कार्तिकमास: - विष्णुशिवपूजनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ कार्तिकशुक्लचतुर्दश्यां विष्णुशिवपूजनविधि: ॥

चतुर्दशी चात्र द्विविधा, केवला वैकुण्ठसंज्ञका च । तत्र केवला त्वरुणोदयव्यापिनी ग्राह्या । तस्यामुपोषणपूर्वकमरुणोदये मणिकर्णिकायां स्नात्वा, बिल्वपत्रादिभिर्विश्वेश्वरं पूजयेत् । एतदनुष्ठानं काश्यामेव कर्तुं युज्यते, नान्यत्र । वैकुण्ठचतुर्दशी तु विष्णुपूजायां निशीथव्यापिनी ग्राह्या । दिनद्वये तद्‌व्याप्तौ निशीथप्रदोषोभयव्यापिनी ग्राह्या । शिवपूजायां त्वरूणोदयव्यापिनी ग्राद्या । उभयो: स्वातन्त्र्येण पूजनं, नाङ्गाङगिभाव: ॥ अत्र पूजनप्रकार: ॥ तत्रैकस्मिन्नेव दिने निशीथारुणोदयोभयव्यापिनी चतुर्दशी, तस्मिन् दिने उभयोस्तन्त्रेणोपवासं कृत्वा, निशीथे आचम्य देशकालौ० मम समस्तपापक्षयपूर्वकमहाविष्णुप्रीत्यर्थं वैकुण्ठचतुर्दशीनिमित्तां तुलसीदलकमलादिभि: श्रीमहाविष्णुपूजनं करिष्ये । शान्ताकारं० विष्णुं ध्यात्वा, श्रीमहाविष्णवे नम इति नाममन्त्रेण पूजां कृत्वा, यथासम्भवम् अष्टोत्तरसहस्रमष्टोत्तरशतं वा तुलसीदलानि समर्पयेत् । उत्तरपूजनं कृत्वा । यस्य स्मृ० । अनेन० पूजनेन श्रीमहाविष्णु: प्रीयताम् । तत: अरुणोदये स्नात्वा, प्रात:सन्ध्यामुपास्य भस्मरुद्राक्षमाला धृत्वा, आचम्य देशकालौ० मम समस्तपापक्षयपूर्वकश्रीशिवप्रीत्यर्थं वैकुण्ठचतुर्दशीनिमित्तं बिल्वदलधत्तूरपुष्पादिभि: श्रीशिवपूजनं करिष्ये । ध्यायेन्नित्यं० शिवं ध्यात्वा श्रीशिवाय नम इति नाममन्त्रेण पूजां कृत्वा यथासम्भवमष्टोत्तरसहस्रमष्टोत्तरशतं वा बिल्वदलानि समर्प्य पूजा समापयेत् । यस्य स्मृत्या० । अनेन शिवपूजनेन श्रीसाम्बसदाशिव: प्रीयताम् । तत: सूर्योदयोत्तरमवशिष्टं नित्यविधिं विधाय, ब्राह्मणन् सम्भोज्य, स्वयं पारणां कुर्यात् । यदा तु पूर्वदिने अरुणेदये चतुर्दशी परेद्युर्निशीथे चतुर्दशी, तदा पूर्वदिने उपवासपूर्वकमरुणेदये शिवं सम्पूज्य, परदिने उपवासंकृत्वा, निशीथे महाविष्णुं सम्पूज्य, तृतीयदिने पारणां कुर्यात् । अरुणेदयस्तु सूर्योदयात्प्राक् चतुर्घटिकात्मकस्त्रिघटिकात्मको वा बोध्य: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP