देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलं इत्युक्तं । इदानीं अशास्त्रविहितस्यासुरत्वेनाफलत्वम्, शास्त्रविहितस्य च गुणतस्त्रैविध्यम्, शास्त्रसिद्धस्य लक्षणं चोच्यते । तत्राशास्त्रविहितस्य निष्फलत्वं अजाननशास्त्रविहिते श्रद्धासंयुक्ते यागादौ सत्त्वादिनिमित्तफलभेदबुभुत्सया अर्जुनः पृच्छति
अर्जुन उवाच
ये शास्त्रविधिं उत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वं आहो रजस्तमः ॥भगवद्गीता १७.१॥
शास्त्रविधिं उत्सृज्य श्रद्धयान्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वं ? आहोस्विद्रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयतेऽस्मिन्निति स्थितिः सत्त्वादिरेव निष्ठेत्युच्यते । तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसीत्यर्थः ॥१७.१॥
एवं पृष्टो भगवानशास्त्रविहितश्रद्धायास्तत्पूर्वकस्य च यागादेर्निष्फलत्वं हृदि निधाय शास्त्रीयस्यैव यागादेर्गुणतस्त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायाः त्रैविध्यं तावदाह
श्रीभगवानुवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥भगवद्गीता १७.२॥
सर्वेषां देहिनां श्रद्धा त्रिविधा भवति । सा च स्वभावजा स्वभावः स्वासाधारणो भावः, प्राचीनवासनानिमित्तः तत्तद्रुचिविशेषः । यत्र रुचिः तत्र श्रद्धा जायते । श्रद्धा हि स्वाभिमतं साधयत्येतदिति विश्वासपूर्विका साधने त्वरा । वासना रुचिश्च श्रद्धा चात्मधर्माः गुणसंसर्गजाः; तेषां आत्मधर्माणां वासनादीनां जनकाः देहेन्द्रियान्तःकरणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः । ततश्चेयं श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा । तां इमां श्रद्धां शृणु; सा श्रद्धा यत्स्वभावा, तं स्वभावं शृण्वित्यर्थः ॥१७.२॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥भगवद्गीता १७.३॥
सत्त्वं अन्तःकरणं । सर्वस्य पुरुषस्यान्तःकरणानुरूपा श्रद्धा भवति । अन्तःकरणं यादृशगुणयुक्तम्, तद्विषया श्रद्धा जायत इत्यर्थः । सत्त्वशब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः । श्रद्धामयोऽयं पुरुषः । श्रद्धामयः श्रद्धापरिणामः । यो यच्छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृशश्रद्धापरिणामः । पुण्यकर्मविषये श्रद्धायुक्तश्चेत्, पुण्यकर्मफलसंयुक्तो भवतीति श्रद्धाप्रधानः फलसंयोग इत्युक्तं भवति ॥१७.३॥
तदेव विवृणोति
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥भगवद्गीता १७.४॥
सत्त्वगुणप्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान्यजन्ते । दुःखासंभिन्नोत्कृष्टसुखहेतुभूतदेवयागविषया श्रद्धा सात्त्विकीत्युक्तं भवति । राजसा यक्षरक्षांसि यजन्ते । अन्ये तु तामसा जनाः प्रेतान्भूतगणान्यजन्ते । दुःखसंभिन्नाल्पसुखजननी राजसी श्रद्धा; दुःखप्रायात्यल्पसुखजननी तामसीत्यर्थः ॥१७.४॥
एवं शास्त्रीयेष्वेव यागादिषु श्रद्धायुक्तेषु गुणतः फलविशेषः. अशास्त्रीयेषु तपोयागप्रभृतिषु मदनुशासनविपरीतत्वेन न कश्चिदपि सुखलवः, अपि त्वनर्थ एवेति हृदि निहितं व्यञ्जयनाह
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥भगवद्गीता १७.५॥
कर्शयन्तः शरीरस्थं भूतग्रामं अचेतसः ।
मां चैवान्तश्शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥भगवद्गीता १७.६॥
अशास्त्रविहितं अतिघोरं अपि तपो ये जनाः तप्यन्ते । प्रदर्शनार्थं इदं । अशास्त्रविहितं बह्वायासं यागादिकं ये कुर्वते, दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तः, मदंशभूतं जीवं चान्तश्शरीरस्थं कर्शयन्तो ये तप्यन्ते, यागादिकं च कुर्वते; तानासुरनिश्चयान्विद्धि । असुराणां निश्चय आसुरो निश्चयः; असुरा हि मदाज्ञाविपरीतकारिणः; मदाज्ञाविपरीतकारित्वात्तेषां सुखलवसंबन्धो न विद्यते; अपि त्वननर्थव्राते पतन्तीति पूर्वं एवोक्तम्, "पतन्ति नरकेऽश्चौ" इति ॥१७.५॥६ ॥
अथ प्रकृतं एव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति । तत्राहारमूलत्वात्सत्त्वादिवृद्धेराहारत्रैविध्यं प्रथमं उच्यते । "अन्नमयं हि सोम्य मनः", "आहारशुद्धौ सत्त्वशुद्धिः" इति हि श्रूयते
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदं इमं शृणु ॥भगवद्गीता १७.७॥
आहारोऽपि सर्वस्य प्राणिजातस्य सत्त्वादिगुणत्रयान्वयेन त्रिविधः प्रियो भवति । तथैव यज्ञोऽपि त्रिविधः, तथा तपः दानं च । तेषां भेदं इमं शृणु तेषां आहारयज्ञतपोदानानां सत्त्वादिभेदेनेमं उच्यमानं भेदं शृणु ॥१७.७॥
आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियः ॥भगवद्गीता १७.८॥
सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति । सत्त्वमयाश्चाहारा आयुर्विवर्धनाः; पुनरपि सत्त्वस्य विवर्धनाः । सत्त्वं अन्तःकरणम्; अन्तःकरणकार्यं ज्ञानं इह सत्त्वशब्देनोच्यते । "सत्त्वात्संजायते ज्ञानम्" इति सत्त्वस्य ज्ञानविवृद्धिहेतुत्वात्, आहारोऽपि सत्त्वमयो ज्ञानविवृद्धिहेतुः । तथा बलारोग्ययोरपि विवर्धनाः । सुखप्रीत्योरपि विवर्धनाः परिणामकाले स्वयं एव सुखस्य विवर्धनाः ;तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाः । रस्याः मधुररसोपेताः । स्निग्धाः स्नेहयुक्ताः । स्थिराः स्थिरपरिणामाः । हृद्याः रमणीयवेषाः । एवंविधाः सत्त्वमया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः ॥१७.८॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥भगवद्गीता १७.९॥
कटुरसाः, अम्लरसाः, लवणोत्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश्चेति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास्तीक्ष्णाः; शोषकरा रूक्षाः; तापकरा विदाहिनः । एवंविधा आहारा राजसस्येष्टाः । ते च रजोमयत्वाद्दुःखशोकामयवर्धनाः रजोवर्धनाश्च ॥१७.९॥
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टं अपि चामेध्यं भोजनं तामसप्रियम् ॥भगवद्गीता १७.१०॥
यातयामं चिरकालावस्थितम्; गतरसं त्यक्तस्वाभाविकरसम्; पूति दुर्गन्धोपेतम्, पर्युषितं कालातिपत्त्या रसान्तरापन्नम्; उच्छिष्टं गुर्वादिभ्योऽन्येषां भुक्तशिष्टम्; अमेध्यं अयज्ञार्हम्; अयज्ञशिष्टं इत्यर्थः । एवंविधं तमोमयं भोजनं तामसप्रियं भवति । भुज्यत इति आहार एव भोजनं । पुनश्च तमसो वर्धनं । अतो हितैषिभिः सत्त्वविवृद्धये सात्त्विकाहार एव सेव्यः ॥१७.१०॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यं एवेति मनस्समाधाय स सात्त्विकः ॥भगवद्गीता १७.११॥
फलाकाङ्क्षारहितैः पुरुषैः विधिदृष्टः शास्त्रदृष्टः मन्त्रद्रव्यक्रियादिभिर्युक्तः, यष्टव्यं एवेति भगवदाराधनत्वेन स्वयंप्रयोजनतया यष्टव्यं इति मनस्समाधाय यो यज्ञ इज्यते, स सात्त्विकः ॥१७.११॥
अभिसन्धाय तु फलं दम्भार्थं अपि चैव यः ।
इज्यते भरतश्रेष्थ तं यज्ञं विद्धि राजसम् ॥भगवद्गीता १७.१२॥
फलाभिसन्धियुक्तैर्दम्भगर्भो यशःफलश्च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥१७.१२॥
विधिहीनं असृष्टान्नं मन्त्रहीनं अदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥भगवद्गीता १७.१३॥
विधिहीनं ब्राह्मणोक्तिहीनम्; सदाचारयुक्तैर्विद्वद्भिर्ब्राह्मणैर्यजस्वेत्युक्तिहीनं इत्यर्थः; असृष्टान्नं अचोदितद्रव्यम्, मन्त्रहीनं अदक्षिणं श्रद्धाविरहितं च यज्ञं तामसं परिचक्षते ॥१७.१३॥
अथ तपसो गुणतस्त्रैविध्यं वक्तुं तस्य शरीरवाङ्मनोनिष्पाद्यतया स्वरूपभेदं तावदाह
देवद्विजगुरुप्राज्ञपूजनं शौचं आर्जवम् ।
ब्रह्मचर्यं अहिंसा च शारीरं तप उच्यते ॥भगवद्गीता १७.१४॥
देवद्विजगुरुप्राज्ञानां पूजनम्, शौचं तीर्थस्नानादिकम्, आर्जवं यथामनःशरीरवृत्तम्, ब्रह्मचर्यं योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहितत्वम्, अहिंसा अप्राणिपीडा; एतच्छरीरं तप उच्यते ॥१७.१४॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥भगवद्गीता १७.१५॥
परेषां अनुद्वेगकरं सत्यं प्रियहितं च यद्वाक्यं स्वाध्यायाभ्यसनं चेत्येतद्वाङ्मयं तप उच्यते ॥१७.१५॥
मनःप्रसादः सौम्यत्वं मौनं आत्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसं उच्यते ॥भगवद्गीता १७.१६॥
मनःप्रसादः मनसः क्रोधादिरहितत्वम्, सौम्यत्वं मनसः परेषां अभ्युदयप्रावण्यम्, मौनम् मनसा वाक्प्रवृत्तिनियमनम्, आत्मविनिग्रहः मनोवृत्तेर्ध्येयविषयेऽवस्थापनम्, भावशुद्धिः आत्मव्यतिरिक्तविषयचिन्तारहितत्वम्; एतन्मानसं तपः ॥१७.१६॥
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥भगवद्गीता १७.१७॥
अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः, युक्तैः परमपुरुषाराधनरूपं इदं इति चिन्तायुक्तैः नरैः परया श्रद्धया यत्त्रिविधं तपः कायवाङ्मनोभिस्तप्तम्, तत्सात्त्विकं परिचक्षते ॥१७.१७॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलं अध्रुवम् ॥भगवद्गीता १७.१८॥
मनसा आदरः सत्कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारादिः पूजा । फलाभिसन्धिपूर्वकं सत्काराद्यर्थं च दम्भेन हेतुना यत्तपः क्रियते, तदिह राजसं प्रोक्तम्; स्वर्गादिफलसाधनत्वेनास्थिरत्वाच्चलं अध्रुवं । चलत्वं पातभयेन चलनहेतुत्वम्, अध्रुवत्वं क्षयिष्णुत्वं॥
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसं उदाहृतम् ॥भगवद्गीता १७.१९॥
मूढाः अविवेकिनः, मूढग्राहेण मूढैः कृतेनाभिनिवेशेन आत्मनः शक्त्यादिकं अपरीक्ष्य आत्मपीडया यत्तपः क्रियते, परस्योत्सादनार्थं च यत्क्रियते, तत्तामसं उदाहृतं ॥१७.१९॥
दातव्यं इति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥भगवद्गीता १७.२०॥
फलाभिसन्धिरहितं दातव्यं इति देशे काले पात्रे चानुपकारिणे यद्दानं दीयते, तद्दानं सात्त्विकं स्मृतं ॥१७.२०॥
यत्तु प्रत्युपकारार्थं फलं उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्राजसं उदाहृतम् ॥भगवद्गीता १७.२१॥
प्रत्युपकारकटाक्षगर्भं फलं उद्दिश्य च, परिक्लिष्टं अकल्याणद्रव्यकं यद्दानं दीयते, तद्राजसं उदाहृतं ॥१७.२१॥
अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते ।
असत्कृतं अवज्ञातं तत्तामसं उदाहृतम् ॥भगवद्गीता १७.२२॥
अदेशकाले अपात्रेभ्यश्च यद्दानं दीयते, असत्कृतं पादप्रक्षालनादिगौरवरहितम्, अवज्ञातं सावज्ञं अनुपचारयुक्तं यद्दीयते, तत्तामसं उदाहृतं ।२२ ॥
एवं वैदिकानां यज्ञतपोदानानां सत्त्वादिगुणभेदेन भेद उक्तः; इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणवसंयोगेन तत्सच्छब्दव्यपदेश्य्तया च लक्षणं उच्यते
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥भगवद्गीता १७.२३॥
ओं तत्सदिति त्रिविधोऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणोऽन्वयी भवति । ब्रह्म च वेदः । वेदशब्देन वैदिकं कर्मोच्यते । वैदिकं यज्ञादिकं । यज्ञादिकं कर्म ओं तत्सदिति शब्दान्वितं भवति । ओं इति शब्दस्यान्वयो वैदिककर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया; तत्सदिति शब्दयोरन्वयः पूज्यत्वाय वाचकतया । तेन त्रिविधेन शब्देनान्विता ब्राह्मणाः वेदान्वयिनस्त्रैवर्णिकाः वेदाश्च यज्ञाश्च पुरा विहिताः पुरा मयैव निर्मिता इत्यर्थः॥
त्रयाणां ओं तत्सदिति शब्दानां अन्वयप्रकारो वर्ण्यते; प्रथमं ओं इति शब्दस्यान्वयप्रकारं आह
तस्मादों इत्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥भगवद्गीता १७.२४॥
तस्माद्ब्रह्मवादिनां वेदादिनां त्रैवर्णिकानां यज्ञदानतपःक्रियाः विधानोक्ताः वेदविधानोक्ताः आदौ ओं इत्युदाहृत्य सततं सर्वदा प्रवर्तन्ते । वेदाश्च ओं इत्युदाहृत्यारभ्यन्ते । एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणां ओं इति शब्दान्वयो वर्णितः । ओं इतिशब्दान्वितवेदधारणात्तदन्वितयज्ञादिकर्मकरणाच्च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानां अपि ओं इति शब्दान्वयो वर्णितः ॥१७.२४॥
अथैतेषां तदिति शब्दान्वयप्रकारं आह
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥भगवद्गीता १७.२५॥
फलं अनभिसन्धाय वेदाध्ययनयज्ञतपोदानक्रियाः मोक्षकाङ्क्षिभिस्त्रैवर्णिकैर्याः क्रियन्ते, ताः ब्रह्मप्राप्तिसाधनतया ब्रह्मवाचिना तदिति शब्देन निर्देश्याः; "स वः कः किं यत्तत्पदं अनुत्तमम्" इति तच्छब्दो हि ब्रह्मवाची प्रसिद्धः । एवं वेदाध्ययनयज्ञादीनां मोक्षसाधनभूतानां तच्छब्दनिर्देश्यतया तदिति शब्दान्वय उक्तः । त्रैवर्णिकानां अपि तथाविधवेदाध्ययनाद्यनुष्ठानादेव तच्छब्दान्वय उपपन्नः ॥१७.२५॥
अथैषां सच्छब्दान्वयप्रकारं वक्तुं लोके सच्छब्दस्य व्युत्पत्तिप्रकारं आह
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥भगवद्गीता १७.२६॥
सद्भावे विद्यमानतायाम्, साधुभावे कल्याणभावे च सर्ववस्तुषु सदित्येतत्पदं प्रयुज्यते लोकवेदयोः । तथा केनचित्पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्मेदं इति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः ॥१७.२६॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥भगवद्गीता १७.२७॥
अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सदित्युच्यते । कर्म च तदर्थीयं त्रैवर्णिकार्थीयं यज्ञदानादिकं सदित्येवाभिधीयते । तस्माद्वेदाः वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टास्त्रैवर्णिकाश्च ओं तत्सदिति शब्दान्वयरूपलक्षणेन अवेदेभ्यश्चावैदिकेभ्यश्च व्यावृत्ता वेदितव्याः ॥१७.२७॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥भगवद्गीता १७.२८॥
अश्रद्धया कृतं शास्त्रीयं अपि होमादिकं असदित्युच्यते । कुतः ? न च तत्प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलायेति ॥१७.२८॥