संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय ३ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय ३ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय ३ Translation - भाषांतर अथ मया रसभस्म निगद्यते सकलपारदशास्त्रनियोगतः ।ससितकृष्णसुपीतकलोहितं भवति वर्णचतुष्टयभूषितम् ॥१॥हंसपाकदरदः सुशोभितो निखिलनिम्बरसेन विमर्दितः ।नियतयामचतुष्टयमम्लके घनरसे समभागविलोडितः ॥२॥डमरुकाभिधयंत्रनिवेशितस्तदनु लोहरजः खटिकासमम् ।सुपयसा लवणेन विमर्दितं कुरु भिषग्वर यन्त्रसुरोधनम् ॥३॥नियतयामचतुष्टयवह्निना मृदु समं रसमत्र विपाचयेत् ।उपरि तत्र जलेन निषिञ्चयेदिति भवेद्दरदाद्वरसूतकः ॥४॥अखिलशोधवरेण च वै यथा सकलकञ्चुकदोषविवर्जितः ।बहुलदोषहरोऽपि भवेत्तथा भवति शुद्धतमो दरदोद्भवः ॥५॥-(रसकर्पूर?)-विमलसूतवरो हि पलाष्टकं तदनु धातुखटीपटुकांक्षिकाः ।पृथगिमाश्च चतुष्पलभागिकाः स्फटिकशुद्धपलाष्टकसंमिताः ॥६॥सह जलेन विमृद्य च यामकं लवणकाम्लजलेन विमिश्रिताः ।उदितधातुगणस्य च मूषिकां कुरु विषं विनिवेशय तत्र वै ॥७॥डमरूकाभिधयंत्रवरेण तं द्विदशयामममुं पच वह्निना ।पवनपित्तकफक्षयहारकः सकलरोगहरः परमः सदा ॥८॥गजपतेर्बलवद्बलदो नृणां द्विजपतीक्षणवन्नयनप्रदः ।युवतिकामविलासविधायको भवति सूतवरः सुखदः सदा ।सघनसाररसः किल कान्तिदस्त्वखिलकुष्ठहरः कथितो मया ॥९॥-अरुणभस्मन्-विगतदोषकृतौ रसगंधकौ तदनु लुङ्गरसेन परिप्लुतौ ।प्रहरयुग्ममितं च शिलातले रविकरेण विमर्द्य विचूर्णितौ ॥१०॥रुचिरकाचघटीविनिवेशितौ सिकतयंत्रवरेण दिनत्रयम् ।कुरु भिषग्वर वह्निं अधस्ततः स च भवेदरुणः कमलच्छविः ॥११॥उदयभास्करनामरसो ह्ययं भवति रोगविघातकरः स्वयम् ।मगधजामधुना सह गुञ्जिका त्रयमितश्च सदा परिसेवितः ॥१२॥ललितकामविधावभिलाषुकः स्थविरकोऽपि रतौ तरुणायते ।गदहरो बलदोऽपि हि वर्णदो भवति कर्मविपाकजरोगहा ।सकलसूतकशास्त्रविमर्शनाद्द्विजवरेण मया प्रकटीकृतः ॥१३॥- रेद्भस्मन्-रसविदापि रसः परिशोधितो विगतदोषकृतोऽपि हि गंधकः ।विमललोहमये कृतखर्परे ह्यमलसाररजः परिमुच्यताम् ॥१४॥अतिकुशाग्नियुते द्रवति स्वयं तदनु तत्र रसः परिमुच्यताम् ।विशदलोहमयेन च दर्विणा विघटयेत्प्रहरत्रयसंमितम् ॥१५॥तदनु काचघटीं विनिवेश्य वै सिकतयन्त्रवरेण हि पाचितः ।द्विदशयाममधःकृतवह्निना भवति रक्तरसस्तलभस्मसात् ॥१६॥गतबलेन नरेण सुसेवितो भवति वाजिकरः सुखदः सदा ॥१७॥स च वलीपलितानि विनाशयेच्छतशरत्सु निरामयकृत्परम् ॥१८॥- रेद्भस्मन्-विमलनागवरैकविभागिकं हरजभागचतुष्टयमिश्रितम् ।सततमेव विमर्द्य शिलातले बलिवसां च समां कुरु तद्भिषक् ॥१९॥दिनमितं सुविमर्द्य च कन्यका स्वरस ऐनकरेण विशोषयेत् ।तदनु सूतवरस्य तु कज्जलीं रुचिरकाचघटे विनिवेशय ॥२०॥दिवसयुग्ममधः कृतवह्निना स च भवेदरुणः कमलच्छविः ।सकलरोगविनाशनवह्निकृत्बलकरः परमोऽपि हि कान्तिकृत् ॥२१॥नयनरोगविनाशकरो भवेत्सकलकामुकविभ्रमकारकः ।स खलु कर्मविपाकजरोगहा विशदनागयुतः खलु पारदः ॥२२॥- जारण wइथ्सुल्फ़ुर्-मृदुमृदा रचिता मसृणेष्टिका उपरि गर्तवरेण च संयुता ।रसवरं दशशाणमितं हि तत्सशुकपिच्छवरेण निधापयेत् ॥२३॥सकलपूर्णकृतं च सुगर्तकं गलितनिम्बुफलोद्भवकेन वै ।स्थगय तं च पिधानवरेण वै मृदितया सुमृदा परिमुद्रितम् ॥२४॥तदनु कुक्कुटानां पुटे शृतो हुपलकेन वनोद्भवकेन वै ।विधिविदा भिषजा ह्यमुना कृतो विमलषड्गुणगन्धकं अश्नुते ॥२५॥स च शरीरकरोऽप्यथ लोहकृत्सकलसिद्धिकरः परमो भवेत् ।शतगुणं हि यदा परिजीर्यते रसवरः खलु हेमकरो भवेत् ॥२६॥- रसपोट्टली-सशुकपिच्छसमोऽपि हि पारदो भवति खल्वतलेन च कुट्टितः ।दृढतरामुपकल्पय पर्पटीं वसनबद्धकृतामपि पोटलीम् ॥२७॥उपरि नागरसेन विलेपिता रविकरेण सदा परिशोषिताम् ।कनकपत्ररसेन च सप्तधाप्यवनिगर्ततले विनिवेशय ॥२८॥अवनिगर्तं अरत्निकं आयतं द्विदशमङ्गुलमेव सुनिम्नकम् ।सिकतया परिपूर्य तदर्धकं तदनु तत्र निवेशय पोट्टलीम् ॥२९॥उपरि वालुकया परिपूर्य तच्छगणकैश्च पुटं परिदीयताम् ।द्विदशयामं अथाग्निमहो कुरु भवति तेन महारसपोटली ।इति मया कथिता रसपोटली बलकरा सुकरा सुखसिद्धिदा ॥३०॥- मारण-विशदसूतसमोऽपि हि गंधकस्तदनु खल्वतले सुविमर्दितः ।त्रिदिनमेव हि हंसपदीरसे दिनकरस्य करेण सुशोषितः ॥३१॥विमललोहमये दृढखर्परे तदनु कज्जलिकां प्रतिमुच्य वै ।करमिता सुकृतापि हि चुह्लिका ह्युपरि तत्र निवेशय च भाजनम् ॥३२॥अमललोहमयेन च दर्विणा रसवरं नियतं परिमर्दयेत् ।तदनु वह्निमधः कुरु वै दृढं सततमेव हि यामचतुष्टयम् ॥३३॥सुपच एष रसो जलदोपमो भवति वल्लमितो मधुना युतः ।कवलितः क्षयरोगगणापहो मदनवृद्धिकरः परमो नृणाम् ॥३४॥स च वलीपलितानि विनाशयेत्सकलकुष्ठविनाशकरः परः ॥३५॥- मारण-मृदुमृदा परिकल्पितमूषिकां रसमिताङ्गुलिकां भुवि संन्यसेत् ।रसवरं विमलं च सुशोभितं सशुकपिच्छसमं परिमर्दितम् ॥३६॥रससमानमितं धृतमूषया द्वितययुग्मकृतं परिमुद्रितम् ।कनकमूलरसेन च पाचितं तदनु सप्तदिनं कृशवह्निना ॥३७॥रसवरस्य शुभं हि विपाचनं यवमितो रसराजवरस्तदा ।दिनमुखे प्रतिहन्ति सुभक्षितः सकलदोषकृतां विकृतिं जयेत् ॥३८॥-रसपर्पटी-रसवरं पलयुग्ममितं शुभं रुचिरताम्रमयः समभागिकम् ।बलिवसां च घृतेन विमर्दयेदतिकृशाग्निकृते द्रवति स्वयम् ॥३९॥तदनु ताम्ररसौ विनिवेश्यतां त्रयमिदं सरसं च विमर्दितम् ।द्रुतमयं च सदायसभाजने तदनु सूतकृतां वरकज्जलीम् ॥४०॥विघटयेदथ लोहसुदर्विणा तदनु मोचदलोपरि ढाल्यते ।भवति सारतमा रसपर्पटी सकलरोगविघातकरी हि सा ॥४१॥कुरु समानकटुत्रयसंयुतां मरिचयुग्ममितां सुखदां सदा ॥४२॥अनुपाने प्रयोक्तव्या त्रिफलाक्षौद्रसंयुता ।पर्पटीं भक्षयेत्प्रातस्तथा त्र्यूषणसंयुताम् ॥४३॥सन्निपातहरा सा तु पञ्चकोलेन संयुता ।भक्षिता मधुना सार्धं सर्वज्वरविनाशिनी ॥४४॥कणाक्षौद्रेण सहिता सर्वशोफान्निकृन्तति ।श्यामात्रिकटुकेनापि वातजां ग्रहणीं जयेत् ॥४५॥गुग्गुलुत्रिफलासार्धं वातरक्तं विनाशयेत् ।वातशूलहरा सम्यखिंगुपुष्करसंयुता ॥४६॥व्योषैः कन्यारसैर्वापि कफामयविनाशिनी ।दशमूलशृतेनापि वातज्वरनिबर्हणी ॥४७॥वाकुचीबीजकल्केन कण्डूपामे विनाशयेत् ।आरुष्करेण सहिता सा तु सिध्मविनाशिनी ॥४८॥गोमूत्रेणानुपानेन चार्शोरोगविनाशिनी ।नवमाल्यर्जुनश्चैव चित्रको भृङ्गराजकः ॥४९॥शाल्मली निम्बपंचांगं कल्हारश्च गुडूचिका ।निर्गुंडी च समांशानि कारयेद्भिषगुत्तमः ॥५०॥चूर्णीकृत्य च तत्सर्वं पर्पट्याश्चानुपानकम् ।अष्टादश च कुष्ठानि निहन्त्येव न संशयः ॥५१॥पर्पटी रसराजश्च रोगान्हन्त्यनुपानतः ।अपथ्यं नैव भुञ्जीयाद्दोषदूष्याद्यपेक्षया ॥५२॥-रसपर्पटी-शुद्धं रसं गंधकमेव शुद्धं पृथक्समांशं कुरु यत्नतस्ततः ।एरंडमूलस्य रसेन सूतं तथाद्रिकर्ण्या स्वरसेन मर्दयेत् ॥५३॥तं काकमाच्याः स्वरसेन पिष्ट्वा तथा च तं दाडिमबीजतोयैः ।क्रमेण सूतं हि दिनैश्चतुर्भिः शुद्धत्वमायाति हि निश्चयेन ॥५४॥ततस्तु गंधं खलु मार्कवद्रवैर्विभाव्यमानं कुरु लोहपात्रे ।प्रद्रावयेत्तं बदरस्य चाग्निना प्रढालयेद्भृंगरसे त्रिवारम् ॥५५॥कार्या ततः कज्जलिका विमर्द्य तां द्रावयेल्लोहमये सुपात्रे ।प्रढालयेत्तां कदलीदले हि संछाद्य चान्येन दलेन पश्चात् ॥५६॥तस्यास्त्वधोर्ध्वं प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता ।रोगानशेषान्मलदोषजातान्हिनस्ति चैषा रसपर्पटी हि ॥५७॥सा जीरकेणैव तु रामठेन वातामशूलं गृहणीं सकामलाम् ।गुल्मानि चाष्टावुदराणि हन्यात्संसेविता शुद्धरसस्य पर्पटी ॥५८॥मयापि सद्वैद्यहिताय नूनं प्रदर्शितेयं खलु रोगनाशिनी ॥५९॥- मारण-सूतं सुशुद्धं लवणैश्चतुर्भिः क्षारैस्त्रिभिश्चापि विमर्दयेच्च ।संशोष्य पश्चादपि हिंगुराजिका शुंठीभिरेभिश्च समं विमर्द्य ॥६०॥रसेन सार्धं हि कुमारिकाया मूषां विदध्याद्रविघर्मशोषिताम् ।तस्यां निधायाथ रसस्य गोलकं तं स्वेदितं चाम्लरसेन सम्यक् ॥६१॥यामाष्टकेनाग्निकृतेन दोलया पश्चाद्रसेनाभिविमर्दितोऽसौ ।भेकपर्ण्युरुवुभृंगराजकैः शृङ्गवेरगिरिकर्णिकारसैः ॥६२॥काकमाचिजविभक्तिकाजलैर्धूर्तजैरपि जयन्तिकाद्रवैः ।सिंधुवारकरसेन मर्दितं मसृणखल्वतले त्रिवासरम् ॥६३॥प्रतिरसं च विशोष्य हि भक्षयेद्रक्तिकाद्वयमितं रुजापहम् ।केकिमाहिषवराहपित्तकैः कच्छपस्य च रसेन मर्दितम् ।जायतेऽधिकतरं गुणेन वै सन्निपातभवमूर्च्छनं जयेत् ॥६४॥यः श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै दीर्घायुर्धनधान्यधर्मसहितः प्राप्नोति सौख्यं परम् ।लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम् ॥६५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP