानानिविता, यथा दास्यं सख्यं तथा चात्मनिवेदनमिति त्रयम् । तत्र दास्यं, यथा—यन्नामश्रुतिमात्रेण पुमान्भवति निर्मलः ।तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥२९॥ श्रीकृष्ण एव सर्वेषां परं सर्वोपासनीय इति निश्चयज्ञानेन सद्भिः श्रीभगवद्दासत्वं स्वीकृतम् । ततस्तदनुसन्धीयते । तदेव—एताः परं तनुभृतो भुवि गोपवध्वोगोविन्द एव निखिलात्मनि रूठभावाः ।वाञ्छन्ति यद्भवभियो मुनयो वयं चकिं ब्रह्मजन्मभिरनन्तकथारसस्य ॥३०॥ तत्र दास्यमेव द्विविधम् । दासत्वं दासीत्वं च । तत्र दासभावः—अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः ।मनः स्मरेतासुपतेर्गुणांस्तेगृणीत वाक्कर्म करोतु कायः ॥३१॥ विष्णुधर्मोत्तरे—परमात्ममशेषस्य जगतः प्रभवाप्ययम् ।शरण्यं शरणं गच्छन्गोविन्दं नावसीदति ॥३२॥तत्र दासीभावो, यथा संमोहनतन्त्रे—दासभावः सख्यभावः पुत्रभावस्तथैव च ।नारीभावो विशेषेण गुह्याद्गुह्यतमं स्मृतः ॥३३॥तथादिपुराणे—गोपीभावेन ये भक्ता मामेवं समुपासते ।तेषु तेष्विव तुष्टोऽहं सत्यं सत्यं वदाम्यहम् ।भावानुरूपं सर्वत्र पार्थ व्यवहराम्यहम् ॥३४॥अत्र सख्यभावो, यथा—श्रीकृष्ण एव परमब्रह्म रसमयलीलाविग्रहः । यद्यद्वाञ्छन्ति, तत्तत्प्राप्नुवन्ति इति ज्ञानेन सख्यभावं कुर्वन्ति सन्तः । तद्यथा—कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥३५॥ यथा महाभारते—अर्जुनस्य सखा कृष्णः कृष्णस्य हि सखार्जुनः ।उभयोरन्तरं नास्ति पवनाकाशयोरिव ॥३६॥अथात्मनिवेदनं, यथा—सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥३७॥ इति ज्ञात्वा आत्मसमर्पणं कुर्वन्ति सन्तः ।आत्मानमर्पयेत्कृष्णे भवेदात्मनिवेदनम् ।अनन्यभावमाश्रित्य तवाहं च बलिर्यथा ॥३८॥विक्रीता गौः प्रदत्ता वा स्वयं यत्तन्न विद्यते ।तदा देहादिकं सर्वं दत्तं कृष्णाय नात्मनः ॥३९॥तथा कविरुवाच—कायेन वाचा मनसेन्द्रियैर्वाबुद्ध्यात्मना वानुसृतस्वभावात।करोति यद्यत्सकलं परस्मैनारायणायेति समर्पयेत्तत॥४०॥ अथैवं ज्ञानभक्त्या प्रेमलक्षणा भक्तिर्जायते, यथा ब्रह्मसंहितायां—प्रबुद्धे ज्ञानभक्तिभ्यामात्मन्यानन्दचिन्मयी ।उदेत्यनुत्तमा भक्तिर्भगवत्प्रेमलक्षणा ॥४१॥ तदेवादिपुराणे अर्जुनं प्रति श्रीभगवानुवाच—न तपोभिर्न वेदैश्च नाचारैर्न च विद्यया ।वशोऽस्मि केवलं प्रेम्णा प्रमाणं तत्र गोपिकाः ॥४२॥तथात्र प्रेम यथा—ज्ञानाद्यनपेक्षया ममैवेत्याकारपुरःसरं सहजस्फूर्तिः प्रेम । तदेव—या दोहने ऽवहनने मथनोपलेपप्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ ।गायन्ति चैनमनुरक्तधियो ऽश्रुकण्ठ्योधन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥४३॥ अथ कीदृक्प्रेम ? तदाह—प्राणप्रतिमरूपेण दर्शनादर्शनेन च ।जीवनं मरणं स्याद्यत्तत्प्रेमेति निगद्यते ॥४४॥पद्मपुराणे—अव्यलीकेन मनसा प्रेष्ठस्याराधनं प्रति ।आनन्दऽनुभवाद्भक्तिर्धियो वृत्तिरचञ्चला ॥४५॥अत्यन्तसुखसम्प्राप्तौ विच्छेदे दुःखसन्ततेः ।हेतुरेकोऽयमेवेति संश्रयो भक्तिरुच्यते ॥४६॥द्वाभ्यां संवलितैर्भावैः प्रेमभक्तिरिति स्मृतम् ॥४७॥ इति ।अथैवं श्रीभगवद्भक्तिः केनोपायेन जायते ? तदुतु सत्सङ्गादेव । श्रीभगवानुवाच—सतां प्रसङ्गान्मम वीर्यसंविदोभवन्ति हृत्कर्णरसायनाः कथाः ।तज्जोषणादाश्वपवर्गवर्त्मनिश्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥४८॥ यथा प्रेमसुधासारण्याम्—सततप्रेमपरायणजनमुखगलितकृष्णकथामाध्वी ।श्रवणपुटेन निपीता वितरति कृष्णेऽमलं प्रेम ॥४९॥तथा पद्मपुराणे—न तपांसि न तीर्थानि न शास्त्राणि यजन्ति नः ।संसारसागरोत्तारे वैष्णवसेवनं विना ॥५०॥तदेव—नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥५१॥व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः ।यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥५२॥ तथा अतएव भगवद्भक्तिः क्षिप्रमुत्पद्यते, यथा—न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥५३॥ तथा नवसिद्धान्प्रति निमिनृप उवाच—अत आत्यन्तिको क्षेमं पृच्छामो भवतो ऽनघाः ।संसारे ऽस्मिन्क्षणार्धो ऽपि सत्सङ्गः शेवधिर्नृणाम् ॥५४॥ अथ सन्तः कीदृशा इत्युच्यताम् । तदेव—महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् ।महान्तस्ते समचित्ताः प्रशान्ताविमन्यवः सुहृदः साधवो ये ॥५५॥ तथा श्रीभगवानुवाच—कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।सत्यसारो ऽनवद्यात्मा समः सर्वोपकारकः ॥५६॥कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ॥५७॥अप्रमत्तो गभीरात्मा धृतिमाञ् जितषड्गुणः ।अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ॥५८॥आज्ञायैवं गुणान्दोषान्मयादिष्टानपि स्वकान।धर्मान्सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ॥५९॥ज्ञात्वाज्ञात्वाथ ये वै मां यावान्यश्चास्मि यादृशः ।भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥६०॥ एवं भागवतमाराध्य श्रीकृष्णे भक्तिः प्रजायत इत्यसन्देहः । यथा श्रीभगवन्निगमः—सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥६१॥ इत्यादि ।अतः सन्तमाराध्य श्रीहरौ भक्तिः करणीया अनन्यभावेन । यथा श्रीभगवद्गीतायामर्जुनं प्रति श्रीभगवानुवाच—सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥६२॥ तथा च ब्रह्मसंहितायां ब्रह्माणं प्रति श्रीभगवानुवाच—धर्मानन्यान्परित्यज्य मामेकं भज विश्वसन।यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ॥६३॥ तथा—तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥ इति ।भक्तानां धर्मकर्मादिबाधेन दूषणमस्ति ? नैवम् । तथा—देवर्षिभूताप्तन्èणां पित्èणांनायं किङ्करो नायं ऋणी च राजन।सर्वात्मना यः शरणं शरण्यंगतो मुकुन्दं परिहृत्य कर्तम् ॥ तथा बृहन्नारदीये—वासुदेवप्रसङ्गेन क्रियालोपो भवेद्यदि ।तस्य कर्माणि कुर्वन्ति तिस्रः कोट्यो महर्षयः ॥६५॥तथैव—आज्ञायैवं गुणान्दोषान्मयादिष्टानपि स्वकान।धर्मान्सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ॥६६॥ तथा—यदा यस्यानुगृह्णाति भगवानात्मभावितः ।स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥६७॥ इत्येवं श्रीभगवद्भक्तानामनुपपतितिर्भयादयः सन्ति, नैवम् । यथा श्रीमद्भागवते समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः इत्यादि । तथातथा न ते माधव तावकाः क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ॥ इत्यादि ॥तथा श्रीभगवद्गीतासु—अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥अतएव श्रीकृष्णचन्द्रपादारविन्दाश्रयणे न किंचिद्दुर्लभम् । जन्ममरणभयातीतपदं च प्राप्यते । नित्यानन्दपदमपि प्राप्यते च । यथा—मर्त्यो मृत्युव्यालभीतः पलायन्लोकान्सर्वान्निर्भयं नाध्यगच्छत।त्वत्पादाब्जं प्राप्य यदृच्छयाद्यसुस्थः शेते मृत्युरस्मादपैति ॥ तथा श्रीविष्णुसहस्रनामस्तोत्रे—न वासुदेवभक्तानामशुभं विद्यते क्वचित।जन्ममृत्युजराव्याधिभयं वाप्युपजायते ॥तथा—भगवत उरुविक्रमाङ्घ्रिशाखानखमणिचन्द्रिकया निरस्ततापे ।हृदि कथमुपसीदतां पुनः सप्रभवति चन्द्र इवोदिते ऽर्कतापः ॥ इत्यादि श्रीभगवद्भक्तेर्महत्त्वम् । अत्रैवाग्रे श्रीभगवद्भजनोद्देशरत्नादौ कतिचिदुक्तम् । तत्रैव ज्ञातव्यमिति ॥अतः—नानादेवनिषेवणं परिहर प्राणादिसंरोधनंधर्मं कर्म च दानतीर्थनियमब्रह्मादिकोपासनम् ।सर्वेषां परमेश्वरस्य परमानन्दप्रदस्यात्मनःश्रीकृष्णस्य सदाव्ययस्य चरणद्वन्द्वारविन्दं भज ॥७२॥तथा—राधाकृष्णपदारविन्दविगलत्प्रेमप्रवाहामृतंपायं पायमनारतं परसुखी भूत्वा महानुन्मदः ।नान्यत्रापि मनो दधाति न वदत्यन्यं स्मरेन्नेतरंतस्यिवाङ्घ्रियशो विनाप्यत इमं चक्रे कवी राघवः ॥७३॥स्वर्वापीसविधे महामुनिवरस्याम्रातकस्याश्रमेनानाशास्त्रविधिज्ञपण्डितयुते स्थानेऽम्बिकाधिष्ठिते ।ब्रह्मव्यासमहेशगोपितधनं कृष्णप्रकाशाभिधंरत्नं राघवनामधेयकृतिना वेद्यं कृतं सर्वतः ॥७४॥ये जानन्ति महान्त एव सुधियस्ते मोदयन्त्युत्तमाः क्षीणा ये न विदन्ति तत्त्वमिदमे वाध्याययन्त्वाशु ते ।एतद्ये तु विहाय चान्यविषये कुर्वन्त्यहो मानसे ते किं कृष्णपदारविन्दसुरसं सम्प्राप्नुवन्त्यज्ञकाः ॥७५॥परम्—श्रीकृष्णाङ्घ्रिसरोजयुग्मविगलन्माध्वीकधारामृतंपीतं यैर्न च चारुचित्तचषकैस्ते वञ्चिता दुःखिताः ।अन्यं वानुसरन्त्यनित्यविभवं सौख्याशया बालिशायास्यन्त्युद्भवमृत्युतीव्रकदनेष्वाजन्मकोटिष्वपि ॥७६॥अतः सर्वमन्यं विहाय सर्वोपरि श्रीकृष्णचरणारविन्दं ब्रह्मादिभिर्भजनीयं भजत । तदेव क्रुतैतद्दुर्लभसङ्ग्रहानुसारेण । तदेवमिमं सङ्ग्रहं विरुद्धमतिषु न प्रकाशयेत। तदिति—धूर्तायात्यन्तमूर्खाय तथा पण्डितमानिने ।पाषण्डमतये चैव अन्यदेवोपसेविने ॥७७॥अभक्ताय च लोलाय रिक्तोपासापराय च ।नास्तिकाय तामसाय तथाहङ्कारकारिणे ॥७८॥न प्रकाश्यो न देयश्च कदाचिन्नैष सङ्ग्रहः ॥७९॥देयो विशुद्धमतये कृष्णपादाब्जसेविने ।गुरुभक्ताय शान्ताय सत्यसन्धाय सर्वदा ॥८०॥तथा श्रीभगवद्गीतासु इदं ते नातपस्काय नाभक्ताय कदाचन ।न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥८१॥य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥८२॥ इति ।ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥८३॥तमेव शरणं गच्छ सर्वभावेन भारत ।तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥८४॥इत्येवं ज्ञात्वा श्रीकृष्णचरणारविन्दमेव शरणं कर्तव्यमिति शेषः । इति श्रीकृष्णप्रकाशरत्ने भक्तिविरचनं नामषष्ठप्रकाशरत्नं समाप्तम् ।श्रीकृष्णभजनोपायचिन्तामणिरयं ग्रन्थः ।प्रेमभक्तिप्रदो यत्तत्समाश्रयत सत्तमाः ॥समाप्तश्चायं ग्रन्थः ।श्रीगुरुदेवाय समर्पणमस्तु । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP