भक्तियोगः सपरिकर उक्तः । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुशाइश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते
श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥भगवद्गीता १.१०१॥
मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्चविषयं एव परमं वचो यद्वक्ष्यामि; तदवहितमनाश्शृणु ॥१.१०१॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहं आदिर्हि देवानां महर्षीणां च सर्वशः ॥भगवद्गीता १.१०२॥
सुरगणा महर्षयश्चातीन्द्रियार्थदर्शिनोऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति; यतस्तेषां देवानां महर्षीणां च सर्वशोऽहं आदिः तेषां स्वरूपस्य ज्ञानशक्त्यादेश्चाहं आदिः; तेषां देवत्वमहर्षित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्; अतस्ते परिमितज्ञाना मत्स्वरूपादिकं यथावन्न जानन्ति ॥१.१०२॥
तदेतद्देवाद्यचिन्त्यस्वयाथात्म्यविषयज्ञानं भक्त्युत्पत्तिविरोधिपापविमोचनोपायं आह
यो मां अजं अनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढस्स मर्त्येषु सर्वपापैः प्रमुच्यते ॥भगवद्गीता १.१०३॥
न जायत इत्यजः, अनेन विकारिद्रव्यादचेतनात्तत्संसृष्टात्संसारिचेतनाच्च विसजातीयत्वं उक्तं । संसारिचेतनस्य हि कर्मकृताचित्संसर्गो जन्म । अनादिं इत्यनेन पदेन आदिमतोऽजान्मुक्तात्मनो विसजातीयत्वं उक्तं । मुक्तात्मनो ह्यजत्वं आदिमत्; तस्य हेयसंबन्धस्य पूर्ववृत्तत्वात्तदर्हतास्ति । अतोऽनादिं इत्यनेन तदनर्हतया तत्प्रत्यनीकतोच्यते; "निरवद्यम्" इत्यादिश्रुत्या च । एवं हेयसंबन्धप्रत्यनीकस्वरूपतया तदनर्हं मां लोकमहेश्वरं लोकेश्वराणां अपीश्वरं मर्त्येष्वसंमूढो यो वेत्ति; इतरसजातीयतयैकीकृत्य मोहः संमोहः, तद्रहितोऽसंमूढः स मद्भक्त्युत्पत्तिविरोधिभिस्सर्वैः पापैः प्रमुच्यते । एतदुक्तं भवति लोके मनुष्याणां राजा इतरमनुष्यसजातीयः केनचित्कर्मणा तदाधिपत्यं प्राप्तः; तथा देवानां अधिपतिरपि; तथाण्डाधिपतिरपीतरसंसारिसजातीयः; तस्यापि भावनात्रयान्तर्गतत्वात् । "यो ब्रह्माणं विदधाति" इति श्रुतेश्च । तथान्येऽपि ये केचनाणिमाद्यैश्वर्यं प्राप्ताः । अयं तु लोकमहेश्वरः कार्यकारणावस्थादचेतनाद्बद्धान्मुक्ताच्च चेतनादिशितव्यात्सर्वस्मान्निखिलहेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणैकतानतया नियमनैकस्वभावतया च विसजातीय इतीत्रसजातीयतामोहरहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति ॥१.१०३॥
एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनम्, विरोधिनिरसना देवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्य स्वाइश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिविवृद्धिप्रकारं आह
बुद्धिर्ज्ञानं असंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयं एव च ॥भगवद्गीता १.१०४॥
अहिंसा समता तुष्ठिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥भगवद्गीता १.१०५॥
बुद्धिः मनसो निरूपणसामर्थ्यम्, ज्ञानं चिदचिद्वस्तुविशेषविषयो निश्चयः, असंमोहः पूर्वगृहीताद्रजतादेर्विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः; क्षमा मनोविकारहेतौ सत्यप्यविकृतमनस्त्वम्; सत्यं यथादृष्टविषयं भूतहितरूपं वचनं । तदनुगुणा मनोवृत्तिरिहाभिप्रेता, मनोवृत्तिप्रकरणात् । दमः बाह्यकरणानां अनर्थविषयेभ्यो नियमनम्; शमः अन्तःकरणस्य तथा नियमनम्; सुखं आत्मानुकूलानुभवः; दुःखं प्रतिकूलानुभवः; भवः भवनम्; अनुकूलानुभवहेतुकं मनसो भवनम्; अभावः प्रतिकूलानुभवहेतुको मनसोऽवसादः; भयं आगामिनो दुःखस्य हेतुदर्शनजं दुःखम्; तन्निवृत्तिः अभयम्; अहिंसा परदुःखाहेतुत्वम्; समता आत्मनि सुकृत्सु विपक्षेषु चार्थानर्थयोस्सममतित्वम्; तुष्टिः सर्वेष्वात्मसु दृष्टेषु तोषस्वभावत्वम्; तपः शास्त्रीयो भोगसङ्कोचरूपः कायक्लेशः; दानं स्वकीयभोग्यानं परस्मै प्रतिपादनम्; यशः गुणवत्ताप्रथा; अयशः नैर्गुण्यप्रथा । एतच्चोभयं तदनुगुणमनोवृत्तिद्वयं मन्तव्यम्, तत्प्रकरणात् । तपोदाने च तथा । एवं आद्याः सर्वेषां भूतानां भावाः प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्सङ्कल्पायत्ता भवन्ति ॥१.१०४,५॥
सर्वस्य भूतजातस्य सृष्टिस्थित्योः प्रवर्तयितारश्च मत्संकल्पायत्तप्रवृत्तय इत्याह
महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥भगवद्गीता १.१०६॥
पूर्वे सप्त महर्षयः अतीतमन्वन्तरे ये भृग्वादयस्सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनस्संभवाः, नित्यस्थितिप्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तानमये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणं आप्रलयादपत्यानां उत्पादकाः पालकाश्च भवन्ति ते भृग्वादयो मनवश्च मद्भावाः मम यो भावः स एव येषां भावः ते मद्भावाः, मन्मते स्थिताः, मत्सङ्कल्पा१नुवर्तिन इत्यर्थः ॥१.१०६॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥भगवद्गीता १.१०७॥
विभूतिः ऐश्वर्यं । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिम्, मम हेयप्रत्यनीककल्याणगुणगणरूपं योगं च यस्तत्त्वतो वेत्ति, सोऽविकम्पेन अप्रकम्प्येन भक्तियोगेन युज्यते । नात्र संशयः । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनं इति स्वयं एव द्रक्ष्यसीत्यभिप्रायः ॥१.१०७॥
विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति
अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥भगवद्गीता १.१०८॥
अहं, सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभवः उत्पत्तिकारणम्, सर्वं मत्त एव प्रवर्तते इतीदं मम स्वाभाविकं निरंकुशाइश्वर्यं, सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिनः भावसमन्विताः मां सर्वकल्याणगुणान्वितं भजन्ते । भावः मनोवृत्तिविशेषः । मयि स्पृहयालवो मां भजन्त इत्यर्थः ॥१.१०८॥
कथम्?
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥भगवद्गीता १.१०९॥
मच्चित्ताः मयि निविष्टमनसः, मद्गतप्राणाः मद्गतजीविताः, मया विनात्मधारणं अलभमाना इत्यर्थः; स्वैः स्वैरनुभूतान्मदीयान्गुणान्परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति; श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते ॥१.१०९॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मां उपयान्ति ते ॥भगवद्गीता १.१०१०॥
तेषां सततयुक्तानां मयि सततयोगं आशंसमानानां मां भजमानानां अहं तं एव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि; येन ते मां उपयान्ति ॥१.१०१० ॥
किञ् च,
तेषां एवानुकम्पार्थं अहं अज्ञानजं तमः ।
नश्याम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥भगवद्गीता १.१०११॥
तेषां एवानुग्रहार्थं अहम्, आत्मभावस्थः तेषां मनोवृत्तौ विषयतयावस्थितः मदीयान्कल्याणगुणगणांश्चाविष्कुर्वन्मद्विषयज्ञानाख्येन भास्वता दीपेन ज्ञानविरोधिप्राचीनकर्मरूपाज्ञानजं मद्व्यतिरिक्तपूर्वाभ्यस्तविषयप्रावण्यरूपं तमो नाशयामि ॥१.१०११॥
अर्जुन उवाच
एवं सकलेतरविसजातीयं भगवदसाधारणं शृण्वतां निरतिशयानन्दजनकं कल्याणगुणगणयोगं तदैश्वर्यविततिं च श्रुत्वा तद्विस्तारं श्रोतुकामोऽर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
परं ब्रह्म परं धाम परमं पवित्रं इति यं श्रुतयो वदन्ति, स हि भवान् । "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्मेति", "ब्रह्मविदाप्नोति परम्", "स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" इति । तथा परं धाम; धामशब्दो ज्योतिर्वचनः; परं ज्योतिः "अथ यदतः परो दिवो ज्योतिर्दीप्यते", "परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते", "तं देवा ज्योतिषां ज्योतिः" इति । तथा च परमं पवित्रं परमं पावनम्; स्मर्तुरशेषकल्मषाश्लेषकरम्, विनाशकरं च । "यथा पुष्करपलाश आपो न श्लिष्यन्ते एवं एवंविदि पापं कर्म न श्लिष्यते", "तद्यथेषीकातूलं अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते", "नारायण परं ब्रह्म तत्त्वं नगरायणः परः । नारायण परो ज्योतिरात्मा नारायणः परः" इति हि श्रुतयो वदन्ति ॥भगवद्गीता १.१०१२अब् ॥
पुरुषं शाश्वतं दिव्यं आदिदेवं अजं विभुं ॥१.१०१२॥
आहुस्त्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥भगवद्गीता १.१०१३॥
ऋषयश्च सर्वे परावरतत्त्वयाथात्म्यविदस्त्वां एव शाश्वतं दिव्यं पुरुषं आदिदेवं अजं विभुं आहुः; तथैव देवर्षिर्नारदः असितः देवलः व्यासश्च । "ये च देवविदो विप्रो ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनं ॥पविताणां हि गोविन्दः पवित्रं परं उच्यते । पुण्यानां अपि पुण्योऽसौ मङ्गलानां च मङ्गलं । त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः । आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥१.", "एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः । नागपर्यङ्कं उत्सृज्य ह्यागतो मधुरां पुरीं ॥१.", "पुण्या द्वारवती तत्र यत्रास्ते मधुसूदहः । साक्षाद्देवः पुराणोऽसौ स हि धर्मस्सनातनः" । तथा, "यत्र नारायणो देवः परमात्मा सनातनः । तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनं । तत्र देवर्षयस्सिद्धाः सर्वे चैव तपोधनाः ॥आदिदेवो महायोगी यत्रास्ते मधुसूदनः । पुण्यानां अपि तत्पुण्यं मा भूत्ते संशयोऽत्र वै ॥१.", "कृष्ण एव हि लोकानां उत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतं इदं विश्वं चराचरं ॥१." इति । तथा स्वयं एव ब्रवीषि च, "भूमिरपोऽनलो वायुः खं मनो बुधिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥१." इत्यादिना, "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इत्यन्तेन ॥१०१२,१३ ॥
सर्वं एतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥भगवद्गीता १.१०१४॥
अतः सर्वं एतद्यथावस्थितवस्तुकथनं मन्ये, न प्रशंसाद्यभिप्रायम्; यन्मां प्रति अनन्यसाधारणं अनवधिकातिशयं स्वाभाविकं तवाइश्वर्यं कल्याणगुणानन्त्यं च वदसि । अतो भगवन्निरतिशयज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधे, ते व्यक्तिं व्यञ्जनप्रकारं न हि परिमितज्ञाना देवा दानवाश्च विदुः ॥१.१०१४॥
स्वयं एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥भगवद्गीता १.१०१५॥
हे पुरुषोत्तम, आत्मना, आत्मानं त्वां स्वयं एव स्वेन ज्ञानेनैव वेत्थ । भूतभावन; सर्वेषां भूतानां उत्पादयितः, भूतेश सर्वेषां नियन्तः, देवदेव दैवतानां अपि परमदैवत, यथा मनुष्यमृगपक्षिसरीसृपादीन्सौन्दर्यसौशील्यादिकल्याणगुणगणैर्दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्यपि तैस्तैर्गुणैसतीत्य वर्तमान, जगत्पते जगत्स्वामिन् ॥ १.१०१५॥
वक्तुं अर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥भगवद्गीता १.१०१६॥
दिव्याः त्वदसाधारण्यो विभूतयो याः, तास्त्वं एवाशेषेण वक्तुं अर्हसि । त्वं एव व्यञ्जयेत्यर्थः । याभिरनन्ताभिर्विभूतिभिः यैर्नियमनविशेषैर्युक्तः इमान्लोकान्त्वं नियन्तृत्वेन व्याप्य तिष्ठसि ॥१.१०१६॥
कथं विद्यां अहं योगी त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥भगवद्गीता १.१०१७॥
अहं योगी भक्तियोगनिष्ठस्सन्भक्त्या त्वां सदा परिचिन्तयन्चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्णाइश्वर्यादिकल्याणगुणगणं कथं विद्याम्? पूर्वोक्तबुद्धिज्ञानादिभावव्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि? ॥१.१०१७॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥भगवद्गीता १.१०१८॥
"अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इति संक्षेपेणोक्तं तव स्रष्टृत्वादियोगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वयोच्यमानं त्वन्माहात्म्यामृतं शृण्वतो मे तृप्तिर्नास्ति; हि ममातृप्तिस्त्वयैव विदितेत्यभिप्रायः ॥१.१०१८॥
श्रीभगवानुवाच
हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥भगवद्गीता १.१०१९॥
हे कुरुश्रेष्ठ! मदीयाः कल्याणीर्विभूतीः प्राधान्यतस्ते कथयिष्यामि । प्राधन्यशब्देन उत्कर्षो विवक्षितः; "पुरोधसां च मुख्यं माम्" इति हि वक्ष्यते । जगत्युत्कृष्टाः काश्चन विभूतीर्वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासां आनन्त्यात् । विभूतित्वं नाम नियाम्यत्वम्; सर्वेषां भूतानां बुद्ध्यादयः पृथग्विधा भावा मत्त एव भवन्तीत्युक्त्वा, "एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः" इति प्रतिपादनात् । तथा तत्र योगशब्दनिर्दिष्टं स्रष्टृत्वादिकं विभुतिशब्दनिर्दिष्टं तत्प्रवर्त्यत्वं इति ह्युक्तं पुनश्च, "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः" इति ॥१.१०१९॥
तत्र सर्वभूतानां प्रवर्तनरूपं नियमनं आत्मतयावस्थायेतीमं अर्थम्, योगशब्दनिर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टं आह
अहं आत्मा गुडाकेश सर्वभूताशयस्थितः ।
अहं आदिश्च मध्यं च भूतानां अन्त एव च ॥भगवद्गीता १.१०२०॥
सर्वेषां भूतानां मम शरीरभूतानां आशये हृदये अहं आत्मतयावस्थितः । आत्मा हि नाम शरीरस्य सर्वात्मना आधारः, नियन्ता, शेषी च । तथा वक्ष्यते, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानं अपोहनं च", "ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१." इति । श्रूयते च, "यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस्सर्वाणि भूतान्यन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः" इति, "य आत्मनि तिष्ठनात्मनोऽन्तरो यं आत्मा न वेद यस्यात्मा शरीरं य आत्मानं अन्तरो यमयति, स त आत्मान्तर्याम्यमृतः" इति च । एवं सर्वभूतानां आत्मतयावस्थितोऽहं तेषां आदिर्मध्यं चान्तश्च तेषां उत्पत्तिस्थितिप्रलयहेतुरित्यर्थः ॥१.१०२०॥
एवं भगवतः स्वविभूतिभूतेषु सर्वेष्वात्मतयावस्थानं तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुं प्रतिपाद्य विभूतिविशेषान्सामानाधिकरण्येन व्यपदिशति । भगवत्यात्मतयावस्थिते हि सर्वे शब्दास्तस्मिन्नेव पर्यवस्यन्ति; यथा देवो मनुष्यः पक्षी वृक्षः इत्यादयः शब्दाः शरीराणि प्रतिपादयन्तस्तत्तदात्मनि पर्यवस्यन्ति । भगवतस्तत्तदात्मतयावस्थानं एव तत्तच्छब्दसामानाधिकरण्यनिबन्धनं इति विभूत्युपसंहारे वक्ष्यति; "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" इति सर्वेषां स्वेनाविनाभाववचनात् । अविनाभावश्च नियाम्यतयेति; "मत्तस्सर्वं प्रवर्तते" इत्युपक्रमोदितं ।
आदित्यानां अहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतां अस्मि नक्षत्राणां अहं शशी ॥भगवद्गीता १.१०२१॥
द्वादशसंख्यासंख्यातानां आदित्यानां द्वादशो य उत्कृष्टो विष्णुर्नामादित्यः, सोऽहं । ज्योतिषां जगति प्रकाशकानां यः अंशुमान्रविः आदित्यगणः, सोऽहं । मरुतां उत्कृष्टो मरीचिर्यः, सोऽहं अस्मि । नक्षत्राणां अहं शशी । नेयं निर्धारणे षष्ठी, "भूतानां अस्मि चेतना" इतिवत् । नक्षत्राणां पतिर्यश्चन्द्रः, सोऽहं अस्मि ॥१.१०२१॥
वेदानां सामवेदोऽस्मि देवानां अस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानां अस्मि चेतना ॥भगवद्गीता १.१०२२॥
वेदानां ऋग्यजुस्सामाथर्वणां य उत्कृष्टः सामवेदः, सोऽहं । देवानां इन्द्रोऽहं अस्मि । एकादशानां इन्द्रियाणां यदुत्कृष्टं मन इन्द्रियम्, तदहं अस्मि । इयं अपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सोऽहं अस्मि ॥१.१०२२॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणां अहम् ॥भगवद्गीता १.१०२३॥
रुद्राणां एकादशानां शङ्करोऽहं अस्मि । यक्षरक्षसां वैश्रवणोऽहं । वसूनां अष्टानां पावकोऽहं । शिखरिणां शिखरशोभिनां पर्वतानां मध्ये मेरुरहं ॥१.१०२३॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनां अहं स्कन्दः सरसां अस्मि सागरः ॥भगवद्गीता १.१०२४॥
पुरोधसां उत्कृष्टो बृहस्पतिर्यः, सोऽहं अस्मि, सेनानीनां सेनापतीनां स्कन्दोऽहं अस्मि । सरसां सागरोऽहं अस्मि ॥१.१०२४॥
महर्षीणां भृगुरहं गिरां अस्म्येकं अक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥भगवद्गीता १.१०२५॥
महर्षीणां मरीच्यादीनां भृगुरहं । अर्थाभिधायिनः शब्दा गिरः, तासां एकं अक्षरं प्रणवोऽहं अस्मि । यज्ञानां उत्कृष्टो जपयज्ञोऽस्मि । पूर्वमात्राणां हिमवानहं ॥१.१०२५॥
अश्वत्थस्सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥भगवद्गीता १.१०२६॥
उच्चैश्श्रवसं अश्वानां विद्धि मां अमृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥भगवद्गीता १.१०२७॥
आयुधानां अहं वज्रं धेनूनां अस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणां अस्मि वासुकिः ॥भगवद्गीता १.१०२८॥
अनन्तश्चास्मि नागानां वरुणो यादसां अहम् ।
पित्Qणां अर्यमा चास्मि यमः संयमतां अहम् ॥भगवद्गीता १.१०२९॥
वृक्षाणां पूज्योऽश्वत्थोऽहं । देवर्षीणं नारदोऽहं । कामधुक्दिव्या सुरभिः । जननहेतुः कन्दर्पश्चाहं अस्मि । सर्पाः एकाशिरसः; नागाः बहुशिरसः । यादांसि जलवासिनः, तेषां वरुणोऽहं । दण्डयतां वैवस्वतोऽहं ॥१.१०२६,२७,२८,२९॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतां अहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥भगवद्गीता १.१०३०॥
अनर्थप्रेप्सुतया गणयतां मध्ये कालः मृत्युरहं ॥१.१०३०॥
पवनः पवतां अस्मि रामः शस्त्रभृतां अहम् ।
झषाणां मकरश्चास्मि स्रोतसां अस्मि जाह्नवी ॥भगवद्गीता १.१०३१॥
पवतां गमनस्वभावानां पवनोऽहं । शस्त्रभृतां रामोऽहं । शस्त्रभृत्त्वं अत्र विभूतिः, अर्थान्तराभावात् । आदित्यादयश्च क्षेत्रज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीयाः ॥१.१०३१॥
सर्गाणां आदिरन्तश्च मध्यं चैवाहं अर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतां अहम् ॥भगवद्गीता १.१०३२॥
सृज्यन्त इति सर्गाः, तेषां आदिः कारणम्; सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारोऽहं एवेत्यर्थः । तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारोऽप्यहं एव । तथा च मध्यं पालनम्; सर्वदा पाल्यमानानां पालयितारश्चाहं एवेत्यर्थः । जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः, सोऽहं ॥१.१०३२॥
अक्षराणां अकारोऽस्मि द्वन्द्वस्सामासिकस्य च ।
अहं एव अक्षयः कालः धाताहं विश्वतोमुखः ॥भगवद्गीता १.१०३३॥
अक्षराणां मध्ये "अकारो वै सर्वा वाक्" इति श्रुतिसिद्धिः सर्ववर्णानां प्रकृतिरकारोऽहं सामासिकः समाससमूहः; तस्य मध्ये द्वन्द्वसमासोऽहं । स ह्युभयपदार्थप्रधानत्वेनोत्कृष्टः । कलामुहूर्तादिमयोऽक्षयः कालोऽहं एव । सर्वस्य स्रष्टा हिरण्यगर्भश्चतुर्मुखोऽहं ॥१.१०३३॥
मृत्युस्सर्वहरश्चाहं उद्भवश्च भविष्यताम् ।
कीर्तिश्श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥भगवद्गीता १.१०३४॥
सर्वप्राणहरो मृत्युश्चाहं । उत्पत्स्यमानानां उद्भवाख्यं कर्म चाहं । श्रीरहम्; कीर्तिश्चाहम्; वाक्चाहम्; स्मृतिश्चाहम्; मेधा चाहम्; धृतिश्चाहम्; क्षमा चाहं ॥१.१०३४॥
बृहत्साम तथा साम्नां गायत्री छन्दसां अहम् ।
मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः ॥भगवद्गीता १.१०३५॥
साम्नां बृहत्साम अहं । छन्दसां गायत्र्यहं । कुसुमाकरः वसन्तः ॥१.१०३५॥
द्यूतं छलयतां अस्मि तेजस्तेजस्विनां अहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतां अहम् ॥भगवद्गीता १.१०३६॥
छलं कुर्वतां छलास्पदेष्वक्षादिलक्षणं द्युतं अहं । जेत्Qणां जयोऽस्मि । व्यवसायिनां व्यवसायोऽस्मि । सत्त्ववतां सत्त्वं अहं । सत्त्वं महामनस्त्वं ॥१.१०३६॥
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनां अप्यहं व्यासः कवीनां उशना कविः ॥भगवद्गीता १.१०३७॥
वसुदेवसूनुत्वं अत्र विभूतिः, अर्थान्तराभावादेव । पाण्डवानां धनञ्जयोऽर्जुनोऽहं । मुनयः मननेनात्मयाथात्म्यदर्शिनः; तेषां व्यासोऽहं । कवयः विपश्चितः ॥१.१०३७॥
दण्डो दमयतां अस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतां अहम् ॥भगवद्गीता १.१०३८॥
नियमातिक्रमणे दण्डं कुर्वतां दण्डोऽहं । विजिगीषूणां जयोपायभूता नीतिरस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनं अस्मि । ज्ञानवतां ज्ञानं चाहं ॥१.१०३८॥
यच्चापि सर्वभूतानां बीजं तदहं अर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥भगवद्गीता १.१०३९॥
सर्वभूतानां सर्वावस्थावस्थितानां तत्तदवस्थाबीजभूतं प्रतीयमानं अप्रतीयमानं च यत्, तदहं एव । भूतजातं मया आत्मतयावस्थितेन विना यत्स्यात्, न तदस्ति । "अहं आत्मा गुडाकेश सर्वभूताशयस्थितः" इति प्रक्रमात्, "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" इत्यत्राप्यात्मतयावस्थानं एव विवक्षितं । सर्वं वस्तुजातं सर्वावस्थं मया आत्मभूतेन युक्तं स्यादित्यर्थः । अनेन सर्वस्यास्य सामानाधिकरण्यनिर्देशस्यात्मतयावस्थितिरेव हेतुरिति प्रकटितं ॥१.१०३९॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥भगवद्गीता १.१०४०॥
मम दिव्यानां कल्याणीनां विभूतीनां अन्तो नास्ति; एष तु विभूतेर्विस्तरो मया कैश्चिदुपाधिभिः संक्षेपतः प्रोक्तः ॥१.४०॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदुर्जितं एव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥भगवद्गीता १.१०४१॥
यद्यद्विभूतिमदिशितव्यसंपन्नं भूतजातं श्रीमत्कान्तिमत्, धनधान्यसमृद्धं वा, ऊर्जितं कल्याणारम्भेषु उद्युक्तम्; तत्तन्मम तेजोऽंशसंभवं इत्यवगच्छ । तेजः पराभिभवनसामर्थ्यम्, ममाचिन्त्यशक्तेर्नियमनशक्त्येकदेशसंभवतीत्यर्थः ॥१.१०४१॥
अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन ।
विष्टभ्याहं इदं कृत्स्नं एकांशेन स्थितो जगत् ॥ भगवद्गीता १.१०४२॥
बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनं ।इदं चिदचिदात्मकं कृत्स्नं जगत्कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे, स्थितौ, प्रवृत्तिभेदे च यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नोऽयुतायुतांशेन विष्टभ्याहं अवस्थितः । यथोक्तं भगवता पराशरेण, "यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता" इति ॥१.१०४२॥