स्मरदीपिका - सूत्र ५
स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है।
सम्प्रसार्य स्त्रियाः पादौ शय्यार्पितकफोणिकः ।
भगे लिङ्गस्य संयोगाद्रमते सम्पुटो हि सः ॥१०१॥
स्त्रीपादौ सरलीकृत्य भूमौ कुञ्चितजानुकः ।
स्तनलग्नो रमेत्कामी बन्धः सम्पुटको मतः ॥१०२॥
स्वजङ्घाद्वयबाह्ये च वा योषित्पदद्वयम् ।
स्तनौ धृत्वा रमेत्कामी बन्धः स्यान्मन्मथप्रियः ॥१०३॥
नारीपादद्वयं कामी धारयेत्कुचमण्डले ।
धृत्वा कण्ठं रमेन्नारीं बन्धोऽयं रतिसुन्दरः ॥१०४॥
स्त्रिया ऊरुयुगं धृत्वा कराभ्यां पीडयेत्पुनः ।
कुर्याच्च निर्भयां कामी बन्धः स्यादूरुपीडनः ॥१०५॥
धृत्वा वामकरेणोरुं पादं चापि शिरःस्थितम् ।
रमते सुदृढः कामी स्मरचक्रं प्रकीर्तितम् ॥१०६॥
स्वजानुद्वयमध्याभ्यां हस्ताभ्यां धारयेत्स्त्रियम् ।
रमेन्निःशङ्कितः कामी बन्धः स्यान्नागपाशकः ॥१०७॥
समाश्लिष्य यदा कान्तः कामिन्या जघनद्वयम् ।
ऊर्ध्वगं रमते दोर्भ्यां बन्धो गगनकः स्मृतः ॥१०८॥
नारीपादद्वयं चैव स्कन्धे यः परिवर्तनम् ।
कृत्वा कान्तो रमेदाशु बन्धोऽयं वंशदारकः ॥१०९॥
मुखं मुखे यदा बाह्यं बाह्ये जङ्घेऽपि जङ्घयोः ।
वक्षो वक्षःस्थले दत्त्वा भवेत्स कनकक्षयः ॥११०॥
सुन्दरीं च रमेत्कान्तः कट्यासक्तभुजद्वयाम् ।
हृदि तत्कान्तहस्तां च बन्धोऽयं नागरो मतः ॥१११॥
स्त्रीपादद्वयं आलिङ्ग्य विमुखाक्षिप्तलिङ्गकः ।
योनिं आपीडयेत्कामी बन्धः कुलिशनामकः ॥११२॥
स्वजङ्घाद्वयबाह्येन धारयेत्कुचमण्डलम् ।
धृत्वा कण्ठं रमेत्कामी बन्धः स्यात्कामसुन्दरः ॥११३॥
इत्यादिकण्ठविन्यासाद्गाढं सम्पादयेत्सुखम् ।
तस्माद्विदग्धसंघातैः कार्या बन्धाः प्रयत्नतः ॥११४॥
स्त्रियं आनतपूर्वाङ्गीं पादाहितकरद्वयाम् ।
धृतोदरो रमेत्कामी बन्धोऽयं पशुनामकः ॥११५॥
पादालीढस्तनीं नारीं उत्क्षिप्तजघनां यदि ।
कान्तः कामयते पश्चात्कथितस्त्वेकबन्धकः ॥११६॥
उद्धृत्य पादं एकं तु भुवि संस्थाप्य चापरम् ।
कुड्याश्रितां रमेत्कान्तां बन्धस्त्रैविक्रमो मतः ॥११७॥
हृदि संस्थाप्य पादैकं बाहुभ्यां वेष्टयेद्यदि ।
कान्तः कुड्याश्रितां नारीं बन्धो वेष्टनको मतः ॥११८॥
नारीजानुद्वयं धृत्वा आत्मजानुद्वयोपरि ।
कुड्याश्रितां रमेत्कान्तां बन्धो दोलादिनामकः ॥११९॥
नारीबाहुद्वयं न्यस्य स्वीयबाहुद्वये तथा ।
ग्रीवां धृत्वा रमेत्कामी बन्धो दोलायितः स्मृतः ॥१२०॥
कुड्याश्रितां रमेत्कान्तां कण्ठासक्तकरद्वयाम् ।
पादाभ्यां मध्यं आवेष्ट्य बन्धः प्रालम्बको मतः ॥१२१॥
स्त्रियाः पादद्वयं कान्तः कान्तस्योरुद्वयोपरि ।
कटिं आलोलयेदाशु बन्धोऽयं हंसलीलकः ॥१२२॥
लिङ्गोपरिस्थिता नारी भूमौ दत्त्वा करद्वयम् ।
हृदये दत्तहस्ता च बन्धो लीलासनो मतः ॥१२३॥
विपरीतरते नारीं ऋतुस्नातां न गुर्विणीम् ।
योजयेत्कामशास्त्रज्ञः सद्यो भुक्तवतीं तथा ॥१२४॥
भगे निःक्षिप्तजिह्वाग्रो विलोलं चुम्बति प्रियः ।
तथैव रमणस्यापि नारी लिङ्गं प्रकर्षति ॥१२५॥
N/A
References : N/A
Last Updated : June 27, 2014
TOP