॥ विष्णुप्रबोधोत्सवतुलसीविवाहविधि: ॥
नवम्यादिदिनत्रये एकादश्यादिदिनपञ्चके कार्तिकशुल्कान्तर्गतविवाहनक्षत्रे वा, इत्याद्यन्यतमकाले अर्धास्तमिते गोधूलिके कार्य: । प्राय: द्वादश्यां सायंसन्ध्याकालव्यापिन्यां प्रबोधोत्सवतुलसीविवाहयो: सङ्क्षेपत: तन्त्रेणानुष्ठानमिति सर्वत्राचार: । अतस्तदनुसारेणैव पयोगोऽभिधीयते । द्वादश्यां सायंसन्ध्यावन्दनादिकं विधाय, भूमिं गोमयेनोपलिप्य रङ्गवल्लीभिरलङकृतं पीठं इक्षुमण्डपिकायुतं कृत्वा, आचम्य देशकालौ स्मृत्वा, मम समस्तपापक्षयपूर्वकविष्णुप्रसादसिध्यर्थं विष्णुप्रबोधोत्सवं सङ्क्षेपतस्तुलसीविवाहं च तन्त्रेण करिष्ये । तदङ्गतया पुरुषसूक्तेन षोडशोपचारै: श्रीमहाविष्णुपूजनं तुलसीपूजनं च करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं आसनविधिं षडङ्गन्यासान् कलशशङ्खघण्टापूजनं च करिष्ये । गणानांत्वेति गणपतिं सम्पूज्य, वक्रतुण्डेति प्रार्थयेत् । पृथ्वित्व० । अपस० । तीक्ष्णदं० । वामपादेन भूमिं त्रिस्ताडयेत् । यत्पुरुषं० हृदयाय नम: इत्यादिषडङ्गन्यासान् कृत्वा, कलशस्य मु० वरुणं सम्पूज्य, शङ्खादौ० शङ्खं सम्पूज्य, आगमा० घण्टां च सम्पूज्य, अपवित्र: प० पूजासम्भारान् प्रोक्ष्य, ध्यायेत्-सहस्रशी० शान्ताकारं भु० इति विष्णुं ध्यात्वा, ध्यायेञ्च तुलसीं देवी श्यामां कमललोचनाम् । चतुर्भुजां दिव्यरूपां भक्ताभीष्टफलपदाम् ॥ इति तुलसी ध्यायामि । पुरुष० श्रीमहाविष्णवे दामोदराय श्रीतुलस्यै देव्यै च नम: ॥ आसनं० ॥ एतावा० श्रीमहा० पाद्यं० ॥ त्रिपादू० श्रीमहा० अर्ध्यं० ॥ तस्माद्वि० श्रीमहावि० आचमनीयं० ॥ दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् । गृहाण सर्वलोकेश दामोदर नमोऽस्तु ते ॥ श्रीमहावि० मधुपर्कं स० ॥ मधुपर्कानन्तरेण आचमनीयं स० ॥ यत्पुरुषे० श्रीमहावि० स्नानं स० ॥ सुवासिनीभि: मङ्गलवाद्यघोषपुर:सरं नागवल्लीदलगृहीताभ्यां सुगन्धतैलहरिद्राभ्यां उष्णोदकेन च मङ्गलस्नानं कारयित्वा स्वयं वा दत्वा, कनिक्रद० अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्जितं शुद्धं स्नानार्थं प्रति० ॥ श्रीमहावि० सुगन्धतैलस्नानं० ॥ हरिद्राया:कृतं चूर्णं सतैलं ससुगन्धिकम् । मया निवेदितं साम्बूद्वर्तनं प्रति० ॥ हरिद्राचूर्णलेपनं स० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम् । स्नानार्थं च प्रयच्छामि गृह्यतां परमेश्वर ॥ श्रीमहावि० उष्णोदकस्नानं स० ॥ ततो नीराजजनं कार्यम् ॥ आप्याय० श्रीमहावि० पयस्नानं० ॥ दधिक्राव्णो० श्रीमहावि० दधिस्नानं० ॥ घृतंमि० श्रीमहावि० घृतस्नानं० ॥ मधुवाता० श्रीमहावि० मधुस्नानं० ॥ स्वादु प० श्रीमहावि० शर्करास्नानं० ॥ नाममन्त्राभ्यां पञ्चोपचारपूजां कृत्वा, अभिषेक:, सहस्रशी० अतोदेवाइत्यादिभि: । तंयज्ञं० श्रीमहावि० । बस्त्रं, तुलस्यै पीतवस्त्रं स० । तस्माद्य० सं० ॥ श्रीमहाविष्णवे नम: यज्ञोपवीतं० ॥ वस्त्रयज्ञोपवीतानन्तरेण आचमनीयं० ॥ तस्माद्य० ऋ० । श्रीमहावि० चन्दनं० ॥ अक्षताश्च० श्रीमहावि० अक्षतान्० ॥ अहिरिव० हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलान्वितम् ॥ सौ भाग्यद्रव्यसंयुक्तं गृहा० ॥ श्रीतुलस्यै देव्यै नम: सौभाग्यद्रव्यं० ॥ सौभाग्यदं कङकणं ते हस्तशोभाकरं परम् । अनेकरत्नघटितं गृह्यतां परमेश्ववि ॥ कङ्गणं स० ॥ तस्मादश्वा० । श्रीमहावि० पुष्पाणि० ॥ यत्पुरुषं० । श्रीमहावि० धूपमा० । ब्राह्मणो० । श्रीमहावि० दीपं द० । चंद्रमाम० । श्रीमहावि० नैवेद्यं० । मध्येपा० । उत्तरापो० । पूगीफलं म० श्रीमहावि० ताम्बूलं० । हिरण्यग० श्रीमहावि० दक्षिणां० ॥ श्रियेजात:० श्रीमहावि० नीराजनं० । नाभ्याआ० श्रीमहावि० प्रदक्षिणां० । सप्तास्या० श्रीमहा० नमस्कारान्० । यज्ञेनय० श्रीमहावि० मन्त्रपुष्पाञ्जलिं स० ॥ इति पूजां समाप्य, घण्टादिवाद्यधोषेण देवं प्रबोधयेत् ॥ तत्र मन्त्रा:-योजागारेत्यादय: । इदंविष्णु०सुरे । ब्रह्मेन्द्ररुद्राग्निकुबेरसूर्यसोमादिभिर्वन्दितवन्दनीय । बुध्यस्व देवेश जगन्निवास मन्त्रप्रभावेण सुखेन देव ॥ इयं तु द्वादशी देव प्रबोधार्थं विनिर्मिता । त्वयैव सर्वलोकानां हितार्थं शेषशायिना ॥ उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते । त्वयि सुप्ते जगन्नाथ जगत्सुप्तं भवेदिदम् ॥ उत्थिते चेष्टते सर्वमुत्तिष्ठोत्तिष्ठ माधव ॥ एवमुत्थाप्य । पुष्पाञ्जलिं दद्यात् । चरणंपवित्रं० । गता मेघा वियच्चैव निर्मलं निर्मला दिश: । शारदानि च पुष्पाणि गृहाण मम केशव ॥ श्रीमहा० पुष्पाञ्जलिं स० । आगच्छ भगवन्देव अर्चयिष्यामि केशव । तुभ्यं दास्यामि तुलसी सर्वकामप्रदो भव ॥ इति सम्प्रार्थ्य, तुलसीसंमुखां विष्णुप्रतिमां कृत्वा मध्ये अन्त:पटं धृत्वा मङ्गलाष्टकानि पठेत् । तानि च---
शुभमङ्गलसावधान ॥ आद्यो दुणिढविनायको गणपतिश्चिन्तामणि: सिद्धिद: सेनाविघ्नपतिश्च वक्रवदन: श्रीपाशपाणि: प्रभु: । आशापाशविनायक: सुखकरो मोदादिक: सद्गणो लोलार्कादिविनायक: प्रतिदिनं कुर्यात्सदा मङ्गलम् ॥ शुभमु० ॥१॥
विश्वात्मा भगवान् चराच्रतनुर्विश्वाधिकोऽयं शिवो वेदान्तप्रथितोरुवैभवपदो नि:शेषजाडयाहर: । यो गौरीरमणोऽत्र निर्जरवरो विश्वप्रकाशात्मको विध्वस्ताखिलभक्तपातककुल: कुर्यात्सदा मङ्गलम् ॥ शुभमु० ॥२॥
यं वेदा न हि जानते पुरहरं शम्भुं भवानीपतिं विश्वात्मानमनन्तविष्णुविधिभि: संसेव्यपादाम्वुजम् । तं सर्वादिगुरुं मनोज्ञवपुषं गौरीविवाहोत्सुकं तत्पादाम्वुजलोचनान्ममा चिरंभूयात्सदा मङ्गलम् ॥ शुभमु० ॥३॥
यो देव: श्रुतिशेखरे निगदितो यं भासकं जानते येन भ्राम्यति लोकजालमखिलं यस्मै नम: कुर्वते । यस्मान्नापरमस्ति किञ्चिदपि वै यस्याङ्गमेतज्जगद्यस्मिंस्तिष्ठति सर्वमेव भुवनं कुर्यात्सदा मङ्गलम् ॥ शुभमु० ॥४॥
गङ्गा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा कावेरी शरयू महेन्द्रतनया चर्मण्वती वेदिका । क्षिप्रा वेत्रवती महासुरनदी ख्याता च या गण्डकी पूर्णा: पूर्णजलै: समुद्रसहिता: कुर्वन्तु वो मङ्गलम् ॥ शुभमङ्ग० ॥५॥
लक्ष्मी: कौस्तुभपारिजातकसुरा धन्वन्तरिश्वन्द्रमा गाव: कामदुघा: सुरेश्वरगजो रम्भादिदेवाङ्गना: । अश्व: सप्तमुखो विषं हरिषनु: शङ्खोऽमृतं चाम्बुधे रत्नानीह चतुर्दश प्रतिदिनं कुर्वन्तु बो मङ्गलम् ॥ शुभमं० ॥६॥
गङ्गा गोमतिगोपती गणपतिंर्गोविन्दगोवर्धनौ गीता गोमयगोरजो गिरिसुता गङ्गाधरो गौतम: । गायत्री गुरुडो गया गिरिगुहा गम्भीरगोदावरी गन्धर्वग्रहगोपगोकुलगणा: कुर्वन्तु वो मङ्गलम् ॥ शुभमु० ॥७॥
वेदाश्चोपनिषद्गणाश्व विविधा: साङ्गा: पुराणान्विता वेदान्ता अपि मन्त्रतन्त्रसहितास्तर्कस्मृतीनां गणा: काव्यालङ्कृतिनीतिनाटकगणा: शब्दाश्च नानाविधा: श्रीविष्णोर्गुणराशिकीर्तनपरा: कुर्वन्तु वो मङ्गलम् ॥ शुभलग्नसा० ॥८॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैववलं तदेव लक्ष्मीपते तेऽङघ्रियुगं स्मरामि ॥ शुभमङ्गलसा० ॥
तत: अन्त:पटमुदगपसार्य, अक्षतप्रक्षेपं कृत्वा, उभयो: पुष्पमालां समर्प्य, सुवासिनीभि: उभयोर्नीराजनं कारयित्वा, दामोदरहस्ते तुलसीदानं कुर्यात् । अनादिमध्यनिधन त्रैलोक्यप्रतिपादक । इमां गृहाण तुलसीं विवाहविधिनेश्वर ॥ पार्वतीबीजसम्भूतां वृन्दाभस्मनि संस्थिताम् । अनादिमध्यनिधनां धवलां ते ददाम्यहम् ॥ पयो घटैश्च सेवाभि: कन्यावद्वर्धिता मया । त्वत्प्रियां तुलसीं तुभ्यं दास्यामि त्वं गृहाण भो: ॥ देवीं कनकसम्पन्नां कनकाभरणैर्युताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥ मया संवर्द्धितां यथाशक्त्यलङकृतां इमां तुलसीं देवीं दामोदराय श्रीधराय वराय तुभ्यमहं सम्प्रददे । इति देवपुरत: साक्षतोदकं क्षिपेत् । श्रीमहाविष्णु: प्रीयताम् । इमां तुलसीं देवीं प्रतिगृह्णातु भवान् इति वदेत् । ततो देवहस्तस्पर्शं तुलस्या: कृत्वा, कइदंकस्मा० इति मन्त्रमन्येन वाचयेत् । यजमान:-त्वं देवि मेऽग्रतो भूयास्तुलसीदेवि पार्श्वत: । देवित्वं पृष्ठतो भूयास्त्वद्दानान्मोक्षमाप्नुयाम् ॥ मयेयं रोपिता देवी वर्धिता तु त्रिमासिकम् । तुभ्यं विष्णेऽधुना दत्ता श्रायुष्कीर्तिविवर्धिनी ॥ तुलसीदानसाङ्गतासिध्यर्थं इमां दक्षिणां श्रीदामोदराय वराय तुभ्यमहं सम्प्रददे । इति देवपुरत: दक्षिणां दत्वा, तुलसीसहितमहाविष्णुं पञ्चोपचारै: सम्पूज्य, महानैवेद्यं समर्प्य, सुवासिनीभि: नीराजयित्वा, तुलस्यै मङ्गलसूत्रादिसौभाग्यद्रव्याणि समर्प्य, राजाधिराजायप्र० इति मन्त्रपुष्पाञ्जलिं समर्पयेत् । श्रीमहाविष्णवे तुलस्यै देव्यै च नम: बदरीधात्रीतिन्तिणीकपित्थफलानि चणकपत्राणि इक्षुखण्डानि च समर्पयेत् । तत: सपत्नीक: सकुटुम्ब: सपरिवार: यजमान: चतस्र: प्रदक्षिणा: कुर्यात् । कृतयो: विष्णुप्रबोधोत्सवतुलसीविवाहकर्मणो: साङ्गतासिध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं यथाशक्ति यथाकालं सुवासिनी: ब्राह्मणांश्च भोजयिष्ये । नानानामगोत्रान् ब्राह्मणान् गन्धादिभि: पूजयिष्ये, तेभ्यश्च भूयसीं दक्षिणां दातुमहमुत्मृजे । यस्य स्मृ० । प्रमादात्० । अनेन यथा ज्ञानेन मया कृतेन विष्णुप्रबोधोत्सवलसीविवाहाख्येन च कर्मण तुलसीसहितमहाविष्णु: प्रीयताम् ॥