सञ्जय उवाच
तं तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तं इदं वाक्यं उवाच मधुसूदनः ॥भगवद्गीता २.१॥
श्रीभगवानुवाच
कुतस्त्वा कश्मलं इदं विषमे समुपस्थितम् ।
अनार्यजुष्टं अस्वर्ग्यं अकीर्तिकरं अर्जुन ॥भगवद्गीता २.२॥
मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥भगवद्गीता २.३॥
एवं उपविष्टे पार्थे कुतोऽयं अस्थाने समुपस्थितः शोक इत्याक्षिप्य तं इमं विषमस्थं शोकं अविद्वत्सेवितं परलोकविरोधिनं अकीर्तिकरं अतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धायोत्तिष्ठेति श्रीभगवानुवाच॥
अर्जुन उवाच
कथं भीष्मं अहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥भगवद्गीता २.४॥
गुरूनहत्वा हि महानुभावान्श्रेयश्चर्तुं भैक्षं अपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥भगवद्गीता २.५॥
पुनरपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततमं अजानन्निदं उवाच भीष्मद्रोणादिकान्गुरून्बहुमन्तव्यान्कथं अहं हनिष्यामि? कथंतरां भोगेष्वतिमात्रसक्तान्तान्हत्वा तैर्भुज्यमानांस्तानेव भोगान्तद्रुधिरेणोपसिच्य तेष्वासनेषूपविश्य भुञ्जीय? ॥२.४५॥
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥भगवद्गीता २.६॥
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वा धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥भगवद्गीता २.७॥
न हि प्रपश्यामि ममापनुद्याद्यच्छोकं उच्छोषणं इन्द्रियाणाम् ।
अवाप्य भूमावसपत्नं ऋद्धं राज्यं सुराणां अपि चाधिपत्यम् ॥भगवद्गीता २.८॥
एवं युद्धं आरभ्य निवृत्तव्यापारान्भवतो धार्तराष्ट्राः प्रसह्य हन्युरिति चेत्, अस्तु । तद्वधलब्धविजयादधर्म्यादस्माकं धर्माधर्मावजानद्भिः तैर्हननं एव गरीय इति मे प्रतिभातीत्युक्त्वा, यन्मह्यं श्रेय इति निश्चितम्, तच्शरणागताय तव शिष्याय मे ब्रूहीत्यतिमात्रकृपणो भगवत्पादावुपससाद ॥२.६८॥
सञ्जय उवाच
एवं उक्त्वा हृशीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दं उक्त्वा तूष्णीं बभूव ह ॥भगवद्गीता २.९॥
"एवं अस्थाने समुपस्थितस्नेहकारुण्याभ्यां अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परमधर्मं अप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थं उद्दिश्य, आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति" इति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतं । तदुक्तं "अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलं । पार्थं प्रपन्नं उद्दिश्य शास्त्रावतरणं कृतम्" ॥इति ॥२.९॥
तं उवाच हृशीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये सीदमानं इदं वचः ॥भगवद्गीता २.१०॥
एवं देहात्मनोर्याथात्म्याज्ञाननिमित्तशोकाविष्टम्, देहातिरिक्तात्मज्ञाननिमित्तं च धर्मं भाषमाणम्, परस्परविरुद्धगुणान्वितम्, उभयोस्सेनयोर्युद्धायोद्युक्तयोर्मध्ये अकस्मान्निरुद्योगं पार्थं आलोक्य परमपुरुषः प्रहसन्निवेदं उवाच परिहासवाक्यं वदन्निव आत्मपरमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरं "न त्वेवाहं जातु नासम्" इत्यारभ्य "अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" इत्येतदन्तं वचनं उवाचेत्यर्थः ॥२.१०॥
श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥भगवद्गीता २.११॥
अशोच्यान्प्रति अनुशोचसि । "पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः" इत्यादिकान्देहात्मस्वभावप्रज्ञानिमित्तवादांश्च भाषसे । देहात्मस्वभावज्ञानवतां नात्र किंचिच्छोकनिमित्तं अस्ति । गतासून्देहानगतासून्; आत्मनश्च प्रति तत्स्वभावयाथात्म्यविदो न शोचन्ति । अतस्त्वयि विप्रतिषिद्धं इदं उपलभ्यते, यदेतान्हनिष्यामीत्यनुशोचनम्, यच्च देहातिरिक्तात्मज्ञानकृतं धर्माधर्मभाषणं । अतो देहस्वभावं च न जानासि, तदतिरिक्तं आत्मानं च नित्यम्, तत्प्राप्त्युपायभूतं युद्धादिकं धर्मं च । इदं च युद्धं फलाभिसन्धिरहितं आत्मयाथात्म्यावाप्त्युपायभूतं । आत्मा हि न जन्माधीनसद्भावः; न मरणाधीनविनाशश्च, तस्य जन्ममरणयोरभावात् । अतः स न शोकस्थानं । देहस्त्वचेतनः परिणामस्वभावः; तस्योत्पत्तिविनाशयोगः स्वाभाविक इति सोऽपि न शोकस्थानं इत्यभिप्रायः ॥२.११॥
प्रथमं तावदात्मनां स्वभावं शृणु
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयं अतः परम् ॥भगवद्गीता २.१२॥
अहं सर्वेश्वरस्तावत्, अतः वर्तमानात्पूर्वस्मिननादौ काले, न नासम् अपि त्वासं । त्वन्मुखाश्चैते ईशितव्याः क्षेत्रज्ञाः न नासम्; अपि त्वासन् । अहं च यूयं च सर्वे वयम्, अतः परस्मिननन्ते काले, न चैव न भविष्यामः; अपि तु भविष्याम एव । यथाहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः, तथैव भवन्तः क्षेत्रज्ञा आत्मानोऽपि नित्या एवेति मन्तव्याः ॥२.१२॥
एवं भगवतः सर्वेश्वरादत्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवतैवोक्तं इति प्रतीयते; अज्ञानमोहितं प्रति तन्निवृत्तये पार्मार्थिकनित्यत्वोपदेशसमये अहम्, त्वम्, इमे, सर्वे, वयं इति व्यपदेशात् । औपचारिकात्मभेदवादे हि आत्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते । भगवदुक्तात्मभेदः स्वाभाविक इति श्रुतिरप्याह, "नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान्" इति । नित्यानां बहूनां चेतनानां य एको नित्यश्चेतनस्सन्कामान्विदधातीत्यर्थः । अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्तेर्निर्विशेषकूटस्थनित्यचैतन्यात्मयाथात्म्यसाक्षात्कारान्निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराश्च न संगच्छन्ते ।
अथ परमपुरुषस्याधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपं इदं भेदज्ञानं दग्धपटादिवन्न बन्धकं इत्युच्यते नैतदुपपद्यते; मरीचिकाजलज्ञानादिकं हि बाधितं अनुवर्तमानं न जलाहरणादिप्रवृत्तिहेतुः । एवं अत्राप्यद्वैतज्ञानेन बाधितं भेदज्ञानं अनुवर्तमानं अपि मिथ्यार्थविषयत्वनिश्चयान्नोपदेशादिप्रवृत्तिहेतुर्भवति । न चेश्वरस्य पूर्वं अज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्; "यः सर्वज्ञः सर्ववित्", "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च", "वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन" इति श्रुतिस्मृतिविरोधात् । किं च परमपुरुषश्च इदानींतनगुरुपरम्परा च, अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमानेऽपि भेदज्ञाने, स्वनिश्चयानुरूपं अद्वितीयात्मज्ञानं कस्मा उपदिशतीति वक्तव्यं ॥प्रतिबिम्बवत्प्रतीयमानेभ्योऽर्जुनादिभ्य इति चेत्नैतदुपपद्यते; न ह्यनुन्मत्तः कोऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु, तेषां स्वात्मनोऽनन्यत्वं जानन्, तेभ्यः किं अप्युपदिशति । बाधितानुवृत्तिरपि तैर्न शक्यते वक्तुम्; बाधकेनाद्वितीयात्मज्ञानेनात्मव्यतिरिक्तभेदज्ञानकारणस्यानादेर्विनष्टत्वात् । द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादिदोषस्य द्विचन्द्रज्ञानहेतोरविनष्टत्वाद्बाधितानुवृत्तिर्युक्ता; अनुवर्तमानं अपि प्रबलप्रमाणबाधितत्वेनाकिंचित्करं । इह तु भेदज्ञानस्य सविषयस्य सकारणस्यापारमार्थिकत्वेन वस्तुयाथात्म्यज्ञानविनष्टत्वान्न कथञ्चिदपि बाधितानुवृत्तिः संभवति । अतः सर्वेश्वरस्येदानींतनगुरुपरम्परायाश्च तत्त्वज्ञानं अस्ति चेत्, भेददर्शनतत्कार्योपदेशाद्यसंभवः
। नास्ति चेत्, अज्ञानस्य तद्धेतोः स्थितत्वेनाज्ञत्वादेव सुतरां उपदेशो न संभवति॥
किं च गुरोरद्वितीयात्मविज्ञानादेव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वाच्शिष्यं प्रत्युपदेशो निष्प्रयोजनः । गुरुस्तज्ज्ञानं च कल्पितं इति चेत्, शिष्यतज्ज्ञानयोरपि कल्पितत्वात्तदप्यनिवर्तकं । कल्पितत्वेऽपि पूर्वविरोधित्वेन निवर्तकं इति चेत्, तदचार्यज्ञानेऽपि समानं इति तदेव निवर्तकं भवतीत्युपदेशानर्थक्यं एव इति कृतं असमीचीनवादैः ॥२.१२॥
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥भगवद्गीता २.१३॥
एकस्मिन्देहे वर्तमानस्य देहिनः कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मनः स्थिरत्वबुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद्देहान्तरप्राप्तावपि तथैव स्थिर आत्मेति बुद्धिमान्न शोचति । अत आत्मनां नित्यत्वादात्मनो न शोकस्थानं ॥२.१३॥
एतावदत्र कर्तव्यम् आत्मनां नित्यानां एवानादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंसृष्टानां तैरेव देहैर्बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकं अनभिसंहितफलं कर्म कुर्वतां अवर्जनीयतया इन्द्रियैरिन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति, ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति । इमं अर्थं अनन्तरं एवाह
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥भगवद्गीता २.१४॥
शब्दस्पर्शरूपरसगन्धाः साश्रयाः तन्मात्राकार्यत्वान्मात्रा इत्युच्यन्ते । श्रोत्रादिभिस्तेषां स्पर्शाः शीतोष्णमृदुपरुषादिरूपसुखदुःखदाः भवन्ति । शीतोष्णशब्दः प्रदर्शनार्थः । तान्धैर्येण यावद्युद्धादिशास्त्रीयकर्मसमाप्ति तितिक्षस्व । ते चागमापायित्वाद्धैर्यवतां क्षन्तुं योग्याः । अनित्याश्च ते । बन्धहेतुभूतकर्मनाशे सति आगमापायित्वेनापि न वर्तन्ते इत्यर्थः ॥२.१४॥
तत्क्षमा किमर्थेत्यत्राह
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥भगवद्गीता २.१५॥
यं पुरुषं धैर्ययुक्तं अवर्जनीयदुःखं सुखवन्मन्यमानम्, अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गताः शस्त्रपातादिमृदुक्रूरस्पर्शाः न व्यथयन्ति; स एवामृतत्वं साधयति । न त्वादृशो दुःखासहिष्णुरित्यर्थः । आत्मनां नित्यत्वादेतावदत्र कर्तव्यं इत्यर्थः ॥२.१५॥
यत्तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तं उक्तम्, "गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः" इति, तदुपपादयितुं आरभते
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥भगवद्गीता २.१६॥
असतः देहस्य सद्भावो न विद्यते । सतश्चात्मनो नासद्भावः । उभयोः देहात्मनोरुपलभ्यमानयोर्यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्टः निर्णयान्तत्वान्निरूपणस्य निर्णय इह अन्तशब्देनोच्यते । देहस्याचिद्वस्तुनोऽसत्त्वं एव स्वरूपम्; आत्मनश्चेतनस्य सत्त्वं एव स्वरूपं इति निर्णयो दृष्ट इत्यर्थः । विनाशस्वभावो ह्यसत्त्वं । अविनाशस्वभावश्च सत्त्वं । यथा उक्तं भगवता पराशरेण, "तस्मान्न विज्ञानं ऋतेऽस्ति किंचित्क्वचित्कदाचिद्द्विज वस्तुजातम्", "सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यं असत्यं अन्यत्", "अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम्", "यत्तु कालान्तरेणापि नान्यसंज्ञां उपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम्" इति । अत्रापि "अन्तवन्त इमे देहाः", "अविनाशि तु तद्विद्धि" इति ह्युच्यते । तदेव सत्त्वासत्त्वव्यपदेशहेतुरिति गम्यते॥
अत्र तु सत्कार्यवादस्याप्रस्तुतत्वान्न तत्परोऽयं श्लोकः; देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्युभयोर्नाशित्वानाशित्वरूपस्वभावविवेक एव वक्तव्यः । स एव "गतासूनगतासून्" इति च प्रस्तुतः । स एव च, "अविनाशि तु तद्विद्धि", "अन्तवन्त इमे देहाः" इति अनन्तरं उपपाद्यते । अतो यथा उक्त एवार्थः ॥२.१६॥
आत्मनस्त्वविनाशित्वं कथं अवगम्यत इत्यत्राह
* अविनाशि तु तद्विद्धि येन सर्वं इदं ततम् ।
* विनाशं अव्ययस्यास्य न कश्चित्कर्तुं अर्हति ॥भगवद्गीता २.१७॥
तदत्मतत्त्वं अविनाशीति विद्धि, येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तं इदं अचेतनतत्त्वं सर्वं ततं व्याप्तं । व्यापकत्वेन निरतिशयसूक्ष्मत्वादात्मनो विनाशानर्हस्य तद्व्यतिरिक्तो न कश्चित्पदार्थो विनाशं कर्तुं अर्हति, तद्व्याप्यतया तस्मात्स्थूलत्वात् । नाशकं हि शस्त्रजलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति । मुद्रादयोऽपि हि वेगवत्संयोगेन वायुं उत्पाद्य तद्द्वारेण नाशयन्ति । अत आत्मतत्त्वं अविनाशि ॥२.१७॥
देहानां तु विनाशित्वं एव स्वभाव इत्याह
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥भगवद्गीता २.१८॥
"दिह उपचये" इत्युपचयरूपा इमे देहा अन्तवन्तः विनाशस्वभावाः । उपचयात्मका हि घटादयोऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्मफलभोगार्थतया भूतसंघातरूपा देहाः, "पुण्यः पुण्येन" इत्यादिशास्त्रैरुक्ताः कर्मावसानविनाशिनः । आत्मा त्वविनाशी; कुतः ? अप्रमेयत्वात् । न ह्यात्मा प्रमेयतयोपलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते, "एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः" इति । न चानेकोपचयात्मक आत्मोपलभयते, सर्वत्र देहे "अहं इदं जानामि" इति देहस्य चान्यस्य च प्रमातृतयैकरूपेणोपलब्धेः । न च देहादेरिव प्रदेशभेदे प्रमातुराकारभेद उपलभ्यते । अत एकरूपत्वेन अनुपचयात्मकत्वात्प्रमातृत्वाद्व्यापकत्वाच्च आत्मा नित्यः । देहस्तु उपचयात्मकत्वात्, शरीरिणः कर्मफलभोगार्थत्वात्, अनेकरूपत्वात्, व्याप्यत्वाच्च विनाशी । तस्माद्देहस्य विनाशस्वभावत्वादत्मनो नित्यत्वाच्च उभयावपि न शोकस्थानं इति, शस्त्रपातादिपुरुषस्पर्शानवर्जनीयान्स्वगतानन्यगतांश्च घैर्येण सोढ्वा अमृतत्वप्राप्तये अनभिसंहितफलं युद्धाख्यं कर्मारभस्व ॥२.१८॥
य एनं वेत्ति हन्तारं यश्चैनन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥भगवद्गीता २.१९॥
एनम् उक्तस्वभावं आत्मानं प्रति, हन्तारं हननहेतुं कं अपि यो मन्यते; यश्चैनं केनापि हेतुना हतं मन्यते; तावुभौ न विजानीतः, उक्तैर्हेतुभिरस्य नित्यत्वादेव एनं अयं न हन्ति अस्यायं हननहेतुर्न भवति । अत एव चायं आत्मा न हन्यते । हन्तिधातुरप्यात्मकर्मकः शरीरवियोगकरणवाची । "न हिंस्यात्सर्वा भूतानि", "ब्राह्मणो न हन्तव्यः" इत्यादीन्यपि
शास्त्राणि अविहितशरीरवियोगकरणविषयाणि ॥२.१९॥
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥भगवद्गीता २.२०॥
उक्तैरेव हेतुभिर्नित्यत्वेनापरिणामित्वादात्मनो जननमरणादयः सर्व एवाचेतनदेहधर्मा न सन्तीत्युच्यते । तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैरनुभूयमाने जननमरणे कदाचिदप्यात्मानं न स्पृशतः । नायं भूत्वा भविता वा न भूयः अयं कल्पादौ भूत्वा
भूयः कल्पान्ते च न न भविता; केषुचित्प्रजापतिप्रभृतिदेहेष्वागमेनोपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणं आत्मानं न स्पृशतीत्यर्थः । अतः सर्वदेहगत आत्मा अजः, अत एव नित्यः । शाश्वतः प्रकृतिवदविशदसततपरिणामैरपि नान्वीयते, पुराणः पुरापि नवः;
सर्वदा अपूर्ववदनुभाव्य इत्यर्थः । अतः शरीरे हन्यमाने न हन्यतेऽयं आत्मा ॥२.२०॥
वेदाविनाशिनं नित्यं य एनं अजं अव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥भगवद्गीता २.२१॥
एवं अविनाशित्वेनाजत्वेन व्ययानर्हत्वेन च नित्यं एनं आत्मानं यः पुरुषो वेद, स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेष्वात्मसु कं अप्यात्मानं कथं घातयति ? कं वा कथं हन्ति । कथं नाशयति; कथं वा तत्प्रयोजको भवतीत्यर्थः । एतानात्मनो घातयामि हन्मीत्यनुशोचनं आत्मस्वरूपयाथात्म्याज्ञानमूलं एवेत्यभिप्रायः ॥२.२१॥
यद्यपि नित्यानां आत्मनां शरीरविश्लेषमात्रं क्रियते तथापि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तं अस्त्येवेत्यत्राह
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥भगवद्गीता २.२२॥
धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीरादधिकतरकल्याणशरीरग्रहणं शास्त्रादवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णतां इव हर्षनिमित्तं एवात्रोपलभ्यते ॥२.२२॥
पुनरपि "अविनाशि तु तद्विद्धि येन सर्वं इदं ततम्" इति पूर्वोक्तं अविनाशित्वं सुखग्रहणाय व्यञ्जयन्द्रढयति
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥भगवद्गीता २.२३॥
अच्छेद्योऽयं अदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यस्सर्वगतः स्थाणुरचलोऽयं सनातनः ॥भगवद्गीता २.२४॥
शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्वगतत्वादात्मनः सर्वतत्त्वव्यापनस्वभावतया सर्वेभ्यस्तत्त्वेभ्यस्सूक्ष्मत्वादस्य तैर्व्याप्त्यनर्हत्वात्; व्याप्यकर्तव्यत्वाच्च छेदनदहनक्लेदनशोषणानां । अत आत्मा नित्यः स्थाणुरचलोऽयं सनातनः स्थिरस्वभावोऽप्रकम्प्यः पुरातनश्च ॥२.२३॥२४ ॥
अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयं उच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुं अर्हसि ॥भगवद्गीता २.२५॥
छेदनादियोग्यानि वस्तूनि यैः प्रमाणैर्व्यज्यन्ते; तैरयं आत्मा न व्यज्यत इत्यव्यक्तः; अतः छेद्यादिविसजातीयः । अचिन्त्यश्च सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुं अपि नार्हः; अतश्चाविकार्यः विकारानर्हः । तस्मादुक्तलक्षणं एनं आत्मानं विदित्वा तत्कृते नानुशोचितुं अर्हसि ॥२.२५॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो! नैवं शोचितुं अर्हसि ॥भगवद्गीता २.२६॥
अथ नित्यजातं नित्यमृतं देहं एवैनं आत्मानं मनुषे, न देहातिरिक्तं उक्तलक्षणम्; तथापि एवं अतिमात्रं न शोचितुं अर्हसि; परिणामस्वभावस्य देहस्योत्पत्तिविनाशयोरवर्जनीयत्वात् ॥ २.२६॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुं अर्हसि ॥भगवद्गीता २.२७॥
उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते; तथा विनष्टस्यापि जन्म अवर्जनीयं । कथं इदं उपपद्यते विनष्टस्योत्पत्तिरिति; सत एवोत्पत्त्युपलब्धेः, असतश्चानुपलब्धेः । उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । तन्तुप्रभृतीनि हि द्रव्याणि सन्त्येव रचनाविशेषयुक्तानि पटादीन्युच्यन्ते । असत्कार्यवादिनाप्येतावदेवोपलभ्यते । न हि तत्र तन्तुसंस्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते । कारकव्यापारनामान्तरभजनव्यवहारविशेषाणां एतावतैवोपपत्तेः न द्रव्यान्तरकल्पना युक्ता । अतो उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । उत्पत्त्याख्यां अवस्थां उपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिर्विनाश इत्युच्यते । मृद्द्रव्यस्य पिण्डत्वघटत्वकपालत्वचूर्णत्वादिवत्परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया । तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्थाप्राप्तिर्विनाशः । सैव तदवस्थस्य चोत्पत्तिः । एवं उत्पत्तिविनाशाख्यपरिणामपरम्परा परिणामिनो द्रव्यस्यापरिहार्येति न तत्र शोचितुं अर्हसि ॥२.२७॥
सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन योऽल्पीयान्शोकः, सोऽपि मनुष्यादिभूतेषु न संभवतीत्याह
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥भगवद्गीता २.२८॥
मनुष्यादीनि भूतानि सन्त्येव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवनानिमित्तं अस्ति ॥२.२८॥
एवं शरीरात्मवादेऽपि नास्ति शोकनिमित्तं इत्युक्त्वा शरीरातिरिक्ते आश्चर्यस्वरूपे आत्मनि द्रष्टा वक्ता श्रवणायत्तात्मनिश्चयश्च दुर्लभ इत्याह
आश्चर्यवत्पश्यति कश्चिदेनं आश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनं अन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ भगवद्गीता २.२९॥
एवं उक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवदस्थितं अनन्तेषु जन्तुषु महता तपसा क्षीणपापः उपचितपुण्यः कश्चित्पश्यति । तथाविधः कश्चित्परस्मै वदति । एवं कश्चिदेव शृणोति । श्रुत्वाप्येनं यथावदवस्थितं तत्त्वतो न कश्चिद्वेद । चकाराद्द्रष्टृवक्तृश्रोतृष्वपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश्श्रवणं दुर्लभं इत्युक्तं भवति ॥२.२९॥
देही नित्यं अवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुं अर्हसि ॥भगवद्गीता २.३०॥
सर्वस्य देवादिदेहिनो देहे वध्यमानेऽप्ययं देही नित्यं अवध्यो मन्तव्यः । तस्मात्सर्वाणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्यप्युक्तेन स्वभावेन स्वरूपतस्समानानि नित्यानि च । देहगतं तु वैषम्यं अनित्यत्वं च । ततो देवादीनि सर्वाणि भूतान्युद्दिश्य न शोचितुं अर्हसि; न केवलं भीष्मादीन्प्रति ॥२.३०॥
स्वधर्मं अपि चावेक्ष्य न विकम्पितुं अर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥भगवद्गीता २.३१॥
अपि चेदं प्रारब्धं युद्धं प्राणिमारणं अपि अग्नीषोमीयादिवत्स्वधर्मं अवेक्ष्य न विकम्पितुं अर्हसि । धर्म्यान्न्यायतः प्रवृत्ताद्युद्धादन्यन्न हि क्षत्रियस्य श्रेयो विद्यते । "शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनं । दानं ईश्वरभावश्च क्षात्रं कर्म स्वभावजं ॥" इति हि वक्ष्यते । अग्नीषोमीयादिषु च न हिंसा पशोः, निहीनतरच्छागादिदेहपरित्यागपूर्वक
कल्याणतरदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य । "न वा उ एतन्म्रियसे न रिष्यसि देवां इदेषि पथिभिस्सुरेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवस्सविता दधातु" इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतरदेहप्राप्तिरुक्ता, "वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति" इत्यादिना । अतः, चिकित्सकशल्यादिकर्म आतुरस्येव, अस्य रक्षणं एवाग्नीषोमीयादिषु संज्ञपनं ॥२.३१॥
यदृच्छया चोपपन्नं स्वर्गद्वारं अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धं ईदृशम् ॥भगवद्गीता २.३२॥
अयत्नोपनतं इदं निरतिशयसुखोपायभूतं निर्विघ्नं ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ॥२.३२॥
अथ चेत्त्वं इमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिम् च हित्वा पापं अवाप्स्यसि ॥भगवद्गीता २.३३॥
अथ क्षत्रियस्य स्वधर्मभूतं इमम् आरब्धं संग्रामं मोहान्न करिष्यसि चेत्ततः प्रारब्धस्य धर्मस्याकरणात्स्वधर्मफलं निरतिशयसुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयं अवाप्स्यसि ॥२.३३॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिः मरणादतिरिच्यते ॥भगवद्गीता २.३४॥
न ते केवलं निरतिशयसुखकीर्तिहानिमात्रं । "पार्थो युद्धे प्रारब्धे पलायितः" इति अव्ययां सर्वदेशकालव्यापिनीं अकीर्तिं च समर्थानि असमर्थान्यपि सर्वाणि भूतानि कथयिष्यन्ति । ततः किं इति चेत्शैर्यवीर्यपराक्रमादिभिस्सर्वसंभावितस्य तद्विपर्ययजा ह्यकीर्तिः मरणादतिरिच्यते । एवंविधाया अकीर्तेर्मरणं एव तव श्रेय इत्यर्थः ॥२.३४॥
बन्धुस्नेहात्कारुण्याच्च युद्धान्निवृत्तस्य शूरस्य ममाकीर्तिः कथं आगमिष्यतीत्यत्राह
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लौघवम् ॥भगवद्गीता २.३५॥
येषां कर्णदुर्योधनादीनां महारथानां इतः पूर्वं त्वं शूरो वैरीति बहुमतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवम् सुग्रहतां यास्यसि, ते महारथास्त्वां भयाद्युद्धादुपरतं मंस्यन्ते । शूराणां हि वैरिणां शत्रुभयाद्र्ते बन्धुस्नेहादिना युद्धादुपरतिर्नोपपद्यते ॥२.३५॥
किं च,
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥भगवद्गीता २.३६॥
शूराणां अस्माकं सन्निधौ कथं अयं पार्थः क्षणं अपि स्थातुं शक्नुयात्, अस्मत्सन्निधानादन्यत्र ह्यस्य सामर्थ्यं इति तव सामर्थ्यं निन्दन्तः शूराणां अवाच्यवादांश्च बहून्वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः; ततोऽधिकतरं दुःखं किं तव ? एवंविधावाच्यश्रवणान्मरणं एव श्रेय इति त्वं एव मंस्यसे ॥२.३६॥
अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर्हननं उभयं अपि श्रेयसे भवतीत्याह
हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥भगवद्गीता २.३७॥
धर्मयुद्धे परैर्हतश्चेत्, तत एव परमनिःश्रेयसं प्राप्स्यसि; परान्वा हत्वा अकण्टकं राज्यं भोक्ष्यसे; अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात्तच्च परमनिःश्रेयसं प्राप्स्यसि; तस्माद्युद्धायोद्योगः परमपुरुषार्थलक्षणमोक्षसाधनं इति निश्चित्य तदर्थं उत्तिष्ठ । कुन्तीपुत्रस्य तवैतदेव युक्तं इत्यभिप्रायः ॥२.३७॥
मुमुक्षोर्युद्धानुष्ठानप्रकारं आह
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापं अवाप्स्यसि ॥भगवद्गीता २.३८॥
एवं देहातिरिक्तं अस्पृष्टसमस्तदेहस्वभावं नित्यं आत्मानं ज्ञात्वा युद्धे चावर्जनीयशस्त्रपातादिनिमित्तसुखदुःखार्थलाभालाभजयपराजयेष्वविकृतबुद्धिः स्वर्गादिफलाभिसन्धिरहितः केवलकार्यबुद्ध्या युद्धं आरभस्व । एवं कुर्वाणो न पापं अवाप्स्यसि पापं दुःखरूपं संसारं नावाप्स्यसि; संसारबन्धान्मोक्ष्यसे इत्यर्थः ॥२.३८॥
एवं आत्मयाथात्म्यज्ञानं उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुं आरभते
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥भगवद्गीता २.३९॥
सङ्ख्या बुद्धिः; बुद्ध्यावधारणीयं आत्मतत्त्वं साङ्ख्यं । ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिरभिधेया "न त्वेवाहम्" इत्यारभ्य "तस्मात्सर्वाणि भूतानि न त्वं शोचितुं अर्हसि" इत्यन्तेन सैषा तेऽभिहिता । आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, स इह योगशब्देनोच्यते । "दूरेण ह्यवरं कर्म बुद्धियोगात्" इति हि वक्ष्यते । तत्र योगे या बुद्धिर्वक्तव्या, तां इमां अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि । कर्मणा बन्धः कर्मबन्धः; संसारबन्ध इत्यर्थः ॥२.३९॥
वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यं आह
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पं अप्यस्य धर्मस्य त्रायते महतो भयात् ॥ भगवद्गीता २.४०॥
इह कर्मयोगे नाभिक्रमनाशोऽस्ति । अभिक्रमः आरम्भः । नाशः फलसाधनभावनाशः । आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वं ।आरब्धस्य विच्छेदे प्रत्यवायोऽपि न विद्यते । अस्य कर्मयोगाख्यस्य धर्मस्य स्वल्पांशोऽपि महतो भयात्संसारभयात्त्रायते । अयं अर्थः; "पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते" इति उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति; प्रत्यवायाय च भवन्ति ॥२.४०॥
काम्यकर्मविषयाया बुद्धेर्मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥भगवद्गीता २.४१॥
इह शास्त्रीये सर्वस्मिन्कर्मणि व्यवसायात्मिका बुद्धिरेका । मुमुक्षुणानुष्ठेये कर्मणि बुद्धिर्व्यवसायात्मिका बुद्धिः । व्यवसायः निश्चयः । सा हि बुद्धिरात्मयाथात्म्यनिश्चयपूर्विका ।
काम्यकर्मविषया तु बुद्धिरव्यवसायात्मिका । तत्र हि कामाधिकारे देहातिरिक्तात्मास्तित्वज्ञानमात्रं अपेक्षितम्, नात्मस्वरूपयाथात्म्यनिश्चयः । स्वरूपयाथात्म्यानिश्चयेऽपि स्वर्गादिफलार्थित्वतत्साधनानुष्ठानतत्फलानुभवानां संभवात्, अविरोधाच्च । सेयं व्यवसायात्मिका बुद्धिः एकफलसाधनविषयतयैका; एकस्मै मोक्षाख्यफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्त्रार्थस्यैकत्वात्सर्वकर्मविषया बुद्धिरेकैव; यथैकफलसाधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानां एकशास्त्रार्थतया तद्विषया बुद्धिरेका, तद्वदित्यर्थः । अव्यवसायिनां तु स्वर्गपुत्रपश्वन्नादिफलसाधनकर्माधिकृतानां बुद्धयः फलानन्त्यादनन्ताः । तत्रापि बहुशाखाः; एकस्मै फलाय चोदितेऽपि दर्शपूर्णमासादौ कर्मणि, "आयुराशास्ते" इत्याद्यवगतावान्तरफलभेदेन बहुशाखत्वं च विद्यते । अतः अव्यवसायिनां बुद्धयोऽनन्ता बहुशाखाश्च ।
एतदुक्तं भवति नित्येषु नैमित्तिकेषु कर्मसु प्रधानफलानि अवान्तरफलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षैकफलतया सर्वाणि कर्माण्येकशास्त्रार्थतयानुष्ठेयानि; काम्यानि च स्ववर्णाश्रमोचितानि, तत्तत्फलानि परित्यज्य मोक्षसाधनतया नित्यनैमित्तिकैरेकीकृत्य यथाबलं अनुष्ठेयानि इति ॥२.४१॥
अथ काम्यकर्माधिकृतान्निन्दति
यां इमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥भगवद्गीता २.४२॥
कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगाइश्वर्यगतिं प्रति ॥भगवद्गीता २.४३॥
भोगाइश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥भगवद्गीता २.४४॥
यां इमां पुष्पिताम् पुष्पमात्रफलाम्, आपातरमणीयां वाचं अविपश्चितः अल्पज्ञाः भोगाइश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति, वेदवादरताः वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः, नान्यदस्तीति वादिनः तत्सङ्गातिरेकेण स्वर्गादेरधिकं फलं नान्यदस्तीति वदन्तः, कां आत्मानः कां अप्रवणमनसः, स्वर्गपराः स्वर्गपरायणाः, स्वर्गादिफलावसाने पुनर्जन्मकर्माख्यफलप्रदां, क्रियाविशेषबहुलाम् तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुरां । भोगाइश्वर्यगतिं प्रति वर्तमानां यां इमां पुष्पितां वाचं ये प्रवदन्तीति संबन्धः । तेषां भोगाइश्वर्यप्रसक्तानां तया वाचा भोगाइश्वर्यविषयया अपहृतज्ञानानां यथोदितव्यवसायात्मिका बुद्धिः, समाधौ मनसि न विधीयते, नोत्पद्यते, समाधीयतेऽस्मिन्नात्मज्ञानं इति समाधिर्मनः । तेषां मनस्यात्मयाथात्म्यनिश्चयपूर्वकमोक्षसाधनभूतकर्मविषया बुद्धिः कदाचिदपि नोत्पद्यते इत्यर्थः । अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः ॥२.४२॥४३ ॥४४ ॥
एवं अत्यल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्रेभ्योऽपि वत्सलतरतया आत्मोज्जीवने प्रवृत्ता वेदाः किं अर्थं वदन्ति, कथं वा वेदोदितं त्याज्यतयोच्यते इत्यत आह
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥भगवद्गीता २.४५॥
त्रयो गुणास्त्रैगुण्यं सत्त्वरजस्तमांसि । सत्त्वरजस्तमःप्रचुराः पुरुषास्त्रैगुण्यशब्देनोच्यन्ते; तद्विषया वेदाः तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतयैव हितं अवबोधयन्ति वेदाः । यद्येषां स्वगुणानुगुण्येन स्वर्गादिसाधनं एव हितं नावबोधयन्ति, तदैते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनं अजानन्तः कामप्रावण्यविवशा अनुपादेयेषु उपादेयभ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः । अतस्त्रैगुण्यविषया वेदाः, त्वं तु निस्त्रैगुण्यो भव इदानीं सत्त्वप्रचुरस्त्वं तदेव वर्धय; नान्योन्यसङ्कीर्णगुणत्रयप्रचुरो भव; न तत्प्राचुर्यं वर्धयेत्यर्थः । निर्द्वन्द्वः निर्गतसकलसांसारिकस्वभावः; नित्यसत्त्वस्थः गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव । कथं इति चेत्, निर्योगक्षेमः आत्मस्वरूपतत्प्राप्त्युपायबहिर्भूतानां अर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान्भव आत्मस्वरूपान्वेषणपरो भव । अप्राप्तस्य प्राप्तिर्योगः प्राप्तस्य परिक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्तमःप्रचुरता नश्यति, सत्त्वं च वर्धते ॥२.४५॥
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥भगवद्गीता २.४६॥
न च वेदोदितं सर्वं सर्वस्योपादेयम्; यथा सर्वार्थपरिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोर्यावानर्थः यावदेव प्रयोजनम्, तावदेव तेनोपादीयते, न सर्वम्; एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोः यदेव मोक्षसाधनं तदेवो=
पादेयम्; नान्यत् ॥ २.४६॥
अतः सत्त्वस्थस्य मुमुक्षोरेतावदेवोपादेयं इत्याह
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि ॥भगवद्गीता २.४७॥
नित्ये नैमित्तिके काम्ये च केनचित्फलविशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्ते कर्ममात्रेऽधिकारः । तत्संबन्धितयावगतेषु फलेषु न कदाचिदप्यधिकारः । सफलस्य बन्धरूपत्वात्फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच्च । मा च कर्मफलयोर्हेतुभूः । त्वयानुष्ठीयमानेऽपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्तव
अकर्तृत्वं अप्यनुसन्धेयं । फलस्यापि क्षुन्निवृत्त्यादेर्न त्वं हेतुरित्यनुसन्धेयं । तदुभयं गुणेषु वा सर्वेश्वरे मयि वानुसन्धेयं इत्युत्तरत्र वक्ष्यते । एवं अनुसन्धाय कर्म कुरु । अकर्मणि अननुष्ठाने, न योत्स्यामीति यत्त्वयाभिहितम्, न तत्र ते सङ्गोऽस्तु; उक्तेन प्रकारेण युद्धादिकर्मण्येव सङ्गोऽस्त्वित्यर्थः ॥२.४७॥
एतदेव स्फुटीकरोति
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥भगवद्गीता २.४८॥
राज्यबन्धुप्रभृतिषु सङ्गं त्यक्त्वा युद्धादीनि कर्माणि योगस्थः कुरु, तदन्तर्भूतविजयादिसिद्ध्यसिद्ध्योस्समो भूत्वा कुरु । तदिदं सिद्ध्यसिद्ध्योस्समत्वं योगस्थ इत्यत्र योगशब्देनोच्यते । योगः सिद्ध्यसिद्धियोस्समत्वरूपं चित्तसमाधानं ॥२.४८॥
किं अर्थं इदं असकृदुच्यत इत्यत आह
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणं अन्विच्छ कृपणाः फलहेतवः ॥भगवद्गीता २.४९॥
योऽयं प्रधानफलत्यागविषयोऽवान्तरफलसिद्ध्यसिद्ध्योस्समत्वविषयश्च बुद्धियोगः; तद्युक्तात्कर्मण इतरत्कर्म दूरेणावरं । महदिदं द्वयोरुत्कर्षापकर्षरूपं वैरूप्यं । उक्तबुद्धियोगयुक्तं कर्म निखिलसांसारिकदुःखं विनिवर्त्य परमपुरुषार्थलक्षणं च मोक्षं प्रापयति । इतरदपरिमितदुःखरूपं संसारं इति । अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणं अन्विच्छ । शरणम् वासस्थानं । तस्यां एव बुद्धौ वर्तस्वेत्यर्थः । कृपणाः फलहेतवः फलसङ्गादिना कर्म कुर्वाणाः कृपणाः संसारिणो भवेयुः ॥२.४९॥
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥भगवद्गीता २.५०॥
बुद्धियोगयुक्तस्तु कर्म कुर्वाणः उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धहेतुभूते जहाति । तस्मादुक्ताय बुद्धियोगाय युज्यस्व । योगः कर्मसु कौशलम् कर्मसु क्रियमाणेष्वयं बुद्धियोगः कौशलम् अतिसामर्थ्यं । अतिसामर्थ्यसाध्य इत्यर्थः ॥२.५०॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥भगवद्गीता २.५१॥
बुद्धियोगयुक्ताः कर्मजं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्माज्जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति हि प्रसिद्धं ह्येतत्सर्वासूपनिषत्स्वित्यर्थः ॥२.५१॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥भगवद्गीता २.५२॥
उक्तप्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूतकल्मषस्य ते बुद्धिर्यदा मोहकलिलं अत्यल्पफलसङ्गहेतुभूतं मोहरूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फलादेः इतः पश्चाच्छ्रोतव्यस्य च कृते स्वयं एव निर्वेदं गन्तासि गमिष्यसि ॥२.५२॥
"योगे त्विमां शृणु" इत्यादिनोक्तस्यात्मयाथात्म्यज्ञानपूर्वकस्य बुद्धिविशेषसंस्कृतस्य धर्मानुष्ठानस्य लक्षभूतं योगाख्यं फलं आह
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगं अवाप्स्यसि ॥भगवद्गीता २.५३॥
श्रुतिः श्रवणं । अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकलेतरविसजातीयनित्यनिरतिशयसूक्ष्मतत्त्वात्मविषया, स्वयं अचला एकरूपा बुद्धिः असङ्गकर्मानुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगं आत्मावलोकनं अवाप्स्यसि । एतदुक्तं भवति शास्त्रजन्यात्मज्ञानपूर्वककर्मयोगः स्थितप्रज्ञताख्यज्ञाननिष्ठां आपादयति; ज्ञाननिष्ठारूपा
स्थितप्रज्ञता तु योगाख्यं आत्मावलोकनं साधयति इति ॥२.५३॥
एतदुक्तः पार्थोऽसङ्गकर्मानुष्ठानरूपकर्मयोगसाध्यस्थितप्रज्ञताया योगसाधनभूतायाः स्वरूपम्, स्थितप्रज्ञस्यानुष्ठानप्रकारं च पृच्छति
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषते किं आसीत व्रजेत किम् ॥भगवद्गीता २.५४॥
समाधिस्थस्य स्थितप्रज्ञस्य का भाषा को वाचकश्शब्दः ? तस्य स्वरूपं कीदृशं इत्यर्थः । स्थितप्रज्ञः किं च भाषादिकं करोति ? ॥२.५४॥
वृत्तिविशेषकथनेन स्वरूपं अप्युक्तं भवतीति वृत्तिविशेष उच्यते
श्रीभगवानुवाच
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥भगवद्गीता २.५५॥
आत्मन्येवात्मना मनसा आत्मैकावलम्बनेन तुष्टः तेन तोषेण तद्व्यतिरिक्तान्सर्वान्मनोगतान्कामान्यदा प्रकर्षेण जहाति, तदायं स्थितप्रज्ञ इत्युच्यते । ज्ञाननिष्ठाकाष्ठेयं ॥२.५५॥
अनन्तरं ज्ञाननिष्ठस्य ततोऽर्वाचीनादूरविप्रकृष्टावस्थोच्यते
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥भगवद्गीता २.५६॥
प्रियविश्लेषादिदुःखनिमित्तेषु उपस्थितेषु अनुद्विग्नमनाः न दुःखी भवति; सुखेषु विगतस्पृहः प्रियेषु सन्निहितेष्वपि विगतस्पृहः, वीतरागभयक्रोधः अनागतेषु स्पृहा रागः, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुदर्शननिमित्तं दुःखं भयम्, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगतदुःखहेतुभूतस्वमनोविकारः क्रोधः, तद्रहितः; एवंभूतः मुनिः आत्ममननशीलः स्थितधीरित्युच्यते ॥२.५६॥
ततोऽर्वाचीनदशा प्रोच्यते
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥भगवद्गीता २.५७॥
यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः; प्रियसंश्लेषविश्लेषरूपं शुभाशुभं प्राप्याभिनन्दनद्वेषरहितः, सोऽपि स्थितप्रज्ञः ॥२.५७॥
ततोऽर्वाचीनदशां आह
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥भगवद्गीता २.५८॥
यदेन्द्रियाणीन्द्रियार्थान्स्पृष्टुं उद्युक्तानि, तदैव कूर्मोऽङ्गानीव, इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्यवस्थापयति, सोऽपि स्थितप्रज्ञः । एवं चतुर्विधा ज्ञाननिष्ठा । पूर्वपूर्वा उत्तरोत्त्रनिष्पाद्या ॥२.५८॥
इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं चाह
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥भगवद्गीता २.५९॥
इन्द्रियाणां आहारा विषयाः; निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषया विनिवर्तमाना रसवर्जं विनिवर्तन्ते; रसः रागः । विषयरागो न निवर्तत इत्यर्थः । रागोऽप्यात्मस्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते ॥२.५९॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥भगवद्गीता २.६०॥
आत्मदर्शनेन विना विषयरागो न निवर्तते, अनिवृत्ते विषयरागे विपश्चितो यतमानस्यापि पुरुषस्येन्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति ।
एवं इन्द्रियजयः आत्मदर्शनाधीनः, आत्मदर्शनं इन्द्रियजयाधीनं इति ज्ञाननिष्ठा दुष्प्रापा ॥२.६०॥
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥भगवद्गीता २.६१॥
अस्य सर्वस्य परिजिहीर्षया विषयानुरागयुक्ततया दुर्जयानीन्द्रियाणि संयम्य, चेतसश्शुभाश्रयभूते मयि मनोऽवस्थाप्य समाहित आसीत । मनसि मद्विषये सति निर्दग्धाशेषकल्मषतया निर्मलीकृतं विषयानुरागरहितं मन इन्द्रियाणि स्ववशानि करोति । ततो वश्येन्द्रियं मन आत्मदर्शनाय प्रभवति । यथोक्तम्, "यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषं ॥२." इति । तदाह "वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता"+इति ॥२.६१॥
एवं मय्यनिवेश्य मनः स्वयत्नगौरवेणेन्द्रियजये प्रवृत्तो विनष्टो भवतीत्याह
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥भगवद्गीता २.६२॥
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥भगवद्गीता २.६३॥
अनिरस्तविषयानुरागस्य हि मय्यनिवेशितमनस इन्द्रियाणि संयम्यावस्थितस्यापि अनादिपापवासनया विषयध्यानं अवर्जनीयं स्यात् । ध्यायतो विषयान्पुंसः पुनरपि सङ्गोऽतिप्रवृद्धो जायते । सङ्गात्संजाते कामः । कामो नाम सङ्गस्य विपाकदशा । पुरुषो यां दशां आपन्नो विषयानभुक्त्वा स्थातुं न शक्नोति, स कामः ॥कामात्क्रोधोऽभिजायते । कामे वर्तमाने, विषये चासन्निहिते, सन्निहितान्पुरुषान्प्रति, एभिरस्मदिष्टं विहितं इति क्रोधो भवति । क्रोधाद्भवति संमोहः । संमोहः कृत्याकृत्यविवेकशून्यता । तया सर्वं करोति । ततश्च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति । स्मृतिभ्रंशाद्बुद्धिनाशः आत्मज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् । बुद्धिनाशात्पुनरपि संसारे निमग्नो विनष्टो भवति ॥२.६२॥६३ ॥
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादं अधिगच्छति ॥भगवद्गीता २.६४॥
उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसश्शुभाश्रयभूते न्यस्तमनाः निर्दग्धाशेषकल्मषतया रागद्वेषवियुक्तैरात्मवश्यैरिन्द्रियैः विषयांश्चरन्विषयांस्तिरस्कृत्य वर्तमानः विधेयात्मा विधेयमनाः प्रसादं अधिगच्छति निर्मलान्तःकरणो भवतीत्यर्थः ॥२.६४॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥भगवद्गीता २.६५॥
अस्य पुरुषस्य मनःप्रसादे सति प्रकृतिसंसर्गप्रयुक्तसर्वदुःखानां हानिरुपजायते । प्रसन्नचेतसः आत्मावलोकनविरोधिदोषरहितमनसः तदानीं एव हि विविक्तात्मविषया बुद्धिः पर्यवतिष्ठते । अतो मनःप्रसादे सर्वदुःखानां हानिर्भवत्येव ।६५ ॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥भगवद्गीता २.६६॥
मयि सन्न्यस्तमनोरहितस्य स्वयत्नेनेन्द्रियनियमने प्रवृत्तस्य कदाचिदपि विविक्तात्मविषया बुद्धिर्न सेत्स्यति । अत एव तस्य तद्भावना च न संभवति । विविक्तात्मानं अभावयतो विषयस्पृहाशान्तिर्न भवति । अशान्तस्य विषयस्पृहायुक्तस्य कुतो नित्यनिरतिशयसुखप्राप्तिः ॥२.६६॥
पुनरप्युक्तेन प्रकारेणेन्द्रियनियमनं अकुर्वतोऽनर्थं आह
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावं इवाम्भसि ॥भगवद्गीता २.६७॥
इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनं अनु यन्मनो विधीयते पुरुषेणानुवर्त्यते, तन्मनोऽस्य विविक्तात्मप्रवणां प्रज्ञां हरति विषयप्रवणां करोतीत्यर्थः; यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः प्रसह्य हरति ॥२.६७॥
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥भगवद्गीता २.६८॥
तस्मादुक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्येन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि, तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति ॥२.६८॥
एवं नियतेन्द्रियस्य प्रसन्नमनसः सिद्धिं आह
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥भगवद्गीता २.६९॥
या आत्मविषया बुद्धिः सर्वभूतानां निशा निशेवाप्रकाशा, तस्यां आत्मविषयायां बुद्धौ इन्द्रियसंयमी प्रसन्नमनाः जागर्ति आत्मानं अवलोकयनास्त इत्यर्थः । यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,; सा शब्दादिविषया बुद्धिरात्मानं पश्यतो मुनेर्निशेवाप्रकाशा भवति ॥२.६९॥
आपूर्यमाणं अचलप्रतिष्ठं समुद्रं आपः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिं आप्नोति न कामकामी ॥भगवद्गीता २.७०॥
यथा स्वेनैवापूर्यमाणं एकरूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसां अपां प्रवेशेऽप्यप्रवेशे च समुद्रो न कञ्चन विशेषं आपद्यते एवं सर्वे कामाः शब्दादयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रियगोचरतां यान्ति, स शान्तिं आप्नोति । शब्दादिष्विन्द्रियगोचरतां आपन्नेष्वनापन्नेषु च स्वात्मावलोकनतृप्त्यैव यो न विकारं आप्नोति, स एव शान्तिं आप्नोतीत्यर्थः । न कामकामी । यः शब्दादिभिर्विक्रियते, स कदाचिदपि न शान्तिं आप्नोति ॥२.७०॥
विहाय कामान्यः सर्वान्पुमांश्चरति निस्स्पृहः ।
निर्ममो निरहङ्कारः स शान्तिं अधिगच्छति ॥भगवद्गीता २.७१॥
काम्यन्त इति कामाः शब्दादयः । यः पुमान्शब्दादीन्सर्वान्विषयान्विहाय
तत्र निस्स्पृहः तत्र ममतारहितश्च, अनात्मनि देहे आत्माभिमानरहितश्चरति; स आत्मानं दृष्ट्वा शान्तिं अधिगच्छति ॥२.७१॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यां अन्तकालेऽपि ब्रह्मनिर्वाणं ऋच्छति ॥भगवद्गीता २.७२॥
एषा नित्यात्मज्ञानपूर्विका असङ्गकर्मणि स्थितिः स्थितधीलक्षा ब्राह्मी ब्रह्मप्रापिका । ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं नाप्नोति, अस्याः स्थित्यां अन्तिमेऽपि वयसि स्थित्वा ब्रह्मनिर्वाणं ऋच्छति निर्वाणमयं ब्रह्म गच्छति; सुखैकतानं आत्मानं अवाप्नोतीत्यर्थः॥
एवं आत्मयाथात्म्यं युद्धाख्यस्य च कर्मणस्तत्प्राप्तिसाधनतां अजानतः शरीरात्मज्ञानेन मोहितस्य, तेन च मोहेन युद्धान्निवृत्तस्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धिः, तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीये अध्याये प्रोक्ता; तदुक्तम्, "नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये" इति ॥२.७२॥