संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|दशावतारचरित्रम्| परशुरामावतारः षष्ठः दशावतारचरित्रम् मत्स्यावतारः प्रथमः कूर्मावतारो द्वितीयः वराहावतारस्तृतीयः नृसिंहावतारश्चतुर्थः वामनावतारः पञ्चमः परशुरामावतारः षष्ठः रामावतारः सप्तमः कृष्णावतारोऽष्टमः बुद्धावतारो नवमः कर्क्यवतारो दशमः कविपरिचयः दशावतारचरित्रम् - परशुरामावतारः षष्ठः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्. Tags : epicpoemकाव्यदशावतारचरित्रम्महाकाव्यसंस्कृत परशुरामावतारः षष्ठः Translation - भाषांतर बद्धे बलौ निश्चलधर्मसेतौ भग्नेषु दैत्येषु निराश्रयेषु ।बभूव निर्विघ्नं महोत्सवश्रीर्विशल्यकल्याणवती त्रिलोकी ॥१॥शक्रेण वृत्रे निहते सजम्भेसुम्भे निसुम्भे प्रसभं भवान्या ।जीर्णेऽप्यगस्त्येन समस्तलोकशोकेऽथवा तापिनि सेल्वले च ॥२॥चामुण्डया चण्डपराक्रमे चग्रस्ते च पातालततानतेन ।रुरौ रणप्रच्युतरक्तबिन्दुवृन्दोदरोद्यद्रुरुकोटिलक्ष्मी ॥३॥गुहेन भिन्ने युधि तारके चगजासुरे धूर्जटिनान्धके च ।दैत्येषु चान्येषु हतेषु देवैर्निःशङ्कमासीत्सुरराजराज्यम् ॥४॥यातेऽथ काले शनकैर्विशालेदैत्येश्वराः क्ष्मामवतीर्य सर्वे ।क्रमेण ते दुर्मददस्युरूपाःसपापशापाः क्षितिपा बभूवुः ॥५॥शशास तस्मिन्समये महीयान्महीपतिर्हैहेयवंशजन्मा ।प्राज्योतिर्जितश्रीर्जगदर्जुनाख्यःसहस्रबाहुः कृतवीर्यसूनुः ॥६॥स्पर्धानुबन्धोद्धतदर्पयुद्धसंनद्धधीरं दशकन्धरं यः ।गदाग्रहेलाहतिनष्टचेष्टं शय्याङ्कपर्यङ्कतले बबन्ध ॥७॥अत्रान्तरे शौर्यनिधिर्भृगूणांकुले विशाले जमदग्निपुत्रः ।हरिस्तमः कुञ्जरपुञ्जभेदीप्रतापदीप्तोऽवततार रामा ॥८॥तस्योपदेष्टा भगवान्बभूव शार्ङ्गे धनुर्वेदविधौ पिनाकी ।आदानसन्धानदृढातिदूरलक्ष्येषु दत्ताद्भुतलक्षशिक्षः ॥९॥शस्त्रास्त्रविद्याविदितप्रकर्षसङ्घर्षयुद्धे जिततारकारिः ।पुत्राधिकां वल्लभतां गुणेनजगाम रामस्त्रिपुरान्तकस्य ॥१०॥मदग्रहोदग्रगजासुरास्थिविसंस्थुलाखण्डनखण्डधारम् ।ददौ त्रिशूली परशुं स्वमस्मैक्रूरं कुमारावजयेन तुष्टः ॥११॥ततः कदाचिन्मृगयारसेनस कार्तवीर्यः प्रविसारिसैन्यः ।वनं विगाह्य क्षयेषुश्चक्रेमृगद्वीपि मृगेश्वराणाम् ॥१२॥मन्त्रद्विषां दुःसहमोहहेतुर्दयादरिद्रं हृदयं सदैव ।कर्षत्यलं शोणितमांसलुब्धाधराधराणां मृगयापिशाची ॥१३॥तुरङ्गसेनामृदितस्थलानिशराहताशेषमृगद्विपानि ।विश्वद्रुतोपद्रुतपादपानिप्रविश्य चक्रे स तपोवनानि ॥१४॥अथाश्रमाग्रं जमदग्निजुष्टंभग्नद्रुमं रुग्णविविग्नसत्त्वम् ।कृत्वा शनैः श्रान्तहयः स तस्थौविश्रामकामः कुसुमस्थलीषु ॥१५॥होमावशेषैः सकुशैः पयोभिः संवर्धितानां स कुरङ्गकाणाम् ।मुनीन्द्रशिष्यैरपि वार्यमाणः सेन्यैः क्षयं निष्करणश्चकार ॥१६॥स कामधेनुं मुनिहोमहव्ययोग्यां सवत्सां गुणगौरवेण ।कण्ठे गृहीत्वा जमदग्निनापि रुद्धां मदान्धस्तरसा जहार ॥१७॥क्रौर्येण कीर्तिव्यसनेन लक्ष्मीर्द्वेषेण विद्या विनतिर्मदेन ।क्षमातिकोपेन धृतिर्भयेनप्रयाति लोभेन च सर्वमेव ॥१८॥यातः स हृत्वा मुनिहोमधेनुं लोभेन विक्रीतविवेकसत्त्वः ।यशांसि लोकत्रयविश्रुतानिचकार धिक्कारकलङ्कितानि ॥१९॥निरुद्धाशाः सर्वे दधति भृशमुद्वेगकलनांविवेकालोकस्य प्रभवति न लेशः क्वचिदपि ।न मित्रस्यालोको भवति परिहारेण वदनेघने लोभे जन्तोः स्थितिमुपगते कस्य सुगतिः ॥२०॥गतेऽथ तस्मिन्नृपतौ स्वदेशं महामुनीनां विहितापकारे ।रामः समभ्येत्य गजाश्वभग्नंतपोवनं निर्मृगमालुलोके ॥२१॥निवृत्तवेदस्मृतियज्ञविद्यापुराणज्ञानं विरताग्निकार्यम् ।भग्नाननोद्विग्नजनं विलोक्यतपोवनं प्राप च शोकशङ्कुम् ॥२२॥विज्ञाय राज्ञा तदशर्मकर्मस कार्तवीर्येण कृतं सकोपः ।शुश्राव तेनैव पितुः सवत्सांबलेन नीतामपि होमधेनुम् ॥२३॥स निःश्वसन्दुःसहकोपकम्पलुठज्जटाभारभृतांसकूटः ।क्षत्त्रक्षयोत्कण्ठमकुण्ठधारंकुठारमादाय जवाज्जगाम ॥२४॥स हैहेयीं हेममयी अवाप्यप्रतापदीप्तामिव राजधानीम् ।युद्धाय संनद्धभुजासहस्रम्अस्रस्तधैर्योऽर्जुनमाजुहाव ॥२५॥तयोः प्रवृत्ते भुवनपकम्पदीक्षाक्षमे सङ्क्षयधाम्नि युद्धे ।क्षोभः प्रभूताद्भुतसम्भ्रमोऽभूद्अभूत भूताभिभवप्रगल्भः ॥२६॥तस्याषण्ढप्रतापः कठिनमदभराकुण्ठस्य वेगान्निक्षिप्तस्कन्धपीठे गिरिदलनसहं घोरधारं कुठारम् ।भूभर्तुर्धेनुचौर्याचरणघनरुषा कार्तवीर्यस्य रामःस्रस्तांसं दोःसहस्रं युधि नवनलिनीनाललावं लुलाव ॥२७॥प्रतापमित्रे निहते सहस्रकरेऽथ तस्मिन्भुवनैकशूरे ।रामस्य निर्यत्ननिपातितारेर्मम प्रसारी न शशाम मन्युः ॥२८॥द्विबाहुना बाहुसहस्रदीप्तेहते नृशक्रे मुनिना प्रसह्य ।स शृङ्गभङ्गः क्षितिभृत्कुलस्यतीव्रः परं मानविनाशनोऽभूत॥२९॥कालेन तन्मन्युघनानुतापाःपापाय सर्वे मिलिताः क्षितीशाः ।वैरप्रतीकारविधानसज्जाजग्मुर्वनं भार्गवकुञ्जरस्य ॥३०॥रामे फलेध्माहरणाय यातेशून्यं प्रविश्याथ तपोवनं ते ।निष्कृत्तकण्ठस्रतशोणितौघमग्नं निर्जघ्नुर्जमदग्निमेव ॥३१॥ रामस्ततः पितृवधोद्धतशोकवह्नेः शान्तिं न बाष्पजलबिन्दुभिरप्यवेत्य ।आसीत्क्षणं क्षितिपजीवितजातलज्जस्तद्रक्तसागरनिमज्जनसज्ज एव ॥३२॥गत्वा जवेन रणयज्ञविधानदीक्षाक्षेत्रं क्षणात्क्षितिपवंशवनोग्रवह्निः ।कृत्वा समस्तनृपसंहृतिमेकवारंवैरक्षयेण न मनाग्विरराम रामः ॥३३॥स स्नात्वा रक्तपूर्णे रणसरसि लसत्कीर्तिघोतोत्तरीयःक्रोधानृण्यं विधातुं कृतसकलजगत्क्षत्त्रवंशाग्निकार्यः ।शार्द्धश्रद्धाविधानं व्यधितशरकुशाकीर्णभूपालमौलिश्रेणीहेमांशुनिर्यत्तिललवकलितन्यस्ततन्मुण्डपिण्डः ॥३४॥निक्षत्त्रां क्षत्रियारिर्जलनिधिपरिखामेखलान्तामखिन्नः कृत्वा त्रिसप्तकृत्वः पितृवरनिधनक्रोधनः क्ष्मां क्षणेन ।यः प्रादादेकविप्रार्पितजलचुलुकस्तोकदानातिलज्जामज्जन्मानाननाब्जः स्मितसितयशस्तस्य किं वर्ण्यन्तेऽन्यत॥३५॥इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरितेपरशुरामावतारः षष्ठः ॥६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP