संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:| चतु:षष्टियोगिनीपूजनप्रयोग: अथ श्रावणमास: सूर्यपूजाविधिः शिवपूजाविधिः षोडशसोमवारकथा प्राकृतकथा शिवामुष्टिव्रतविधि: मङ्गलागौरीपूजाविधि: अथाङ्गपूजा मङ्गलागौरीकथा बुधगुरुपूजाप्रकार: जीवन्तिकापूजाविधि: वरलक्ष्मीपूजाविधि: वरलक्ष्मीकथा नृसिंहशनिहनुमतां पूजनप्रकार: नागपूजाविधि: सूपौदनवायनदानविधि: दध्योदनदानविधि: पवित्रारोपणविधि: सभादीपदानविधि: रक्षाबन्धनविधि: हलषष्ठीपूजाविधि: श्रीकृष्णपूजाविधि: अष्टोत्तरशतविष्णुनामावलि जन्माष्टमीपूजाविधि: पिठोराव्रतम् चतु:षष्टियोगिनीपूजनप्रयोग: पिठोराव्रताङ्गोवृषपूजाविधि: श्रावणमास: - चतु:षष्टियोगिनीपूजनप्रयोग: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत चतु:षष्टियोगिनीपूजनप्रयोग: Translation - भाषांतर ॥ तत्रादौ चतु:षष्टियोगिनीपूजनप्रयोग: ॥विस्तीर्णे कुडये पीठादौ वा हरिद्रादिना चतु:षष्टियोगिनीर्विलिख्य पूजयेत् ॥ अथ पूजाविधि: ॥ आचम्य देशकालौ सङ्कीर्त्य, मम इह जन्मनि जन्मान्तरे च उत्पन्नदुरितशमनपूर्वंकसकलसौभाग्यपुत्रपौत्राद्यनवच्छिन्नसन्ततिप्राप्तिमृतवन्ध्यात्वदोषशमनार्थं दिव्ययोगिन्यादिचुतु:षष्टियोगिनीप्रीत्यर्थं पिठोराव्रताङ्गत्वेन विहितं पुराणोक्तमन्त्रै: यथामिलितोपचारै: पूजनमहं करिष्ये । गणपतिपूजनादिपूजासम्भारप्रोक्षणान्तं कुर्यात् । अथ ध्यानम् । धारिणी सर्वशस्त्राणां सुरासुरसमर्चिता: । ध्यायामि सततं देवीर्दिव्ययोगिपुर:सरा: ॥ दिव्ययोगिन्यादिचतु:षष्टिदेवताभ्यो नम: ध्यायामि । तत: देवता आवाहयेत् । आयान्तु सकला देव्य: सर्वाभरणभूषिता: । यावत्पूजां करिष्यामि तावत्तिष्ठन्तु सुस्थिरा: ॥१. दिव्ययोगिन्यै नम: । दिव्ययोगिनीं आवाहयामि । एवं सर्वत्र ।२. महायोगिन्यै० नीं आ० ।३. सिद्धयोगिन्यै० नीं आ० ।४. गणेश्वर्यै नम: रीं आ० ।५. प्रेतार्क्ष्यै नम: क्षीं आ० ।६. डाकिन्यै० नीं आ० ।७. काल्यै नम: लीं आ० ।८. कालरात्र्यै नम: त्रीं आ० ।९. निशाचर्यै नम: रीं आ० ।१०. भङ्कार्यै नम: रीं आ० ।११. रौद्रावेताल्यै० लीं आ० ।१२. हिङ्कर्यै नम: रीं आ० ।१३. भूतडाम्बर्यै० रीं आ० ।१४. ऊर्ध्वकेशिन्यै० नीं आ० ।१५. विरूपाक्ष्यै० क्षीं आ० ।१६. शुष्काङग्यै न० गीं आ० ।१७. नरभोजन्यै० नीं आ० ।१८. ईश्वर्यै नम: रीं आ० ।१९. वीरभद्रायै० द्रां आ० ।२०. धूम्राक्ष्यै नम: क्षीं आ० ।२१. कलहप्रियायै० यां आ० ।२२. राक्षस्यै न० सीं आ० ।२३. घोररक्ताक्ष्यै न० क्षीं आ० ।२४. विश्वरूपायै० पां आ० ।२५. भयङ्कर्यै न० रीं आ० ।२६. चण्डिकायै० कां आ० ।२७. वीरकौमार्यै न० रीं आ० ।२८. वाराह्यै न० हीं आ० ।२९. मुण्डधारिण्यै० णीं आ० ।३०. भसुर्यै नम: रीं आ० ।३१. रौद्रभङ्कार्यै० रीं आ० ।३२. भीषणायै० णां आ० ।३३. त्रिपुरान्तकायै० कां आ० ।३४. भैरव्यै नम: वीं आ० ।३५. ध्वंसिन्यै न० नीं आ० ।३६. क्रोधिन्यै न० नीं आ० ।३७. दुर्मुख्यै नम: खीं आ० ।३८. प्रेतवाहिन्यै० नीं आ० ।३९. खटवाङग्यैनम:गीं आ० ।४०. दीर्घलम्बोष्ठयै० ष्ठी आ० ।४१. मालिन्यै नम: नीं आ० ।४२. मन्त्रयोगिन्यै० नीं आ० ।४३. कालाग्निग्रहण्यै- णीं ।४४. दुर्गायै नम: र्गां आ० ।४५. कङकाल्यै नम: लीं आ० ।४६. भुवनेश्वर्यै नम: रीं आ० ।४७. कण्टकीत्रोटिन्यै० नीं० ।४८. रौद्रयै नम: द्रीं आ० ।४९. यमदूत्यै नम: तीं आ० ।५०. करालिन्यै नम: नीं आ० ।५१. घोराक्ष्यै नम: क्षीं आ० ।५२. कार्मुक्यै नम: कीं आ० ।५३. काकद्दष्टयै नम: ष्टिं आ० ।५४. अधोमुख्यैनम: खीं आ० ।५५. मुण्डोग्रधारिण्यै० णीं० ।५६. व्याघ्यै नम: घ्रीं आ० ।५७. किङ्किणीप्रेतभक्षिण्यै० णीं० ।५८. कालरूपायै न० पां आ० ।५९. कामाख्यायै न० ख्यां आ० ।६०. चोड्राण्यै न० णीं आ० ।६१. योगपीठिकायै न० कां० ।६२. महालक्ष्म्यै न० क्ष्मीं आ० ।६३. एकवीरायै० रां आ० ।६४. कालरात्रिपीठिकायै नम: । कालरात्रिपीठिकां आ० ।चन्द्रसूर्यसमाभासे पीठे मणिमये शुभे । अत्रास्यतां हि भो देव्यो दिव्ययोगिपुर:सरा: ॥ आसनं० । पाद्यं गृह्णन्तु भो देव्यो गन्धाक्षतसमन्वितम् । रक्तपुष्पादिसंमिश्रं भक्त्या सम्पत्तिहेतवे ॥ पाद्यं० । स्वर्णपीठनिवासिन्यो दिव्यालङकारभूषिता: । प्रतिगृह्णन्तु मे ह्यर्घ्यं पूर्णयन्तु मदीप्सितम् ॥ अर्ध्यं० । गङ्गादिसर्वतीर्थेभ्यो जलमे तत्समाहृतम् । आचम्यतांमहादेव्य: पुत्रपौत्रप्रवर्धिका: ॥ आचमनीयं० । पयो दधि घृतं चैव शर्करा मधुसंयुतम् । पञ्चामृतं मया दत्तं स्नानार्थं प्रति० ॥ पञ्चामृतस्नानं० । गङ्गा च यमुना चैव नर्मदा च सरस्वती । तोयमेतत्सुखस्पर्शं स्नानार्थं प्रति० ॥ मलापकर्षस्नानं० । तत: पञ्चोपचारपूजां कृत्वा अभिषेक: कार्य: । सूक्ष्मतन्तुमयानीह निर्मलानि शुभानि च । वासांसि प्रतिगृह्णीत दिव्ययोगिपुर:सरा: ॥ वस्त्राणि स० । भास्करोदयवर्णाभा: कञ्चुकीश्च मनोहरा: । दास्यामि प्रीतये देव्य: स्वीकुरुध्वं मयार्पिता: ॥ कञ्चुकी:० । हरिद्रां कुङ्कुमं चैव कण्ठसूत्रं च ताडकम् । सिन्दूरं कज्जलं चारुषट सौभाग्यं प्रगृह्यताम् ॥ सौभाग्यद्रव्यं० ॥ अम्भोजमालतीजातीकुरण्टमुनिचम्पकान् । माल्यार्थे प्रतिगृह्णित दिव्ययोगिपुर:सरा ॥ पुष्पाणि० । भूतप्रेतपिशाचादिभवभीतिविनाशिका: । नानापरिमलो धूपो ग्राह्यस्त्रैलोक्यमातर: ॥ धूपं० । मार्तण्डमण्डलाखण्डचन्द्रबिम्बाग्नितेजसाम् । निधानं दिव्यदीपोऽयं ग्राह्य० ॥ दीपं० । नैवेद्यं गृह्यतां देव्यो भर्क्ति कुरुत चाललाम् । कुरुध्वमीप्सितं कामं परत्र च परां गतिम् ॥ नैवेद्यं० ॥ उत्तरापो० । करोद्वर्तनं० । इदं फलं० फलं० । पूगीफलं मह० ताम्बूलं० । हिरण्यगर्भ० दक्षिणां० । चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च । त्वमेव सर्वज्योतींषि आर्तिक्यं प्रति० ॥ आर्तिक्यदीपं स० । आयुषा च मुदा युक्ता: कुरुतानन्यकाम्यया । पूजिता: पूजयन्त्यो मां कृपायुक्ता भविष्यथ ॥ पुष्पाञ्जलिं० ॥ यानि कानि० प्रदक्षिणां० । नमोऽस्तु वश्चतु:षष्टिदेवीभ्य:शरणं व्रजे । पुत्रश्रीवृद्धिकामाहं भक्त्या सम्पूजिता: शुभा: ॥ नमस्कारान् । धनसन्तानसौभाग्यदायिन्य: सन्तु मे सदा । भवन्त्यो वो नमश्चास्तु दिव्ययोगिपुरस्सरा: ॥ प्रार्थनां० ॥ततो रजतादिपात्रे सपायसं पूर्णपोलिकावायनं निधाय अत्रातिथि: कोस्तीति पृष्टे पृष्ठतो भूत्वा अमुकशर्माहमतिथिरस्मीति वददभ्य: स्वबालकेभ्यो ज्येष्ठादिक्रमेण तद्वायनं दद्यात् । अन्यच्च यथाकुलाचारमाचरेत् । यस्य स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीदिव्ययोगिन्यादिचतु:षष्टिदेवता: प्रीयन्ताम् । तत: साङ्गतासिध्यर्थं सुवासिनी: ब्राह्मणांश्च भोजयित्वा स्वयं सुहृद्युतो भुञ्जीत ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP