संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसार्णव| नवमः पटलः रसार्णव प्रथमः पटलः द्नितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः रसार्णव - नवमः पटलः रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे. Tags : rasarnavscienceVedआयुर्वेदरसार्णवशास्त्र विडकथन Translation - भाषांतर श्रीदेव्युवाचबीजानां कलनं प्रोक्तं विशेषेण च साधनम् ।जार्यन्ते तानि यैः सूते तान्विडान्वक्तुमर्हसि ॥१॥श्रीभैरव उवाचकासीसं सैन्धवं काङ्क्षी सौवीरं व्योषगन्धकम् ।सौवर्चलं सर्जिका च मालतीनीरसम्भवम् ।शिग्रुमूलरसैः सिक्तो विडोऽयं सर्वजारणः ॥२॥निर्दग्धं शङ्खचूर्णं तु रविक्षीरशतप्लुतम् ।पुटितं बहुशो देवि प्रशस्तो जारणाविडः ॥३॥शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलैः ॥४॥निर्दग्धं शङ्खचूर्णं तु शिग्रुमूलाम्बुभावितम् ।शतशो विषसिन्धूत्थ संयुतं वडवामुखम् ॥५॥टङ्कणं शतशो देवि भावयेत्किंशुकद्रवैः ।विडो वह्निमुखाख्योऽयं लोहानां जारणे प्रिये ॥६॥चूलिका गन्धपाषाणः कान्तस्य च मुखं प्रिये ।एकैकमेव पर्याप्तं लौहचूर्णस्य जारणे ॥७॥गन्धतालकसिन्धूत्थं चूलीटङ्कणभूखगम् ।क्षारैर्मूत्रैश्च विपचेदयं ज्वालामुखो विडः ॥८॥एकविंशतिपर्यायं देवदालीदलद्रवैः ।भावितो निचुलक्षारः सर्वसत्त्वानि जारयेत् ॥९॥वास्तुकैरण्डकदली देवदालीपुनर्नवम् ।वासा पलाशनिचुलं तिलकाञ्चनमाक्षिकम् ॥१०॥सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले ।दग्धकाण्डैस्तिलानां तु पञ्चाङ्गं मूलकस्य च ॥११॥प्लावयेन्मूत्रवर्गेण जलं तस्मात्परिस्रुतम् ।लोहपात्रे पचेद्यन्त्रे हंसपाकेऽग्निमानवित् ॥१२॥बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा ।तदा कासीससौराष्ट्री क्षारत्रयकटुत्रयम् ॥१३॥गन्धकं च सितं हिङ्गु लवणानि च षट्तथा ।एषां चूर्णं क्षिपेदेष लोहसम्पुटमध्यगः ।सप्ताहं भूगतः पश्चाद्धान्यस्थः प्रवरो विडः ॥१४॥जम्बीराम्लेन पचनं शिग्रुमूलद्रवेण च ।चूलिकागन्धकासिक्तौ द्वौ विडौ शतशः क्रमात् ॥१५॥कोषातकीदलरसैः क्षारैर्वा निचुलोद्भवैः ।देवदालीशिवाबीजं गुञ्जासैन्धवटङ्कणम् ।भावयेदम्लवर्गेण विडोऽयं हेमजारणः ॥१६॥मूलकार्द्रकचित्राणां क्षारैर्गोमूत्रगालितैः ।गन्धकः शतशो भाव्यो विडोऽयं हेमजारणे ॥१७॥हरितालशिलाक्षारो लवणं शङ्खशुक्तिका ।हंसपाकविपक्वोऽयं विडः स्याद्धेमजारणे ॥१८॥एवं संगृह्य सम्भारान्रसकर्म समाचरेत् ।तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥१९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP