कृष्णभक्तिरत्नप्रकाशः - प्रथमः प्रकाशः
भगवान श्रीकृष्ण का लीलामय जीवन अनके प्रेरणाओं व मार्गदर्शन से भरा हुआ है।
ॐ कृष्णाय नमः
कलात्तमायालवकात्तमूर्तिः
कलक्वणद्वेणुनिनादरम्यः ।
श्रितो हृदि व्याकुलयंस्त्रिलोकीं
श्रियेऽस्तु गोपीजनवल्लभो वः ॥१॥
गुरुचरणसरोरुहद्वयोत्थान्
महितरजःकनकान्प्रणम्य्मूर्ध्ना ।
गदितमिह विविच्य नारदाद्यैर्
यजनविधिं कथयामि शार्ङ्गपाणेः ॥२॥
क्षितिसुरनृपविट्तुरीयजानां
मुनिवनवासिगृहस्थवर्णिनां च ।
जपहुतयजनादिभिर्मनूनां
फलति हि कश्चन कस्यचित्कथञ्चित॥३॥
सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वयजन्मभेषु ।
दाता फलानामभिवाञ्छितानां
द्रागेव गोपालकमन्त्र एषः ॥४॥
नूनमच्युतकटाक्षपातने
कारणं भवति भक्तिरञ्जसा ।
तच्चतुष्टयफलाप्तये ततो
भक्तिमानधिकृतो गुरौ हरौ ॥५॥
स्नातो निर्मलधौतसूक्ष्मवसनो धौताङ्घ्रिपाण्याननः
स्वाचान्तः सपवित्रमुद्रितकरः श्वेतोर्ध्वपुण्ड्रोज्ज्वलः ।
प्राचीदिग्वदनो निवध्य सुदृढं पद्मासनं स्वस्तिकं
वासीनः गुरून्गणाधिपमथो वन्देत बद्धाञ्जलिः ॥६॥
अथास्त्रमन्त्रेण विशोध्य पाणी
त्रितालदिग्बन्धहुताशशालान।
विधाय भूतात्मकमेतदङ्गं
विशोधयेच्छुद्धमतिः क्रमेण ॥७॥
इडावक्त्रे धूम्रं सततगतिबीजं सलवकं
स्मरेत्पूर्वं मन्त्रो सकलभुवनोच्छोषणकरम् ।
स्वकं देहं तेन प्रततवपुषापूर्यसकलं
विशोष्य व्यामुञ्चेत्पवनमथ मार्गणखमणेः ॥८॥
इत्यादीनि सन्ति तत्रैव ज्ञातव्यम् । किमेतत्सङ्ग्रहेण । अहो सत्यमेतदुक्तं, किन्तु तान्येव सन्ति, तज्ज्ञातारो न सन्ति । केचित्शुष्कतार्किका न्यायवादिनः । केचित्सन्दिग्धमनसः । केचित्कर्ममार्गिणः केचित्बौद्धपथावेशिनः, केचित्नानादेवपरायणाः । यस्य ये ते तस्य गुणवादिनः । केचित्सर्वदेवमाहात्म्यसाम्यं विस्तारयन्ति । तदेव प्राचीनान्यपि तानि तानि बहुशः शास्त्राणि वेद्यानि च प्रायस्तत्र समस्तदेवसमतां वक्ष्यन्ति ते सूरयः । सर्वात्मा परमेश्वरोऽहिल परः कृष्णो न तैर्ज्ञायते । तत्तेभ्योऽतिसुदुर्लभं समनयं क्षीराब्धिपीयूषवदेवं तेष्वपि शास्त्रादिष्वप्यस्ति । तत्तस्य सर्वेशस्य श्रीकृष्णस्य तत्त्वविशेषः कैश्चिदपि न ज्ञायते कथमेवम् । तस्यैवेश्वरस्य माययाच्छन्नास्ते नानात्वं पश्यन्ति तदिति नानाशास्त्रानुसारेण, यथा—
श्रुत्वा तच्छ्रुतिशास्त्रतत्त्वनिगमान्दृष्ट्वा पुराणादिकान्
तत्संश्रित्य सतां मतं च सततं ख्यातं निगूढं परम् ।
लीलाविग्रहधारिणोऽपि परमानन्दस्य कृष्णस्य च
ब्रह्मादेरपि दुर्लभं किल यशः सङ्कीर्त्यते यत्नतः ॥९॥
अथ कैश्चिद्तर्कवादिभिः पुराणोदितं नाद्रियते । तत्राह बृहन्नारदीये प्रथमाध्याये—
पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ।
तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥११॥
समस्तकर्म निर्मूलसाधनानि नराधमः ।
पुराणेष्वर्थवादेन मृतो नरकमश्नुते ॥१२॥
यावद्ब्रह्म सृज्यते तज्जगत्स्थावरजङ्गमम् ।
तावत्स पच्यते पापी नरकाग्निषु सन्ततम् ॥१३॥
यथा पुराणानि समस्तानि वेदाङ्गानि तस्माद्वेदानामनादरेण एवं भवत्येव, नान्यथा एव, यथा बृहन्नारदीये वेदव्यासस्तु धर्मात्मा वेदशास्त्रविभागकृत।
प्रोक्तवान्सर्वधर्मांश्च पुराणेषु महीपते ॥१४॥
तदेवं श्रुतिस्मृत्यादिसंमतसमस्तधर्मशास्त्रसमुद्दिष्टम् । श्रीकृष्णचरणभजनमिति विधेयम् । अतः सर्वोपासनमपास्य सर्वोपास्यश्रीकृष्णचरणारविन्दशरणं कर्तव्यमिति श्रेयः, यथा—
तस्माद्गोविन्दमाहात्म्यमानन्दरससुन्दरम् ।
शृणुयात्कीर्तयेन्नित्यं स कृतार्थो न संशयः ॥१५॥
तथा,
कर्मणा मनसा वाचा सर्वभावेन चाच्युतम् ।
भजन्ति परया भक्त्या लभन्ते पदमव्ययम् ॥१६॥
तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥१७॥
तथा विष्णुधर्मोत्तरे [चोम्प्. ःब्व्११.६५७]—
परमार्थमशेषस्य जगतः प्रभवाप्ययम् ।
शरण्यं शरणं गच्छन्गोविन्दः नावसीदति ॥१८॥
तथा ब्रह्मा—
कल्पवृक्षं समाश्रित्य फलानि स्वेच्छया यथा ।
गृह्णाति पुरुषो राजन्तथा कृष्णान्मनोरथान॥१९॥
तथा ब्रह्मसंहितायां
धर्मानन्यान्परित्यज्य मामेकं भज विश्वसन।
यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ॥२०॥
तथा एकं श्रीकृष्णचरणाब्जं भजनीयमिति । यथा अर्थर्वोपनिषदि गोपालतापनीये
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन्बहुधा यो विभाति ।
तं पीठस्थं येऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥२१॥
नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥२२॥
इति ज्ञात्वा विलम्बो न कर्तव्यः । यथा श्रीभागवते एकादशस्कन्धे नवमाध्याये चतुर्विंशतिगुरुप्रसङ्गे ब्राह्मण उवाच—
लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीरः ।
तूर्णं यतेत न पतेदनुमृत्यु यावन्
निःश्रेयसाय विषयः खलु सर्वतः स्यात॥२३॥
तथा, दैत्यबालकान्प्रति प्रह्लादवचनम्—
कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह ।
दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥२४॥
यथा देवकीस्तुतिः—
मर्त्यो मृत्युव्यालभीतः पलायन्
लोकान्सर्वान्निर्भयं नाध्यगच्छत।
त्वत्पादाब्जं प्राप्य यदृच्छयाद्य
सुस्थः शेते मृत्युरस्मादपैति ॥२५॥
मृत्युरिति सदसत्कर्मणा यमवशो भूत्वा तत्तत्कर्मफलं भुक्त्वा पुनर्जायते इति गर्भवासयातनाप्राप्तये इति मृत्युः । एतदेव श्रीकृष्णचरणपरायणानां नैवम् । एतद्भौतिकं शरीरं त्यक्त्वा नित्यसिद्धदेहं प्राप्य श्रीकृष्णदासा भवन्तीत्यमुत्र इति ।
तस्मात्श्रीकृष्णचरणभजनमेव कर्तव्यमिति नान्यत। यथा—
यस्यावतारगुणकर्मविडम्बनानि
नामानि येऽसुविगमे विवशा गृणन्ति ।
तेऽनैकजन्मशमलं सहसैव हित्वा
संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥२६॥
यथा विष्णुपुराणे यम उवाच—
अहममरगणार्चितेन धात्रा
यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुविमुखान्प्रशास्मि मर्त्यान्
हरिचरणप्रणतान्नमस्करोमि ॥२७॥
तस्मात्श्रीकृष्णचरणभजनं कर्तव्यमिति नान्यत। तथा—
समाश्रिता ये पदपल्लवप्लवं
महत्पदं पुण्ययशो मुरारेः।
भवाम्बुधिर्वत्सपदं परं पदं
पदं पदं यद्विपदां न तेषाम् ॥२८॥
तेषां परं पदं भवति तदिति श्रीकृष्णचरणारविन्दपरमानन्दरसे परिपूर्णो भूत्वा तिष्ठति जन्ममृत्युवर्जितः । यथा श्रीभगवद्गीताऊपनिषत्सु अर्जुनं प्रति श्रीभगवानुवाच—कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति इति ।
काशीखण्डेऽप्युक्तं श्रीध्रुवचरिते –
न च्यवन्ते हि मद्भक्ता महत्यां प्रलयापदि ।
अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥२९॥ इति ।
तथा दशमे ब्रह्मस्तुतिः—
तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकपमूर्धसु प्रभो ॥३०॥
भगवन्तं प्रत्युद्धव उवाच—
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान्संधारयाम्यहम् ॥३१॥
इत्येवं भगवद्भक्तानां नापद इति ज्ञापनोऽयम् । ततः सर्वानन्यान्विहाय श्रीकृष्णचन्द्रचरणारविन्दभजनमेव श्रेयः अनन्यभावेनेति ।
एतत्श्रीहरिपादपद्मभजनोद्देशोज्ज्वलं निर्मलं
वज्रं रत्नमिदं समस्ततनुभृद्हृद्धान्तविध्वंसनम् ।
ज्ञात्वानेन कुरुष्व सादरतया कर्णावतंसं सुधीर्
धीरस्यापि निवेदनं शृणु मम श्रीराघवस्यासकृत॥३२॥
इति प्रथमरत्नम्
N/A
References : N/A
Last Updated : November 11, 2016
TOP