संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|दशावतारचरित्रम्| कृष्णावतारोऽष्टमः दशावतारचरित्रम् मत्स्यावतारः प्रथमः कूर्मावतारो द्वितीयः वराहावतारस्तृतीयः नृसिंहावतारश्चतुर्थः वामनावतारः पञ्चमः परशुरामावतारः षष्ठः रामावतारः सप्तमः कृष्णावतारोऽष्टमः बुद्धावतारो नवमः कर्क्यवतारो दशमः कविपरिचयः दशावतारचरित्रम् - कृष्णावतारोऽष्टमः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्. Tags : epicpoemकाव्यदशावतारचरित्रम्महाकाव्यसंस्कृत कृष्णावतारोऽष्टमः Translation - भाषांतर अहो कालसमुद्रस्य न लक्ष्यन्तेऽतिसन्तताः ।मज्जन्तोऽन्तरनन्तस्य युगान्ताः पर्वता इव ॥१॥युगदीर्घे प्रयातेऽथ काले दिनक्षणक्रमैः ।कैटभारिं पुनर्भूमिर्भारार्ता शरणं ययौ ॥२॥सा ददर्श सुधाम्भोधौ प्रबुद्धं शेषशायिनम् ।विश्वरूपं फणारत्नसहस्रप्रतिबिम्बितम् ॥३॥सुखप्रबोधपृच्छान्ते चतुर्मुखमुखैः सुरैः ।मुनिभिर्नारदाद्यैश्च प्रणतैः परिवारितम् ॥४॥पादसंवाहनव्यग्रां श्रियं प्रेमामृतह्रदे ।वहन्तं हृदये व्यक्तं कौस्तुभप्रतिबिम्बिताम् ॥५॥मही मरकतश्यामा व्यक्तमौक्तिकभूषणा ।खलक्ष्मीर्लक्ष्यनक्षत्रमालेव प्रणनाम तम् ॥६॥सा प्रणामचलत्कर्णोत्पलालिस्वनसंनिभाम् ।विज्ञप्तिं ज्ञातवृत्तस्य चक्रे विश्वान्तरात्मनः ॥७॥भगवन्भवतः सर्वलोकचिन्तार्तिहारिणः ।वात्सल्यपेशलस्याग्रे पुनरुक्तं निवेद्यते ॥८॥हिरण्याक्षबलात्क्षिप्ता निक्षिप्तक्षितिभृत्कला ।समुत्क्षिप्ताक्षयैवाहं वराहवपुषा स्वयम् ॥९॥कालनेमिप्रभृतयः पुरा मद्भारशान्तये ।ये हृता भवता दैत्यास्तेऽवतीर्णाः पुनर्नृपाः ॥१०॥उग्रसेनस्य तनयः क्रूरः क्रूरतरानुगः ।वृष्णिवंशे समुत्पन्नः कालनेमिर्महासुरः ॥११॥अनन्तदैत्यभूपालबलभारभरार्दिता ।अधर्मबहुलं कालं न सहे बोढुमक्षमा ॥१२॥श्रुत्वैतदुक्तमुर्वर्या भगवान्सस्मिताननः ।करिष्याम्युचितं सर्वमित्युक्त्वा विससर्ज ताम् ॥१३॥पृथिव्यामथ यातायां विधाय हृदयस्थितम् ।विष्णोः समीहितं सर्वं सुरान्प्राह पितामहः ॥१४॥भूमिभारावताराय देवोऽवतरति क्षितिम् ।यदुवृष्णिकुले याति वसुदेवस्य पुत्रताम् ॥१५॥यूयमंशावतरणं कुले कुरुत भारते ।इत्युक्ते पद्मगर्भेण तथेयुक्त्वा ययुः सुराः ॥१६॥ततः कदाचित्प्रययौ नारदो मथुरां पुरीम् ।स्वच्छन्दवादनिरतः कलिकेलिकुतूहली ॥१७॥स रहः कंसमभ्येत्य प्राप्तपूजासनोऽवदत।धर्ममार्गेण वर्तस्व रक्षेमां विद्रुतां श्रियम् ॥१८॥पितृष्वसुस्ते देवक्या यः समुत्पद्यते सुतः ।स सुरैर्निश्चितोऽन्ताय विभूतेर्जीवितस्य ते ॥१९॥उक्त्वेति याते देवर्षौ कंसः पापी पितृष्वसुः ।देवक्याः किङ्करान्गर्भनिधनाय समादिशत॥२०॥हतेषु षट्सु बालेषु वसुदेवसुतेष्वथ ।सपत्न्यै सप्तमं गूढं रोहिण्यै देवकी ददौ ॥२१॥स विष्णोः शयनाभ्यासाद्भूभारभरणक्षमः ।अवतीर्णः शिशुः शेषः प्रीतिमन्तर्वहन्निव ॥२२॥अथाष्टमं सुतं जातं वसुदेवः स्वयं निशि ।गोकुले नन्दगोपस्य निदधे वधशङ्कितः ॥२३॥नन्दपत्न्याः यशोदायाः कन्यां विनिमयेन सः ।आदाय गूढसञ्चारी निजजायान्तिकेऽक्षिपत॥२४॥सा कन्या करुणाहीनैः प्रबुद्धैरथ किङ्करैः ।शिलायामाहता दीप्ता विद्युल्लेखेव खं ययौ ॥२५॥साष्टादशभुजा कान्ता प्रदीप्तविविधायुधा ।कंसस्यायुः पिबन्तीव भेजे विन्ध्यवसुन्धराम् ॥२६॥रोहिणीभवनाज्ज्येष्ठमपि गूढमतिः सुतम् ।वसुदेवः क्षयभयान्नन्दगोपगृहेऽत्यजत॥२७॥तौ सङ्कर्षणकृष्णाख्यौ यशोदा दधती ययौ ।विश्रुता दानसम्भोगौ श्रीरिव स्पृहणीयताम् ॥२८॥सङ्कर्षणः शशिसितः कृष्णो मरकतद्युतिः ।बभतुः प्रथमोद्भेदौ गङ्गायमुनयोरिव ॥२९॥स्वदेहरक्षायत्नेन बालोद्दलनशालिना ।कंसेनान्यत्कृतं मोहादन्यद्दैवेन निर्मितम् ॥३०॥कलयति धिया स्वार्थं सर्वः सदभ्युदयेच्छया किमपि यतते तावद्यावत्फलं परिदृश्यते ।तदनु च विधिः क्रीडोन्मत्तः करोति यदश्मनाजलभृतघटं भङ्क्त्वा दूरादिवाशु जलस्थितिम् ॥३१॥राज्यार्हौ गोकुले बालौ कंसः श्रुत्वा तयोः क्षये ।चक्रे गूढोद्यमोपायान्गर्भव्यत्ययशङ्कितः ॥३२॥स्तन्यतृप्तः शिशुः कृष्णः कदाचिन्निद्रयान्वितः ।पादप्रहारेणाविद्धं बभञ्ज शकटं महत॥३३॥विसृष्टामथ कंसेन पूतनां निशि राक्षसीम् ।विषार्द्रस्तनदां कृष्णश्चक्रे निष्पीतजीविताम् ॥३४॥किञ्चित्सञ्चरणाभ्यासे पाणिमालम्ब्य यत्नवान।दत्तद्वित्रिक्रमश्चक्रे हर्षं मातुस्त्रिविक्रमः ॥३५॥ततः कुमारयोः पातभीत्या हरिणवेगयोः ।अविश्रान्तानुसरणे यशोदा श्रममाययौ ॥३६॥उद्विग्ना गतिविघ्नाय कृष्णस्य जननी व्यधात।बलिबन्धनधीरस्य दाम्ना बन्धमुलूखले ॥३७॥दामोदरस्ततो नाम्ना समाकर्षन्नुलूखलम् ।मध्येन निर्ययौ वेगाद्यमलार्जुनवृक्षयोः ॥३८॥संलग्नोलूखलाकर्षात्पेततुस्तौ महाद्रुमौ ।यमुनाक्षोभसम्भूतभयकम्पितगोकुलौ ॥३९॥ततः कृष्णाश्रयेण श्रीर्गोकुले जितनन्दना । स्वभावरमणीयेऽपि रमणीयतराभवत॥४०॥स्निग्धश्यामास्तरुतृणभुवः सम्पतन्निर्झरौघामेघप्रेमोन्मुखशिखिमुखस्थायिनो मन्थघोषाः ।गायद्गोपीस्तिमितहरिणीहारिणः काननान्ताःकान्ताश्चक्रुः प्रमदसमयं यामुनाः कूलकच्छाः ॥४१॥ततः स्तोकपरिम्लाने शैशवे शिशिरोपमे ।माघवयाभवत्किंचिदुन्मुखी यौवनद्युतिः ॥४२॥ततः कृष्णस्य गोपालडिम्भमण्डलवर्तिनः ।बभूव कन्दुकोद्दामक्रीडासु निविडो रसः ॥४३॥पतिते यमुनाकूलसलिले केलिकन्दुके ।ददर्श कालियस्योग्रं नागस्य भवनं हरिः ॥४४॥व्याप्तं कल्पान्तरजनीकवलीकारविभ्रमैः ।कृतान्तमहिषश्यामैर्निस्त्रिंशविमलैर्जलैः ॥४५॥कालः कथं वसतीह्भयस्यापि भयङ्करः ।स तैराकृष्यमाणोऽपि कृष्णस्तद्दर्शनोद्यतः ॥४६॥कदम्बशाखामालम्ब्य भवनोपान्तवर्तिनीम् ।पपात दुरितोत्पातः सावेगः क्षुभितेऽम्भसि ॥४७॥भ्रमद्यमभुजाभेन शौरिभोगेन भोगिनः ।आलिङ्गितस्तमाधूय वेगेनाचक्रमे शिरः ॥४८॥पादाक्रान्तफणस्य फूत्कृतिविषावेगोष्णनिःश्वासिनःकोपक्लेशविशेषदन्तकषणप्रोद्भूतधूमैर्हरेः ।कालभ्रूभ्रमभङ्गुरैर्वृतमभूत्पातालमूलोद्गतैःकालैः कलियबान्धवैरिव जलं साहायकाभ्यागतैः ॥४९॥पीडितः शरणं शौरिं स यातस्तद्गिरा ययौ ।रौद्रः समुद्रं तत्पादमुद्रया तार्क्ष्यनिर्भयः ॥५०॥ततस्तालवने दैत्यं धेनुकं खररूपिणम् ।जघान गोकुले विघ्नं हेलयेव हलायुधः ॥५१॥अथ गोपालरूपेण प्रलम्बो नाम दानवः ।कन्दुकक्रीडया प्रीतिं विदधे रामकृष्णयोः ॥५२॥कदाचित्स्कन्धमारूढस्तेन वेगवता हृतः ।रामस्तस्याकरोन्मुष्टिपातेन शतधा शिरः ॥५३॥अथ गोवर्धनगिरौ शक्रयागमहोत्सवे ।भक्ष्यभोज्यमहारम्भसम्भारो गोकुलेऽभवत॥५४॥पूज्यः पर्वत एवायमित्युक्त्वा शक्रपूजनम् ।निवार्य कृष्णस्तद्भोज्यं बुभुजे दिव्यरूपभृत॥५५॥यतः प्रलम्बमानेन मन्युना शतमन्युना ।प्रेरिता घननिर्घोषघोरमेघाः समाययुः ॥५६॥तैर्ग्रस्तवासरालोकैर्निगीर्णभुवनैर्घनैः ।आहूतेव महारावैः कालरात्रिरदृश्यत ॥५७॥विरावकृत्हृद्घट्टमेघसङ्घट्टविप्लवे ।खं क्षितौ जलरूपेण भयभग्नमिवापतत॥५८॥ते शक्रक्रोधसंनद्धाः शक्रचापचिता घनाः ।सद्यः पोतमिवाम्भोधिं वमन्तः क्ष्मामपूरयत॥५९॥संरम्भेण घनाघनैर्घनतरैः सम्पीड्यमानैर्मिथः प्रोद्भूतेऽथ पृथुव्यथारवनिभे संस्फूर्जिते गर्जिते ।भीत्या क्वापि ययुः क्षितिच्युतनभः सम्भावनाकम्पिताःकल्पान्तागमशङ्किता इव महानीहाररुद्धा दिशः ॥६०॥धारासारशनिनिपतनक्लेशसम्पीडितानांसीदद्वत्सप्रणिहितदृशां शीतवातार्दितानाम् ।वेगक्षोभागतगिरिनदीनाददीनानानांप्राणत्राणं क्वचिदपि गवां नाभवद्विह्वलानाम् ॥६१॥अङ्गभङ्गं गवां दृष्ट्वा गोविन्दः करुणाकुलः ।त्राणाय गिरिमुद्धृत्य गोवर्धनमधारयत॥६२॥छत्त्रीकृते गिरौ तस्मिन्दोर्दण्डधृतिनिश्चले ।गोगणानां सगोपानां पुनर्जीवागमोऽभवत॥६३॥उत्क्षिप्तेऽसुरवैरिणा क्षितिघरे क्षीरोदधिः क्षोभवान्भेजे भीतिमकाण्डदण्डमथनक्षोभाभिशङ्की पुनः ।विन्ध्यस्यासमयोद्गमं विगणयन्मन्ये श्वसन्कम्पवान्ह्रस्तन्यस्तसमस्तशापसलिलः क्षोभादगस्त्योऽभवत॥६४॥अवहदहतधैर्ये दोष्णि कृष्णस्य भारश्रमशमनधियेव क्ष्माधरः सापरोधः ।अविरतनिपतद्भिर्निर्झराणां सहस्रैःस्फटिकविकटजम्भस्तम्भसम्भारशोभाम् ॥६५॥गोवर्धनस्य धरणे व्रजसुन्दरीणांसाहायकोच्चचरणाचितदोर्लतानाम् ।अप्राप्तिलोलकरविभ्रममाकलय्यकृष्णः स्मितांशुधवलाधरपल्लवोऽभूत॥६६॥कृष्णेनाश्चर्यनिधिना गोगणे परिरक्षिते ।लज्जयेव न्यवर्तन्त पवनोच्छ्वासिनो घनाः ॥६७॥ततः शक्रः समभ्येत्य प्रसाद्य विजने हरिम् ।कामधेनुगिरा तस्मै गोपालाधिपतां ददौ ॥६८॥अथ प्रपेदे गोविन्दः प्रौढं मदमिव द्विपः ।सहकारतरुः कान्तं वसन्तमिव यौवनम् ॥६९॥तस्य सानन्दशृङ्गारे वयसि व्यक्ततां गते ।बभूवाभिनवोत्साहः प्रतापाभरणेन सः ॥७०॥तस्य निर्भरतारुण्यलावण्यं नयनामृतम् ।पिबन्तीनामभूत्गोपकान्तानां मदविभ्रमः ॥७१॥व्यामूढस्खलितार्घविक्लवपदा वाणी गतिश्चास्फुटाचित्तं भ्रूयुगलं च वीचिरचनासंवादि दोलायितम् ।निद्रा किं च दरिद्रतामुपगता लज्जा च सज्जा स्मरेक्षैब्यं माधवयौवनद्युतिपदे गोपाङ्गनानामभूत॥७२॥स्वैराचारस्मरपरिचये तत्र शौरेः प्रवृत्तेवेषालापोद्धतगतितयान्योन्यसम्भाव्यमाने ।आसील्लज्जाविनयनिभृता व्यक्तसंसक्तमन्युस्तासामन्तः कलुषकलनानल्पसङ्कल्पजल्पः ॥७३॥कर्णाभ्यर्णविकीर्णलोचनरुचः सन्त्येव चन्द्राननास्त्वत्तोऽन्या नवयौवनोन्नतिलसल्लावण्यगण्याः परम् ।यासामेष हरिर्मनोरथशतैरर्थी क्षणलोकने किं कृष्णेन विलोकिताहमिति ते रूढः प्रमूढे मदः ॥७४॥अन्तर्लोचनयोर्विशत्यविरतं लग्नश्च पाणौ गतिं निर्बन्धेन रुणद्धि धावति मुहुर्दशाभिकामोऽधरे ।सख्यः किं करवाणि वारणशतैर्नैवापयाति क्षणंकृष्णः षट्चरणः प्रयाति चपलः पुष्पोच्चये विघ्नताम् ॥७५॥कर्षत्यंशुकपल्लवं परिहृतः प्रत्याहृतिं नोज्झति प्रक्षिप्तश्चरणे लगत्यविरतं तिष्ठत्यदृश्यः पथि ।अङ्गान्युल्लिखति प्रसह्य यदि वा लब्धावकाशः क्वचित्किं शौरिर्घनकुञ्जवञ्जुललताजालान्तरे कण्टकः ॥७६॥स्वच्छाम्बुप्रतिबिम्बवक्त्रतिलकोल्लेखादरालोकनंयत्नेनोच्चितचूतपल्लवलवे कर्णावतऽसस्पृहा ।एतस्याः कुसुमेषु बन्धनधिया केशावकाशक्रियाकेनायं नवरागयोगगुरुणा वेषोपदेशः कृतः ॥७७॥कोऽयं याति लघुक्रमैरहमहं कस्त्वं सखि श्यामलाश्वासायासवती क्व यासि तिमिरे तं नष्टमिष्टं मृगम् ।अन्वेष्टुं यमुनातटीमुपगता भीतास्मि भूतभ्रमान्मूढे कृष्णभुजङ्ग एष विटपे कौटिल्यलीनः स्थितः ॥७८॥सन्तप्तैव हता करोमि किमहं तां प्रेषयन्त्या मयालब्धं मौग्ध्यफलं भुजङ्गनिकटं वक्रां द्विजिह्वां सखीम् ।धिग्दूतीं तरुणीं करोति किल या स्वीकृत्य दूरे प्रियंहस्तोत्सृष्टखगः प्रयत्ननिचयैर्नायाति तृप्तोऽन्यतः ॥७९॥जानेऽन्यासहितं विलोक्य कुटिलं तं कूटकोषं त्वयाप्रत्यक्षागसि निह्नवासहनया कोपेन दष्टोऽधरः ।श्वासायासविसंस्थुलां न च कुचोत्कम्पं विमुञ्चस्यहोमोहाद्दुःसहविप्लवे चलपया किं प्रेषिता त्वं मया ॥८०॥न स सखि यमुनायास्तीरवानीरकुञ्जेगहनभुवि भवत्या मत्प्रियः क्वापि दृष्टः ।सुमुखि फलमियत्तु स्नेहमोहात्त्वयाप्तंकुचमुखलिखितेयं कण्टकोल्लेखरेखा ॥८१॥इत्यभून्मदनोद्दामयौवने कालियद्विषः ।गोपाङनानां संरम्भगर्भोपालम्भविभ्रमः ॥८२॥प्रीत्यै बभूव कृष्णस्य श्यामानिचयचुम्बितः ।जाती मधुकरस्येव राधैवाधिकवल्लभा ॥८३॥लावण्यं नवनीतसारममृतस्येवोद्वहन्त्यो नवं तन्वाना द्युतिदिग्धदुग्धधवलां मुग्धस्मितांशुच्छटाम् ।माद्यद्यौवनकुम्भिकुम्भसुभगाभोगस्तनोत्तम्भिताधैर्यं कस्य न दीर्घनेत्रवलनैर्मथ्नन्ति गोपाङ्गनाः ॥८४॥कदाचिदथ यातेऽस्तं गभस्तिमतिं शर्वरी ।आययौ गोपकान्तेन शनैः कृष्णाभिसारिणी ॥८५॥शशाङ्काकृतसङ्केतसमागमविलोकिनी ।क्षपा प्रतीक्षमाणेव तमः श्यामाम्बरा बभौ ॥८६॥अथोद्ययौ सुधास्यन्दस्वेदार्द्रप्रसरत्करः ।तुल्यालिङ्गनजामीर्ष्यां दिशन्निव दिशां शशी ॥८७॥ततस्तारुण्यवानिन्दुर्मीलत्तरलतारकम् ।मुखं चुचुम्ब श्यामायाः कराकृष्टतमः पटः ॥८८॥त्यक्त्वा पूर्वां स्पृशन्किंचिद्दक्षिणां च तथोत्तराम् ।शिश्रिये पश्चिमामाशां सुधांशुर्बहुवल्लभः ॥८९॥अत्रान्तरे समभ्यायादरिष्टो दुष्टचेष्टितः ।जङ्गमः शृङ्गवानद्रिरिव दैत्यो वृषाकृतिः ॥९०॥किंचित्कुञ्चितकण्ठकायकषणक्लेशत्रुटत्पादपप्रोद्भूतोत्कटटाङ्कृतैर्गललुठद्गम्भीरघोरस्वनैः ।सीत्कारश्वसितैः खुराग्रविषमोत्खातावकीर्णक्षितैस्तस्योद्गारभरेण भग्नमभवत्कम्पाकुलं गोकुलम् ॥९१॥तद्भीतिच्युतगर्भासु गोषु गोपगणे गते ।कृष्णं गोपाङ्गनाः कण्ठे जगृहुर्भयविह्वलाः ॥९२॥शृङ्गप्रहाराभिमुखं दोष्णा कृष्णस्तमुद्धतम् ।निपीड्य कण्ठे कण्ठेच्छं चकार गतजीवितम् ॥९३॥निष्पिष्टे शौरिणारिष्टे कंसामात्ये महौजसि ।सत्कथा प्रपथे लोके पृथुविस्मयकारिणी ॥९४॥ततः प्रभाते कंसस्य सुहृत्केशी महासुरः ।आययौ हयरूपेण खुराघातक्षतक्षितिः ॥९५॥करालो मांसलः शृङ्गो कृष्णतालुस्त्रिकर्णवान।लक्षितः ककुदावर्ती जगत्सङ्क्षयलक्षणैः ॥९६॥तस्य ह्रेषितनिर्घोषैर्घोरैः खुररवेण च ।त्रस्तगोगणमुद्विग्नगोपं वनमकम्पत ॥९७॥शूत्कारश्वसितेन तर्जितमरुत्कोपात्तमृत्युस्थितिस्तेजोनिर्जितपावकः श्रमजलैर्विक्षिप्तपाथः पतिः ।निश्चेष्टां वसुधां विधातुमुदितः कल्पान्तकालोपमः सोऽभूदाकुललोकपालविभवऽवष्टम्भकृद्दुःसहः ॥९८॥दन्ताभिघातसज्जस्य तस्यास्ये द्विगुणीकृतम् ।उत्क्षिप्ताग्रखुरस्याशु न्यदधद्भुजमच्युतः ॥९९॥तद्दन्तकषणेनापि निर्विघ्नघनविभ्रमः ।कृष्णप्रसारितो बाहुः केशिवक्त्रं द्विधा व्यधात॥१००॥भग्ने निपतिते तस्मिन्कंसस्येव मनोरथे ।अभूज्जम्भारिभवने तार्क्ष्यध्वजजयस्वनः ॥१०१॥अत्रान्तरे वृष्णिवृद्धैः सह स्वसचिवक्षयम् ।चिन्तयन्मन्त्रभवने कंसः प्रोवाच निःश्वसन॥१०२॥इयं जनितलज्जेव मानम्लानिर्महीयसी ।यन्मेरुतुल्यैर्युष्माभिः क्रियते तृणचिन्तनम् ॥१०३॥उद्भवः शनिरक्रूरः शतधन्वा विदूरथः ।भोजाद्याश्च ममपूर्वं शृण्वन्त्य्वसमविग्रहम् ॥१०४॥पितुः स्वसुः पतिर्वृद्धः स्नेहसामान्यवृत्तिभिः ।वसुदेवः स चास्माभिः पूजितः परिपूरितः ॥१०५॥स्वसुतौ तेन निन्यस्तौ गोकुले गूढचारिणौ ।शोकातङ्काङ्कुरौ यौ मे विषपादपतां गतौ ॥१०६॥ज्ञातिभ्यो भयमस्तीति सत्यमाह महामतिः ।विभीषणमतोपायैर्हन्यमानो दशाननः ॥१०७॥मर्मज्ञः स्वजनः पुंसां क्षये जागर्ति नापरः ।शिक्षापक्षिभिराकृष्टाः क्षयं यान्त्येव पक्षिणः ॥१०८॥ सदा दारूणि दह्यन्ते दारुजेन च वह्निना ।क्रिमिणा स्वाङ्गजातेन पात्यन्ते प्रौढपादपाः ॥१०९॥ मृज्जातलोहकुद्दालैः खन्यते मृण्मयी मही ।स्वजातैर्निर्झरैर्नीताः कर्षद्भिर्भूधराः क्षयम् ॥११०॥ज्ञातिप्रहारः निःशर्ममर्मपाणी पराधिकः ।लोहाधिकां व्यथामस्थ्नः करोत्यस्थिमुखः शरः ॥१११॥सहभोग्यामपि ज्ञातेर्नेच्छन्ति ज्ञातयः श्रियम् ।काङ्क्षन्ति भूतिमन्येषां दूरालोकननिष्फलाम् ॥११२॥किं कृतं सुकृतं तावद्वसुदेवेन धीमता ।बन्धुद्रोहविदग्धेन गोपालौ कुर्वतौ सुतौ ॥११३॥उपेक्षितौ बन्धुधिया तत्सुतौ दयया मया ।भुजच्छेदप्रवृत्तौ मे प्रयातौ चिन्तनीयताम् ॥११४॥कृष्णेन निहतोऽरिष्टः स च केशी सुहृन्मम ।तद्भ्राता मिष्टिना पिष्टः प्रलम्बः स च धेनुकः ॥११५॥अधुना कोपविवलद्भ्रूलतां नीतिमेतयोः ।करोम्यहं यथा बालौ पुनर्नैवं करिष्यतः ॥११६॥इति कंसेन सावज्ञमन्तर्गम्भीरमन्युना ।उक्ते तमुद्धवः प्राह षाड्गुण्य विनयेद्धधीः ॥११७॥राजन्न स्वजने कोपं कुपितः कर्तुमर्हसि ।स्वीकार्याः सर्वथा क्रुद्धलुब्धभीतावमानिताः ॥११८॥क्रुद्धान्प्रसादनैर्लुब्धान्धनैर्भीतांश्च सान्त्वनैः ।माननैरवमानार्तान्नियेद्भिन्नानभिन्नताम् ॥११९॥विभिन्नस्वीकारः शमयति नृपाणां रिपुभयंनिजैर्जीवीच्छित्तिर्भवति कुपितैर्धातुभिरिव ।न वैरं वैरेण प्रशममुपयाति क्वचिदपिप्रदीप्तोऽग्निः शान्तिं व्रजति जलपुञ्जैर्न शिखिना ॥१२०॥बान्धवी पुत्रसदृशौ रामकृष्णौ न ते परौ ।लक्ष्मीरक्षा क्षितीक्षानां राजपुत्राभिरक्षणम् ॥१२१॥समीपे सर्पाभः परमुपसरन्मेषहननःखलग्रामे मूर्खः परपुरगतः शत्रुबलकृत।हते तस्मिन्पापं किमपि कुलबीजाङ्कुरहतिर्न दूरे नादूरे भवति सुखरक्ष्यः क्षितिपजाः ॥१२२॥निरस्तः क्ष्माभुजा बन्धुः क्षीणवृत्तिर्विपद्गतः ।तन्नामविक्रयोत्क्षेपैर्लक्षितो दिक्षु भिक्षते ॥१२३॥परमं श्रीमतामेतन्माननामविनाशनम् ।यद्यात्यपूरितो बन्धुः परस्योत्तानपाणिताम् ॥१२४॥त्वद्बन्धुसुतयोर्नैव युक्ता गोपकुले स्थितिः ।न यावद्विप्रकीर्णौ तौ तावत्स्वीकरणक्षमौ ॥१२५॥इत्युद्धवेनाभिहिते हिते सुविहते श्रियः ।अच्छिन्नदानव्रतवानक्रूरः कंसमभ्यधात॥१२६॥एकपात्रोचितां यस्य श्रियं नाश्नन्ति बान्धवाः ।तस्यात्मपोषतोषस्थकोषक्लेशाय सम्पदः ॥१२७॥त्यागभोगभरोद्घृष्टा मानोन्मृष्टा महात्मनाम् ।भान्ति भृत्यगृहोत्सृष्टा बन्धूच्छिष्टा विभूतयः ॥१२८॥भूतिमालोक्य विमुखा यस्य निःश्वस्य बान्धवाः ।गच्छन्ति न विशेषोऽस्ति श्मशानस्य च तस्य च ॥१२९॥रत्नाकरसमृद्धश्रीर्बन्धुर्यस्य त्वमीदृशः ।स कृष्णः कानने शष्पशय्यापरिचिताकृतिः ॥१३०॥स्वकर्मभागिनः सर्वे निष्फलः स्वजनोऽर्थवान।नातरङ्गस्य शङ्खस्य हृता सुषिरताब्धिना ॥१३१॥ज्ञातिर्न दीनः कृष्णस्तु दयया संविभज्यते ।हेलोर्मिनिर्मितं मन्ये तेनैश्वर्यं दिवौकसाम् ॥१३२॥धेनुत्राणे शिखरिपतिना कृष्णदोष्णिस्थितेन श्रान्ते शक्रे विफलजलदे लज्जिते शैलशत्रौ ।लब्धाकाशप्रसभगतिना निर्झरोद्घातघोषैर्हर्षस्पर्शः प्रकटित इव स्फीतफेनाट्टहासः ॥१३३॥मददलनविधाने कालियस्याहिभर्तुर्दमनशमितशक्तेर्देहसन्देहभाजः ।शरणगमनदैन्यम्लानमानस्य कृष्णःशिरसि चरणमुद्रां तार्क्ष्यरक्षां चकार ॥१३४॥नाम्ना मानमहोन्नतिं प्रतनुते बध्नाति शोभां गुणैः पुष्णात्याजिषु जिष्णुना शशिसितं भ्राजिष्णु दोष्णा यशः ।हर्षं वर्षति निश्चलेन सहजप्रेम्णा च चित्तस्य यः स श्लाघ्यः सुकृतेन बान्धवमणिर्भाग्योद्भवैर्लभ्यते ॥१३५॥अबन्ध्यसङ्गतिर्बन्धुः कृष्णतुल्योऽस्ति कस्तव ।येन शक्रोऽपि गोपानां गौरवावनतः कृतः ॥१३६॥उक्तं निःशल्यकल्याणमस्माभिर्यदि मन्यसे ।तत्त्वद्गिराहं गच्छामि कृष्णाह्वानकृतार्थताम् ॥१३७॥विपुलः प्रस्थितश्चायं धनुर्यागमहोत्सवः ।करोम्यहं तमुद्दिश्य केशवस्य निमन्त्रणम् ॥१३८॥इत्यक्रूरवचः श्रुत्वा कंसः कुटिलचेष्टितः ।व्रएति निःश्वसन्नुष्णमभ्यधात्तमधोमुखः ॥१३९॥अथ सज्जरथे हन्तुमक्रूरे व्रजमुद्यते ।अभूच्चन्द्रोदयोद्भूत इव वृष्णिकुलाम्बुधिः ॥१४०॥अतिक्रम्याथ मथुरामक्रूरः प्रथितो रथी ।अवापाग्रसरत्सैन्यः पर्यन्तग्रामममेखलाम् ॥१४१॥प्रत्यग्रपाकविनमत्कलमक्षेत्रपङ्क्तिभिः ।हरितालरजःपुञ्जरञ्जिताभिरिवाचिताम् ॥१४२॥कदलीश्यामलारामबटवाटलतावृताम् ।लम्बमानघनालाबुतुम्बकूष्माण्डमण्डलाम् ॥१४३॥वलत्कुटिलकल्लोलकुल्याकलकलाकुलम् ।द्राक्षासुशीतलतलस्थलीशय्याश्रयाध्वगाम् ॥१४४॥अध्वन्यजग्धपूर्वेक्षुशल्कशूक्लीकृतस्थलाम् ।पाकपिङ्गलनारङ्गीवनैः सन्ध्यान्वितामिव ॥१४५॥ययौ स पश्यन्निःशङ्कशुकाशननिवारणे ।उदञ्चद्भुजलक्ष्योच्चकुचाग्राः शालिपालिकाः ॥१४६॥स व्रजन्गोपकुलोपान्तवनमालां व्यलोकयत।उत्सरन्निर्झरासारस्निग्धश्यामलशाद्वलाम् ॥१४७॥गोरक्षादक्षशवरैः कृतक्षुद्रर्क्षसङ्क्षयम् ।घोरव्याघ्रपथाबद्धयन्त्रकूटघटावटाम् ॥१४८॥तालीतालतमालसालकदलीपथ्यामलीश्यामलंखर्जूरार्जुनसर्जबिल्वबकुलप्लक्षाक्षलक्षाकुलम् ।पर्यन्ते स ददर्श हर्षजननं स्फीतोपदेशं गवांनिःश्वभ्रस्थलपुष्पशष्पशबलं निःशङ्कुलं गोकुलम् ॥१४९॥अच्छिन्नोदितमन्थमन्थररवं निर्घोषमेघभ्रमभ्राम्यन्मत्तमयूरनृत्तरुचिरं गोपाङ्गनागीतिभिः ।निःस्यन्दस्थितमुक्तशष्पकवलक्लीबाङ्गसारङ्गकंप्रीतिं प्राप स वीक्ष्य यामुनवलद्वीचिव्रजं गोकुलम् ॥१५०॥ततस्तत्सैनिकैः कृष्णः प्रथ्माप्तैर्निवेदितम् ।पितुः पितृव्यमक्रूरं शुश्रावाभ्यर्च्यमागतम् ॥१५१॥घृतकुम्भदधिस्थालिसहस्रोपायनैः पुरः ।प्रणम्यमानं गोपाग्र्यैर्ददर्शाक्रूरमच्युतः ॥१५२॥रथाग्रादवरुह्याथ लोलकुण्डलकङ्कणः ।दृष्ट्वा दामोदरं दूरादक्रूरः समचिन्तयत॥१५३॥अय स भगवान्विष्णुरवतीर्णः सनातनः ।भुवो भारावताराय मां जगादेति नारदः ॥१५४॥एष पद्मपलाशाक्षः श्रीमान्मरकतद्युतिः ।स्निग्धलावण्यपीयूषैर्लिम्पतीव मनो मम ॥१५५॥वृष्णियादववंशस्य कियती स्पृहणीयता ।अवतीर्णः स्वयं यस्मिन्भगवानेषु केशवः ॥१५६॥इति द्यायन्प्रहर्षश्रुसंरुद्धनयनः स्खलन।अकुण्ठोत्कण्ठया शौरैरक्रूरेऽन्तिकमाययौ ॥१५७॥पपात पादयोस्तस्य साग्रजः प्रणतोऽच्युतः ।गाढालिङ्गनसङ्गत्या हृदयं प्रविशन्निव ॥१५८॥प्राप्तपूजासनः कृष्णं सोऽवदत्तन्मुखे दिशन।प्रमोदविस्मयस्नेहबहुमानमयीं दृशम् ॥१५९॥कृष्ण त्वद्दर्शनानन्दसुधासम्पूरिते हृदि ।त्वत्सम्भाषणहर्षस्य क्वावकाशो विधीयताम् ॥१६०॥वसुदेवस्य पुण्यानां पूर्णता किं दरिद्रता ।यस्त्वां तनयमासाद्य स्वदृशाद्यापि नेक्षते ॥१६१॥भवतस्त्रिजगज्जन्मस्थितिसंहृतिकारिणः ।गूढजन्मकथा केन कथ्यते सर्ववेदितनः ॥१६२॥सततं सहते तीव्रां त्वत्कृते कंसवाच्यताम् ।वसुदेवश्चलत्येषा नूनं न भवितव्यता ॥१६३॥जगद्धरणधीरेव धन्या देवी वसुन्धरा ।भारावतारसंनद्धश्चित्ते वहसि यां सदा ॥१६४॥विस्मृता देवकी किं ते त्वन्नाम्नापि स्रुतस्तनी ।त्वां विना या सुतं रामं कौसल्येवावसीदति ॥१६५॥धनुर्योगे विसृष्टोऽहं कंसेन त्वन्निमन्त्रणे ।त्वदागमनमानेन धन्या नन्दन्तु यादवाः ॥१६६॥तत्सर्वं करमादाय प्रातः कंसस्य शासनात।आयान्तु नन्दगोपाद्या सर्वे समयवर्तिनः ॥१६७॥इत्यक्रूरवचः श्रुत्वा तमाभाषत केशवः ।प्रातरेवाहमागन्ता त्वदाज्ञा केन लङ्घ्यते ॥१६८॥ततः प्रभाते संनद्धं रथमारुह्य सानुगाः ।मथुरां ययुरक्रूरसङ्कर्षणजनार्दनाः ॥१६९॥कथं राधामनामन्त्र्यागतोऽहमिति माधवः ।अरतिं म्लानतां चिन्तां व्रान्भेजे विनिःश्वसन॥१७०॥यच्छन्गोकुलगूढकुञ्जगहनान्यालोकयन्केशवःसोत्कण्ठं वलिताननो वनभुवा सख्येव रुद्धाञ्चलः ।राधाया न न नेति नीविहरणे वैक्लव्यलक्ष्याक्षराः सस्मार स्मरसाध्वसाद्भुततनो रावोक्ति रिक्ता गिरः ॥१७१॥गोविन्दस्य गतस्य कंसनगरीं व्याप्ता वियोगामिनास्निग्धश्यामलकूललीनहरिणे गोदावरीगह्वरे ।रोमन्थस्थितगोगणैः परिचयादुत्कर्णमाकर्णितंगुप्तं गोकुलपल्लवे गुणगणं गोप्यः सरागा जगुः ॥१७२॥ललितविलासकलासुखखेलनललनालोभनशोभनयौवनमानितनवमदनेअलिकुलकोकिलकुवलयकज्जलकालकलिन्दसुताविवलज्जलकालियकुलदमने ।केशिकिशोरमहासुरमारणदारुणगोकुलदुरितविदारणगोवर्धनधरणेकस्य न नयनयुगं रतिसज्जे मज्जति मनसिजतरलतरङ्गे वररमणीरमणे ॥१७३॥उदीयमाने गुणसागरस्य गुणे गुणे रागरसेन शौरैः ।गोपाङ्गना गूढरसानुरागा मुहुर्मुहुर्मोहहता बभूवुः ॥१७४॥गोविन्दे गुरुसन्निधौ परवशावेशादनुक्त्वा गते सुप्तानां बकुलस्य शीतलतले स्वैरं कुरङ्गीदृशाम् ।स्वप्नालिङ्गनसङ्गतेऽङ्गलतिकाविक्षेपलक्ष्म्या मुहुर्मुग्धा वञ्चक मुञ्च मुञ्च कितवेत्युच्चैरुच्चेरुर्गिरः ॥१७५॥राधा माधवविप्रयोगविगलज्जीवोपयानैर्मुहुर्बाष्पैः पीनपयोधराग्रगलितैः फुल्लत्कदम्बाकुला ।अच्चिन्नश्वसनेन वेगगतिना व्याकीर्यमाणैः पुरः सर्वाशाप्रतिबद्धमोहमलिना प्रावृण् नवेवाभवत॥१७६॥ज्ञात्वा कंसः समायान्तौ कुमारौ रामकेशवौ ।चाणूरमुष्टिकौ मल्लौ विदधे तद्वधोद्यतौ ॥१७७॥अथ राजपथं प्राप्तौ बलात्सङ्कर्षणाच्युतौ ।राजार्हं चक्रतुश्चारुमाल्याम्बरविलेपनम् ॥१७८॥तौ विचित्राम्बरधरौ स्रग्विणौ चन्दनाचितौ ।जनतानन्दजननौ राजद्वारमवापतुः ॥१७९॥हर्म्यस्था देवकी दृष्ट्वा कृष्णं कमललोचनम् ।बाष्पसंरुद्धनयना मुमोह प्रस्रुतस्तनी ॥१८०॥अथ राजाज्ञयोत्सृष्टं महामात्राङ्कुशेरितम् ।गजं कुवलयपीडं ददर्शायान्तं केशवः ॥१८१॥क्रोधान्धं मम दोषदुःखतरं भूभारभूताकृतिंकुर्वाणं करदण्डकृष्टजनताजीवापहारं मुहुः ।मातङ्गं कुनृपोपमं मुरारिपुर्दृष्ट्वा प्रहारोद्यतंहस्तोत्पाटितया जघान निजया निर्दारितं दंष्ट्रया ॥१८२॥अथ राजाज्ञया मल्लनागौ चाणूरमुष्टिकौ ।कुमारयोरभिमुखौ चक्रतुर्जनसङ्क्षयम् ॥१८३॥जानुबन्धभुजाकर्षतलाघातघने रणे ।कृष्णश्चाणूरमवधीन्मुष्टिकं च हलायुधः ॥१८४॥भुजयोरिव कंसस्य मल्लयोश्च्युतयोस्तयोः ।भ्रूभङ्गभीषणस्योच्चैरुच्चचारोत्कटं वचः ॥१८५॥वध्यतां वसुदेवोऽयं क्रियतां तत्सुतक्षयः ।विधीयतां च गोपानामुचितं राजशासनम् ॥१८६॥कंसस्येति ब्रुवाणस्य मदोद्दामस्य गर्जतः ।दुष्टद्विपस्येव हरिर्वेगेनान्तिकमाद्रवत॥१८७॥सन्त्रस्ते वेत्रिसङ्घे नवभयसमयोद्भ्रान्तसामन्तचक्रेहस्तस्रस्ते तरुण्याः शशिकरधवले चामरे विह्वलायाः ।कृष्णः कंसं चकर्ष प्रविलुलितसितोष्णीषविश्लेषकेशैःक्रोधाग्नेर्धूममालामिव कुसुमचलद्भृङ्गमालां दधानम् ॥१८८॥आकृष्टस्य सुरारिणारुणमणिव्याकीर्णदीर्घद्युतिर्मौलिर्वक्षसि मौक्तिकांशुशबलः कंसासुरस्य च्युतः ।व्यक्तोऽभून्नरसिंहशुभ्रनखरव्यापारविश्रः क्षणंदीर्णस्येव पुनर्हिरण्यकशिपोः स्फीतः स्रुतासृग्भरः ॥१८९॥हत्वा दूरतराकृष्टं मदान्धं कंसकुञ्जरम् ।उग्रसेनं प्रविदधे राज्ये तज्जनकं हरिः ॥१९०॥पादयोर्वसुदेवस्य देवक्याश्चाच्युतः पतन।बभूवानन्दनिस्पन्दनिविडालिङ्गनातिथिः ॥१९१॥आविर्भूताः स्वयं विद्या कलाश्च सकलास्ततः ।निनाय स्पृहणीयत्वमवधानेन माधवः ॥१९२॥दक्षिणापथनाथस्य भीष्मकस्यात्मजां हरिः ।जहार रुक्मिणीं कन्यां लक्ष्मीं जन्मान्तरागताम् ॥१९३॥रुक्मिण्यामथ कृष्णस्य प्रद्युम्नः प्रथमः सुतः ।जाम्बवत्यामभूत्साम्बः प्रतिबिम्बनिभौ पितुः ॥१९४॥सुन्दरीणां सहस्राणि षोडशान्तःपुरे हरेः ।बभूवुस्तासु पुत्राणां लक्षसङ्ख्योऽभवद्गणः ॥१९५॥नाडायनीं चन्द्रसेनां प्रद्युम्नः प्राप वल्लभाम् ।यस्यामजीजनत्पुत्रमनिरुद्धं मनोभवम् ॥१९६॥ततः शक्रगिरारुह्य गरुडं गरुडध्वजः ।गगने दैत्यचक्राणां चक्रे चक्रायुधः क्षयम् ॥१९७॥मुरसुन्दहयग्रीवनरकाद्या महासुराः ।प्रययुश्चक्रिचक्राग्नौ क्षिप्रासङ्गपतङ्गताम् ॥१९८॥जरासन्धेन संरुद्धां मागधेन प्रमाथिना ।मथुरामथ सन्त्यज्य सानुगः प्रययौ हरिः ॥१९९॥द्वारकामथ कंसारिः पश्चिमाब्धितटे व्यधात।जितलङ्कालकानाकनागेन्द्रनगरीं पुरीम् ॥२००॥बलात्क्षीरोदजन्मानं पारिजातं जनार्दनः ।हृत्वा शक्रपुरोद्याना द्वारकायां न्यवेशयत॥२०१॥अत्रान्तरे कंससुहृत्करालः कालविग्रहः ।प्रतिज्ञां कालयवनश्चक्रे वृष्णिकुलक्षये ॥२०२॥कृष्णस्तं दुर्जयं मत्वा निःसहायो भुजायुधः ।बुद्धियुद्धे धियं धृत्वा ययौ यवनमण्डलम् ॥२०३॥हेमरत्नमयं तस्य प्रविश्य भवनं हरिः ।भयप्रदं यमस्यापि ददर्श यवनेश्वरम् ॥२०४॥सोऽपि कृष्णं विलोक्यैव पतितं भुजगोचरे ।मनोरथशतावाप्तं जिघृक्षुस्तं समाद्रवत॥२०५॥तस्मिन्नभिद्रुते रौद्रे जवेन प्रययौ हरिः ।न च पश्चाच्चचालास्य यवनः पूर्वकर्मवत॥२०६॥चतुःसमुद्ररशना विगाह्यापि महीं हरि ॥दृष्ट्वा तमचलं पश्चाद्विवेश हिमवद्गुहाम् ॥२०७॥तत्रेन्द्रार्थे हताशेषदैत्यस्य युगविस्तरः ।यातः कालः प्रसुप्तस्य मुचकुन्दस्य भूपतेः ॥२०८॥अर्धनिद्रादरिद्रं मां शयानं यः करिष्यति ।स भस्मसाद्यास्यतीति राजर्षिः समयं व्यधात॥२०९॥तस्य शय्याङ्कपर्यङ्कवक्रपादतलान्तरे ।तस्थावलक्षितः शौरिः शङ्कासङ्कोचिताकृतिः ॥२१०॥प्रविश्य कालयवनः शयानं वीक्ष्य भूपतिम् ।कृष्णोऽयमिति निश्चित्य निर्निद्रमकरोत्पदा ॥२११॥प्रबुद्धः कालयवनं पादस्पृष्टवपुर्नृपः ।दृशा ददाह निःशेषं निद्राशेषकषायया ॥२१२॥निर्दग्धे कालयवने पर्यङ्कचरणाञ्चले ।कायसङ्कलनालीनं दृष्ट्वा कृष्णमभाषत ॥२१३॥कस्त्वं परिमिताकारः कान्ताकर्णोत्पलद्युतिः ।बिभर्षि गुणगम्भीरमहो माहात्म्यमुन्नतम् ॥२१४॥इयतीं ह्रस्वतां याता सृष्टिः कालनिमीलिता ।मद्गुल्फपरिमाणं यद्वपुः स्वल्पतरं तव ॥२१५॥इत्युक्तो मुचुकुन्देन प्रश्रयप्रणयी हरिः ।स्ववृत्तं लोकवृत्तं च सर्वं तस्मै न्यवेदयत॥२१६॥कालं विशालं विज्ञाय क्ष्मापालः क्षणवद्गतम् ।दीर्घशय्यामिवोत्सृज्य भोगाशां समचिन्तयन॥२१७॥अहो कालगलत्सर्वभावभोगाभिमानभूः ।स्वप्नप्रकारः संसारः पर्यन्तासत्यविभ्रमः ॥२१८॥भूमिः सङ्कुचिता ग्रीष्मातपन्यस्तार्द्रचर्मवत।वैराग्यं जनयत्येव जराजीर्णेव कामिनी ॥२१९॥तानि मित्राण्यतीतानि ते भृत्यास्ते च बान्धवाः ।परेषु रमते नात्मा यूथभ्रष्ट इव द्विपः ॥२२०॥यस्मिन्नित्यमधूपमं तदखिलं कालेन लीढं सुखंयातं हन्त पुरातनं विरसतां क्षुण्णेक्षुशुल्कोपमम् ।आमाम्रप्रतिमस्य नास्त्यभिनवस्यास्वादने स्वादतानेदानीं मम कृतमस्ति महता राज्येन भोगेन वा ॥२२१॥मलिनाक्षमतां भूतिः सा भूतिः शोभतेऽधुना ।मुक्तिकान्ताधवलतां करोत्युद्धूलनेन या ॥२२२॥इति संचिन्त्य राजर्षिः कैलासं तपसे ययौ ।गत्वा कृष्णश्च वृष्णिभ्यः स्ववृत्तान्तं न्यवेदयत॥२२३॥उषानिरुद्धविवाहःबलेर्बाणासुरः सूनुरासीद्बाहुसहस्रवान।यस्यास्थानसभासभ्यो भगवानभूद्भवः ॥२२४॥दीप्तरत्नगृहालोकैः सृजन्सन्ध्यामिवानिशम् ।बभूवाकाशगं यस्य नगरं शोणिताबिधम् ॥२२५॥उषा नामाभवत्तस्य कन्या लावण्यवाहिनी ।आललम्बे स्तनतटीं यस्यां मज्जन्निव स्मरः ॥२२६॥युद्धं विना मे मिथ्यैव भाराय भुजकाननम् ।इति तेनार्थितः शर्वः प्राप्स्यसीति तमभ्यधात॥२२७॥हरं कदाचिदुद्याने देव्या सह विहारिणीम् ।दृष्ट्वोषा स्वविवाहाय स्पृहां चक्रे घनस्तनी ॥२२८॥यः करिष्यति ते स्वप्ने कन्याभावव्यतिक्रमम् ।भविष्यति स ते भर्ता तामुवाचेति पार्वती ॥२२९॥अथाययौ यौवनकृद्वल्लीनां कुसुमाकरः ।कुर्वाणः सरसां प्रीतिलतां जनमनोवने ॥२३०॥चञ्चच्चूतरजःपुञ्जपीताम्बरमनोहरः ।अतसीकुसुमश्यामः शुशुभे नवमाधवः ॥२३१॥नम्रानना नवोद्भूतरजसा स्तवकस्तनी ।मालती यौवनवती कन्येवोच्छ्वासिनी बभौ ॥२३२॥ववुर्मलयनिःश्वासा इव चन्दनचुम्बिनः ।पवनाः पन्नगीदंशशङ्कयेव शनैः शनैः ॥२३३॥कूजत्कोकिलकण्ठवंशविरुतैः स्फायिन्यवाप्ते परंचूतामोदमदाकुलालिपटलीवीणास्वनस्वादुताम् ।शिक्षाचक्षणदक्षदक्षिणमरुद्दत्तोपदेशक्रमैर्मञ्जर्यो ननृतुर्मधूत्सवलसत्पुष्पायुधाराधने ॥२३४॥हेमहर्म्यप्रसुप्ताथ नीता स्वप्ने मनोमुषा ।उषा केनापि कान्तेन शीलांशुकदरिद्रताम् ॥२३५॥तस्या धीधृतिचौरेण विज्ञाय हृदयं हृतम् ।हेलाहरणभीत्येव हारस्तरलतां ययौ ॥२३६॥लज्जामज्जनविह्वला ननननेत्यल्पप्रलापोद्गतिर्नीवीमुक्तिनिरोधनिर्धुतिविधौ पाणिः क्वणत्कङ्कणः ।शीतेनेव विकूजिता जवजुषः श्वासस्य शीत्कारितातस्या भ्रंशभयोच्चलत्कलकला क्श्ञ्ची सकम्पाभवत॥२३७॥प्रबुद्धा वृत्तकर्तव्या सा मुग्धा स्वप्नसत्यताम् ।मन्यमाना मुहुर्मोहं कुललज्जाकुला ययौ ॥२३८॥शयनं विप्लवस्थानं भयेनेव विहाय सा ।हर्म्यस्था प्रददौ प्रातर्दिक्षु चक्षुर्विलज्जिता ॥२३९॥सा सोत्कम्पकुचन्यस्तहस्तानभ्यस्तमन्मथा ।मुमूर्छादयन्तीव प्रविष्टं हृदये प्रियम् ॥२४०॥सा निशश्वास बाष्पाम्बुबिन्दुभिर्मौक्तिकैरिव ।छिन्नस्य शीलहारस्य कुर्वाणा ग्रथनं पुनः ॥२४१॥प्रदध्यौ नवविध्वंससाध्वसायासिता चिरम् ।क्षितौ सा चिन्तयानेव च्युतं चित्तमधोमुखी ॥२४२॥किं कस्य कथयाम्येतत्कं पृच्छामि करोमि किम् ।का गतिः केन दृष्टाहं कुतस्तत्सङ्गमः ॥२४३॥इति सन्देहनिष्पन्दां चिन्ताविक्रीतचेतनाम् ।विलोक्य चित्रलेखाख्या सखी प्राणसमावदत॥२४४॥तन्वि किं खेदभारोऽयं भीरु किं भयकारणम् ।पुत्री त्रैलोक्यभर्तुस्त्वं वध्यः कस्तेऽपराध्यति ॥२४५॥किं शय्यावलनाविमर्दगलितैः कर्णोत्पलस्य च्छदैर्लीनैः कामकृपाणलेशसदृशैर्व्याप्ता तवेयं तनुः ।भ्रश्यन्मौक्तिकयोर्बिभर्षि कुचयोर्भिन्नेभकुम्भभ्रमंस्पष्टोऽयं रतिसङ्गमव्यतिकरः कस्येति मे संशयः ॥२४६॥इत्युक्ते सस्मितं सख्या सनिःश्वासाश्रुवर्षिणी ।उषा शनैरवोचत्तां लिखन्ती क्ष्मामधोमुखी ॥२४७॥दृष्टः स्वप्ने मया कोऽपि रमणस्तनुकम्पनः ।पीयूषवर्षी संस्पर्शे स्मरणे मरणोपमः ॥२४८॥जाने कम्पतरङ्गिताङ्गलतिका स्वप्नेऽहमालिङ्गितासंस्पर्शे कुचयोः निरर्गलतया हारोऽपि पार्श्वे कृतः ।एतावत्तु सखि स्मरामि यदतो वृत्तं परं तत्परंधैर्यस्योद्दलनं शरीरशमनं ध्यात्वापि नो वेद्मि किम् ॥२४९॥मूर्च्छाच्छादितमीक्षते न नयनं तापे तनुः पच्यते कम्पः सूचयतीव जीवगमनं मोहे मनो मज्जति ।प्राग्जन्मार्जितकर्मणा बलवता कामेन कालेन वानो जानामि स केन मे धृतिहरः कण्ठे भुजगोऽर्पितः ॥२५०॥त्यज्यते सहजा लज्जा सह्यते गुरुवाच्यता ।गण्यते न घना कीर्तिर्यत्कृते सोऽपि दुर्लभः ॥२५१॥इयं शीलविलुप्तिर्मे मानम्लानिमहीयसी ।दुर्लभे वल्लभे प्रीतिस्तनुत्यागेन शाम्यति ॥२५२॥इति ब्रुवाणां तामश्रुकणाकीर्णकुचस्थलीम् ।सन्तापपिशुनोच्छ्वासां चित्रलेखावदत्सखीम् ॥२५३॥किं न स्मरसि मुग्धे त्वमहो विरहकातरा ।देव्यादिष्टः स ते स्वप्नदृष्ट एव वरो वरः ॥२५४॥समाश्वसिहि हे तन्वि तनुस्तापक्षमा न ते ।करोमि योगशक्त्याहमुपायं त्वत्समीहिते ॥२५५॥उल्लिख्य निखिलं चित्रपटे त्रिभुवनं तव ।सदृशं दर्शयाम्येव तत्रालोकय वल्लभम् ॥२५६॥इत्युक्त्वा चित्रलेखायां गतायां व्योमवर्त्मना ।उषा जीवमिवापेदे प्रियसन्दर्शनाशया ॥२५७॥साभ्येत्य तस्यास्त्रैलोक्यचित्रं पटमदर्शयत।किं दुष्करमदृश्यं वा योगिनां ज्ञानचक्षुषाम् ॥२५८॥उषा चित्रपटे दृष्ट्वा सुरासुरनरोरगान।ददर्श दयितं स्वप्नदृष्टं जितशशिस्मरम् ॥२५९॥अयं स सखि मे धैर्यहारी हृदयतस्करः ।इत्युषावचनं श्रुत्वा चित्रलेखा जगाद ताम् ॥२६०॥दिष्ट्या धन्यासि सुभगे यस्यास्ते नवमन्मथः ।लक्ष्मीवल्लभपौत्रोऽयमनिरुद्धाभिधः प्रियः ॥२६१॥प्रद्युम्नतनयस्यास्य लावण्यामृतदीधितेः ।कान्त्या क्षैब्यमिवायान्ति सुरविद्याधराङ्गनाः ॥२६२॥रूपेणाप्रतिमेन नेत्रसुखदः कन्दर्पदर्पच्छिदा शौर्ये वज्रधरोपमां न सहते धीरः सुमेरोरयम् ।अस्यामर्त्यमृगेक्षणाभिरनिशं सोत्कण्ठमाकर्णितंचन्द्रोत्सङ्गमृगापहं गुणगणं गायन्ति खे खेचराः ॥२६३॥पश्चिमाब्धौ हरिपुरी द्वारका वृष्णियादवैः ।सिंहैरिव महोत्साहैर्गुप्ता हैमवती गुहा ॥२६४॥तस्यामन्तःपुरे श्रीमान्वसत्येष प्रियासखः ।आनीयते कथं तावदिति दोलायते मनः ॥२६५॥त्वद्भाग्यानि पुरस्कृत्य गच्छामि गगनेन तम् ।हेलार्पिताद्भुतनिधिर्विधिः सिद्धिं विधास्यति ॥२६६॥इत्युक्त्वाकाशमाविश्य सा बभौ द्वारकां क्षणात।कुर्वाणा रशनारत्नैः शक्रचापचिता दिशः ॥२६७॥सा गूढमायया हृत्वा रत्नपर्यङ्कशायिनम् ।आनिनाय मुहूर्तेन व्योम्ना प्रद्युम्ननन्दनम् ॥२६८॥स्वप्नवृत्तान्तमावेद्य सकन्यान्तःपुरान्तरम् ।प्रवेशितस्तयापश्यदुषां रतिमिव स्मरः ॥२६९॥स तां दृष्ट्वा नवोन्मेषनिर्माणातिशयं विधेः ।अचिन्तयत्सुधापूरैरिव पूरितलोचनः ॥२७०॥इन्दोः सङ्क्षयरक्षणाक्षतसुधा किं वेधसा निर्मिताकिं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः ।किं तारुण्यवसन्तकान्तिलतिका शृङ्गारसिक्ता लताकिं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥२७१॥कटाक्षः सन्धत्ते कुवलयकुलक्लैब्यकलनांमुखे दृश्यश्चन्द्रद्युतिहरणहेलापरिचयः ।असंरुद्धा बाधाधरदलरुचिर्विद्रुमतरोर्अहो सारङ्गाक्ष्याः प्रसभविजयी रूपविभवः ॥२७२॥इति सर्वाङ्गनिर्मग्नलोचनस्तां विलोकयन।अनिरुद्धोऽधरे तस्या बभूवाशापथातिथिः ॥२७३॥सापि साङ्गमिवानङ्गं तमभ्यस्तं मनोरथैः ।विलोक्य प्रत्ययासत्ये पुनः स्वप्नमशङ्कत ॥२७४॥सोत्कम्पा कररोधेन राविणीं मणिमेखलाम् ।मुहुर्मौनवतीं चक्रे पैशुन्यचक्रितेव सा ॥२७५॥नवे मौनवति प्रेम्णि तयोः प्राह सखी पुरः ।दन्तांशुसूत्रैः कुर्वाणा ग्रथनं चित्तयोरिव ॥२७६॥यस्त्वया प्रेमकुसुमैर्देवश्चित्रपटेऽर्चितः ।अहो भक्त्या स ते तुष्टः सखि प्रत्यक्षतां गतः ॥२७७॥स्वप्नसम्पादितप्रीतिर्योऽर्थितस्तैर्मनोरथैः ।प्राक्पूजा कीदृशी तस्य ब्रूहि त्वमुपपद्यते ॥२७८॥ मौनमालम्बसे पृष्टा दृष्टा क्षौणीं निरीक्षसे ।लतेव कम्पसे कम्पात्कोऽयं ते चित्तविभ्रमः ॥२७९॥मानस्तत्क्षणशासनागतजने सुभ्रु क्व सम्भाव्यते स्वप्नाभ्यस्तसमागमेऽपि नववत्किं लज्जया लीयसे ।का तस्मिन्परता सदा वसति यश्चित्ते निबद्धो गुणैःप्रारब्धा सखि कस्य तावदियती प्रेम्णि त्वयापह्नुतिः ॥२८०॥इति सख्यां ब्रुवाणायामनिरुद्धः प्रगल्भताम् ।निनाय दयितां प्रौढः प्रणयैः प्रेमपेशलैः ॥२८१॥तदा प्रीतेर्यदायत्तं चिन्तितं यन्मनोरथैः ।मन्मथेन यदादिष्टं स्वैरं तत्तदभूत्तयोः ॥२८२॥दिनेष्वथ प्रयातेषु प्रच्छन्नधृतवल्लभा ।उषाभूदभिमानाक्तसम्भोगलक्षणा ॥२८३॥व्याकीर्णा कबरी मुखं वितिलकं ताम्बूललिप्तेऽक्षिणी कण्ठे कङ्कणलक्ष्म हारविरतिर्दंशोऽधरे निर्व्रणः ।प्रातः प्रच्युतचन्दना स्तनतटी सायं स्ववेषक्रियासम्भोगाभरणा तनुर्वरतनोः शाङ्कास्पदत्वं ययौ ॥२८४॥किञ्चिन्मुकुलिते लोके कन्यायाः कामलक्षणे ।फुल्ले शनैः कर्णपथं बाणस्यापि कथा ययौ ॥२८५॥तयस्तद्भ्रूभ्रमादिष्टाः किङ्कराः क्रूरकारिणः ।आययुर्युद्धसंनद्धाः कन्यकान्तःपुराङ्गणम् ॥२८६॥निरुद्धऊ प्रियया यत्नादनिरुद्धोऽथ सस्मितः ।घोरकिङ्करसङ्घाताञ् जघान परिधायुधः ॥२८७॥हतेऽयुते किङ्कराणां स्वयं बाणः समाययौ ।रथी बाहुसहस्रात्तसमस्तायुधमण्डलः ॥२८८॥शस्त्रवृष्टिं तदुत्सृष्टां प्राद्युम्निः खड्गचर्मभृत।छित्त्वा धैर्यनिधिश्चक्रे रणे बाणस्य विस्मयम् ॥२८९॥उषा सन्त्रासतरला पितुः पत्युश्च सङ्गरे ।प्राणेशपक्षपातेन भेजे सन्देहसाध्वसम् ॥२९०॥बाणेन प्रहितां शक्तिं मृत्युदंष्ट्रामिवोत्कटाम् ।आदाय तस्मै प्राद्युम्निस्तामेव प्राहिणोद्बली ॥२९१॥परहस्तगता शक्तिः प्रविष्टान्तः कृतव्यथा ।निजा सुतेव बाणस्य हृदये शल्यतां ययौ ॥२९२॥वीरं विज्ञाय तं बाणः स्पष्टयुद्धेन दुर्जयम् ।आदाय तामसीं मायामदृष्टः प्रविवेश खम् ॥२९३॥निरन्तैरस्मदुत्सृष्टैर्वेष्टिताङ्गं भुजङ्गमैः ।दृष्ट्वानिरुद्धं संरुद्धमुषाभून्मोहमीलिता ॥२९४॥बद्धेऽनिरुद्धे तनयां बाणः स्वैरापचारिणीम् ।आकृष्टः स्नेहकोपाभ्यां न तत्याज न चाग्रहीत॥२९५॥असंस्पृष्टं याच्ञावचनघनदैन्येन वदनं न कृच्छ्रेऽप्यारूढा गुणमणिततिर्विक्रयतुलाम् ।असेवासन्तापं वपुरननुभूतप्रभुभयंकुलं कन्याहीनं नहि नयति मानं मलिनताम् ॥२९६॥अत्रान्तरे द्वारकायामनिरुद्धापहारजः ।वृष्णीनामभवत्क्षोभः शोकचिन्तानुबन्धवान॥२९७॥बाणस्य नगरे रुद्धमनिरुद्धं सहोषया ।विज्ञाय नारदगिरा सस्मार गरुडं हरिः ॥२९८॥हलयुधेन सहितः प्रद्युम्नेन च सूनुना ।प्रययौ शोणितपुरं तार्क्ष्यमारुह्य माधवः ॥२९९॥खे योजनसहस्राणि विलङ्घ्य गरुडध्वजः ।दीप्तं बाणपुरं दूराद्ददर्शार्कशतोपमम् ॥३००॥अग्निमाहवनीयाख्यं तार्क्ष्यः प्राकाररक्षिणम् ।पीतोद्वान्तखगङ्गाम्बुनिर्झरेण न्यवारयत॥३०१॥पुरद्वारमथोन्मथ्य प्रविष्टं शार्ङ्गिणं बलात।निःसङ्ग्ख्याः सङ्ख्यसंनद्धा दितिजाः पर्यवारयन॥३०२॥चक्रिचक्रनिकृत्तानां शरीराणि सुरद्विषाम् ।चक्रुः पक्षक्षयक्षिप्तनिपतत्क्षितिभृद्भ्रमम् ॥३०३॥अत्रान्तरे नागपाशपञ्जरे सिंहविक्रमः ।बद्धोऽनिरुद्धः सस्मार दुर्गां स्तुतिपदार्चिताम् ॥३०४॥निष्पिष्टमत्तमहिषासुरमस्तकाग्रप्रत्यग्रनिर्गतघनस्रुतिशोणितार्द्रम् ।पादाम्बुजं पुनरलक्तकभक्तिचित्रंवन्दे भवप्रभवतापहरं भवान्याः ॥३०५॥शूलप्रहारसृतरक्तभरैकबिन्दुसंजातघोररुरुलक्षगुरुप्रमाथे ।पातालमूलगननान्तविकासितास्यग्रस्तोग्रदानवतनुं प्रणमामि कालीम् ॥३०६॥भीमोद्भवद्विभवशुब्म्हनिशुम्भकायनिष्पेषदुःसहतराशनिघातघोराम् ।कात्यायनीं स्वकरकृत्तशिरःशरीरवीरोपहारपरितोषवतीं नमामि ॥३०७॥क्षुभ्यत्सप्तार्णवघनरवः पद्मगर्भाण्डखण्डाकाण्डभ्रंशप्रभसरभसः सप्तपातालभेदी ।धैर्योन्माथी जयति चकिताशेषलोकेश्वराणांचण्डश्चण्ड्याः प्रलयसमयोत्साहलीलाट्टहासः ॥३०८॥इति स्तुता भगवती दुर्गा दुर्गापहारिणी ।स्वकरस्फोटितोग्राहिपञ्जरं तममोचयत॥३०९॥भुजङ्गपाशनिर्मुक्तः प्राद्युम्निः समराङ्गणम् ।प्रययौ युध्यमानस्य समीपं कालियद्विषः ॥३१०॥अथ कल्पान्तपर्जन्यगर्जितोर्जितविभ्रमः ।बाणासुररणारम्भदुन्दुभिध्वनिरुद्ययौ ॥३११॥दैत्येन्द्रायुधवृष्टिनष्टगमने सेनारजः स्फूर्जितग्रस्ताग्रे प्रसरत्पिनाकिविशिखव्रातावकीर्णे रणे ।कल्पान्तागमशङ्किते त्रिभुवने चेरुः शरीरच्छिदः शूराणामनिरुद्धराममुरजित्प्रद्युम्नमुक्ताः शराः ॥३१२॥गरुडादवरुह्याथ बलेन बलिना रणे ।हलेन हलिना कृष्टा दैत्यदेहा द्विधा ययुः ॥३१३॥ततस्त्रिनेत्रानुचरः प्रदीप्तस्त्रिशिखज्वरः ।क्षिप्तेन भस्मना रमं भ्रममूर्च्छाकुलं व्यधात॥३१४॥सन्तापमूर्च्छितं कृष्णस्तं परिष्वज्य विद्रुतम् ।कृत्वा जटाभिराकृष्य जग्राह ज्वरमञ्जसा ॥३१५॥कृष्णोऽप्यथ ज्वराविष्टः श्वसन्रोमाञ्चं कर्कशः ।असृजद्वैष्णवं घोरं ज्वरं रौद्रज्वरापहम् ॥३१६॥ज्वरयोः सम्प्रवृत्तेऽथ भुवनाकम्पने रणे ।वैष्णवः प्रलयार्काभः शार्वं ज्वरमपातयन॥३१७॥कण्ठे निपीड्य निष्पिष्टस्तेन रुद्रज्वरः क्षितौ ।प्रयातः शरणं कृष्णमवदद्बाष्पगद्गदः ॥३१८॥देवेन त्रिपुरारिणा त्रिजगतीजीवापहारक्षमः सृष्टः स्पष्टविनष्टधरियशरणिर्देव त्वयाहं कृतः ।त्वां यातः शरणं शरीरधृतये त्वन्नाममन्त्राक्षरक्षिप्ताप्तस्मृतिजापिनां न भविता मत्स्पर्शतापः क्वचित॥३१९॥इति भीत्या ब्रुवाणं तं ररक्ष गरुडध्वजः ।शरणाप्ते विरुद्धेऽपि वैरक्रूरा न साधवः ॥३२०॥ततः श्रीकण्ठवैकुण्ठौ व्याप्तदेहौबभूवतुः ।पिनाकशार्ङ्गनिर्गच्छद्बाणजालैर्निरन्तरैः ॥३२१॥क्षणं तुल्ये तयोर्युद्धे जगत्सङ्क्षयकारिणि ।घनैः शौरिशरासारैर्ययौ विमुखतां हरः ॥३२२॥ग्रस्तशक्तेः कुमारस्य जितस्य हरिणा रणे ।रक्षायै शम्भुना सृष्टा तस्थौ नग्नाङ्गना पुरः ॥३२३॥अथ बाणः स्वयं योद्धुं मधुसूदनमाययौ ।क्षिपन्बाहुसहस्रेण दीप्तायुधपरम्पराम् ॥३२४॥सहस्राश्वं रथं तस्य मनोरथमिवायतम् ।ससूतं शरवर्षेण प्रममाथ मुरान्तकः ॥३२५॥उपनीतं गणैस्तूर्णं शासनात्त्रिपुरद्विषः ।मऊरमारुरोहाथ बाणः षण्मुखवाहनम् ॥३२६॥यत्नेन युध्यमानस्य च्छिन्नास्त्रस्य मुरारिणा ।मुक्तकेशी विवस्त्रा स्त्री बाणस्याग्रे व्यदृश्यत ॥३२७॥रक्षायै कौटवीं सृष्टां तस्य देवेन शूलिना ।वञ्चयित्वाच्युतश्चक्रं पार्श्वाञ्चितमथासृजत॥३२८॥चक्रं क्रमेण पतितं स्कन्धयोः कीर्णपावकम् ।चकर्त क्रकचक्रूरं बाणस्य भुजकाननम् ॥३२९॥चक्रोत्कृत्तभुजद्रुमव्रणमुखोद्भूतैर्घनासृग्भरैःप्रोद्यद्विद्रुमपादपानुकृतिभिस्तुल्यप्रमाणैः क्षणम् ।अप्राप्तोद्धतयुद्धतृप्तिरधिकश्रद्धः स वीरोऽभवद्व्याप्तः सततरक्तचन्दनचितैर्जातैरिवान्यैर्भुजैः ॥३३०॥बाणाश्छिन्नभुजोऽभ्येत्य शम्भोर्भगवतश्चिरम् ।ननर्त प्रियनृत्तस्य तोषाय प्रणयी पुरः ॥३३१॥भक्त्याभवद्भगवतः स भवस्यातिवल्लभः ।वरान्नन्दिसमः श्रीमान्महाकालश्चतुर्भुजः ॥३३२॥कल्याणं तनुते यशः परिचितां लक्ष्मीं ददात्यक्षयाम्आक्रान्तिं विदधाति सप्तभुवनन्यस्तेप्सिताज्ञाक्षराम् ।संसारं कुरुते विकारिनिकरं निःशेषमेव क्षणाद्भक्तिः कल्पलता चराचरगुरोः किं किं न सूते फलम् ॥३३३॥उषासहितमादाय प्रद्युम्नतनयं ततः ।द्वारकां विजितारातिर्जगाम गरुडध्वजः ॥३३४॥कदाचिदथ देवर्षिर्द्वारकामेत्य नारदः ।अवाप्य पूजामुचितां कथान्ते कृष्णमभ्यधात॥३३५॥गङ्गाभिलाषी नृपतिर्ब्रह्मशापान्महाभिषः ।भरतस्य कुले जातः शन्तनुः प्रतिपात्मजः ॥३३६॥गङ्गापि धातुः शापेन पतन्ती वसुभिः पथि ।वशिष्ठशापपतितैर्होमधेनुनिकारतः ॥३३७॥स्वजन्मनेऽर्थिता जाता वधाय च महीं गता ।स्वतीरोपवनोपान्ते विचचार सुलोचना ॥३३८॥तत्र शन्तनुना गङ्गा सङ्गमं गजगामिनी ।भेजे यथेष्टकरणप्रत्याख्यानधृतावधिम् ॥३३९॥सा जातानवधीत्सप्त स्वून्स्वेच्छाविधायिनी ।जातेऽष्टमे सुते राज्ञा निरुद्धा प्रययौ दिवम् ॥३४०॥देवव्रताख्यः स शिशुर्दिवि देवैः कृतव्रतः ।सर्वविद्यापगाम्भोधिर्ववृधे वसुरष्टमः ॥३४१॥दृष्ट्वा कदाचित्कालिन्दीकूले कुवलयेक्षणाम् ।शन्तनुर्दाशतनयां तत्पितुर्याचकोऽभवत॥३४२॥गाङ्गेयस्त्वत्सुतः क्ष्माभृद्दौहित्रो मे न राज्यभाक।इत्युक्त्वा न ददौ दाशस्तस्मै सत्यवतीं सुताम् ॥३४३॥देवव्रतः पितुर्ज्ञात्वा तीव्रस्मरशरव्यथाम् ।गत्वा ययाचे दाशेशं तनयां विनयोन्नतः ॥३४४॥दौहित्रवंशराज्यार्थी स सुतां न ददौ यदा ।तदा राज्ये विवाहे च गाङ्गेयः समयं व्यधात॥३४५॥भीषणीयप्रतिज्ञात्वाद्भीष्मोऽयमिति खे चिरम् ।विचचारोदिताश्चर्यं खेचरोच्चारितं वचः ॥३४६॥आनीतामथ भीष्मेण कन्यामासाद्य शन्तनुः ।परितोषाद्ददौ तस्मै स्वच्छन्दनिधनं वरम् ॥३४७॥कालेन जनयित्वाथ पुत्रं चित्राङ्गदाभिधम् ।तसां विचित्रवीर्यं च शन्तनुस्तनुमत्यजत॥३४८॥ततश्चित्राङ्गदो राजा गन्धर्वेण प्रमाथिना ।चित्राङ्गदेन समरे नामद्वेषान्निपातितः ॥३४९॥शिशोर्विचित्रवीर्यस्य प्राप्तराज्यश्रियः कृते ।जहार काशीराजस्य भीष्मः कन्याः स्वयंवरे ॥३५०॥भ्रात्रे विचित्रवीर्याय हस्तिनापुरमेत्य सः ।त्यक्त्वा साल्वोत्सुकामम्बामम्बिकाम्बालिके ददौ ॥३५१॥राजचूततरौ तस्मिन्नवयौवनमाधवे ।कान्तालतावलयिते यातिते कालदन्तिना ॥३५२॥विच्छिन्ने शन्तनोर्वंशे तत्पुत्रक्षेत्रजार्थिना ।भीष्मेण प्रेरिता साध्वी प्राह सत्यवती शनैः ॥३५३॥कानीनस्तनयो मेऽस्ति तत्तु कामात्पराशरात।सञ्जातो यमुनाद्वीपे कृष्णद्वैपायनो मुनिः ॥३५४॥तं स्मरामि सुतक्षेत्रपुत्रोत्पत्त्यै तपोनिधिम् ।उक्त्वैति सा भीष्ममते तं सस्मार स चाययौ ॥३५५॥अम्बाश्वश्र्वा विसृष्टाथ तेजोराशिं विलोक्य तम् ।निमीलिताक्षी तद्दृष्टिस्पृष्टा गर्भं समाददे ॥३५६॥अन्धोऽक्षिमीलनात्सूनुर्भावीत्युक्ते महर्षिणा ।द्वितीयं जनयापत्यमिति माता जगाद तम् ॥३५७॥भयपाण्डुरवक्त्रान्या लेभे गर्भं मुनेर्दृशा ।अप्रसूतिः सुतः पाण्डुर्भवितेत्यभ्यधान्मुनिः ॥३५८॥तस्यां भयाद्विसृष्टायां शूद्रायां गर्भसम्भवे ।धर्मावतारमुक्त्वास्याः पुत्रं प्रायान्महामुनिः ॥३५९॥जातेऽन्धे धृतराष्ट्रेऽथ पाण्डौ च भुजशालिनि ।माण्डव्यशापभूर्धर्मः शूद्रायां विदुरोऽभवत॥३६०॥धृतराष्ट्राय गान्धारीं सुबलस्तनयां ददौ ।कुन्तिभोजसुतां कुन्तीं पाण्डुर्माद्रीमावाप च ॥३६१॥युवा दिग्विजयी पाण्डुर्मृगयाव्यसनी वने ।मृगरूपरतासक्तमवधीत्किन्दमं मुनिम् ॥३६२॥भविष्यसि त्वं दयितारतिपर्यन्तजीवितः ।तेनेति शप्तस्त्यक्तश्रीर्ययौ पाण्डुस्तपोवनम् ॥३६३॥ततः पुत्रशतं लेभे गान्धारी तुल्यगर्भजम् ।ज्येष्ठो दुर्योधनस्तेषां तस्य दुःशासनोऽनुजः ॥३६४॥कुन्ती मुनिवरावाप्तमन्त्रा भतुरनुज्ञया ।धर्मानिलेन्द्रानाहूय वने पुत्रानजीजनत॥३६५॥युधिष्ठिरं भीमसेनमर्जुनं च सुरोचितान।सपत्न्या दत्तमन्त्रा च माद्री प्रापाश्विनौ यमौ ॥३६६॥स्नातां पुष्पोच्चये माद्रीं विलोक्य कुसुमागमे ।आलिङ्ग्यानङ्गसङ्गेऽभूत्पाण्डुः शापादजीवितः ॥३६७॥प्रयाते त्रिदिवं पाण्डौ पाण्डुपुत्राः पितृव्यजैः ।वृद्धिआगता धार्तराष्ट्रैः सह दुर्योधनादिभिः ॥३६८॥भीष्मः पितामहस्तेषां चापाचार्यं कृपं व्यधात।द्रोणं च सर्वशिष्यस्य शिष्यं रामस्य धन्विनः ॥३६९॥अश्वत्थामा प्रियः सूनुर्द्रोणस्य तनयोऽभवत।यथार्जुनः समतास्त्रविद्याविमलदर्पणः ॥३७०॥कन्यायां गूढजन्मा यः कर्णः कुन्त्यां विवस्वतः ।प्रयातः सूतपुत्रत्वमस्त्राणि प्राप भार्गवात॥३७१॥संस्पर्धयार्जुनरणाह्वानधीरोऽस्त्रदर्शने ।नीतस्तत्प्रतिमल्लत्वात्कौरवेणाङ्गराजताम् ॥३७२॥ततः कर्णेन संमन्त्र्य भ्रात्रा दुःशासनेन च ।दुर्योधनः पाण्डवानां धियं गूढवधे व्यधात॥३७३॥ते तेन विहिते दीप्ते जतुवेश्मनि निर्गताः ।विदुरेण रहः स्नेहान्निर्दिष्टबिलनिर्गमाः ॥३७४॥युधिष्ठिरार्जुनौ कुन्तीं वहन्भीमो महाबलः ।नकुलं सहदेवं च विवेश निशि काननम् ॥३७५॥तत्रोग्रविग्रहं हत्वा हिडिम्बं राक्षसेश्वरम् ।भीमस्तदनुजां भेजे हिडिम्बां दिव्यरूपिणीम् ॥३७६॥जाते घटोत्कचे तस्याः पुत्रे भीमपराक्रमे ।एकचक्रां पुरीं जग्मुः प्रच्छन्नाः पाण्डुनन्दनाः ॥३७७॥प्रजाक्षयक्षमस्तत्र राक्षसोऽभूद्बकाभिधः ।यस्मै राजान्नशकटं प्राहिणोत्सनरं सदा ॥३७८॥स्थिता विप्रगृहे कुन्ती सहभिक्षाशनैः सुतैः ।बकवारे दिव्जस्याप्ते भीमं तद्दययादिशत॥३७९॥व्रजन्भीमोऽन्नशकटं भुञ्जानः क्रोधसम्मुखम् ।बकं हत्वा द्विजगृहं विवेशालक्षितो निशि ॥३८०॥अथ दूरपथायातैः कथितं पथिकद्विजैः ।नानाकथाप्रसङ्गेन शुश्रुवुः पाण्डुनन्दनः ॥३८१॥पाञ्चाल्यो द्रुपदः पूर्वं द्रोणस्य सुहृदः शिशुः ।व्यधाद्दास्यामि ते प्राप्तराज्यार्धमिति संविदम् ॥३८२॥द्रोणेन प्राप्तराज्योऽथ सोऽर्थितः प्रददौ न तत।भिक्षाभुग्ब्राह्मणो राज्ञः कथं मित्रमिति ब्रुवन॥३८३॥इति द्रोणः कृतस्तेन राज्ञा भग्नमनोरथः ।अर्जुनेन रणे बद्धं तं राज्यार्धमदापयत॥३८४॥ततस्तेनावमानेन पुत्रं द्रोणवधक्षमम् ।अभिचारोग्रयागेन द्रुपदः सममाप्तवान॥३८५॥यागाग्निमध्याज्जातोऽस्य धृष्टद्युम्नाभिधः सुतः ।कृष्णा च कन्यका यस्याः प्रत्यासन्नः स्वयंवरः ॥३८६॥वयं तत्रैव गच्छामः सर्वराजसमागमे ।प्राप्तुं प्रतिग्रहाभ्यर्चामित्युक्त्वा प्रययुर्द्विजाः ॥३८७॥ततः पाञ्चालनगरं व्रजन्तः पाण्डवा निशि ।गन्धर्वराजं ददृशुर्गङ्गाम्भसि विहारिणम् ॥३८८॥विवस्त्रान्तःपुरवधूदर्शनक्रुद्धमर्जुनः ।व्याधाद्दग्धरथं युद्धे तमाग्नेयास्त्रतेजसा ॥३८९॥युधिष्ठिरेण कृपया रणे रक्षितजीवितः ।सख्यं किरीटिना कृत्वा जितश्चित्ररथो ययौ ॥३९०॥ततः प्रभाते प्रच्छन्नाः पाण्डवाः विप्ररूपिणः ।प्रविश्य पाञ्चालपुरं कुम्भकारगृहे स्थिताः ॥३९१॥इत्युक्त्वा नारदे याते सङ्कर्षणजनार्दनौ ।जग्मतुर्लक्ष्यभेदाङ्कं द्रष्टुं कृष्णास्वयंवरम् ॥३९२॥तौ पाञ्चालपुरं प्राप्य सर्वराजसमागमे ।पूज्यमानौ विविशतुः स्वयंवरसभागृहम् ॥३९३॥हेमासनोपविष्टेषु द्रौपदी सर्वराजसु ।जगज्जयपातकेव कन्दर्पस्य समाययौ ॥३९४॥राधावेधपणे तस्मिन्भुजलभ्ये स्वयंवरे ।अशक्ताः पार्थिवाः सर्वे ययुर्लज्जानिलीनताम् ॥३९५॥विलक्षेषु क्षितीशेषु द्विजमध्यादथोत्थितः ।विद्ध्वा धनञ्जयो लक्ष्यं क्षितौ क्षिप्रमपतयत॥३९६॥हारं कण्ठे विनिक्षिप्य द्रौपद्या फाल्गुने वृते ।युद्धोद्धताः समुत्तस्थुः क्रुद्धा सर्वे क्षितीश्वराः ॥३९७॥जित्वाथ शल्यकर्णादीन्वीरान्भीमधनञ्जयौ ।पुरः कृष्णां समादाय ययतुर्भ्रातृभिः सह ॥३९८॥भिक्षेवोपनता कृष्णा सहेयं भुज्यतामिति ।चक्रुस्ते शासनान्मातुः सहभोगाय संविदम् ॥३९९॥रामकृष्णौ निशि स्वैरं कुम्भकारगृहे स्थितान।पाण्डवानेत्य सानन्दौ प्रेम्णा सम्भाष्य जग्मतुः ॥४००॥अन्विष्य द्रुपदस्तेषां विज्ञायाधर्मनिश्चयम् ।कृष्णायाः बहुपत्नीत्वं विरुद्धं नाभ्यमन्यत ॥४०१॥ततस्तं भगवान्व्यासः समभ्येत्यावदन्मुनिः ।पञ्चेन्द्राः समदाः पुर्वं क्रुद्धा बद्धा पिनाकिना ॥४०२॥त एव पाण्डवा जाताः स्वर्गश्रीस्तव चात्मजा ।तेषामेकैव सा पत्नी नैवायं धर्मसङ्करः ॥४०३॥इत्युक्त्वा मुनिना दत्तदिव्यदृष्टिर्नरेश्वरः ।सत्यं विज्ञाय तत्सर्वं तद्विवाहममन्यत ॥४०४॥ज्ञात्वा जतुगृहान्मुक्तान्पाण्डवाप्राप्तसंश्रयान।हस्तिनापुरमानाय्य धृतराष्ट्रोऽभ्यपूजयत॥४०५॥इन्द्रप्रस्थेऽभिषिक्तोऽथ तेन राजा युधिष्ठिरः ।गुणैः श्रियं श्रिया धर्मं धर्मेण प्राप्तवान्यशः ॥४०६॥निर्दिष्टां नारदेनाथ मुनिना भेदभीरुणा ।भूतये पाण्डवाश्चक्रुर्मर्यादां दृढनिश्चयाः ॥४०७॥अन्तःपुरे भ्रातरं यः पश्येत्कृष्णासखं रहः ।अविश्रान्तः स तीर्थानि व्रजे द्वादशवत्सरीम् ॥४०८॥चौरात्तं गोगणं विप्राक्रन्दाकृष्टस्ततोऽर्जुनः ।आजहार समादाय धर्मजान्तःपुराद्धनुः ॥४०९॥स्मृत्वाथ संविदं पार्थस्तीर्थार्थी जाह्नवीजले ।मज्जन्नुलूपीं पाताले नागकन्यामवाप्तवान॥४१०॥जनयित्वा सुतं तस्यामिरावन्तं जगाम सः ।नगरं मणिपूराख्यं चित्रवाहनभूपतेः ॥४११॥प्राप्य तस्य सुतां कन्यां पार्थः पृथुललोचनाम् ।चित्राङ्गदां सुतं तस्यां बभ्रुवाहनमाप्तवान॥४१२॥सर्वतीर्थाप्लुतः प्राप्य प्रभासं श्वेतवाहनः ।रैवताचलयात्रायां प्राप वृष्णिसमागमम् ॥४१३॥अर्जुनोऽथ धृतोत्कण्ठः शैलारोहसमुत्सवे ।उत्साहोच्छलितं चेतः सानुगस्य हरेर्व्यधात॥४१४॥तत्र कृष्णानुजां दृष्ट्वा सुभद्रां कामकौमुदीम् ।कन्यामनुमतेर्शौरेर्जहार श्वेतवाहनः ॥४१५॥युद्धोद्धतान्वृष्णिवीरान्परिसान्त्व्य जनार्दनः ।निःसङ्ख्यं द्रविणं दातुमर्जुनाय ययौ स्वयम् ॥४१६॥इन्द्रप्रस्थमथासाद्य सुभद्रासहितोऽर्जुनः ।प्रणम्य धर्मजं भेजे कृष्णेन सहितः सुखम् ॥४१७॥अभिमन्युं सुभद्रायां पार्थः पुत्रमजीजनत।द्रौपदी प्रतिविन्ध्याद्यान्पतिभ्यः पञ्च चात्मजान॥४१८॥ततः कदाचिद्यमुनाजलकेलिविहारिणम् ।सकृष्णमर्जुनं विप्ररूपः प्राह हुताशनः ॥४१९॥उचितं दीयतां मह्यं भवद्भ्यां भोजनं हितम् ।अर्थिनामर्थनाबन्ध्या न भवन्ति भवद्विधाः ॥४२०॥श्वेतकेर्नृपतेः पूर्वं यज्ञे द्वादशवर्षिके ।अच्छिन्नाज्यभरेणाहमनलो जडतां गतः ॥४२१॥वनं स्वास्थ्याय सत्वाढ्यं दग्धुमिच्छामि खाण्डवम् ।रक्षतीन्द्रः सुहृन्मेघैस्तक्षस्यास्पदं हि तत॥४२२॥व्यस्तमेघौघविघ्नोऽहं भवत्सायकसञ्चयैः ।अखण्डः खाण्डववनं ज्वलाम्येतन्ममाशनम् ॥४२३॥इति वह्निर्वदन्नर्थी ताभ्यामङ्गीकृतेप्सितः ।धनुः पार्थाय गाण्डीवं ददौ चक्रं च चक्रिणे ॥४२४॥तद्दत्तं रथमारुह्य तदीयाक्षयसायकः ।हरिणा सह संनद्धः किरीटी खाण्डवं ययौ ॥४२५॥अग्नौ प्रज्वलिते वराहमहिषव्याघ्रद्विपद्वीपिनांनिष्पीतायुषि गाढलीढगगने दैत्यातिदेहद्रुहि ।रुद्धे मेघजलेऽर्जुनास्त्रपटलैर्युद्धोद्धतं वज्रिणं विष्णुः सायकवर्षीणं विमुखतां बाणैर्निनायाक्षयैः ॥४२६॥सुतमथ मयलीलं तक्षकस्याश्वसेनंजठरमपि जनन्याः सम्प्रविश्य द्रवन्तम् ।अकृत दिवि किरीटी पत्रिणा खण्डपुच्छभयमपि शरणाप्तं चक्रिभीतं ररक्ष ॥४२७॥ततः कृष्णाज्ञया दिव्यां सभां मणिमयीं मयः ।विदधे धर्मपुत्रस्य प्राणरक्षाप्रतिक्रियाम् ॥४२८॥तस्यां सभायामाश्चर्यनलिन्.ईं निर्ममे मयः ।नीलरत्नोत्पलवतीं हेमाब्जां स्फटिकोदकाम् ॥४२९॥सभासीनमथाभ्येत्य धर्मजं नारदोऽवदत।राजन्न लोकपालानां त्वत्समासदृशी सभा ॥४३०॥यजस्व राजसूयेन कुरुष्व सफलां श्रियम् ।इति त्वामवदत्पाण्डुः पिता शक्रसभास्थितः ॥४३१॥इत्युक्त्वा नारदे याते राजसूयमनोरथम् ।अकुण्ठत्कण्ठया राजा वैकुण्ठाय न्यवेदयत॥४३२॥कृष्णस्तमूचे श्लाघ्येषा धर्मधीः किन्तु मागधे ।न जीवति जरासन्धे क्रतुः कर्तुं न शक्यते ॥४३३॥रुद्रयागोपहाराय तेन रुद्धा गिरिव्रजे ।षडशीतिर्नृपतयस्तस्य शेषाश्चतुर्दश ॥४३४॥शरीरार्धद्वयं जातं जरा निशि निशाचरी ।सन्धाय विदधे बालं जरासन्धं तमुक्तटम् ॥४३५॥तत्सन्निरोधविश्वस्ताः सन्त्यज्य मथुरां वयम् ।विधाय द्वारकां दुर्गां पश्चिमाब्धितटे स्थिताः ॥४३६॥इति स्वैरं ब्रुवाणेन नृपः संमन्त्र्य शौरिणा ।व्यादिशन्मागधवधे भीमपार्थौ भुजाविव ॥४३७॥ततः स्नातकवेषेण प्रच्छन्नछत्रवृत्तयः ।जरासन्धपुरीं जग्मुः कृष्णभीमधनञ्जयाः ॥४३८॥तत्र त्रयोदशाहानि युयुधाने भुजायुधौ ।वीरौ भीमजरासन्धौ श्रान्तोऽभून्मागधस्ततः ॥४३९॥ततः सन्धिं द्विधा कृत्वा हते भीमेन मागधे ।मुमोच कृष्णः क्षितिपान्यज्ञागमनसंविदा ॥४४०॥भीमः किरीटी नकुलः सहदेवश्च दिग्जये ।आजहुर्विपुलं वित्तं राज्ञे यज्ञभरक्षयम् ॥४४१॥कृतेषु शैलतुल्येषु रत्नकाञ्चनराशिषु ।राजसूयसमारम्भः प्रावर्तत महीपतेः ॥४४२॥प्राप्ता निमन्त्रितास्तस्मिन्भीष्मद्रोणादयः क्रतौ ।धृतराष्ट्रः सविदुरः सामात्यश्च सुयोधनः ॥४४३॥अशेषदेवर्षिभृते सर्वराजमये मखे ।अर्ध्यार्चितं हरिं सेहे शिशुपालो न भूपतिः ॥४४४॥तस्याधिक्षेपदक्षस्य क्ष्मापतेः क्षयलक्ष्मणा ।न्यपातयत्क्षितौ क्षिप्रं चक्रेणाधोक्षजः शिरः ॥४४५॥क्रतौ समाप्ते यातेषु महर्षिषु नृपेषु च ।तस्थौ दुर्योधनस्तत्र शकुनिश्चास्य मातुलः ॥४४६॥पद्मिन्यां विहरन्वारिशङ्कया स्फाटिके जले ।चरन्नुत्क्षिप्तवसनः सत्याम्भसि ममज्ज सः ॥४४७॥तस्य स्खलितमालोक्य हर्म्यस्था राजवल्लभाः ।जहसुर्भीमसेनश्च बभूवाङ्कुरितस्मितः ॥४४८॥लज्जावमानमलिनः कौरवः स्वपुरं व्रजन।पृष्टः शकुनिना प्राह ग्लानिवैवर्ण्यकारणम् ॥४४९॥धर्मसूनोर्मखे सा श्रीस्ते भूपालाः करप्रदाः ।सङ्ख्यातीतं च तद्दानं मर्मशल्यायते मम ॥४५०॥पद्मिन्यामुपहासो मे पद्मस्येव हिमाशिनः ।पतितः क्षीयते जाने न शरीरक्षयं विना ॥४५१॥इति प्रलापी शोकोष्णं द्वेषावेशात्सुयोधनः ।वार्यमाणः शकुनिना न्यवर्तत न दुर्मतिः ॥४५२॥परोत्कर्षद्वेषः खरखदिरचूर्णानलनिभश्चुतश्चित्ते दाहं दिशति निशितक्लेशमसताम् ।परोत्साहे चन्द्रप्रचयसचिवः किं च महताम्अनन्तः सन्तोषश्चरति हृदये चन्दनरसः ॥४५३॥ततः स धृतराष्ट्राय विवर्णः पाण्डुरः कृशः ।निवेदितः शकुनिना तं द्यूताज्ञामयाचत ॥४५४॥कृच्छ्रात्कृताभ्युपगमः स पित्रा द्यूतकैतवे ।अकारयन्मणिमयैः कुशलैः शिल्पिभिः सभाम् ॥४५५॥स धर्मजं राजसूयसमयादनिवर्तनम् ।आहूय विदधे छद्मद्यूतं शकुनिमायया ॥४५६॥कूटाक्षक्षपिताशेषकोषसैन्यपरिच्छदः ।पणं भ्रात्èनथात्मानं कृष्णां च विदधे नृपः ॥४५७॥दुःशासनाकराकृष्टकेशीमथ रजस्वलाम् ।कृष्णां द्यूतजितां दासीमानिनाय सुयोधनः ॥४५८॥तत्कोपादकरोद्भीमः प्रतिज्ञामूरुभञ्जने ।युधि दुर्योधनस्यासृक्पाने दुःशासनस्य च ॥४५९॥वने द्वादशवर्षाणि निवासाय पणे कृते ।त्रयोदशे तथाज्ञाते विजिताः पाण्डवाः ययुः ॥४६०॥हारार्हे तनुचीनपट्टपवनत्वङ्गत्तरङ्गोद्भवेधृत्वाङ्गे हरिचन्दनेन्दुमृगजाभ्यङ्गे कुरङ्गत्वचम् ।कृत्वा रत्नकिरीटधाम्नि च जटा जग्मुर्वनं पाण्डवानिःसत्या भ्रमयन्ति पण्यवनिताप्रेमोपमाः सम्पदः ॥४६१॥स्खलद्विद्युल्लेखाङ्कुरमुखमयूखोपमसुखाःश्रियश्चापाकर्षोच्चलितहरिणीवेगगमनाः ।विवाहोत्साहाप्ताः क्षणमिव सुहृद्बान्धवजना न संसारे स्वप्नभ्रमपरिचये किंचिदचलम् ॥४६२॥ततः स्तुतिप्रसन्नार्कनिर्दिष्टाक्षयभोजनैः ।द्विजपूजाजुषस्तस्थुः काम्यके पाण्डवा वने ॥४६३॥धृतराष्ट्रं परित्यज्य भ्रातृजच्छद्मखेदवान।विदुरः काम्यकं यातः प्रार्थितः पुनराययौ ॥४६४॥सोऽवदद्भ्रातरं राजन्पुत्रस्नेहवता त्वया ।कुललक्ष्मीलतामूले कुठारः कठिनोऽर्पितः ॥४६५॥यत्प्राह भगवान्व्यासः पथ्यं तन्न कृतं हितम् ।श्वभ्रसुप्ता प्रबुध्यन्ते न निपातव्यथां विना ॥४६६॥बन्धुसन्ध्यर्थनाभङ्गकोपशापः क्षयक्षमः ।मैत्रेयमुनिना दत्तः कष्टं न गणितस्त्वया ॥४६७॥भीमोद्भीमं भयं शङ्के येन रावणसंनिभः ।स क्रूरकर्मा किर्मीरः कानने राक्षसो हतः ॥४६८॥विदुरेणेत्यभिहितं नामन्यत महीपतिः ।दैवादिष्टनिपातानां मिथ्यैवालम्बनक्रिया ॥४६९॥वने पाण्डुसुतान्दृष्ट्वा क्रुद्धः कौरवदुर्नयात।अभिमन्युं सुभद्रां च समादाय हरिर्ययौ ॥४७०॥भीष्मदोर्णास्त्रमाहात्म्यचिन्ताकुलनृपाज्ञया ।अथास्त्रार्थी ययौ पार्थस्तपसे तुहिनाचलम् ॥४७१॥तीव्रं तपस्यतस्तस्य सत्त्वसारपरीक्षकः ।देवः किरातरूपेण त्रिपुरारिः समाययौ ॥४७२॥एकसूकरनिर्भेदस्पर्धाबन्धविरुद्धयोः ।युद्धमत्युद्धतं कूटकिरातार्जुनयोरभूत॥४७३॥स्मरारिशबरेणाथ ग्रस्तशस्त्रह्प्रमाथिना ।युयुधे बाहुयुद्धेन धैर्यराशिर्धनञ्जयः ॥४७४॥निपीड्य चण्डीपतिना निश्चेष्टः पतितः क्षितौ ।गाण्डीवधन्वा प्रत्यक्षं निरीक्ष्य त्र्यक्षमब्रवीत॥४७५॥दर्पोद्धतत्रिपुरकाननपावकायभक्तार्तितापतुहिनद्युतिमण्डलाय ।संसारघोरतिमिरोत्कटभास्करायतुभ्यं त्रिधामशबलाय नमः शिवाय ॥४७६॥इति स्तुतिकृतानन्दसुधासम्पूर्णमानसात।अस्त्रं पाशुपतं तुष्टात्किरीटी प्राप धूर्जटेः ॥४७७॥सम्प्राप्तलोकपालास्त्रः सहस्रतुरगं रथम् ।शक्रप्रेषितमारुह्य विजयस्त्रिदिवं ययौ ॥४७८॥प्रणम्य तत्र वृत्रारिं तद्गाढालिङ्गनातिथिः ।तदासनार्धं तत्प्रीतिनिर्दिष्टं प्राप पाण्डवः ॥४७९॥पार्थमिन्द्रासनार्धस्थं दृष्ट्वा शक्रगिरा मुनिः ।तद्वृत्तान्तं ययौ वक्तुं लोमशः पाण्डवान्वनम् ॥४८०॥प्राप्तपूजासनस्तेभ्यः स निवेद्यार्जुनोदयम् ।तीर्थयात्राधृतोत्साहं विदधे धर्मनन्दनम् ॥४८१॥नैमिषाद्येष्वथ स्नाताः सर्वतीर्थेषु पाण्डवाः ।गन्धमादनशैलाङ्कं बदर्याश्रममाययुः ॥४८२॥पवनप्रेरितं तत्र दिव्यपद्मं पुरश्च्युतम् ।आदाय द्रौपदी भीमं कटाक्षेण निरैक्षत ॥४८३॥अन्यपद्मार्थितां तस्य धीमान्विज्ञाय मारुतिः ।ययौ सौरभमार्गेण धनदाध्युषितां दिशम् ॥४८४॥स व्रजन्काञ्चनलतानिचयाचितवर्त्मना ।दिदेश मददारिद्र्यं सिंहनादेन दन्तिनाम् ॥४८५॥पादन्यासाद्भुतगिरेस्तस्य शब्देन विस्मितः ।हनुमान्मार्गमाश्रित्य तस्थौ स्वल्पवपुः पुरः ॥४८६॥सोल्परूपं कपिं दृष्ट्वा जानुसन्धिकृताननम् ।चकारोत्सारणरवं धनं घट्टितदिक्तटः ॥४८७॥शनैरुन्मील्य नयने तं जगाद प्लवंगमः ।किमयं मदसंरम्भस्तव मिथ्यैव निर्जने ॥४८८॥नादेन मां खेदयता विश्रान्तं रोगदुर्बलम् ।दर्शितं कृशशूरेण भवता बत पौरुषम् ॥४८९॥इतः परं न गन्तव्यं देशोऽयं सिद्धसेवितः ।सर्वथा यदि गन्तासि पुच्छमुत्सार्य गम्यताम् ॥४९०॥इत्युक्ते कपिना भीमस्तत्पुच्छोत्सारणाक्षमः ।श्रान्तः पतन्मुखेनाधस्तमभाषत विस्मितः ॥४९१॥को भवान्किमनन्तात्मा किं मेरुः किं हिमाचलः ।मार्गं देहि न लङ्घ्यो हि देही देहितनुस्थितः ॥४९२॥यदि न स्यात्तवान्तःस्थः परमात्मा सनातनः ।साचलं लङ्घयेयं त्वां हनुमानिव सागरम् ॥४९३॥श्रुत्वेतत्कपिना पृष्टः क एष हनुमानिति ।भीमोऽस्मै हनुमद्वृत्तं भ्रातृत्वं च न्यवेदयत॥४९४॥अहं स हनुमान्भीम तेनेत्युक्ते तदर्थितः ।कपिः सूर्यपथावाप्तं दीप्तं वपुरदर्शयत॥४९५॥संनिधानं करिष्यामि धनञ्जयरथध्वजे ।इत्युक्त्वालिङ्गितस्तेन भीमः प्रायात्स विस्मयः ॥४९६॥कुबेरनलिनीं प्राप्य भीमः कनकपङ्कजम् ।जहार हेमपद्मानि हत्वा गुह्यककिङ्करान॥४९७॥सानुगं स्वयमायातं जित्वा वैश्रवणं रणे ।मणिमन्तं च तन्मित्रं हत्वा नक्तंचरेश्वरम् ॥४९८॥द्रौपद्यै कनकाब्जानि दत्त्वा पवननन्दनः ।मायाप्रच्छन्नमवधीद्यातुधानं जटासुरम् ॥४९९॥अथ शक्ररथारूढः पार्थः पूर्णमनोरथः ।आयातः पञ्चभिर्वर्षैः प्रणनाम युधिष्ठिरम् ॥५००॥हतान्यवेदयत्सोऽस्मै हिरण्यपुरनिवासिनः ।निवातकवचान्दैत्यान्स्वशौर्याख्यानलज्जितः ॥५०१॥ ओ)०(ओनहुषःवने महानजगरः कदाचिदचलोपमः ।बद्ध्वा भुजयुगे भीमं चक्रे निश्चेष्टविग्रहम् ॥५०२॥संरुद्धभुजनिःस्पन्दभ्रातृदर्शनदुःखितम् ।उवाचाजगरः प्रश्नं दारयेति युधिष्ठिरम् ॥५०३॥को विप्रः किं च वेद्यं स्याद्ब्रूहि भीमस्य मुक्तये ।भुजगेनेत्यभिहिते तं जगाद युधिष्ठिरः ॥५०४॥क्षमा सत्यं शान्तिस्तरुणकरुणं यस्य च मनः स शूद्रो विप्रस्त्वं प्रगुणगुणसङ्गेन भजते ।द्विजोऽपि व्यर्थात्मा गुणविरहितः शूद्रसदृशः कृतैः कण्ठे विप्रस्त्रिगुणगुणसूत्रैर्न भवति ॥५०५॥सुखेन दुःखेन च वर्जितं यत्तदेव वेद्यं विदितात्मधाम ।शीतोष्णहीनप्रतिमैव यत्र सन्तोषविश्राममयी प्रशान्तिः ॥५०६॥धर्मजेनेत्यभिहिते मुक्त्वा भीमं भुजङ्गमः ।अगस्त्यादिष्टशापान्तो नहुषस्त्रिदिवं ययौ ॥५०७॥अथ पाण्डुसुतान्द्रष्टुं सहितः सत्यचामया ।मार्कण्डेयदिभिः सार्धं मुनिभिः शौरिराययौ ॥५०८॥नानाकथामृताख्यानैः स्थिते तत्राच्युते चिरम् ।सत्यभामावदत्कृष्णामेकान्ते कृष्णवल्लभा ॥५०९॥वश्यास्ते पतयः कृष्णे केनाराधनकर्मणा ।कैर्द्रव्यमन्त्रसूत्राज्ञातिलकाञ्जनलेपनैः ॥५१०॥ममोपदिश जानासि यत्किआचित्प्रीतिकारणम् ।इत्युक्ते कृष्णकामिन्या श्रुत्वा कृष्णा जगाद ताम् ॥५११॥अयुक्तमुक्तं सुभगे भवत्या धर्मवर्जितम् ।वश्यदोषक्रिया स्त्रीणां भर्तृद्रोहार्हपातकम् ॥५१२॥वश्यप्रयोगैर्योषिद्भिः कुष्ठापस्माररोगिणः ।भग्नभाग्याश्च पतयो मूकान्धवधिराः कृताः ॥५१३॥भक्तिश्चित्तग्रहः शीलं सतीनां भर्तृभेषजम् ।इत्युक्ते लज्जया भेजे सत्यभामा निलीनताम् ॥५१४॥यातेऽथ द्वारकां कृष्णे घोषयात्रापदेशवान।पाण्डवानाययौ द्रष्टुं श्रीभ्रष्टान्धृतराष्ट्रजः ॥५१५॥वने विहारिणस्तस्य तुल्यावरणकारणे ।रणे बभूव संमर्दो गन्धर्वैः सैन्यदारणः ॥५१६॥भग्नेषु कर्णमुख्येषु सानुजं कौरवेश्वरम् ।बबन्ध गन्धर्वपतिश्चित्रसेनः शरार्दितम् ॥५१७॥बद्धं सुयोधनं बन्धुधिया राजा युधिष्ठिरः ।भीमपार्थौ विसृज्याजौ म्लानमानममोचयत॥५१८॥अपि विस्मृतवैरेषु प्राणदानोपकारिषु ।द्वेषदोषं न तत्याज पाण्डवेषु सुयोधनः ॥५१९॥दृष्ट्वा चन्द्रं सकलजनतालोचनानन्दहेतुं सद्यो वक्त्रद्युतिरलसतामेति पद्माकरस्य ।नान्तःस्यूता चलति रिपुता किं च सङ्कोचभाजः प्रायेणैते स्वजनविमुखाः श्रीमदान्धा भवन्ति ॥५२०॥तेन तीव्रावमानेत्न राज्यत्यागनिबद्धधीः ।स समाश्वासितोऽभ्येत्य दैत्यैः पातालवासिभिः ॥५२१॥अत्रान्तरे पाण्डवेषु यातेषु मृगयारसात।आययौ वनयात्रायां सिन्धुराजो जयद्रथः ॥५२२॥स कृष्णामाश्रमे दृष्ट्वा सीतामिव दशाननः ।जहार हारितमतिः कौर्णाक्रन्दिनीं बलात॥५२३॥ततः प्रत्यागता दृष्ट्वा पाण्डवाः शून्यमाश्रमम् ।ध्वजिनिईं च रजोग्रस्तगगनां समुपाद्रवत॥५२४॥शराशनिविनिष्पष्टसैन्यानालोक्य पाण्डवान।रथाज्जयद्रथः कृष्णां तत्याज ज्वलितामिव ॥५२५॥अभिसृत्याथ भीमेन गृहीतं वधकम्पितम् ।ररक्ष सिन्धुनृपतिं शरणाप्तं युधिष्ठिरः ॥५२६॥पादेनालोडितं स्रस्तमुकुटं तस्य मारुतिः ।क्षुरप्रेण प्रलपतश्चक्रे पञ्चसटं शिरः ॥५२७॥रुद्रमाराध्य तपसा सैन्धवः फाल्गुनं विना ।वरमेकदिनं प्राप पाण्डवावरणं रणे ॥५२८॥अत्रान्तरे अर्जुनस्नेहात्कर्णमेत्य शतक्रतुः ।ययाचे कवचं दिव्यं कुण्डले च शशिप्रभे ॥५२९॥पित्रापि वारितोऽर्केण तस्मै वर्म सकुण्डलम् ।एकवीरवधायास्मै शक्तिं वैकर्तनो ददौ ॥५३०॥शूरा भवन्ति विदुषामपि नास्ति सङ्ख्यापूर्णं वनं व्रजरतैर्विरलस्तु दाता ।म्लानिं प्रयाति सितसत्त्वमयस्य यस्यदेहप्रधानसमयेऽपि न चित्तवृत्तिः ॥५३१॥अरणीं हरिणेनाथ ब्राह्मणाय हृतां वने ।जवेन जग्मुराहर्तुं धन्विनः पाण्डुनन्दनः ॥५३२॥निर्जलारण्यतापार्तैरन्वेष्टुमथ तैः पयः ।माद्रीसुतः प्रेषितोऽग्रे ददर्श विपुलं सरः ॥५३३॥प्रश्नमुक्तिकृता पेयमन्यथा मेति स्वाद्वचः ।श्रुत्वापि पाण्डवः पीत्वा तोयं तत्याज जीवितम् ॥५३४॥क्रमान्माद्रीसुते पार्थे भीमे च प्रच्युते तटे ।युधिष्ठिरः प्रश्नगिरं बभञ्ज गगनेरिताम् ॥५३५॥निर्जीवः कः सजीवोऽपि योऽश्नात्येकोऽर्थिवर्जितः ।खक्ष्माधिकौ कौ पितरौ किं लोलमनिलान्मनः ॥५३६॥किमनन्तं नृणां चिन्ता धनं किमधिकं श्रुतम् ।लाभात्किमुत्तमं स्वास्थ्यं किं सुखं चित्तनिर्वृतिः ॥५३७॥सन्धिः स्थिरः कैः सुजनैः किं शोककृदहङ्कृतिः ।किमैश्वर्यमलुब्धत्वं किं निःशल्यमकोपता ॥५३८॥किं विषं याचनं श्राद्धकालः कः श्रोत्रियागमः ।उच्यते पुरुषः कश्च भुवनव्यापि यद्यशः ॥५३९॥इति प्रश्नोत्तरैस्तुष्टः पिता धर्मः क्षमापतेः ।जीवयित्वानुजान्गुप्तिमज्ञातसमयेऽप्यदात॥५४०॥विराटपर्वअथ वनसमयान्ते गूढवासप्रवृत्ताःप्रययुरजिनखिन्नाः पाण्डवा मत्स्यदेशम् ।प्रगुणगुणानामापदो दैवदिष्टाःसुरपतिसदृशानामप्यहो दुर्निवाराः ॥५४१॥अथाभून्मत्स्यराजस्य राजराजशिरोमणेः ।विराटस्य सभास्तारः कङ्कनामा युधिष्ठिरः ॥५४२॥सूदस्तस्याभवद्भीमः क्ष्मापतेर्बल्लभाभिधः ।गायत्यलिकुलैः कीर्तिं लोला यस्यालकाब्जिनी ॥५४३॥श्रीकण्ठशबराकुण्ठकण्ठक्रमणकर्मठः ।शण्ठाकृतिरभूज्जिष्णुर्नृत्तवृत्तिर्बृहन्नडः ॥५४४॥मत्स्यपत्न्याः सुदोष्णायाः कृष्णा सैरिन्ध्रिकाभवत।अभूतामश्विपुत्रौ च यमौ गोतुरगाधिपौ ॥५४५॥इति ते तुरगाधीशसेव्याः सेवकतां ययुः ।विश्वासः श्रीविलासेषु कस्यान्यस्य भविष्यति ॥५४६॥अथायातं हतानेकमल्लं भूमिपतेः पुरः ।मल्लं जीमूतनामानं मारुतिः क्रीडयावधीत॥५४७॥सुदोष्णायाः प्रियो भ्राता कदाचिदथ कीचकः ।विलोक्यान्तःपुरे कृष्णामभवत्काममोहितः ॥५४८॥व्याजेन प्रेषितां स्वस्रा भयसम्भ्रमविद्रुताम् ।कीचकस्तामभिद्रुत्य चकर्षं चरणाहताम् ॥५४९॥सा सभामेत्य भूभर्तुरग्रे प्राह पराभवम् ।राजापि कीचकस्नेहाच्चक्रे गजनिमीलितम् ॥५५०॥भीमं महानसे सुप्तं सा प्रबोध्य तमभ्यधात।बाष्पैः करतलस्पृष्टे क्षालयन्तीव वाससी ॥५५२॥क्रुद्धेन तेन निर्दिष्टां सा समादाय संविदम् ।कीचकस्याकरोत्प्रातः सईकेतं नाट्यवेश्मनि ॥५५३॥रात्रौ पूर्वप्रविष्टोऽथ भीमः कीचकमागतम् ।केसरीव द्विपं मत्तमवधीन्मूढकामुकम् ॥५५४॥पतयो मम गन्धर्वाः कृष्णयेत्युदितं पुरा ।तैरेव निहितं मेने प्रभाते कीचकं जनः ॥५५५॥तस्य भ्रातृशतं देहसंस्काराय समुद्यतम् ।कृष्णां चितानले क्षेप्तुमनयद्दुःखदायिनीम् ॥५५६॥भीमस्तत्करुणाक्रन्दमाकर्ण्य क्रूरकोपवान।शतं वृक्षप्रहारेण कीचकानामपातयत॥५५७॥प्रेरितः कौरवेन्द्रोऽथ त्रैगर्तेन सुशर्मणा ।हर्तुं कीचकहीनस्य विराटस्याययौ धनम् ॥५५८॥संरुद्धे नगरे मत्स्यः पूर्वमेव सुशर्मणा ।कङ्कवल्लभगोवाजिपत्तिभिः सह निर्ययौ ॥५५९॥ततः प्रवृत्ते समरे मिथः सुभटसङ्क्षये ।जवाद्विराटमहरत्सुशर्मा शरवर्षिणम् ॥५६०॥भीमोऽभिसृत्य निष्पिष्टरथस्यास्य सुशर्मणः ।पादेन मौलिमुन्मथ्य मत्स्यराजममोचयत॥५६१॥त्रिगर्तकटके भग्ने सामात्यः कौरवेश्वरः ।विराटगोधनं सर्वं जहारान्येन वर्त्मना ॥५६२॥शूरशून्येऽथ नगरे विराटसुतमुत्तरम् ।अभ्येत्य जगदुर्गोपाः कौरवैर्गोधनं हृतम् ॥५६३॥सोऽब्रवीच्चौरचरितं कौरवं हन्म्यहं रणे ।गुप्तं भीष्मकृपद्रोणकर्णमुख्यैर्महारथैः ॥५६४॥किं तु मे सारथिर्नास्ति रणभारभरक्षमः ।इत्युक्ते राजपुत्रेण द्रौपदी तमभाषत ॥५६५॥उत्तरायाः स्वसुर्यस्ते नृत्ताचार्यो बृहन्नडः ।स सारथिरभूत्पूर्वं खाण्डवे सव्यसाचिनः ॥५६६॥अथोत्तरार्थितः पार्थ प्रतिपन्नरथग्रहः ।चकार कवचाबन्धवैपरीत्यैर्जनस्मितम् ॥५६७॥अथोत्तरे रथारूढे जवेनाश्वानचोदयत।क्रीडायै कुरु वस्त्राणि जिष्णुरुत्तरयार्थितः ॥५६८॥दृष्ट्वोत्तरः कौरवेन्द्रसैन्यं शस्त्रजलार्णवम् ।निवर्तस्वेति भीभग्नस्त्राणार्थी पार्थमभ्यधात॥५६९॥तमर्जुनोऽवदन्निन्द्यं क्षत्रियस्य पलायनम् ।एकवारक्षये काये मरणं न पुनः पुनः ॥५७०॥श्रुत्वैतत्कारतया रथमुत्सृज्य विद्रुतम् ।आनिनायोत्तरं केशैः पश्चादाकृष्य फाल्गुनः ॥५७१॥योत्स्येऽहं कुरुभिर्धैर्यं भजस्व भव सारथिः ।अर्जुनोऽहं भवद्गेहे कङ्काद्याः पाण्डवाः स्थिताः ॥५७२॥श्मशानान्तः शमीवृक्षस्कन्धे सन्त्यायुधानि नः ।प्रयच्छ मम गाण्डीवमित्युवाच तमर्जुनः ॥५७३॥उत्तराहृतमादाय धनुरास्फाल्य पाण्डवः ।तत्प्रेरितरथस्तूर्णं विवेश कुरुवाहिनीम् ॥५७४॥एकैकशः समस्तांश्च शराशनिघनागमः ।भीष्मकर्णकृपद्रोणमुख्यानजयदर्जुनः ॥५७५॥प्रस्वापनास्त्रसुप्तानां कुरूणामुत्तराकृते ।जहार जिष्णुर्वासांसि यशांसीवाभिमानिनाम् ॥५७६॥प्रत्याहृते गोधनेऽथ विजयेन जितारिणा ।चक्रे विराटः पुत्रस्य सभायां विक्रमस्तुतिम् ॥५७७॥बृहन्नडप्रभावेण पुत्रस्ते विजयोर्जितः ।वदन्निति विराटेन प्रहतोऽक्षैर्युधिष्ठिरः ॥५७८॥हेमपात्रे धृते रक्ते द्रौपद्या चक्रवर्तिनः ।प्रविवेशार्चितः पौरैरवाप्नोन्नतिरुत्तरः ॥५७९॥अक्षाभिवातरक्ताक्तललाटं वीक्ष्य धर्मजम् ।स प्रसाद्य प्रयत्नेन निनिन्द कुकृतं पितुः ॥५८०॥अज्ञातवाससमये पूर्णे पाण्डुसुतानथ ।हृष्टः प्रकटतां यातान्विराटः समपूजयत॥५८१॥तेषामभ्युदयं ज्ञात्वा प्राप्तेष्वखिलबन्धुषु ।विराटस्तनयां प्रादादुत्तरामभिमन्यवे ॥५८२॥ते कृष्णसात्यकिहलायुधकुन्तिभोजपाञ्चालशैब्यमगधेशशिखण्डिमुख्यैः ।सार्धं सभाभुवमुपेत्य विराटजुष्टांप्रापुः श्रियं कनकविष्टरसंनिविष्टाः ॥५८३॥अखण्डितान्पाण्डुसुतान्विज्ञाय कुरुभूपतिः ।अलङ्घ्यशासनं दैवं मेने दलितपौरुषम् ॥५८४॥तेषामक्षौहिणीः सप्त ज्ञात्वाथ समुपागताः ।दुर्योधनः प्रविदधे भूपालबलसङ्ग्रहम् ॥५८५॥पाण्डवार्थे समायातं पथि सम्मानभोजनैः ।आराध्य तुष्टमहरत्स शल्यं मद्रभूपतिम् ॥५८६॥द्वारकायां तथा कृष्णं सुयोधनधनञ्जयौ ।तुल्यमभ्येत्य साहाय्यं ययाचाते रणोद्यमे ॥५८७॥अक्षौहिण्या परिवृतं कृतवर्माणमच्युतः ।दत्त्वा कुरुपतेर्भागमयोद्धा पाण्डवान्ययौ ॥५८८॥वृतः सौबलहार्दिक्यभगदत्तजयद्रथैः ।एकादशाक्षौहिणीभिः कौरवः प्रमदं ययौ ॥५८९॥अत्रान्तरे रणारम्भसंशयाकुलिताशयम् ।धृतराष्ट्रं समभ्येत्य प्रणम्योवाच सञ्जयः ॥५९०॥अराज्यदानसन्धानदूतोऽहं तव शासनात।गतः पाण्डुसुतान्द्रष्टुं लोभाभ्यासेन लज्जिता ॥५९१॥मयोक्तं भवतोक्तं यत्प्रत्युक्तं यत्तु पाण्डवैः ।देव वक्तास्मि तत्प्रातः सभायां भूभुजां पुरः ॥५९२॥इत्युक्त्वा सञ्जये याते धृतराष्ट्रः स्वदुर्नयात।तद्वाक्यशङ्काकुलितः प्राप निद्रादरिद्रताम् ॥५९३॥प्रजागरगदास्वस्थं द्वाःस्थाहूतः सुखोज्झितम् ।तमेत्य विदुरः प्राह सञ्जयोक्ताप्यसंशयम् ॥५९४॥अयं ते सुमते कस्मान्निद्राद्रोही महाज्वरः ।तापं नायान्ति निष्कामा निर्लोभा निर्भया अपि ॥५९५॥त्यक्ताभिमानः सन्तोषी निर्द्वेषः शीलवान्क्षमी ।दुःखैकसारे संसारे पञ्चैते सुखनिर्वृताः ॥५९६॥लोभाभ्यासव्यसनसमयं चिन्तयाहन्ति निद्रांस्वस्थः शेते प्रसृतचरणः किं तु निर्लोभ एव ।लोभः पुंसामसमविषमः कृष्णवर्त्मा विधत्तेतीव्रं तापं जनघनघनस्नेहसम्पूर्यमाणः ॥५९७॥असेवाप्ता वृत्तिः खलपरिभवायासरहितावचः सत्यस्नातं परगुणगणोदीरणपरम् ।अनुत्तानः पाणिः परघनकणस्पर्शविमुखःप्रकृत्या निर्वैरं हृदयममलं यस्य स सुखी ॥५९८॥राज्यार्धं भ्रातृपुत्रेभ्यः प्रयच्छ त्यज लुब्धताम् ।बन्धुवैररजोदिग्धं प्रक्षालय धिया मनः ॥५९९॥त्यजैकं कुमतिं पुत्रं संरक्ष सकलं कुलम् ।गोनासदष्टमेकाङ्गं त्यज्यते जीविताप्तये ॥६००॥विदुरेणेत्यभिहिते धृतराष्ट्रस्तमब्रवीत।युक्तमुक्तं त्वया किं तु त्यक्तुं शक्नोमि नात्मजम् ॥६०१॥हेलास्थलीकृताम्भोधिस्तृणीकृतहिमाचलः ।स्वातन्त्र्यचित्रचरितः केन वा लङ्घ्यते विधिः ॥६०२॥श्रुतं न मृत्युरस्तीति मया किल वचः पुरा ।तद्ब्रूहीति क्षितीशेन पृष्टस्तं विदुरोऽवदत॥६०३॥स्वयं वक्तुं न युक्तं मे राजन्नुपनिषत्पदम् ।सनत्सुजातो योगीन्द्रः सर्वं ते कथयिष्यति ॥६०४॥अभिधायेति विदुरस्तं सस्मार स चाययौ ।प्राप्तपूजासनः पृष्टः क्ष्माभुजेति तमभ्यधात॥६०५॥राजेन्द्रभृतां मृत्युः क्रोधः स्ववदनोदितः ।येनाहतश्च हन्ता च मर्मदाहेन शोचितः ॥६०६॥रागद्वेसादयो दोषा जनानां जन्मकारणम् ।जन्मैव मृत्युः संसारे नास्ति मृत्युरजन्मनाम् ॥६०७॥न मुक्तिर्वेदवादेन देहान्ते स पलायते ।वीणावंशेषु भग्नेषु न क्वचित्तिष्ठते ध्वनिः ॥६०८॥आत्मप्रत्यवमर्शेन पुनर्जन्म न विद्यते ।आत्मप्रकाशं पश्यन्ति योगिनस्तं सनातनम् ॥६०९॥इत्युक्त्वान्तर्हिते तस्मिन्योगीन्द्रे तेजसां निधौ ।राजा राजसभां प्रातर्भेजे भीष्मादिभिः ॥६१०॥आहूतः सञ्जयस्तत्र पाण्डवोक्तिं न्यवेदयत।श्रूयतामविरुद्धैर्वा क्रुद्धैर्वा तैरुदाहृतम् ॥६११॥स्वं राज्यं प्रददाति यद्य अवनिपस्तत्किं हतैर्बान्धवैर्द्यूते किं तु कृतां न विस्मरति तां भीमः प्रतिज्ञां निजाम् ।पाणिः किं च पितृव्यपादविनतौ चापे च धावत्ययंतुल्यं चित्तममन्युममन्युशबलं सन्धौ च युद्धे च नः ॥६१२॥श्रुत्वैतद्धृतराष्ट्रेण तनयक्षयभीरुणा ।भीष्मोद्यैश्चार्थितः सन्धिं बुबुधे न सुयोधनः ॥६१३॥अत्रान्तरे लोकगुरुर्लोकप्रत्यायनोद्यतः ।सन्ध्यर्थी कौरवान्कृष्णः स्वयमेव समाययौ ॥६१४॥भक्त्या पुरः समायातैर्भीष्मद्रोणकृपादिभिः ।सहितः सः विवेशाथ धृतराष्ट्रस्य मन्दिरम् ॥६१५॥हृष्टेन पूजितस्तेन प्रणयेन निमन्त्रितः ।स्नेहे विपदि वा भोक्तुं युक्तमित्याह केशवः ॥६१६॥विदुरस्य गृहे भुक्त्वा नीत्वा तत्कथया क्षपाम् ।प्रभाते राजभिर्जुष्टां प्रविवेश सभां हरिः ॥६१७॥हेमासनोपविष्टेऽथ सामात्ये कौरवेश्वरे ।भेजे रत्नासनं शौरिः सहायातैर्महर्षिभिः ॥६१८॥अथ प्रथमजीमूतश्यामः सामसुधामयीम् ।उज्जगार गिरं स्निग्धगम्भीरां गरुडध्वजः ॥६१९॥कौरवेन्द्र स्वपुत्रास्ते भ्रातृपुत्रास्तु पाण्डवाः ।सदृशाः किं त्वया तेषां भेदात्कलिरुपेक्षितः ॥६२०॥भवान्विद्यासिन्धुस्तव सुमतिदाता च विदुरः प्रणेता भीष्मोऽयं गुरुरपि भरद्वाजतनयः ।अहो तत्राप्येषा प्रभवति मतिर्दुर्नयमयी न विद्मः कस्यायं कुकृतपरिपाकस्य विभवः ॥६२१॥कलङ्कं या दत्ते प्रसरदपवादास्पदतयासुहृद्भिर्नैराश्यात्कृतमुखविकारैः परिहृता ।अभोग्या बन्धूनां कृशविवशभृत्यार्थिविफलासशापा सा सम्पद्विपदिव जनोद्वेगजननी ॥६२२॥यद्वृत्तं खलकेलिकैतवकलिक्लेशेन कालुष्यकृच्चित्ते तत्किल सङ्कलय्य सकलं लोकक्सयाशङ्किभिः ।सन्धिर्वैररजोविरामविमलैरभ्यर्थ्यते पाण्डवैर्ग्रामैः किं च कुशस्थलप्रभृतिभिः प्रीत्यार्पितैः पञ्चभिः ॥६२३॥कौस्तुभाभरणेनेति भरतान्वयभूतये ।सभ्यानां भीष्ममुख्यानां भाषितेऽभिमते सताम् ॥६२४॥प्रबोधितोऽपि मुनिभिः कण्वभार्गवनारदैः ।मदनिद्रालसः प्राह सन्धिद्वेषी सुयोधनः ॥६२५॥मया सूच्यग्रमात्रापि न त्याज्या पाण्डवेषु भूः ।किं मिथ्यानीतिचिन्ताभिर्देवाधीना विभूतयः ॥६२६॥भवति भिषगुपायैः पथ्यभुङ्नित्यरोगीधनधरणविनिद्रश्छिद्रगोप्ता दरिद्रः ।अनयचयविधायी निश्चलैश्वर्यधैर्यःस्ववशनित्यशक्तेः शासनेनैव धातुः ॥६२७॥इत्युक्त्वोत्थाय दर्पान्धः कर्णेन सह कौरवः ।समान्तराद्विनिर्गत्य बन्धं शौरेरचिन्तयत॥६२८॥सह स्थितेन कथितं कर्णे सात्यकिना हरिः ।ज्ञात्वा तन्मतमापेदे विश्वात्मा विश्वरूपताम् ॥६२९॥विश्वाकारव्यतिकरलसद्ब्रह्मरुद्रेन्द्रचन्द्रैर्व्याप्तः सर्वैः सुरमुनिगणैः सिद्धगन्धर्वसाध्यैः ।निष्पर्यान्ताकृतिकृतजगद्गौरवः कौरवाणांनिद्रामुद्रामदिशदशिवामच्युतः प्रच्युतानाम् ॥६३०॥विना भीष्मं सविदुरं मोहलीनेषु राजसु ।सभामुत्सृज्य भगवान्प्रतस्थे गरुडध्वजः ॥६३१॥पश्चात्कर्णमथायातमारोप्य स्वरथे हरिः ।प्रेम्णा प्राहार्कतनयं कौन्तेयस्त्वं न सूतजः ॥६३२॥सहोदरात्पाण्डुसुतान्भजस्व त्यज कौरवान।राज्यं तव क्रमायातं कुरुमद्वचनं हितम् ॥६३३॥इत्युक्तं शौरिणा श्रुत्वा कर्णस्तं प्रत्यभाषत ।सर्वं वेद्मि न निन्द्यं तु मित्रद्रोहमहं सहे ॥६३४॥देव त्वमेव वद कौरवभूमिभर्तुर्उत्सङ्गसक्तशिरसः कथमर्कजोऽहम् ।व्यापारयामि सुहृदः परिपीयलक्ष्मींकण्ठे शठः कठिनधारमकुण्ठशस्त्रम् ॥६३५॥साम्राज्यं निहतारातिरवाप्स्यति युधिष्ठिरः ।स दृष्टः श्वेतवाहस्थः स्वप्ने पायसभुङ्मया ॥६३६॥दृष्टाश्च कौरवाः सर्वे तैलाक्ताः खरवाहनाः ।रक्तमाल्याम्बरोष्णीषा व्रजन्तो दक्षिणां दिशम् ॥६३७॥इति वैवर्तनेनोक्तं विचिन्त्योचितमच्युतः ।तं विसृज्य समामन्त्र्य प्रययौ पाण्डवान्तिकम् ॥६३८॥प्रातः कुन्ती समभ्येत्य कर्णं सूर्यार्चनोन्मुखम् ।मुक्तमौनं तदेवाह नामन्यत स चाचलः ॥६३९॥उवाच च विना जिष्णुं न हन्म्यन्यं तवात्मजम् ।मयि तेन मया तस्मिन्हते त्वं पञ्चपुत्रिका ॥६४०॥श्रुत्वैतत्प्रययौ कुन्ती भग्नार्थितमनोरथा ।ससैन्याश्च कुरुक्षेत्रमाजग्मुः कुरुपाण्डवाः ॥६४१॥बलद्वये कुरुक्षेत्रे संनिविष्टे सुयोधनः ।भीष्मं सेनापतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥६४२॥रथसङ्ख्याक्षणे कर्णं भीष्मोऽर्धरथमभ्यधात।तद्युद्धावधि युद्धं च कोपात्तत्याज सूतजः ॥६४३॥ततः सुयोधनं भीष्मः प्राहोत्साहाहवोन्मुखः ।योद्धाहं त्वद्विपक्षाणामेकं भुक्त्वा शिखण्डिनम् ॥६४४॥काशिराजसुतां पूर्वं बलात्कन्याः स्वयंवरे ।अम्बाम्बिकाम्बालिका च भ्रातुरर्थे समाहृताः ॥६४५॥साल्वाभिलाषिणी नीता तव्यास्मीत्यार्तवादिनी ।सन्त्यक्ताम्बा ययौ साल्वं सोऽपि तां नाग्रहीद्भिया ॥६४६॥पुनः प्राप्ता मया त्यक्ता मग्नमानमनोरथा ।सा जगामोभयभ्रंशखिन्ना मुनितपोवनम् ॥६४७॥ततस्तद्दुःखकारुण्याद्गुरुर्मामेत्य भार्गवः ।अम्बां गृहाणेत्यवदत्प्रत्याख्यातः पुनः पुनः ॥६४८॥आज्ञाभङ्गेन कुपितः स मया समरे जितः ।ययौ क्षत्रोपदेशात्तनियमः स्वं तपोवनम् ॥६४९॥मन्मन्युत्यक्तदेहाम्बा जाता मत्क्षयकाङ्क्षिणी ।कन्या पाञ्चालराजस्य द्रुपदस्य शिखण्डिनी ॥६५०॥प्रख्यापिता पुत्रतया सा पित्रा पुत्रकाङ्क्षिणा ।लेभे दशार्णराजस्य विवाहविधिना सुताम् ॥६५१॥शय्यारूढा दशार्णेशकन्या कन्यां विलोक्य ताम् ।दूत्या न्यवेदयत्पित्रे स च क्रुद्धः समाययौ ॥६५२॥दशार्णरुद्धे नगरे द्रुपदे विद्रवोद्यते ।खिन्ना शिखण्डिनी रात्रौ प्रययौ शून्यकाननम् ॥६५३॥तत्र स्थूणाख्ययक्षेण कृपयैकदिनार्पितम् ।विधातृशक्तिवैचित्र्यात्मा लेभे लक्ष्म पौरुषम् ॥६५४॥दर्शितं द्रुपदेनाथ पुरुषव्यञ्जनं सुतम् ।दृष्ट्वा विमन्युं दाशार्णः स्वां ययौ लज्जितः पुरीम् ॥६५५॥वनं वैश्रवणः प्रातस्तं समीपमनागतम् ।स्थिरस्त्रीलक्षणं पक्षं शापेन विदधे क्रुधा ॥६५६॥अगृहीतेऽध यक्षेण स्वलक्ष्मणि शिखण्डिनी ।पुरुषस्त्वं गता वर्ज्यः स्त्रीपूर्वः स मया युधि ॥६५७॥न सन्त्रस्ते न निःशस्त्रे नान्यविद्धे न विद्रुते ।न स्त्रीपूर्वे न साक्रन्दे निपतन्ति ममेषवः ॥६५८॥उक्त्वेति दिव्यतटिनीतनयस्तरस्वी वृद्धोऽपि शौर्यतरुणस्तरणिप्रतापः ।प्रम्लानतं परबले निजकार्मुके ज्यांचित्ते च कौरवपतेर्धृतिमाबबन्ध ॥६५९॥दिव्यं युद्धेक्षणं चक्षुः कृष्णद्वैपायनार्पितम् ।अगृहीतमथ प्राप धृतराष्ट्रेण सञ्जयः ॥६६०॥कुरुपाण्डवसङ्ग्रामं कुरुक्षेत्रे विलोक्य सः ।धृतराष्ट्राय निखिलं दिव्यचक्षुर्न्यवेदयत॥६६१॥अथ युद्धाय संनद्धे भूमिपालबलद्वये ।गुरून्भीष्मकृपद्रोणमुखान्सम्बन्धिबान्धवान॥६६२॥दृष्ट्वा युद्धोद्यतानग्रे श्वेताश्वः कृष्णसारथिः ।मुमोह करुणाक्रान्तः प्रशान्तसमरोद्यमः ॥६६३॥तं समाश्वास्य शोकार्तं जगाद गरुडध्वजः ।त्रिजगत्सर्गसंहारक्रीडापरिचितोऽच्युतः ॥६६४॥मनुष्यजन्मजातिता केयं ते मोहवासना ।क्षयं यदक्षयस्यापि शङ्कसे परमात्मनः ॥६६५॥स्फटिकस्येव कुरुते रागयोगाच्चिदात्मनः ।मिथ्याकलङ्ककलनां कायाहङ्कारसङ्करः ॥६६६॥मेघव्योमसमागमप्रतिनिधिर्धूमाग्निसङ्गोपमःश्लेषः कायचिदात्मनोः प्रकुरुते भिन्नोऽप्यभिन्नक्रमम् ।छिन्नेच्छाधनमूलनिष्फलतया नित्यप्रवृत्तक्रियैः संमोहः स्वपरावभेदरहितैर्युक्तैः स सन्त्यज्यते ॥६६७॥इत्युक्त्वा प्रत्ययोत्पत्त्यै विश्वव्याप्तिनिदर्शनम् ।अर्जुनस्योर्जितं विष्णुर्विश्वरूपमदर्शयत॥६६८॥तत्सर्वदेवमयमद्भुतमच्युतस्यरूपं सहस्रकरकोटिनिभं बभासे ।निःशेषभूपतितरङ्गितसैन्यसिन्धुग्रासाभिलाषबडवानलतुल्यवक्त्रम् ॥६६९॥वचः श्रुत्वा वपुर्दृष्ट्वा दिव्यं मोहहरं हरेः ।निर्विकल्पमतिर्जिष्णुः सङ्ग्रामाभिमुखोऽभवत॥६७०॥रथाग्रादवरुह्याथ रणारम्भे युधिष्ठिरः ।प्रणनाम प्रसादार्द्रान्भीष्मद्रोणमुखान्गुरून॥६७१॥ते तमूचुर्गुणोदारं विधाय विजयाशिषम् ।परं लज्जामहए राजन्प्रयातास्त्वद्विपक्षताम् ॥६७२॥किं कुर्महे परायत्ता वेतनोत्तानपाणयः ।कौरवस्य परं याताः सेवाकापण्यपण्यताम् ॥६७३॥अग्रे सङ्कुचिताकृतिर्लघुतया यात्युन्मुखत्वं विभोर्आशापाशनिवेशयन्त्रिततनुः सङ्ख्याक्षणे लम्बते ।अल्पेनापि समर्पितेन सुतरां वित्तेन धत्ते रतिंसाकम्पः किल कायविक्रयतुलारूढः सदा सेवकः ॥६७४॥इत्युक्त्वा तैर्विसृष्टेऽथ रथारूढे युधिष्ठिरे ।चेरुर्वीरा यशःपुष्पलुब्धा इव शिलीमुखाः ॥६७५॥प्रवृत्ते धनसंमर्दे नृत्यत्खड्गशिखण्डिनि ।पेतुर्भूभृत्कुले भीष्मशरधारापरम्परा ॥६७६॥द्वन्द्वसक्तेषु शूरेषु विराटसुतमुत्तरम् ।निनाय समरे शल्यः क्षयारम्भोपहारत्âम् ॥६७७॥नवमे युद्धदिवसे नागीतनयमार्जुनिम् ।इरावन्तं जघानाजौ रक्षःपतिरलम्बुसः ॥६७८॥प्रत्यहं युधि भीष्मेण भूभृतामयुते हते ।दशमेऽह्नि क्षयाशङ्का पाण्डवानामजायत ॥६७९॥भीष्माभिमुखमाप्तस्य रणे गाण्डीवधन्वनः ।शिखण्डी पुरतस्तस्थौ मेघस्येव प्रवर्षिणः ॥६८०॥स्त्रीपूर्वदर्शनोद्वेगशिथिलीकृतकार्मुकः ।प्राह दुःशासनं भीष्मः किरीटिशरपूरितः ॥६८१॥एते ते त्रिपुरारातिकिरातपतनोन्नताः ।शराः खाण्डवशौण्डस्य चण्डा गाण्डीवधन्वनः ॥६८२॥एते दुःसहदस्यवः कुरुपतेर्वस्त्रग्रहे गोग्रहेकोपव्याकुलकालखञ्जजयिनः पौलोमनिर्मूलनाः ।जिष्णोर्लक्ष्यभिदः स्वयंवरमणेः हे क्ष्मापालवैलक्ष्यदाःन स्त्रीपूर्वशिखण्डिनस्तनुतृणक्लीबानताः सायकाः ॥६८३॥इति ब्रुवन्कौरवेशं शरनिर्विवराकृतिः ।स पपात रथादस्तशैलादिव दिवाकरः ॥६८४॥पितुर्वरेण स्वच्छन्दमृत्युर्योगपरायणः ।उत्तरायणमाकाङ्क्षन्सजीवितमधारयत॥६८५॥दिव्यास्त्रभिन्नभूजाततोयाप्यायकृदर्जुनः ।शिरस्तस्य निराधारमुच्चिक्षेप शरैस्त्रिभिः ॥६८६॥कर्णेन प्रणिपातकीर्णचरणः पूर्णेन बाष्पाम्भसाम्आशापाशविमुक्तिनिश्चलसुखः संसारविस्तारिणम् ।सस्मार स्मरणीयमन्तसमये सन्तोषविश्रान्तधीशान्तानन्तविकल्पतल्पविमले चित्तेऽच्युतं सोऽच्युतम् ॥६८७॥अथ भीष्मविहीनस्य धृतिहीनस्य पश्यतः ।सैन्यस्याधिपतिं चक्रे द्रोणाचार्यं सुयोधनः ॥६८८॥प्राप्ताभिषेकः प्रददौ वरं दुर्योधनाय सः ।युधिष्ठिरं गृहीत्वा ते दास्यामि समरादिति ॥६८९॥ततः प्रवृत्ते सङ्ग्रामे प्रथमेऽह्नि नृपक्षयः ।इतोऽभूद्द्रोणविशिखैर्धृष्टद्युम्नशरैरितः ॥६९०॥द्वितीये युद्धदिवसे स्मारितः कुरुभूभृता ।गतेऽर्जुने धर्मसुतं ग्रहीष्यामीति सोऽभ्यधात॥६९१॥ततः संशप्तकाः शूराः शपथादनिवर्तिनः ।त्रिगर्ताः समराद्दूरं निन्युराहूय फाल्गुनम् ॥६९२॥कौरवैः पाण्डवानीके कुरुसैन्ये च पाण्डवैः ।त्रिगर्ताब्धौ च पार्थेन दारितेऽभून्नृपक्षयः ॥६९३॥सुप्रतीकगजारूढस्ततः प्राग्ज्योतिषेश्वरः ।मृद्नन्गजरथानीकं पाण्डुसेनां व्यलोकयत॥६९४॥श्रुत्वास्य सैन्यसंमर्दं त्वरितः श्वेतवाहनः ।मुरारिप्रेरितरथः कुञ्जरस्याभवत्पुरः ॥६९५॥घोरे प्रवृत्ते समरे किरीटिभगदत्तयोः ।ऊर्ध्वाधः पातिनामासीत्सङ्घर्षः पत्रिणामपि ॥६९६॥विश्वक्षयक्षमं क्षिप्तं भगदत्तेन वैष्णवम् ।जग्राहार्जुनरक्षायै वक्षसास्त्रमधोक्षजः ॥६९७॥पार्थास्त्रकृत्ते पतिते भगदत्तेऽथ भूभृति ।भग्नभूभृत्कुला पृथ्वी चकम्पे कुरुवाहिनी ॥६९८॥तृतीये युद्धदिवसे प्रतिज्ञाभङ्गलज्जितः ।चक्रव्यूहं व्यधात्क्रुद्धः संसारगहनं गुरुः ॥६९९॥पार्थे संशप्तकान्याते व्यूहं धर्मसुताज्ञया ।सौभद्रः केशरिशिशुर्गजयूथमिवाविशत॥७००॥प्रवेष्टुमुद्यतान्व्यूहमभिमन्युविदारितम् ।अवारयद्भर्गवरात्पाण्डुपुत्रान्जयद्रथः ॥७०१॥अभिमन्युशरोत्कृत्तशिरसं कङ्कटक्षये ।भूभृतां वज्रभिन्नानां शृङ्गभङ्ग इवाभवत॥७०२॥नृपान्कर्णकृपद्रोणिशल्यहार्दिक्यसौबलान।एकैकशः समस्तांश्च स शरैर्विमुखान्व्यधात॥७०३॥कृत्तचापश्च कर्णेन हताश्वः कृतवर्मणा । कृपेण हतसूतश्च हतः सर्वैर्महारथैः ॥७०४॥हत्वा त्रिगर्तानायातः सव्यसाची दिनक्षये ।मुमोह तनयं श्रुत्वा हतमेकं महत्तरैः ॥७०५॥व्यूहद्वारनिरोद्धारं ज्ञात्वा हेतुं जयद्रथम् ।अनस्तगे रवौ जिष्णुः प्रतिज्ञां तद्वधे व्यधात॥७०६॥तत्प्रतिज्ञाभयाद्गन्तुं रात्रौ सैन्धवमुद्यतम् ।गोप्ता तवाहमित्युक्त्वा दर्पाद्गुरुरवारयत॥७०७॥स्वप्ने स कृष्णः श्वेताश्वः स्तुत्वा देवं पिनाकिनम् ।विधिं पाशुपतास्त्रस्य तदादिष्टमवाप्तवान॥७०८॥प्रभाते शकटव्यूहे सुचीपाशे जयद्रथम् ।निनेश्य यत्नादाचार्यश्चक्रे दैवजयोद्यमम् ॥७०९॥व्यूहद्वारस्थितं द्रोणं प्रणम्याथ धनञ्जयः ।कम्पलोलं विवेशाशु सैन्यं वनमिवानलः ॥७१०॥मनोजवस्य विशतः शरैर्गाण्डीवधन्वनः ।शिरः समूह आच्छिन्नः पपात भुवि भूभृताम् ॥७११॥दूरं प्रविष्टे श्वेताश्वे शङ्खशब्दमशृण्वता ।विवेश सात्यकिर्व्यूहं विसृष्टो धर्मसूनुना ॥७१२॥तस्य निर्दारितारातेर्विशिखाशनिवर्षिणः ।भूरिश्रवा धैर्यनिधिर्वेगं गिरिरिवाग्रहीत॥७१३॥तौ कृत्तकार्मुकरथो खड्गचर्मधरो मिथः ।युद्धमानौ ददृशतुर्नान्तरं चित्रचारिणौ ॥७१४॥सात्यकेः पातितस्याथ शिअर्श्छेत्तुं समुद्यतम् ।जिष्णोरदर्शयद्दूरात्भूरिश्रवसमच्युतः ॥७१५॥पार्थस्तस्यार्धचन्द्रेण सखड्गं भुजमुद्यतम् ।कङ्कणारावसाक्रोशमिव च्छित्त्वा न्यपातयत॥७१६॥स कृत्तबाहुर्धिक्कृत्य निन्दन्कृष्णकिरीटिनौ ।तालुरन्ध्रोद्गतज्योतिर्योगेनात्मानमत्यजत॥७१७॥अवाप्य संज्ञामज्ञातवृत्तः सात्यकिराकुलः ।धिक्कृतः सर्वभूपालैश्चकर्तास्यासिना शिरः ॥७१८॥युधिष्ठिराज्ञया व्यूहं प्रविशन्नथ मारुतिः ।द्रोणं सरथमुत्क्षिप्य चिक्षेपाद्भुतविक्रमः ॥७१९॥स निष्पिष्टगजानीकः प्रविष्टः कर्णमग्रतः ।कृत्वायुधाश्वं षट्कृत्वश्चकाराहतकौरवः ॥७२०॥ततः कर्णः समुत्कृत्तकवचायुधवाहनम् ।तुदन्भीमं धनुष्कोट्या नावधीज्जननीं स्मरन॥७२१॥दिनस्य शिरसीवार्के लम्बमाने क्षणक्षये ।दृष्ट्वा जयद्रथं दूरात्सन्दधेऽस्त्रं धनञ्जयः ॥७२२॥क्षितौ तस्य शिरः क्षेप्तुं शिरः पूर्वं पतेदिति ।पित्रा दत्तं वरं कृष्णः फाल्गुनाय न्यवेदयत॥७२३॥कुरुक्षेत्राद्बहिर्जिष्णुः सन्ध्यासीनस्य तत्पितुः ।चिक्षेपाङ्के शरोऽकृतं शिरस्तस्मात्क्षितिं ययौ ॥७२४॥अक्षौहिनीः सप्त हत्वा जिष्णुना सैन्धवे हते ।देवमेव जनो मेने सर्वथा निष्प्रतिक्रियम् ॥७२५॥उक्त्वापि गुरुणा रक्षां रक्षिते न जयद्रथे ।लज्जितेन समादिष्टं रात्रियुद्धमवर्तत ॥७२६॥समुद्धततमः केशी रणे तरलतारका ।ननर्तासिभुजा वीररक्तक्षीबेव सा क्षपा ॥७२७॥अर्धरात्रेऽथ निष्पिष्टकौरवानीकनायकः ।शस्त्रानलशिखावर्षी खं विवेश घटोत्कचः ॥७२८॥तस्याट्टहासविष्पष्टदंष्ट्रांशुपटलैर्मुहुः ।पाट्यमानमिवाकृष्टं रुरावाघट्टितं तमः ॥७२९॥कुरुसैन्ये रणे भग्ने हैडिम्बस्य प्रमाथिनः ।कर्ण एव पुरस्तस्थौ पौलस्त्यस्येव राघवः ॥७३०॥एक वीरवधव्यक्त्या शक्त्या वैकर्तनोऽथ तम् ।जघान घनसंमर्दं कुमार इव तारकम् ॥७३१॥पञ्चमे युद्धदिवसे प्रातर्दिव्यास्त्रदुःसहः ।प्रजागरगरक्षीबान्क्षितीशानवधीद्गुरुः ॥७३२॥हत्वा विराटं द्रुपदं पाञ्चालं च ससृञ्जयम् ।ब्रह्मास्त्रेणाकरोद्द्रोणः कल्पान्ताविर्भवभ्रमम् ॥७३३॥अश्वत्थामा हतः सङ्ख्ये स्पष्टमुक्त्वेति धर्मजः ।हस्तीत्यसत्यचकितः पश्चात्स्वैरमभाषत ॥७३४॥श्रुतपुत्रवधस्याथ त्यक्तशस्त्रधृतेर्गुरोः ।उत्क्रान्तधाम्नः खड्गेन धृष्टद्युम्नः शिरोऽहरत॥७३५॥हते द्रोणे प्रकुपितः कृतान्त इव तत्सुतः ।नारायणास्त्रमसृजज्ज्वालालीढजगत्त्रयम् ॥७३६॥अस्त्रानले प्रज्वलिते वीराः सर्वे हरेर्गिरा ।रथेभ्योऽवातरन्न्यस्तशस्त्राः पवनजं विना ॥७३७॥एकीभूतास्त्रदहनव्याप्तं भीममथाच्युतः ।हृतायुधं समाकृष्य रथाग्रादनयद्भुवम् ॥७३८॥शान्तेऽस्त्रे द्रौणिनाग्नेयं घोरमस्त्रमुदीरितम् ।ब्रह्मास्त्रेणार्जुनः शान्तिं निनाय प्रलयोद्यतम् ॥७३९॥अथ मोहविषावेशसमनीलमणिप्रभम् ।प्राप्तं दृष्ट्वा मुनिं द्रौणिः प्रणम्य व्यासमभ्यधात॥७४०॥कस्मान्मे भगवन्नस्त्रवैकल्यम्लानमानता ।मदस्त्रदहनान्मुक्तौ कस्मात्कृष्णधनञ्जयौ ॥७४१॥तमब्रवीन्मुनिद्रौणे त्वमंशस्त्रिपुरद्विषः ।नरनारायणौ देवौ जातौ कृष्णधनञ्जयौ ॥७४२॥मूर्तौ त्वयार्चितः शम्भुराभ्यां लिङ्गैः सुपूजितः ।एतौ तेनाधिकौ त्वत्तस्त्यजैतां कोपविक्रियाम् ॥७४३॥मुनिमाश्वासितद्रौणिं व्रजन्तं फाल्गुनः पुरः ।दृष्ट्वा रथादवप्लुत्य प्रणम्य तमभाषत ॥७४४॥भगवन्कौरवव्यूहं प्रविष्टेन मया पुरः ।अस्पृष्टभूमिः पुरुषो दृष्टः शूलकरः स कः ॥७४५॥मुनिः प्राहार्जुनं देवः स स्वयं शशिशेखरः ।त्र्यमकस्त्रिपुरारातिस्त्र्यक्षस्त्रिपथगाधरः ॥७४६॥स्मर स्मरारिं तमुमासहायंशिवं जगद्ग्रासविलाससक्तम् ।भयापहं भीममनेकरूपं उक्त्वेति पार्थं प्रययौ मुनीन्द्रः ॥७४७॥हते द्रोने प्रियं मित्रं कौर्वश्चिरचिन्तितम् ।कर्णं सेनापतिं कृत्वा जगज्जितममन्यत ॥७४८॥अभ्यर्थ्य सारथिं शल्यं चक्रे तस्य सुयोधनः ।रुद्रस्य त्रिपुरारातेः संनद्धस्येव वेधसम् ॥७४९॥कीर्णास्त्रकिरणः कर्णस्ततः पाण्डववाहिनीम् ।शरत्तीव्र इवोष्णांशुर्निनायाल्पावशेषताम् ॥७५०॥भीमः कुरुचमूमध्ये क्षपयन्धृतराष्ट्रजान।कृष्णाकेशाम्बराकर्षकुशलं प्राप कौरवम् ॥७५१॥असिकृत्तोरसस्तस्य भीमः शोणितमापपौ ।प्रकोपराक्षसावेशविवशः कुरुते न किम् ॥७५२॥कर्णास्त्रपीडनक्रुद्धयुधिष्ठिरगिरार्दितः ।राधेयनिधनाधानसंनद्धोऽभूद्धनञ्जयः ॥७५३॥प्रवृत्ते सम्भृतामर्षे रणे कर्णकिरीटिनोः ।मृगस्त्वं जिष्णुसिंहाग्रे कर्णमित्याह मद्रपः ॥७५४॥खण्डपुच्छाभिधं नागमथ सन्धाय संचितम् ।प्राहिनोत्पाण्डुपुत्राय कर्णः खाण्डवखण्डितम् ॥७५५॥हरिगौरवनम्रश्च विनतस्य स पन्नगः ।जहाराप्राप्तकण्ठाग्रः किरीटांशं किरीटिनः ॥७५६॥भूग्रस्तचक्रमुद्धर्तुमथ स्वरथमुद्यतः ।क्षणक्षमार्थे राधेयः पार्थस्यातिथितां ययौ ॥७५७॥कृष्णस्तमब्रवीद्व्रीडाकरशल्योक्तिपीडितम् ।धर्मः स्मृतोऽद्य राधेय नाभिमनुवधे त्वया ॥७५८॥यथा तप्तस्यान्ते भवति मृदुता संनतिमयीतथा सा स्यात्पूर्वं यदि जनमता वृत्तिरथ सः ।घनाघातोत्कर्षापरपुरुषहुङ्कारविहितान तस्यासीत्पीडा निविडजडतावाप्तविकृतेः ॥७५९॥इत्युक्ते शौरिणा कर्णः समारुह्य रथं पुनः ।सन्दधे भार्गवादिष्टं महास्त्रं शिथिलस्मृतिः ॥७६०॥बाणेन कृत्तगलमञ्जलिकाभिधेनतस्यार्जुनस्तरलकुण्डलदीप्तगण्डम् ।वक्त्रं जहार पृथुहारविलम्बिशोणरत्नप्रभानिभनभः प्रसृतप्रकाशम् ॥७६१॥हते कर्णे वहन्नन्तः शोकशल्यं सुयोधनः ।शल्यं सेनापतिं कृत्वा युयुधे निधनोत्सुकः ॥७६२॥शल्येन पीडितं दृष्ट्वा निजसैन्यं युधिष्ठिरः ।भ्रूभङ्ककङ्कवस्त्राङ्कस्तं समुद्धर्तुमाद्रवत॥७६३॥तस्येषुवर्षिणश्छित्त्वा रथसारथिकार्मुकान।प्राहर्षीत्पाण्डवः शक्तिं कालदंष्ट्रामिवोत्कटाम् ॥७६४॥प्रविश्य शल्यहृदयं शक्तिर्बिलमिवोरगी ।वेगशूत्कारनिःश्वासा साविशद्वसुधातलम् ॥७६५॥स्वयं राज्ञा हते शल्ये सहदेवेन सौबले ।सैन्ये शेषे च भीमेन निःसैन्योऽभूत्सुयोधनः ॥७६६॥कृतवर्मकृपद्रौणिशेषः कुरुपतिस्ततः ।विरथस्तान्समामन्त्र्य विवेशालक्षितो ह्रदम् ॥७६७॥ह्रदस्यान्तर्नृपे तस्मिन्प्रविष्टे शत्रुशङ्किते ।भीमं भीमभयेनेव पयश्चिरमकम्पत ॥७६८॥यस्याशेषनरेशरत्नमुकुटैः पीडाभवत्पादयोस्तस्यारातिनिपातशङ्कितमतेरेकाकिनोऽन्तर्जले ।क्रोधव्याधुतनक्रचक्रमकरक्रूरान्तदन्ताहतिक्लेशक्लान्तिरभूद्धिगस्थिरपदाः शोकप्रदाः सम्पदः ॥७६९॥ऋणशेषमिव ध्यायन्धार्तराष्ट्रं युधिष्ठिरः ।लुब्धकानां गिरा ज्ञात्वा ससैन्यस्तूर्णमाययौ ॥७७०॥स्तिमितं सलिलस्थं तं जगाद च तटस्थितः ।राजन्नुत्तिष्ठ लज्जेयं युक्तं नान्ते पलायनम् ॥७७१॥कृत्वा क्षत्रक्षयं शेषां रक्षसि क्षत्रियस्तनुम् ।एकेन सह युध्यस्व जिते तस्मिन्जिता वयम् ॥७७२॥श्रुत्वैतत्सहसोत्थाय तमभाषत कौरवः ।एष क्षपाक्षपणधीः प्रविष्टोऽहं जलान्तरम् ॥७७३॥न मे राज्ये शरीरे वा तृणे वापि स्पृहा क्वचित।इत्युक्त्वा सहिता सर्वैः स कुरुक्षेत्रमाययौ ॥७७४॥अत्रान्तरे हलधरः श्रुत्वा कुरुकुलक्षयम् ।सारस्वतेषु तीर्थेषु स्नात्वा तं देशमाययौ ॥७७५॥प्रधानक्षेत्रके तस्मिन्नुपविष्टे सहामरैः ।भीमकौरवयोश्चित्रं गदायुद्धमवर्तत ॥७७६॥वर्ज्यमानेऽथ भीमेन प्रहारे कौरवेण च ।तदाघातच्युते भीमे भीमघातेन चापरे ॥७७७॥सुचिरं संशयतुलारूढे स्वभटमण्डले ।न तयोरन्तरं कश्चिद्ददर्शाश्चर्ययोधिनोः ॥७७८॥अथ भीमगदाघातभिन्नोरुः कौरवेश्वरः ।पपात कीर्णहाराश्रुधारां कुर्वन्निव क्षितिम् ॥७७९॥पदा भीमेन तन्मौलौ स्पृष्टे क्रुद्धं हलायुधम् ।शमयामास कंसारिर्वदन्कौरवदुर्नयम् ॥७८०॥ प्रयातेष्वथ सर्वेषु द्रौणिहार्दिक्यगौतमाः ।निशि देशं तमभ्येत्य ददृशुः पतितं नृपम् ॥७८१॥भिन्नोरुमध्यव्यथया दन्तदष्टमहीतलम् ।वारयन्तं गदाग्रेण गृध्रगोमायुवायसाम् ॥७८२॥तं दृष्ट्वा द्रौणिरवदत्तीव्रहृन्मर्मवेदनः ।किं त्वया निःसहायेन शत्रुवह्नौ हुता तनुः ॥७८३॥अकृष्णपाण्डवं लोकं करोमि तव शासनात।इत्युक्त्वा तद्गिरा गत्वा प्रविवेश महद्वनम् ॥७८४॥कृपभोजसखस्तत्र रात्रौ काकान्निपातिताम् ।उलूकैर्वृक्षमूलस्थः स दृष्ट्वा चिन्तयच्चिरम् ॥७८५॥काकान्कालबलेनैते घ्नन्त्येषारिवधे स्थितिः ।हन्तुं पाण्डुसुतान्रात्रौ सुप्तानेव व्रजाम्यहम् ॥७८६॥ध्यायन्निवार्यमाणोऽपि कृपेण कृतवर्मणा ।क्रोधादगणयन्पापं स ताभ्यां प्रययौ सह ॥७८७॥पाण्डवेषु गिरा शौरेः सुप्तेष्वन्यत्र शङ्कया ।पाञ्चालसेनाशिबिरद्वारं द्रौणिरवाप्तवान॥७८८॥तत्र दृष्ट्वा महद्भूतं सर्पकेयूरकङ्कणम् ।प्रादुर्भूतं शिरश्छित्त्वा वह्नौ क्षेप्तुं समुद्यतः ॥७८९॥प्रीत्या भगवता तेन रुद्रेण स्वयमर्पितम् ।द्रौणिर्निस्त्रिंशमादाय विवेशारिक्षयोत्सुकः ॥७९०॥पद्भ्यामशस्त्रनिधनं धृष्टद्युम्नं विधाय सः ।शिखण्डिनं द्विधा कृत्वा जघानाक्षौहिणीं क्षणम् ॥७९१॥स सुप्तवधपापेन प्रलिप्तः शोणितेन च ।कृतान्तक्रूरचरितः प्रययौ कौरवान्तिकम् ॥७९२॥निऊशेषशत्रुनिधनं श्रुत्वा द्रौणिनिवेदितम् ।स्वर्गेऽस्तु सङ्ग इत्युक्त्वा स तत्याज जीवितम् ॥७९३॥प्रातर्बन्धुवियोगार्तौ कृष्णाशोकाग्नितापितौ ।भीमार्जुनौ प्रययतुः क्रुद्धौ द्रौणिजिघांसया ॥७९४॥द्रौणिः सरस्वतीतीरे चरन्व्रणधृताप्लुतः ।दृष्ट्वा भीमार्जुनावस्त्रं ब्रह्मशीर्षमवासृजत॥७९५॥अर्जुनो ब्राह्ममस्त्रं च सङ्घर्षणास्त्रयोस्तयोः ।अकालप्रलयारम्भसंरम्भोऽभूद्दिवौकसाम् ॥७९६॥तद्द्रौणिमुक्तमपतन्महास्त्रं व्यासशासनात।अभिमन्युवधूगर्भं द्रौणिचूडमणौ परम् ॥७९७॥भीष्मपर्व पाण्डवाः पुत्रशोकार्तं धृतराष्ट्रं प्रलापितम् ।गान्धारीसहितं गत्वा प्रणेमुर्लज्जिताः शनैः ॥७९८॥क्रमादालिङ्गने भीमः शौरिबुद्ध्यायसः कृतः ।चूर्णतामगमद्गाढं धृतराष्ट्रेण पीडितः ॥७९९॥युधिष्ठिरस्य गान्धारीं सतीं प्रणमतः पुरः ।तद्दृष्टिः सानलज्वाला पादाङ्गुष्ठयुगेऽपतत॥८००॥स्नुषाभिः सह गान्धारी स्वयं गत्वा रणावनिम् ।दृष्ट्वा हतान्सुतान्कृष्णं शशाप क्षयकारिणम् ॥८०१॥षट्त्रिंशवत्सरे कृष्ण तवाप्येवं कुलक्षयः ।भविष्यतीति तद्वाक्यं श्रुत्वा तामच्युतोऽवदत॥८०२॥पुनरुक्तस्त्वयायं मे दत्तः शापः पतिव्रते ।अवश्यमेव भविता तस्मिन्वर्षे यदुक्षयः ॥८०३॥ततः कृतोदकविधिर्बान्धवक्षयदुःखितः ।राज्यं न लेभे मुनिभिर्बोधितोऽपि युधिष्ठिरः ॥८०४॥कर्ण कुन्तीगिरा ज्ञात्वा भ्रातरं निहतं रणे ।स शुशोच शुचाक्रान्तस्ततस्तं नारदोऽवदत॥८०५॥क्षत्रियाचार्यके भीष्मनिकारात्कृतसंयमम् ।अस्त्रार्थी भार्गवं कर्णं प्रययौ विप्रवेषवान॥८०६॥रामस्तदङ्कसुप्तोऽर्धनिद्रासङ्क्षयभीरुणा ।क्रूरक्रिमिक्षतेनापि कर्णेन न विबोधितः ॥८०७॥तद्रक्ताक्तः प्रबुद्धोऽथ दृष्ट्वा क्लेशेऽपि निश्चलम् ।रामः कर्णं न विप्रोऽसीत्युक्त्वास्त्रं विफलं व्यधात॥८०८॥गुरुशप्तः स शक्रेण हृतसंनाहकुण्डलः ।घटोत्कचे नष्टशक्तिः शल्याधिक्षेपशल्यवान॥८०९॥द्विजवत्सापराधेन भूग्रस्तरथनिष्फलः ।हतः कर्णः कुरुपतेः कुमन्त्रकृतसङ्क्षयः ॥८१०॥नारदेनेत्यभिहिते व्यासमुख्यैर्महर्षिभिः ।कृष्णेन भ्रातृभिः सर्वैः प्रयत्नेन विबोधितः ॥८११॥राज्यं कथञ्चिज्जग्राह शल्यतुल्यं युधिष्ठिरः ।कस्य बन्धुवियोगार्तिनिःश्वासोष्णाः श्रियः प्रियाः ॥८१२॥अभिषेकार्द्रमुकुटं समेत्याथ युधिष्ठिरम् ।उवाच ब्राह्मणाकारश्चार्वाको नाम रक्षसः ॥८१३॥छत्रं त्रपाकरमहो व्यजनं जनाग्रे दुःखप्रदं प्रविसृताश्रुकणानुकारः ।हारः परं स्वजनमित्रवियोगशोकपीडावतां वद विडम्बनमेव लक्ष्मीः ॥८१४॥चार्वाकस्येति वचसा राज्यत्यागोद्यते नृप ।राक्षसः कौरवसुहृद्विप्रकोपात्क्षयं ययौ ॥८१५॥ज्ञात्वोत्तरायणं प्राप्तं क्षरशय्याश्रयस्ततः ।मुनिमध्येऽस्मरद्विष्णुं भीष्मः पर्यन्तबान्धवम् ॥८१६॥दोषाश्रयाखिलतमःशमसूर्यधामसंसारसर्पविषवारणसिद्धमन्त्रः ।शुद्धात्मनां भवति पुण्यपणोपपन्नंपाथेयमन्तसमये स्मरणं मुरारेः ॥८१७॥स्तुतिप्रवृत्तं विज्ञाय भगवान्भीष्ममच्युतः ।सहितः पाण्डवैर्द्रष्टुं ययौ प्रीत्या ससात्यकिः ॥८१८॥प्रणतं भीष्ममभ्यर्च्य हरिः सुरमुनिस्तुतः ।शरशल्यव्यथाहीनं स्निघ्ददृक्सुधया व्यधात॥८१९॥देहसंन्याससंनद्धं राजा लज्जानतः शनैः ।शासनेन हरेर्भीष्मं श्रेयः पप्रच्छ धर्मजः ॥८२०॥सोऽब्रवीद्भूभुजां राजन्भूषणं जनरञ्जनम् ।धर्मः प्रजापरित्राणं कोषः सद्भृत्यसङ्ग्रहः ॥८२१॥प्रजाकार्ये शक्तिः श्रवणमभिभूतार्तवचसां स्पृहा कामक्रोधप्रमदमदमानव्युपरमे ।क्षितेः कायस्थेभ्यः कृपणपरिरक्षा प्रतिपदंगुणासङ्गः श्रेयानयमुदयलक्ष्म्या क्षितिभुजाम् ॥८२२॥विरक्तस्वीकारः कृतकविरतिः कोषभरणंबलाधिक्ये शत्रोः शरणगमनं पादपतनम् ।प्रहारश्छिद्राप्तौ निहतरिपुमिश्याश्रुपतनंधिया दैवादिष्टं शरणमिदमापन्निपतने ॥८२३॥आशापाशविमुक्तनिश्चलमुखा स्वायत्तचित्तस्थितिःस्नेहद्वेषविषादलोभविरतिः सनोत्षतृप्तः मनः ।चिन्तानित्यमनित्यतापपरिचये सङ्गेऽपि निःसङ्गतासंवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ॥८२४॥कारुण्याद्गलितं प्रदानसमये चित्तं प्रसन्नं सदाक्षीणः पुत्रकलत्रदुःखकृपणः पात्रं पवित्रं परम् ।सश्रद्धं परवित्तशल्यरहितं वित्तं स्वधर्मीर्जितंतद्दानं दयितं फलप्रियतया वाणिज्यसज्जं न यत॥८२५।इत्युक्त्वा विविधं भीष्मः सर्वधर्मार्थसङ्ग्रहम् ।विष्णोर्नामसहस्राख्यं मन्त्रराजमुदीर्य तम् ॥८२६॥कर्मोदितबलोत्क्षिप्तबिन्दुभेदपथोदितम् ।तालुरन्ध्रोच्छलज्ज्योतिर्योगेनात्मानमत्यजत॥८२७॥अथ भीष्मवियोगार्तः पापशान्त्यै युधिष्ठिरः ।अश्वमेधाभिधे चक्रे यज्ञे व्यासाज्ञया मतिम् ॥८२८॥अथैकान्तस्थितः कृष्णः पुनः पृष्टः किरीटिना ।यत्प्राह समरारम्भे ज्ञानयोगे तदुक्तवान॥८२९॥कदाचिदथ कंसारिं दृष्ट्वा पथि रथस्थितम् ।ऊचे मुनिरुतङ्काख्यः कुरुसङ्क्षयदुःखितः ॥८३०॥शक्तेनोपेक्षितः कस्माद्भवता भरतक्षयः ।न युक्तं कृतमित्युक्त्वा कोपाच्छापोद्यतोऽभवत॥८३१॥ततस्तस्मै स्मितमुखः शौरिर्देहतमोहरम् ।भासुराकं सहस्राभं विश्वरूपमदर्शयत॥८३२॥अथाभिमन्युदयिता दिव्यास्त्रहतमुत्तरा ।मत्स्यराजसुतासूत भस्मीभूताकृतिं शिशुम् ॥८३३॥सुभद्रयार्तितः स्वस्रा भगवान्भूतभावनः ।द्रोणपुत्रास्त्रनिर्दग्धं शौरिः शिशुमजीवयत॥८३४॥कुरुवंशे परिक्षीणे संजातस्याङ्कुराकृतेः ।परीक्षिदिति बालस्य नाम चक्रे त्रिविक्रमः ॥८३५॥अथ यज्ञाश्वरक्षायै व्रजं जिष्णुर्जगज्जयी ।मणिपूरपुरे प्राप बभ्रुवाहनमात्मजम् ॥८३६॥तेनाविज्ञाय समरे सायकैः पातितोऽर्जुनः ।उलूप्या नागसुतया रत्नेनार्पितजीवितः ॥८३७॥प्रययौ हयमादाय स्वपुरं भ्रातुरन्तिकम् ।प्रावर्तत च भूभर्तुर्यज्ञः काञ्चनवर्षिणः ॥८३८॥अथैकपार्श्वे कनकद्युतिभृन्नकुलोऽद्भुतः ।विप्रकोटिशतोच्छिष्टभुवं भेजे लुठत्तनुः ॥८३९॥सोऽब्रवीद्भूभुजां पृष्टः शिलोञ्छस्वच्छवृत्तिना ।सुचिरावाप्तमशनं प्राप्तायातिथयेऽर्पितम् ॥८४०॥तदुच्छिष्टजलस्पृष्टं पार्श्वं मे हेमतां गतम् ।द्वितीयपार्श्ववर्णाप्त्यै प्राप्तोऽहं त्वत्क्रतुक्षितिम् ॥८४१॥निःसङ्ख्यब्राह्मणोच्छिष्टस्पृष्टस्यापि न मे द्युतिः ।जाता सत्त्वोज्ज्वलं याति दानमल्पमनल्पताम् ॥८४२॥इत्युक्त्वा नकुले याते दानमानमहोन्नतिः ।सर्वस्वदक्षिणे यज्ञे राजा शिथिलतां ययौ ॥८४३॥अथ देवतवन्नित्यं पूज्यमानोऽपि भूभुजा ।भीमोग्रवचनोद्वेगी धृतराष्ट्रः शनैरभूत॥८४४॥स सदा पुत्रशोकेन भूमिशायी फलाशनः ।मिथ्या राज्योपभोगाप्तिं धर्मजाय न्यवेदयत॥८४५॥स जातगाढवैराग्यः पत्न्या सह वनं ययौ ।व्यासाज्ञया संजयेन कुन्त्या च विदुरेण च ॥८४६॥दयितजनवियोगोद्वेगरोगातुराणांविभवविरहदैन्यम्लानमानाननानाम् ।शमयति शितशल्यं हन्त नैराश्यनश्यद्भवपरिभवतान्तिः शान्तिरन्ते वनान्ते ॥८४७॥यातस्तपःस्थितं द्रष्टुं धृतराष्ट्रं युधिष्ठिरः ।ददर्श विदुरं ज्ञानयुक्तित्यक्तकलेवरम् ॥८४८॥प्राप्तः स्वनगरं राजा शुश्राव कुरुपुङ्गवम् ।सानुगं दावदहने प्रविष्टं सञ्जयं विना ॥८४९॥षट्त्रिंशाब्दे सुखक्षीबा वृष्णयः कृष्णनन्दनम् ।साम्बं स्त्रीवेशमादाय पप्रच्छ सस्मिता मुनीन॥८५०॥भावी सुतः सुता वा स्यात्किमिति श्रीविशृङ्खलाः ।क्रुद्धास्तान्मुनयः प्राहुः भविष्यति कुलान्तकः ॥८५१॥कालेन लोहमुसलं जातं साम्बस्य वृष्णयः ।घृष्ट्वा घृष्ट्वाम्बुधेस्तीरे तत्यजुः क्षयशङ्किताः ॥८५२॥तच्चूर्णजातवल्लीभिः क्षीवाः स्पर्धाकथाक्रुधा ।निर्बन्धाद्युध्यमानास्ते क्षणेन क्षयमाययुः ॥८५३॥कृष्णः कुलक्षयोद्विग्नस्तेजः स्वं धाम्नि वैष्णवे ।हेम हेम्नीव निक्षिप्य प्रययौ कायशेषताम् ॥८५४॥याते प्रविश्य पातालमनन्तत्वं हलायुधे ।लुब्धकेन हरिः सुप्तः कृष्णसारधिया हतः ॥८५५॥अनल्पं कल्पान्तस्थिरमिव जनः कल्पयति यन्न यस्मिन्नाशङ्का सुरगिरिगरिम्णि प्रचलने ।तदेवाक्ष्णः पक्ष्माञ्चलतरलविक्षेपतुलयाक्षयक्षीवः कालः किल गिलति नैवाभवदिति ॥८५६॥अथ वृष्णिक्षयं ज्ञात्वा द्वारकामेत्य फाल्गुनः ।शोकार्तस्तद्वधूवृन्दं स्वपुरं नेतुमुद्ययौ ॥८५७॥व्रजतः तस्य गोपाला बृहल्लगुडपाणयः ।जह्रुराकृष्टजापस्य स्त्रैणमाकीर्णपत्त्रिणः ॥८५८॥ते द्विषत्खण्डनां प्रापुः शरा गाण्डीवधन्वनः ।निष्फलत्वं विलक्षस्य याचकस्य गुणा इव ॥८५९॥नहि हीनमनाक्रान्त्या फाल्गुनस्य गलद्गुणम् ।कलत्रं निर्धनस्येव विधेयं नाभवद्धनुः ॥८६०॥रुद्राभिद्रवमुद्रिताद्रिशिखराः शुक्रोन्मुखाः खाण्डवेखेलोत्ताललतायुधोद्यतकृताटोपेषु गोपेष्वहो ।जग्मुर्जिष्णुशरा मुरारितरणीत्राणे तृणक्लीबतांयस्यायन्त्रविचित्रपाककलया कालाय तस्मै नमः ॥८६१॥युधिष्ठिरोऽथ विभवं ज्ञात्वा पर्यन्ततादृशम् ।भ्रातृभिः सह पत्न्या च महाप्रस्थानमाविशत॥८६२॥कृष्णायाः पतने प्राह राजा विजयरक्तताम् ।प्रियस्य दोषाकलनं वियोगे दुःखभेषजम् ॥८६३॥सोऽवदत्प्रच्युतस्याथ सहदेवस्य धीमदम् ।नकुलस्यादरं रूपे जिष्णोर्विजयदृप्तताम् ॥८६४॥भीमस्य बह्वशनतां व्रजन्नेव शुना सह ।पर्यन्तेऽचिन्तयन्नन्तः संसारविशरारुताम् ॥८६५॥अथ व्योमपथायातं विमानं सुकृतोज्ज्वलम् ।देवदूतार्पितं राजा नारुरोह शुना विना ॥८६६॥तत्तस्याश्रितवात्सल्यं धर्मस्त्यक्तश्वविग्रहः ।तुष्टः स्वं रूपमास्थाय प्रशशंस पुनः पुनः ॥८६७॥अथ राजा समारुह्य विमानं त्रिदिवं व्रजन।ददर्श नरकं घोरं देवदूतं प्रदर्शितम् ॥८६८॥ततस्तद्दर्शनोद्विग्नं देवदूतस्तमब्रवीत।राजन्द्रोणवधामत्यान्मिथ्यैतत्तव दर्शितम् ॥८६९॥प्रजापीडाक्रीडार्जितधनभरैर्भोगसुखिनाम्अकर्णानां क्लाम्यत्कृपणकरुणाक्रान्दसमये ।अवश्यं भूपानां भवति विभवोन्मादकुधियांदुरन्ता पर्यन्ते नरककलुषक्लेशकुगतिः ॥८७०॥इत्युक्ते देवदूतेन शक्रलोकं युधिष्ठिरः ।धर्मधाम निजं भेजे स्वं स्वं चान्ये सुरांशजाः ॥८७१॥लक्ष्मीश्चामरतारहारहसिता मत्तेभकुम्भस्तनीत्रैलोक्याक्रमणः पराक्रमभरः सम्भोगयोग्यं वयः ।पूर्वं सर्वमखर्वगर्वसुखदं सञ्चर्व्यमाणं पुनःपर्यन्ते परिणाममीलदखिलास्वादं विषादास्पदम् ॥८७२॥इति स भुवनभूत्यै भूतभर्ता विधायप्रसभविभवशक्त्या भूमिभारावतारम् ।अगमदमरसङ्घैः कीर्त्यमानप्रभावःसह नरमुनिना स्वं धाम नारायणांशः ॥८७३॥इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरितेकृष्णावतारोऽष्टमः॥८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP