संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - दध्योदनदानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ श्रावणशुक्लसप्तम्यां दध्योदनदानविधि: ॥

सप्तमी मध्याह्णव्यापिनी ग्राह्या । कुडये चन्दनादिना चतुरस्रां वर्तुलां वा वापीं सप्त जलदेवताश्च बालद्वयपुरुषत्रययुतां नारीं च अश्वं वृषभं नरत्राहनयुतां शिबिकां च विलिख्य पूजां समारभेत्‌ । आचम्य देशकालौ स्मृत्वा, मम इह जन्मनि जन्मान्तरे च अवैधव्यप्राप्तये अखण्डितभर्तृसंयोगपुत्रपौत्रादि धनधान्यप्राप्तये च शीतलासप्तम्यां विहितं जलदेवतापूजनपूर्वकं दध्योदनवायनदानं करिष्ये । कलशपूजनादि विधाय, लिखितदेवता आवाह्य, श्रीजलदेवताद्यावाहितदेवताभ्यो नम इति नाममन्त्रेण षोडशोपचारै: कर्कटीफलयुतदध्योदननैवेद्यसमर्पणेन च पूजां समापयेत ॥ तत: ब्राह्मणं सम्पूज्य वायनं दद्यात्‌ । दानमन्त्र:-ताम्बूलदक्षिणायुक्तं दध्यन्नं कर्कटीफलम्‌ । व्रतसम्पूर्णसिध्यर्थं वायनं प्रददाम्यहम्‌ ॥ इदं कर्कटीफलयुतं दध्योदनवायनं सताम्बूलं सदक्षिणाकं श्रीजलदेवताप्रीत्यर्थम्‌ अमुकश० ब्राह्मणाय तुभ्य० प्र० । अनेन जलदेवतापूजनेन दध्योदनवायनदानाख्येन च कर्मणा तेन श्रीजलदेवता: प्रीयन्ताम्‌ ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP