कार्तिकमास: - दीपदानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ कार्तिकपौर्णमास्यां दीपदानविधि: ॥

प्रात: स्नात्वा नित्यकर्म निर्वर्त्य, आचम्य देशकालौ स्मृत्वा, मम समस्तपापक्षयद्वारा श्रीराधादामोदरप्रीत्यर्थं ब्राह्मणाय दीपदानं करिष्ये । तद्ङ्गत्वेन दीपपूजनं ब्राह्मणापूजनं च करिष्ये । दीपदेवताभ्यो नम इत्यनेन गन्धादिभिर्दीपं पूजयेत् । तत: राधादामोदरस्वरूपिणे ब्राह्मणाय इदमासनं गन्धा: पान्तु इत्यादिपूजां कुर्यात् । दानमन्त्र:अग्निर्ज्योती रविर्ज्योतिश्वन्द्रज्योतिस्तथैव च । उत्तम: सर्वज्योतीनां दीपोऽयं प्रतिगृह्यताम् ॥ दीपं सधान्यं सफलं दक्षिणासहितं राधादामोदरस्वरूपिणे अमुकशर्मणे ब्राह्मणाय तु० । प्रति० । अनेन दीपदानाख्येन कर्मणा श्रीराधादामोदरौ प्रीयेताम् ॥

पौर्णमास्यां कृत्तिकायोगे कार्तिकस्वामिदर्शनं कुर्यात् । तथा च काशीखण्डे-कार्तिक्यां कृत्तिकायोगे य: कुर्यात्स्वामिदर्शनम् । सप्तजन्म भवेद्विप्रो धनाढयो वेदपारग: ॥ इति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP