संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकर| अध्याय ५ रसप्रकाशसुधाकर अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ रसप्रकाशसुधाकर - अध्याय ५ आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला. Tags : rasaprakashasudhakarVedआयुर्वेदयशोधररसप्रकाशसुधाकर अध्याय ५ Translation - भाषांतर अथेदानीं प्रवक्ष्यामि गुणाधिक्यान्महारसान् ।तेषां नामानि वर्गांश्च सत्त्वानि तद्गुणांस्तथा ॥१॥-महारसा-क्रमेण गगनं ताप्यं वैक्रांतं विमलं तथा ।रसकं शैलसंभूतं राजावर्तकसस्यके ।एते महारसाश्चाष्टावुदिता रसवादिभि ॥२॥-अभ्र सुब्त्य्पेस चोलोउर्-क्रमप्राप्तमहं वक्ष्ये गगनं तु चतुर्विधम् ।श्वेतं रक्तं तथा पीतं कृष्णं परमसुंदरम् ॥३॥श्वेतं श्वेतक्रियायोग्यं रक्तं पीतं हि पीतकृत् ।कृष्णाभ्रं सर्वरोगाणां नाशनं परमं सदा ॥४॥-अभ्र सुब्त्य्पेस्-वज्रं पिनाकं नागं च मंडूकमभिधीयते ।अनेन विधिना प्रोक्ता भेदा सन्तीह षोडश ॥५॥अभ्राणामेव सर्वेषां वज्रमेवोत्तमं सदा ।शेषाणि त्रीणि चाभ्राणि घोरान्व्याधीन्सृजन्ति हि ।तस्माद्यत्नेन सद्वैद्यैर्वर्जनीयानि नित्यश ॥६॥-वज्र परीक्षा-वज्राभ्रं धम्यमानेऽग्नौ विकृतिं न क्वचिद्भजेत् ।सेवितं तन्मृतिं हन्ति वज्राभं कुरुते वपु ॥७॥-पिनाक परीक्षा-पिनाकं चाग्निसंतप्तं विमुञ्चति दलोच्चयम् ।सेवितं चैकमासेन कृमिं कुष्ठं करोत्यलम् ॥८॥-नाग परीक्षा-नागाभ्रं ध्मापितं सम्यक्नागवत्स्फूर्जते ध्रुवम् ।-नाग मेदिच्- प्रोपेर्तिएस्-सेवितं तत्प्रकुरुते क्षयरोगसमुद्भवम् ॥९॥विषं हालाहलं पीतं मारयत्येव निश्चितम् ।तथा नागाभ्रनामेदं सद्वैद्य कथयत्यलम् ॥१०॥-मण्डूक परीक्षा-मंडूकाभ्रं प्रकुरुते ताप्यमानं हि नित्यश ।क्षणं चाग्नौ न तिष्ठेत मंडूकसदृशां गतिम् ॥११॥मंडूकाभ्रं न सेव्यं हि कथितं रसवेदिभि ॥१२॥-अभ्रक शोधन-स्वेदयेद्दिनमेकं तु कांजिकेन तथाभ्रकम् ।पश्चात्कुलत्थजे क्वाथे तक्रे मूत्रेऽथ वह्निना ॥१३॥-अभ्र शोधन-पाचितं दोषशून्यं तु शुद्धिमायाति निश्चितम् ।तथाग्नौ परितप्तं तु निषिञ्चेत्सप्तवारकम् ॥१४॥कांजिके चापि निर्दोषं अभ्रके जायते ध्रुवम् ।वराक्वाथे तथा दुग्धे गवां मूत्रे तथैव च ।मार्कवस्य रसेनापि दोषशून्यं प्रजायते ॥१५॥-अभ्र मारण-सूक्ष्मचूर्णं तत कृत्वा पिष्ट्वा हंसपदीरसै ।चक्राकारं कृतं शुष्कं दद्यादर्धगजाह्वये ॥१६॥षट्पुटानि ततो दत्त्वा पुनरेवं पुनर्नवा ।रसेन मर्दितं गाढं अभ्रांशेन तु टंकणम् ॥१७॥पुनश्च चक्रिकां कृत्वा सप्तवारं पुटेत्खलु ।तण्डुलीयरसेनैव तद्वद्वासारसेन च ॥१८॥पुटयेत्सप्तवाराणि पुटं दद्याद्गजार्धकम् ।अनेन विधिना चाभ्रं म्रियते नात्र संशय ।चन्द्रिकारहितं सम्यक्सिंदूराभं प्रजायते ॥१९॥-अभ्र मारण-कासमर्दरसेनैव धान्याभ्रं पाचितं शुभम् ।शतवारेण म्रियते नात्र कार्या विचारणा ॥२०॥-अभ्र मारण-एवं मुस्तारसेनापि तण्डुलीयशिफारसै ।टंकणेन समं पिष्ट्वा चक्राकारमथाभ्रकम् ॥२१॥षष्टिसंख्यपुटै पक्वं सिन्दूरसदृशं भवेत् ।कुष्ठक्षयादिरोगघ्नं अभ्रकं जायते ध्रुवम् ॥२२॥-अभ्र मारण-नागवल्लीदलरसैर्वटमूलत्वचा तथा ।वृषामत्स्यादनीभ्यां च मत्स्याक्ष्या सपुनर्भुवा ॥२३॥वटवृक्षस्य मूलेन मर्दितं पुटितं घनम् ।सिंदूरसदृशं वर्णे भवेद्विंशतिमे पुटे ॥२४॥सूक्ष्मं सूक्ष्मं जलप्लावं रक्तवर्णसमुज्ज्वलम् ।सर्वरोगहरं चापि जायते बहुभि पुटै ॥२५॥-अभ्र मृत मेदिच्- प्रोपेर्तिएस्-मृतं वज्राभ्रकं सम्यक्सेवनीयं सदा बुधै ।वलिपलितनाशाय दृढतायै शरीरिणाम् ॥२६॥सर्वव्याधिहरं त्रिदोषशमनं वह्नेश्च संदीपनं वीर्यस्तंभविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम् ।भूतोन्मादनिवारणं स्मृतिकरं शोफामयध्वंसनं सद्य प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम् ॥२७॥यथा विषं यथा वज्रं शस्त्रोऽग्नि प्राणहृद्यथा ।भक्षितं चन्द्रिकायुक्तं अभ्रकं तादृशं गुणै ॥२८॥-अभ्र सत्त्व पातन-पादांशं टंकणं दत्त्वा मुसलीरसमर्दितम् ।ध्मापितं कोष्ठिकायन्त्रे सत्त्वरूपं प्रजायते ॥२९॥-अभ्र सत्त्व पातन-खल्वे पिष्ट्वा तु मतिमान्सूक्ष्मचूर्णं तु कारयेत् ।गालितं वस्त्रखण्डेन घृतेन च परिप्लुतम् ॥३०॥भर्जितं दशवाराणि लोहखर्परकेण वै ।अग्निवर्णसमं यावत्तावत्पिष्ट्वा तु भर्जयेत् ॥३१॥शुकपिच्छसमं पिष्ट्वा क्वाथे तु वटमूलजे ।ततो विंशतिवाराणि पुटेच्छूकरसंज्ञकै ॥३२॥वराकषायैर्मतिमान्तथा कुरु भिषग्वर ।नीलीगुंजावरापथ्याम् ऊलकेन सुभावयेत् ॥३३॥संशुष्कं भक्षयेद्विद्वान्सर्वरोगहरं परम् ।अभ्रसत्वात्परं नास्ति रसायनमनुत्तमम् ॥३४॥यदि चेत्शतवाराणि पाचयेत्तीव्रवह्निना ।तदामृतोपमं चाभ्रं देहलोहकरं परम् ॥३५॥-अभ्र सत्त्व पातन-धान्याभ्रकं तत कृत्वा द्वात्रिंशत्पलमात्रकम् ।लाक्षागुंजाक्षुद्रमीना टङ्कणं दुग्धं आविकम् ॥३६॥सर्षपा शिग्रुपिण्याकं सिन्धूत्थं मृगशृङ्गकम् ।माक्षिकं च समांशानि सर्वाण्येव तु कारयेत् ॥३७॥धान्याभ्रकेन तुल्येन मर्दयेन्मतिमान्भिषक् ।पुनर्नवाया वासाया कासमर्दस्य तण्डुलै ॥३८॥मत्स्याक्ष्या हंसपद्याश्च कारवेल्ल्या रसै पृथक् ।खलगोधूमयोश्चूर्णै कारयेद्वटकान्शुभान् ॥३९॥पश्चात्कोष्ठ्यां धमेच्छुष्कान्भस्त्रिकाद्वितयेन तान् ।खदिरस्य तु चांगारै सत्वं निसरति ध्रुवम् ॥४०॥पृथक्कृत्वा तु रवकान्कांस्यवर्णान्विशेषत ।तत्किट्टं गोमयेनाथ वटकान्कारयेत्पुन ॥४१॥ध्मापयेत्पूर्वविधिना पुन सत्वं हि निसरेत् ।अनेन विधिना कार्यं पञ्चगव्येन मिश्रितम् ॥४२॥पञ्चाजेनाथ महिषी पञ्चकेन समं कुरु ।पतत्येवमसंदिग्धं सत्यं गुरुवचो यथा ॥४३॥-अभ्र सत्त्व मारण-अथाभ्रसत्त्वरवकानम्लवर्गेण पाचयेत् ।शोधनीयगणेनैव मूषामध्ये तु शोधयेत् ॥४४॥काचटंकणगुंजाज्य सारघै शोधयेत्खलु ।मधुतैलवसाज्येषु दशवाराणि ढालयेत् ॥४५॥मार्दवं कारयेत्सत्यं योगेनानेन सर्वदा ।सत्वस्य गोलकानेवं तप्तानेवं तु कांजिके ॥४६॥निर्वाप्य तत्क्षणादेव कण्डयेल्लोहपारया ।अनेनैव प्रकारेण सूक्ष्मचूर्णं तु कारयेत् ॥४७॥भर्जयेद्घृतमध्ये तु त्रीणि वाराणि यत्नत ।पेषणं तु प्रकर्तव्यं शिलापट्टेन यत्नत ॥४८॥धात्रीपत्ररसेनापि तस्या फलरसेन वा ।पुनर्भुवा वासया च कांजिकेनाथ गन्धकै ।पुटयेद्दशवाराणि म्रियते चाभ्रसत्त्वकम् ॥४९॥-अभ्र सत्त्व मृत मेदिच्- प्रोपेर्तिएस्-मृतं सत्वं हरेन्मृत्युं सर्वरोगविनाशनम् ।क्षयं पाण्डुं ग्रहणिकां श्वासं शूलं सकामलम् ॥५०॥ज्वरान्मेहांश्च कासांश्च गुल्मान्पञ्चविधानपि ।मन्दाग्निमुदराण्येवं अर्शांसि विविधानि च ॥५१॥अनुपानप्रयोगेण सर्वरोगान्निहन्ति च ।अभ्रसत्वगुणान्वक्तुं शक्यते न समासत ॥५२॥-राजावर्त परीक्षा गूद्क़ुअलित्य्-किंचिद्रक्तोऽथ नीलश्च मिश्रवर्णप्रभ सदा ।तौल्ये गुरुश्च मसृणो राजावर्त्तो वर स्मृत ॥५३॥-राजावर्त शोधन-गोमूत्रेणाथ क्षारैश्च तथाम्लै स्वेदिता खलु ।त्रिवारेण विशुध्यन्ति राजावर्तादयो रसा ॥५४॥-राजावर्त मारण-चूर्णित शुकपिच्छेन भृंगराजरसेन वै ।सप्तवारेण पुटितो राजावर्त्तो मरिष्यति ॥५५॥-राजावर्त मृत मेदिच्- प्रोपेर्तिएस्-श्लेष्मप्रमेहदुर्नाम पाण्डुक्षयनिवारण ।पाचनो दीपनश्चैव वृष्योऽनिलविषापह ॥५६॥-राजावर्त सत्त्व पातन-कोशातकी क्षीरकन्दो वंध्याकर्कोटकी तथा ।काकमाची राजशमी त्रिफला गृहधूमक ॥५७॥राजावर्तो रसैरेषां सत्वं मुञ्चति मर्दित ।ध्मापित खदिरांगारैर्भस्त्रिकाद्वितयेन च ॥५८॥-वैक्रान्त फ्य्स्- प्रोपेर्तिएस्-अष्टधारोष्ठफलक षट्कोणो मसृणो गुरु ।शुद्धमिश्रितवर्णैश्च युक्तो वैक्रांत उच्यते ॥५९॥-वैक्रान्त सुब्त्य्पेस चोलोउर्-श्वेत पीतस्तथा कृष्णो नील पारावच्छवि ।कर्बूर श्यामवर्णश्च वैक्रांतश्चाष्टधा स्मृत ॥६०॥-वैक्रान्त शोधन-क्वाथे कुलत्थजे स्विन्नो वैक्रांत शुध्यति ध्रुवम् ।-वैक्रान्त मारण-गन्धनिम्बूरसैर्मर्द्य पुटितो म्रियते ध्रुवम् ॥६१॥-वैक्रान्त मृत मेदिच्- प्रोपेर्तिएस्-आयुप्रदस्त्रिदोषघ्नो वृष्य प्राणप्रद सदा ।वेगप्रदो वीर्यकर्ता प्रज्ञावर्णौ करोति हि ॥६२॥रसायनेषु सर्वेषु पूर्वगण्यस्तु रोगहा ।वज्रवद्गुणकारी च वैक्रांतो रसबन्धक ॥६३॥-वैक्रान्त सत्त्व पातन-सूर्यातपे मर्दितोऽसौ सत्वपातगणौषधै ।शुष्कायितो वटीकृत्य मूषास्थो ध्मापितोऽपि वै ॥६४॥सत्वं मुञ्चति वैक्रांत सत्यं गुरुवचो यथा ।-वैक्रान्त सत्त्व मेदिच्- उसे-मृतसूतेन तुल्यांशं सत्वं वैक्रांतसंभवम् ॥६५॥मृताभ्रसत्वसंयुक्तं मर्दितं सममात्रकम् ।कणामध्वाज्यसंमिश्रं वल्लमात्रं निषेवितम् ॥६६॥सर्वान्रोगान्निहन्त्याशु जीवेद्वर्षशतं सुखी ।त्रिवर्षसेवनान्नूनं वलीपलितनाशनम् ॥६७॥-सस्यक म्य्थ्- ओरिगिन्-सद्यो हालाहलं पीतं अमृतं गरुडेन च ।सुधायुक्ते विषे वान्ते पर्वते मरुताह्वये ॥६८॥घनीभूतं च संजातं सस्यकं खलु कथ्यते ।-सस्यक परीक्षा गूद्क़ुअलित्य्-नीलं मरकतच्छायं तेजोयुक्तं प्रशस्यते ॥६९॥-सस्यक शोधन-स्वेदितं माहिषाज्याभ्यां गवां मूत्रैर्नरस्य वा ।दोलायन्त्रेण यामौ द्वौ शुध्यत्येव हि सस्यकम् ॥७०॥-सस्यक मारण-गंधाश्मटंकणाभ्यां च लकुचद्रावमर्दितम् ।कुक्कुटाह्वै सप्तपुटैर्म्रियते चांधमूषया ॥७१॥-सस्यक सत्त्व पातन-निघृष्टं टंकणेनैव निम्बूद्रावेण मूषया ।ध्मातं च ताम्ररूपं हि सत्त्वं मुञ्चति सस्यकम् ॥७२॥विषेण सहितं यस्मात्तस्माद्विषगुणाधिकम् ।सुधायुक्तं विषं येन सुधाधिकगुणं तथा ॥७३॥-सस्यक मृत मेदिच्- प्रोपेर्तिएस्-त्रिदोषशमनं चैव विषहृद्गुदशूलनुत् ।अम्लपित्तविबन्धघ्नं रसायनवरं सदा ॥७४॥वान्तिं करोति रेकं च श्वित्रकुष्ठापहं तथा ।नाम्ना मयूरतुत्थं हि सर्वव्याधिनिवारणम् ॥७५॥-सस्यक, भूनाग सत्त्व रिन्ग्-भूनागसत्वसंयुक्तं सत्वमेतत्समीकृतम् ।अनयोर्मुद्रैका कार्या शूलघ्नी सा भवेत्खलु ॥७६॥डाकिनीभूतसंवेश चराचरविषं जयेत् ।राज्ञां सदैव रक्षार्थं विधातव्या सुमुद्रिका ॥७७॥-माक्षिक-माक्षिकं द्विविधं ज्ञेयं रुक्मताप्यप्रभेदत ।-स्वर्णमाक्षिक (?)-प्रथमं माक्षिकं स्वर्णं कान्यकुब्जसमुत्थितम् ॥७८॥सुवर्णवर्णसदृशं नववर्णसमन्वितम् ।-माक्षिक ताप्य (-- स्वर्ण)-तटे तपत्या संजातं ताप्याख्यं माक्षिकं वदेत् ॥७९॥पाषाणदलसंमिश्रं पाण्डुरं पञ्चवर्णवत् ।गुणाल्पकं भवत्येतत्स्वल्पं सत्त्वं विमुञ्चति ॥८०॥-माक्षिक मारण-मूत्रे तक्रे च कौलत्थे मर्दितं शुष्कमेव च ।गंधाश्मबीजपूराभ्यां पिष्टं तच्छ्रावसंपुटे ॥८१॥पञ्चवाराहपुटकैर्दग्धं मृतिमवाप्नुयात् ॥८२॥-माक्षिक सत्त्व पातन-लोहपात्रे सुसंदग्धं लोहदण्डेन घर्षितम् ।यदा रक्तं धातुनिभं जायते निंबुकद्रवै ॥८३॥घर्षयेत्त्रिगुणं सूतं मुक्त्वा संघर्षणं कुरु ।दिनैकं घर्षयित्वा तु दृढवस्त्रेण गालयेत् ॥८४॥वस्त्रस्था पिष्टिका लग्ना त्वध पतति पारद ।अनेनैव प्रकारेण द्वित्रिवारेण गालयेत् ॥८५॥तत्पिष्टीगोलकं ग्राह्यं यंत्रे डमरुके न्यसेत् ।प्रहरद्वयमात्रं चेदग्निं प्रज्वालयेदध ॥८६॥इन्द्रगोपसमं सत्वं अधस्थं ग्राहयेत्सुधी ।अनेनैव विधानेन ताप्यसत्वं समाहरेत् ॥८७॥टंकणेन समायुक्तं द्रावितं मूषया यदा ।तदा ताम्रप्रभं सत्वं जायते नात्र संशय ॥८८॥देहलोहकरं सम्यक्देवीशास्त्रेण भाषितम् ॥८९॥सर्वामयघ्नं सततं पारदस्यामृतं परम् ।मेलनं कुरुते लोहे परमं च रसायनम् ॥९०॥-विमल सुब्त्य्पेस्-प्रथमो हेमविमलो हेमवद्वर्णसंयुत ।द्वितीयो रूप्यविमलो रूप्यवद्दृश्यते खलु ॥९१॥तृतीय कांस्यविमल कांस्यवर्णसमो हि स ।-विमल फ्य्स्- प्रोपेर्तिएस्-स्निग्धश्च वर्तुलश्चैव षट्कोण फलकान्वित ॥९२॥-विमल शोधन-वासारसे मर्दितो हि शुद्धोऽतिविमलो भवेत् ।-विमल मारण-गंधाश्मनिंबुकद्रावैर्मर्दित पुटितो मृतिम् ।शृङ्गस्य भस्मना चापि पुटैश्च दशधा पुटेत् ॥९३॥-विमल सत्त्व पातन-निम्बूरसेन संपिष्ट्वा मूषामध्ये निरुध्य च ।विमल सीससदृशं ध्मातो मुञ्चति सत्त्वकम् ॥९४॥-विमल सत्त्व मेदिच्- उसे-पिष्टीकृतं हि तत्सत्वं पारदेन समन्वितम् ।द्रुते गंधे हि निक्षिप्तं तालकं त्रिगुणं तथा ॥९५॥मनशिला पञ्चगुणा वालुकायन्त्रके खलु ।ज्वालयेत्क्रमशश्चैव पश्चाद्रजतभस्मकम् ॥९६॥सममात्रं हि वैक्रांतं सर्वं संचूर्णयेत्खलु ।संगाल्य यत्नतो वस्त्रात्स्थापयेत्कूपिकान्तरे ॥९७॥वह्निं कुर्यादष्टयामं स्वांगशीतं समुद्धरेत् ।वल्लमात्रं च मधुना लेहयेत्व्योषसंयुतम् ॥९८॥बालानां रोगहरणं ज्वरपाण्डुप्रमेहनुत् ।ग्रहणीकामलाशूल मन्दाग्निक्षयपित्तहृत् ॥९९॥अनुपानविशेषणं सर्वरोगान्निहन्ति च ॥१००॥वृष्य पित्तानिलहरो रसायनवर खलु ॥१०१॥-शिलाजतु सुब्त्य्पेस्-तत्राद्यं द्विविधं चैव सत्सत्वं सत्वहीनकम् ।गुणाधिकं तयोर्मध्ये यत्पूर्वं सर्वदोषहृत् ॥१०२॥-शिलाजतु ओरिगिन्फ़्रों रोच्क्स्-निदाघे तीव्रतापाद्धि हिमप्रत्यन्तपर्वतात् ।हेमतारार्कगर्भेभ्य शिलाजतु विनिसरेत् ॥१०३॥-शिलाजतु फ़्रों गोल्द्-बन्धूकपुष्पसदृशं गुरु स्निग्धं सुशीतलम् ।रुक्मगर्भगिरौ जातं परमं तद्रसायनम् ॥१०४॥किंचित्तिक्तं च मधुरं शिलाजं सर्वदोषनुत् ॥१०५॥-शिलाजतु फ़्रों सिल्वेर्-तारगर्भगिरेर्जातं पाण्डुरं स्वादु शीतलम् ।पित्तपाण्डुक्षयघ्नं च शिलाजतु हि पाण्डुरम् ॥१०६॥-शिलाजतु फ़्रों चोप्पेर्-शुल्वगर्भगिरेर्जातं कृष्णवर्णं घनं गुरु ।गिरिजं कफवातघ्नं विशेषात्सर्वरोगजित् ॥१०७॥-शिलाजतु परीक्षा शुद्ध-अग्नौ यज्जायते क्षिप्तं लिंगाकारमधूमकम् ।उदके च विलीयेत तच्छुद्धं च विधीयते ॥१०८॥-शिलाजतु शोधन-अम्लैश्च गुग्गुलूपेतै क्षाराद्यैर्भाण्डमध्यत ।विशुध्यति शिलाजातं स्वेदितं घटिकाद्वयम् ॥१०९॥-शिलाजतु मारण-मनशिलालुङ्गरसै शिलया गंधकेन वा ।तालकेनाथ पुटितं शिलाजं म्रियते ध्रुवम् ॥११०॥छगणैरष्टभि कृत्वा भस्मीभूतं शिलाजतु ॥१११॥-शिलाजतु मेदिच्- उसे-शिलाजतु तु संशुद्धं सेवेत य पुमान्सदा ।जीवेद्वर्षशतं साग्रं न रोगैर्बाध्यते खलु ॥११२॥मूत्रकृच्छ्राश्मरीरोगा प्रयान्त्येव न संशय ।महारसे चोपरसे धातुरत्नेषु पारदे ।ये गुणा कथिता सद्भि शिलाधातौ वदन्ति ते ॥११३॥वैक्रांतकांतत्रिफला त्रिकटुभि समन्वितम् ।वल्लोन्मितं वै सेवेत सर्वरोगगणापहम् ॥११४॥पलितं वलिभि सार्धं हन्यादेव न संशय ॥११५॥-कर्पूरशिलाजतु-कर्पूरसदृशं श्वेतं कर्पूराख्यं शिलाजतु ।-कर्पूरशिलाजतु मेदिच्- प्रोपेर्तिएस्-अश्मरीमेहकृच्छ्रघ्नं कामलापाण्डुनाशनम् ॥११६॥-कर्पूरशिलाजतु शोधन-अम्लतोयेन संस्विन्नं शुष्कं शुद्धिमुपैति च ।-कर्पूरशिलाजतु मारण, सत्त्वपातन-नोदितं मारणं तस्य सत्वपातनकं बुधै ॥११७॥-रसक सुब्त्य्पेस्-द्विविधो रसक प्रोक्त कारवेल्लकदर्दुर ।-कारवेल्लक मेदिच्- प्रोपेर्तिएस्-सत्वपाते पर प्रोक्त प्रथमश्चौषधादिषु ॥११८॥सर्वमेहहरश्चैव पित्तश्लेष्मविनाशन ।नागार्जुनेन कथितौ सिद्धौ श्रेष्ठरसावुभौ ॥११९॥कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ ।तेन स्वर्गमयी सिद्धिरर्जिता नात्र संशय ॥१२०॥-रसक शोधन-रसकस्तापित सम्यक्निक्षिप्तो रसपूरके ।निर्मलत्वमवाप्नोति सप्तवारं निमज्जित ॥१२१॥-रसक शोधन-कांजिके वाथ तक्रे वा नृमूत्रे मेषमूत्रके ।द्रावितो ढालित सम्यक्खर्पर परिशुध्यति ॥१२२॥-रसक रञ्जन ओफ़् चोप्पेर्wइथ्~-खर्परं रेतितं शुद्धं स्थापितं नरमूत्रके ।रञ्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥१२३॥-रसक सत्त्व पातन-शिला हरिद्रा त्रिफला गृहधूमै ससैंधवै ।भल्लातकैष्टंकणैश्च क्षारैरम्लैश्च वर्तितम् ॥१२४॥पादांशसंयुतैर्मूषां वृंताकफलसन्निभाम् ।निरुध्य शोषयित्वाथ मूषां मूषोपरि न्यसेत् ॥१२५॥प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यदा ।लोहसंदंशके कृत्वा धृत्वा मूषामधोमुखीम् ॥१२६॥भूम्यां आढालयेत्सत्त्वं यथा नालं न भज्यते ।तदा सीसोपमं सत्वं पतत्येव न संशय ॥१२७॥अनेनैव प्रकारेण त्रिवारं हि कृते सति ।विनिसरेत्सर्वसत्वं सत्यं हि गुरुणोदितम् ॥१२८॥-रसक सत्त्व मारण-तालकेन समायुक्तं सत्वं निक्षिप्य खर्परे ।घर्षयेल्लोहदण्डेन म्रियते च न संशय ॥१२९॥-रसक सत्त्व मृत मेदिच्- उसे-मृतं सत्वं मृतं कांतं समांशेनापि योजितम् ।माषमात्रमिदं चूर्णं वराक्वाथेन संयुतम् ॥१३०॥लोहपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ।निहन्ति मधुमेहं च क्षयं पाण्डुं तथानिलम् ॥१३१॥योनिरोगांश्च नारीणां ज्वरांश्च विषमानपि ।स्त्रीरोगान्हन्ति सर्वांश्च श्वासकासपुरोगमान् ॥१३२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP