स्मरदीपिका - सूत्र ८

स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है।


प्राकाशीं बाहुमूलस्य कक्षोदरकुचस्य च ।
बालालिङ्गनमोक्षं च कवरीमोचनं तथा ॥१७६॥
स्वीयाङ्गावयवस्यैव निरन्तरविलोकनम्  ।
अश्रुपातोऽङ्गुलीमर्दश्लेष्मोत्सर्गं मुहुर्मुहुः ॥१७७॥
कान्तस्य रूपसौभाग्यसंक्रीडागुणसम्पदाम्  ।
संकीर्तनं महोल्लासः स्वाङ्गभद्रावमर्दनम् ॥१७८॥
श्रुतिवर्त्माङ्गुलिक्षेपः सस्मिते वदनेक्षणे ।
एतान्यफलसाध्यानि लिङ्गानि च समुन्नयेत् ॥१७९॥
व्रीडयालंकृता कान्ता ऊष्मार्ता लोभवर्जिता ।
साध्या लिङ्गर्थवीर्यस्ता असाध्या सा प्रकीर्तिता ॥१८०॥
यत्नसाध्या साधुवक्त्री धनहीना प्रवासिनी ।
साध्येङ्गितविपर्यस्ता यत्नसाध्या कुटुम्बिनी ॥१८१॥
उद्यानोत्सवतीर्थेषु अध्ववाटीवनेषु च ।
अनिष्टयुवतीसङ्गे क्षेत्रे पितृगृहे तथा ॥१८२॥
देवागारे कुटौ चैव तथा वाप्यादिसेवने ।
नटने गोगृहे चैव तथा बन्धुगृहोत्सवे ।
रक्षितव्या सदा नार्यः सद्भिरात्मप्रयत्नतः ॥१८३॥
सत्यप्रदानैर्मधुरैर्वचोभिः संरक्षितव्या तरुणी सदैव ।
अरक्षिता चापि कुलस्य नाशं कुर्याद्धि वै बाह्यजनानुरागात् ॥१८४॥
अग्राम्यमण्डनः प्राज्ञः शुचिः श्रीमांश्च गायनः ।
नर्मगोष्ठीप्रविष्टश्च षड्गुणो नागरो मतः ॥१८५॥
त्यागी विवेकी कुशलः कुलीनः कलाभिविज्ञः सुमतिर्धनाढ्यः ।
भवक्षमः सर्वसहः सुखी च श्रीमान्सुशीलः स हि नायकः स्यात् ॥१८६॥
रजकी मालिनी धात्री योगिनी प्रतिवेशिनी ।
सखी गोपालिका चेटी नापिता विधवा नटी ॥१८७॥
सैरन्ध्री कन्यका चैव दैवज्ञा दूतिका मता ।
विचित्राभरणा दक्षा परिज्ञातपरेङ्गिता ॥१८८॥
प्रवीणा स्थिरभावा च प्रगल्भा दूतिका मता ।
दूती नियुज्यते कार्ये बहुभाषाविभूषिता ॥१८९॥
रोषानुरूपकोपा या अनुनीता च तुष्यति ।
लक्ष्यते सा भृशं नाथगुणहार्यमनोज्ञया ॥१९०॥
अहरहरनुरागा दूतिकां प्रेष्य पूर्वं सरभसं उपयाति क्वापि संकेतदेशे ।
न मीलति खलु यस्या वल्लभो दैवयोगान्निगदति भरतस्तां नायिकां विप्रलब्धाम् ॥१९१॥
यस्या रतिगुणाकृष्टः पतिः पार्श्वे न मुञ्चति ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥१९२॥
या नित्यं प्रियविच्छेदे कान्तसौन्दर्यचेष्टिते ।
ध्यायेदेकमना भूत्वा स्यात्सा विरहिणी मता ॥१९३॥
उद्दाममन्मथशरज्वरवेपमाना रोमाञ्चकर्णकुसुमं कुशलं वहन्ती ।
निःशङ्किनी व्रजति या प्रियसंगमाय सा नायिका खलु भवेदभिसारिकेति ॥१९४॥
या निर्लज्जा कृता गाढं मदेन मदनेन च ।
अभियाति प्रियं साभिसारिका कथिता बुधैः ॥१९५॥
अज्ञानान्न गतो यस्याः संकेतं उचितप्रियः ।
तदनागमसंतप्ता खण्डिता सा प्रकीर्तिता ॥१९६॥
निरस्तो मन्युना कान्तः समर्थो हि यया पुनः ।
अवस्थिता विना तेन कुपिता कथिता बुधैः ॥१९७॥
भवेद्वासकसज्जा सा दूतीद्वारेण निर्जने ।
निश्चित्यागमनं भर्तुर्द्वारेक्षणपरायणा ॥१९८॥
दुर्वारदारुणमनोभवयोगं आप्य पर्याकुलाकलितमानसमुद्वहन्तीम्  ।
दुर्वारमन्मथशरज्वरवेपमानां उत्कण्ठितां वदति तां भरतः कवीन्द्रः ॥१९९॥
प्रियैकवर्तिनी चोष्णा धावत्युन्मादिनी तथा ।
तत्रैवावस्थिते कान्ते विरहोत्कण्ठिता मता ॥२००॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP