संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:| नागपूजाविधि: अथ श्रावणमास: सूर्यपूजाविधिः शिवपूजाविधिः षोडशसोमवारकथा प्राकृतकथा शिवामुष्टिव्रतविधि: मङ्गलागौरीपूजाविधि: अथाङ्गपूजा मङ्गलागौरीकथा बुधगुरुपूजाप्रकार: जीवन्तिकापूजाविधि: वरलक्ष्मीपूजाविधि: वरलक्ष्मीकथा नृसिंहशनिहनुमतां पूजनप्रकार: नागपूजाविधि: सूपौदनवायनदानविधि: दध्योदनदानविधि: पवित्रारोपणविधि: सभादीपदानविधि: रक्षाबन्धनविधि: हलषष्ठीपूजाविधि: श्रीकृष्णपूजाविधि: अष्टोत्तरशतविष्णुनामावलि जन्माष्टमीपूजाविधि: पिठोराव्रतम् चतु:षष्टियोगिनीपूजनप्रयोग: पिठोराव्रताङ्गोवृषपूजाविधि: श्रावणमास: - नागपूजाविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत नागपूजाविधि: Translation - भाषांतर ॥ श्रावणशुक्लपञ्चम्यां नागपूजाविधि: ॥पञ्चमी षणमुहूर्ता परा ग्राह्येति सकलसिद्धान्त: । तत्र यथाकुलाचारं पीठे भित्तौ वा चन्दनेन हरिद्रया वा नव नागान् नागपत्नींश्च विलिख्य, मृन्मयान् पिष्टमयान् वा कृत्वा पूजामारभेत् । तत्र दाक्षिणात्याचारानुसारेण प्रयोग: । पञ्चम्यां प्रात: कृतनित्यक्रियो देशकालौ स्मृत्वा, मम सकुटुम्बस्य सपरिवारस्य सर्वदा सर्वत: सर्पभयनिवृत्तिपूर्वकसर्पप्रसादसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रावणशुक्लपञ्चम्यां नागपूजनं करिष्ये । कलशपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, आवाहयेत् ।१. अनन्ताय० अनन्तं आवा० । २. वासुकये० वासुकिं आ० ।३. शेषाय न० शेषं आवा० ।४. पद्मनाभाय० पद्मनाभं० ।५. कम्बलाय० कम्बलं आ० ।६. शङ्खपालाय० शङ्खपालं० ।७. धृतराष्ट्राय० धृतराष्ट्रं० ।८. तक्षकाय० तक्षकं आ० ।९. कालियाय० कालियं आ० ।१०. नागपत्नीभ्यो० नागपत्नी:० ।अनन्तादिनागेभ्यो० अनन्तादिनागान् ध्यायामि । नवनाग शताधीश शब्दोद्धारक काश्यप । नानारत्नसमायुक्तमासनं प्र० ॥ आसनं० । अनन्तप्रीतये शेष जगदा धार विग्रह । पाद्यं गृहाण भक्त्या त्वं काद्रवेय नमोऽस्तु ते ॥ पाद्यं० । कश्यपानन्दजनक मुनिवन्द्य महाप्रभो । अर्ध्यं गृहाण सर्वज्ञ गन्धपुष्पाक्षतैर्युंतम् ॥ अर्ध्यं० । सहस्त्रफणरूपेण वसुधाधारक प्रभो । गृहाणाचमनं देव पावनं च सुशीतलम् ॥ आचमनीयं० । सर्पराज नमस्तुभ्यं दधिमध्वाज्यसंयुतम् ॥ मधुपर्कं प्रदास्यामि स्वीकुरुष्व जगत्प्रभो ॥ मधुपर्कं० ॥ क्षीरं दधि घृतं चैव मधु शर्करया युतम् । प्रञ्चामृतस्नानमियं स्वीकुरुष्व दयानिधे ॥ पञ्चामृतस्ना० ॥ गङगादिसर्वतोयेभ्यो जलमाहृत्य शीतलम् । स्नानार्थं च प्रयच्छामि गृ० ॥ स्नानं० । पञ्चोपचारपूजां कृत्वा, अभिषेक: । कौशेययुग्मं देवेश प्रीत्या तव मायार्पितम् । पन्नगाधीश नागेन्द्र तार्क्ष्यशत्रो नमोऽस्तु ते ॥ वस्त्रं० । सर्पराज नमस्तेऽस्तु त्राहि मां भवसागरात् । ब्रह्मसूत्रं सोत्तरीयं गृ० ॥ यज्ञोपवीतं० ॥ कर्पूरकस्तूरिककेसराढयं गोरोचनं चागरुरक्तचन्दनम् । श्रीचन्दनाक्तं शुभदिव्यगन्धं गृहाण विष्णुप्रिय ते मयार्पितम् ॥ चन्दनं० । काश्मीरपञ्चलिप्तांश्च शालितण्डुलनिर्मितान् । पातालाधिपते तुभ्यमर्पये त्वं गृहण भो: ॥ अक्षतान्० । हरिद्रा कुङ्कमं चैव कण्ठसूत्रं च ताडकम् । सिन्दूरं कज्जलं चारु षट् सौभाग्यं गृहाण भो: ॥ सौभाग्यद्रव्यं० ॥ करवीरैर्जातिकुसुमैश्चम्पकैर्बकुलै: शुभै: । शतपत्रैश्च कल्हारैरर्चयेत्पन्नगोत्तमम् ॥ पुष्पाणि स० ॥ दध्यक्षतदूर्वाङकुरान् कुशाङकुरांश्च समर्पयामि ॥॥ नामपूजा ॥१. अनन्ताय नम: ।२. वासुकये नम: । ३. शेषाय नम: ।४. पद्मनाभाय० ।५. कम्बलाय न० ।६. शङ्खपालाय० । ७. धृतराष्ट्राय न० ।८. तक्षकाय नम: ।९. कालियाय न० ।१०. नागपत्नीभ्यो० ।वनस्पतिर० धूपं० ॥ आज्यं च व० दीपं द० ॥ नैवेद्यं गृह० नैवेद्यं० ॥ लाजान्, चणकान्, पयश्च स० । आचमनीयं स० ॥ करोद्वर्तनं० ॥ इदं फलं म० फलं स० ॥ पूगीफलं० ताम्बूलं० ॥ हिरण्यगर्भ० दक्षिणां० ॥ नीराजयामि त्वां देव पन्नगाधिपते प्रभो । कश्यपानन्दजनक कर्पूरेण सुखप्रद ॥ कर्पूरदीपं० । नानाफलसमायुक्तं पुष्पाञ्जलिमिमं प्रभो । समर्पयामि नागेन्द्र दीनंमां रक्ष सागरात् ॥ पुष्पाञ्जलिं० । नमामि वासुकिं नागं नैमित्तं तक्षकं विभुम् । नमामि शङ्खं नागेन्द्रं कुमुदं प्रणमाम्यहम् ॥ अनन्तं भुजगं श्रेष्ठं नौमि कर्कोटकं विभुम् । नमामि पुलिकं नाम नागलोकनिवासिनम् ॥ नमस्कारान् स० ॥ आवणे शुक्लपञ्चम्यां यत्कृतं नागपूजनम् । तेन तृप्यन्तु मे नागा भवन्तु सुखदा सदा ॥ अज्ञानाद ज्ञानतो वापि यन्मया पूजनं कृतम् । न्य़ूनातिरिक्तं तत्सर्वं भो नागा: क्षन्तुमर्हथ ॥ युष्प्तत्प्रसादात्सकला मम सन्तु मनोरथा: । सर्वदा मत्कुले मास्तु भयं सर्पविषोद्भवम् ॥ इति सम्प्रार्थ्य, कृतस्य पूजासाङ्गतासिध्यर्थं अनन्तादिनागप्री० यथाशक्ति पायसाद्यन्नेन सुवासिनीब्राह्मणांश्च भोजजिष्ये ॥ यस्य स्मृ० अनेन मया कृतेन पूज० अनन्तादिनागा: प्रीयन्ताम् ॥ अथवा आयंगौरित्यादि वैदिकमन्त्रेण षोडशोपचारै: सम्पूज्य, नमो अस्तु सर्पेभ्य इति नमस्कारान्कृत्वा प्रार्थनादि समापयेत् ॥ तद्दिने भूमे: खननकर्षणाद्युपघातं लोहपात्रे पोलिकादिकरणं च न कुर्यादिति ॥ इति नागपूजा समाप्ता ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP