संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय ८ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय ८ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय ८ Translation - भाषांतर भवति गदगणानां नाशनं येन सद्यो विविधरसविधानं कथ्यतेऽत्रैव सम्यक् ।रसनिगमसुधाब्धौ मथ्यमाने मयैव गणितरसशतानां संग्रह प्रोच्यते वै ॥१॥-ज्वराङ्कुश (१)-सुखण्डितं हारिणजं विषाणं रसेन पाच्यं जलजंबुकस्य ।रुद्ध्वाथ भाण्डे विपचेच्च चुल्ल्यां यामद्वयं शीतगतं समुद्धरेत् ॥२॥ततोऽष्टभागं त्रिकटुं नियोज्य निष्कप्रमाणं च भजेत्प्रभाते ।तं नागवल्लीदलजेन सार्धं निहन्ति वातोद्भवकं ज्वरं च ॥३॥-ज्वराङ्कुश (२)-सूतगंधविषकारवीकणा दन्तिबीजमिति वर्धितै क्रमात् ।मर्दितैश्च दशनिंबुकद्रवै रक्तिकार्धतुलिता वटी कृता ।भक्षिता ज्वरगणान्निहन्त्ययं रेचनो ज्वरहरोऽयं अङ्कुश ॥४॥एक एव कथितस्तु सोऽमल स्वेदितोऽपि सह चूर्णजलेन ।यामपूर्वमपि रक्तिकामितो भक्षित सकलशीतजूर्तिहृत् ॥५॥-ज्वरारिरस-पारदं रसकगंधतालकं तुत्थटंकणयुतं सुशोधितम् ।मर्दयेच्च सममात्रमेकत कारवेल्लजरसैर्दिनं तथा ॥६॥लेपयेच्च रविभाजनोदरे चांगुलार्धमपि मानमेव हि ।ताम्रभाजनमुखं निरुध्य वै तं पचेत्सिकतयंत्रमध्यत ॥७॥धान्यकान्युपरि मुञ्चितानि चेत्संस्फुटन्ति यदि शुद्धमुच्यते ।जायतेऽतिरुचिरो ज्वरारिक सेवितो ज्वरगणापहारक ॥८॥माषमात्रमुषणै समै सदा पर्णखण्डसहितैश्च भक्षित ।नाशयेद्धि विषमोद्भवान्ज्वरानन्धकारमिव भास्करोदय ॥९॥-तरुणज्वरारिरस-तालताम्ररसगंधतुत्थकान्शाणमात्रतुलितान्समस्तकान् ।निष्कमात्ररुचिरां मनशिलां मर्दयेत्त्रिफलकाम्बुभिर्दृढम् ॥१०॥गोलमस्य च विधाय संपुटे पाचयेच्च पुटपाकयोगत ।अर्कवज्रिपयसा सुभावयेत्सप्तवारमथ दन्तिकाशृतै ॥११॥माषमात्ररस एष भक्षित शाणमानमरिचैर्युतो यदा ।सार्धनिष्ककगुडेन योजित सौरसैर्द्विदशपत्रकैर्युत ॥१२॥शीतपूर्वमथ दाहपूर्वकं द्व्याहिकं च सकलान्ज्वरानपि ।नाशयेद्धि तरुणज्वरारिक सर्वदोषशमन सुखावह ॥१३॥-ज्वरघ्नी वटी-भागैक स्यात्पारद शोधितश्च एलीय स्यात्पिप्पली श्रेयसी च ।आकल्लो वै गंधक सार्षपेण तैलेनाथो शोधितो बुद्धिमद्भि ॥१४॥तुर्यान्भागानिन्द्रवल्लीफलानां कृत्वा चूर्णं शोषयेत्सूर्यतापे ।चूर्णं चैतद्भावयेत्तद्रसेन माषैस्तुल्यां कारयेत्तद्वटीं च ॥१५॥दत्त्वा चैकां जातसद्योज्वराय छिन्नाङ्गाया क्वाथपानं विधेयम् ।दोषोद्भूतं सन्निपातोद्भवां च जूर्तिं सम्यङ्नाशयत्याशु तीव्राम् ॥१६॥-ज्वरकृन्तनरस-शुद्ध सूतो गंधको वत्सनाभ प्रत्येकं वै शाणमात्रा विधेया ।धूर्ताद्बीजं कारयेद्वै त्रिशणं सर्वेभ्यो वै द्वैगुणा हेमदुग्धा ॥१७॥सूक्ष्मं चूर्णं कारयेत्तत्प्रयत्नाद्देयं गुंजायुग्ममानं च सम्यक् ।खादेदार्द्रं चानुपाने ज्वरार्त सद्यो हन्यात्सर्वदोषोत्थजूर्तिम् ॥१८॥-ज्वरारिरस-सूतं गंधं हिङ्गुलं दंतिबीजं भागैर्वृद्धं कारयेच्च क्रमेण ।चूर्णं कृत्वा मर्दितं दंतितोयैर्गुंजामात्रो भक्षितश्चेज्ज्वरारि ॥१९॥-सूर्यरस-एकं भागं वत्सनाभं च कुर्याद्द्वौ भागौ चेट्टङ्कणं दंतिबीजम् ।त्रीण्येवैते हिंगुलस्यापि तुर्य सद्यो जूर्तिं नाशयत्येव सूर्य ॥२०॥-प्रतिज्ञावाचकरस-शुद्धं सूतं भागमेकं तु तालाद्द्वौ भागौ चेद्वेदसंख्या शिलाया ।ताम्रस्यैवं भागयुग्मं प्रकुर्याद्भल्लातं वा वेदभागं तथैव ॥२१॥अर्कक्षीरैर्भावयेच्च त्रिवारं कृत्वा चूर्णं कारयेद्गोलकं तत् ।स्थालीमध्ये स्थापितं तच्च गोलं दत्त्वा मुद्रां भस्मना सैंधवेन ॥२२॥धूम्रस्यैवं रोधनं च प्रकुर्याच्छाणैर्दद्यात्स्वेदनं मन्दवह्नौ ।पश्चात्तोयेनैव भाव्यं च चूर्णं गोलं कृत्वा मंदवह्नौ विपाच्य ॥२३॥पश्चादेनं भक्षयेद्वै रसेन्द्रं वल्लं चैकं शर्कराचूर्णमिश्रम् ॥२४॥तद्वत्कृष्णामाक्षिकेणैव जूर्तिं हन्यादेतत्सर्वदोषोत्थितां वै ॥२५॥-अतिसारसंग्रहणीहरा योगा-अथातीसारशमनान्रसान्संकथयामि वै ।भक्षिताश्चैव ये नित्यं सद्य प्रत्ययकारका ॥२६॥-शङ्खोदररस-शुद्धं सूतं गंधकं वै समांशं चित्रोन्मत्तैर्मर्दयेद्वासरैकम् ।चूर्णैरेतै शंखमापूरितं वै भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात् ॥२७॥तस्याधस्तादष्टयामं प्रकुर्याद्वह्निं शीते कर्षमात्रं विषं हि ।दत्त्वा घर्मे त्रीणि चाथो पुटानि दद्यात्तद्वत्कन्यकाया रसेन ॥२८॥वल्लं योज्यं जीरकेणाथ भृंग्या क्षौद्रैर्युक्तं भक्षितं संग्रहण्याम् ।श्वासे शूले चानिले श्लेष्मजे वा कासेऽर्शसु विड्ग्रहे चातिसारे ॥२९॥-आनन्दभैरवी गुटी-सौभाग्यं वै हिंगुलं वत्सनाभं मारीचं वै हेमबीजेन युक्तम् ।कृत्वा चूर्णं सर्वमेतत्समांशं जम्बीरैस्तन्मर्दितं यामयुग्मम् ।गुंजामात्रा निर्मिता भक्षिता हि गुट्यो हन्यु सन्निपातातिसारान् ॥३०॥-अतिसारभैरवी गुटी-जातीपत्त्री देवपुष्पं च शुण्ठी कङ्कोल्लं चेच्चंदनं कुंकुमं च ।कृष्णायुक्तं शुद्धमाकल्लकं स्यात्सर्वाण्येवं चूर्णयेद्वै समानि ॥३१॥सूतस्यैवं भस्म मिश्रं प्रकुर्याद्भागं चैकं मिश्रयेन्नागफेनम् ।खल्वे सर्वं मर्दितं चैकयामं कार्या गोली वल्लमात्रा जलेन ॥३२॥भक्षेद्रात्रौ पाययेत्तंडुलोदं हन्यात्सर्वान्सर्वदोषातिसारान् ॥३३॥-कनकसुन्दररस-मारीचं चेट्टंकणं हिंगुलं च गंधाश्मा वै पिप्पली वत्सनाभम् ।धूर्तस्यैवं बीजकानीह शुद्धान्येवं कृत्वा तच्च चूर्णं विधेयम् ॥३४॥प्रात सायं भक्षितं वल्लमात्रं जूर्तिं रक्तं नाशयेच्चातिसारम् ।दध्यन्नं वा भोजयेत्तक्रयुक्तं हन्यादेवं चाग्निमान्द्यं सुतीव्रम् ॥३५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP