संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|दशावतारचरित्रम्| नृसिंहावतारश्चतुर्थः दशावतारचरित्रम् मत्स्यावतारः प्रथमः कूर्मावतारो द्वितीयः वराहावतारस्तृतीयः नृसिंहावतारश्चतुर्थः वामनावतारः पञ्चमः परशुरामावतारः षष्ठः रामावतारः सप्तमः कृष्णावतारोऽष्टमः बुद्धावतारो नवमः कर्क्यवतारो दशमः कविपरिचयः दशावतारचरित्रम् - नृसिंहावतारश्चतुर्थः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्. Tags : epicpoemकाव्यदशावतारचरित्रम्महाकाव्यसंस्कृत नृसिंहावतारश्चतुर्थः Translation - भाषांतर हते महावराहेण हिरण्याक्षे क्षितिद्रुहि ।हिरण्यकशिपुः श्रीमान्भवत्तत्सुतोऽधिकः ॥१॥नो ननाम रणे यस्य क्षणाद्विश्वक्षयं विना ।दोर्दण्डपीडनक्रीडाव्रीडाकुण्डलितं धनुः ॥२॥प्रतापकेसरी यस्य निःशेषीकृतविद्विषः ।अलब्धयुद्धा सुष्वाप जगद्गिरिगुहागृहे ॥३॥स जभवृत्रनमुचिप्रमुखैर्दैत्यदानवैः ।हेमसिंहासनासीनः सह भेजे सभाभुवम् ॥४॥प्रणमद्दैत्यसामन्तप्रतिबिम्बभरक्षमे ।विपुले रत्नपर्यङ्के विन्यस्तचरणाम्बुजः ॥५॥पार्श्वे हठहृतामर्त्यतरुणीचामरानिलैः ।प्राणेशविरहोच्छ्वासैरिव लोलांशुकाञ्जलः ॥६॥तस्याग्रे विग्रहग्रस्तसमस्तसुरसम्पदः ।तेजसा मुद्रितः कश्चिन्न वक्तुमभवद्विभुः ॥७॥तस्मिन्निःशब्दशञ्चारे दैत्यवृद्धः सभातले ।प्राह राहुः शिरः शेषः सुरवैरं वहन्मखे ॥८॥दैत्याधिनाथ धन्योऽसि युधि येनासिधारया ।क्षमापङ्ककलङ्काङ्कं कुलस्य क्षालितं यशः ॥९॥सुरापकारशल्यानि भ्रूभेदेन तवाधुना ।कामं कङ्कमुखेनेव हृदयादुद्धृतानि नः ॥१०॥पूज्यं जन्म प्रथितयशसस्तस्य माहाम्त्म्यपूतंमानस्तस्यामरगिरिगुरुर्वर्धते निष्प्रमाणः ।बद्धस्तेन स्थिरगुणकथा हेतुरौचित्यसेतुर्यस्योन्नत्या कुलमविकलं याति सर्वोन्नतत्वम् ॥११॥अल्पागसां वृथास्माभिः कृता हिंसा दिवौकसाम् ।विष्णुर्मूलं विकाराणामवलेपादुपेक्षितः ॥१२॥तन्वी मूर्तिः कुसुमकलिकाकोमला सा च वाणी वक्त्रं सौम्यं हृदयमदयं दूषितं चेष्टितं च ।वैदग्ध्यं तद्बत मधुरिपोर्मायया मौग्ध्यदिग्धंवामामूर्तेरमृतहरणे हन्त किं विस्मृतं वः ॥१३॥यश्चमत्कारविरहान्न स्मर्ता स्नेहवैरयोः ।तेन तुष्टेन रुष्टेन मित्रारिविफलेन किम् ॥१४॥दैत्येश्वरे हिरण्याक्षे क्षपिते तार्क्ष्यलक्ष्मणा ।शृङ्गभङ्गः समुत्तुङ्गो दैत्यक्षितिभृतां कृतः ॥१५॥साधारोदधिमन्थोत्थां लक्ष्मीं वक्षसि कुर्वता ।तेनाबलानामस्माकं स्त्रीत्वमेवोपपादितम् ॥१६॥लक्ष्मीकौस्तुभपरिजातहरणं स्त्रीमायया वञ्चनंमत्कण्ठे कठिनेऽमृतस्य लुठतो विघ्नाय चक्रक्रिया ।दैत्येन्द्रैरवलेपविद्रुतमदैर्दैवेन वा मुद्रितैर्वैकुण्ठस्य शठस्य कुण्ठपतिभिश्चिन्त्यं न तच्चिन्तितम् ॥१७॥अधुन दानवपते खड्गपातपवित्रितः ।पितुर्विष्णुवधश्रद्धाश्राद्धकालो विधीयताम् ॥१८॥इत्युक्ते राहुणा स्पष्टं क्लिष्टमुखत्विषः ।बभूवुर्लक्ष्यवैलक्ष्याः प्रेक्षमाणाः क्षणं क्षितिम् ॥१९॥अमानमौनमूकेषु दानवेष्वभिमानिषु ।उवाच तारकः कृत्वा राहोरभिमुखं मुखम् ॥२०॥साभिमानमसम्भाव्यमौचित्यच्युतमप्रियम् ।दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥२१॥सर्वङ्कषेण कालेन दैत्येन्द्रे कवलीकृते ।किं मिथाकारणत्वेन नीयते विष्णुरुन्नतिम् ॥२२॥कल्पान्ते क्षिप्यते येन सुमेरुः पांसुलीलया ।विलम्बं कुरुते तस्य कः कालस्य बलीयसः ॥२३॥यस्य त्रैलोक्यभर्तुः सुरपतियशसां हर्तुराश्चर्यकर्तुः कोटीनां षण्णवत्या सुगणितवयसो वर्षसङ्ख्या बभूव ।निःशङ्काश्वासलीलालससरलमतेरङ्कसुप्तस्य मैत्र्याश्चित्रं तस्यापि कालः कवलनकलनातीतविघ्नः कृतघ्नः ॥२४॥देवमेव वधे तस्य कारणं दैत्यभूभृतः ।हरिर्हन्ति हिरण्याक्षमिति किं केन सङ्गतम् ॥२५॥निर्यन्त्रणं स्वतन्त्रस्य विचित्रचरितं विधेः ।किं पात्यते न कीटेन शतशाखी वनस्पतिः ॥२६॥बलवान्दुर्बलं हन्तीत्येष नास्त्येव निश्चयः ।दीपं हन्ति पतङ्गोऽपि पन्नगं च पिपीलिकः ॥२७॥भीरुर्जयति सङ्ग्रामे याति वीरः क्षयं क्षणात।एवंविधा एव भवे भवन्ति भवितव्यता ॥२८॥दैत्येन्द्रस्यारिसंहारे प्रेरणा क्वोपयुज्यते ।प्रेर्यते दन्तिदलने कानने केन केसरी ॥२९॥राहो निन्दापदेशेन कृता शत्रोः स्तुतिस्त्वया ।न वेत्सि हृदयाभावादनौचित्योक्तिलाघवम् ॥३०॥इत्युक्ते तारकेणाप्तजीविनामिव मानिनाम् ।साधु साध्विति दैत्यानां निश्चेरुर्युगपद्गिरः ॥३१॥अथ धर्ममतिः प्राह हिरण्यकशिपोः सुतः ।प्रह्लादः पितुरासन्ने यौवराज्यासने स्थितः ॥३२॥तात तिष्ठत्सु वृद्धेषु षाड्गुण्यज्ञानमानिषु ।मद्विधानामिदं वक्तुं युक्तमल्पधियां कथम् ॥३३॥प्रस्थितानाममार्गेण निपातभयशङ्कया ।दूराद्वारणनादेन येन केनचिदुच्यते ॥३४॥अयुक्तं यद्भगवतो विष्णोर्निन्दाभिनन्द्यते ।अशक्तं वाङ्मयं पापमभ्यस्तं स्वस्तिनाशनम् ॥३५॥यस्य सद्गुणनिन्दायां श्रद्धया वाक्प्रवर्तते ।सत्क्षेत्रोप्तमपर्याप्तमयशस्तस्य जायते ॥३६॥विष्णोर्जगन्निवासस्य नैव द्वेष्योऽस्ति न प्रियः ।दोषं वैरं गुणे प्रीतिर्निसर्गेण जगद्गुरोः ॥३७॥गुणहीना वयं नूनं त्रिदशा गुणशालिना ।हरिः कुतोऽन्यथास्मासु विमुखस्तेषु संमुखः ॥३८॥प्रयत्नः स्वगुणाधाने येन बुद्धिमता कृतः ।भूतये प्रणतास्तस्य मित्रतां यान्ति शत्रवः ॥३९॥मित्रसृष्टिर्न भिन्नास्ति शत्रुजातिर्न भिद्यते ।गुणेन जायते मित्रं दोषेणोत्पद्यते रिपुः ॥४०॥हिंसाविरहिता चेष्टा वाणी विनयकोमला ।यस्यावैरं मनस्तस्य शत्रुशून्या दिशो दश ॥४१॥न तु विश्वाकृतेर्विष्णोः कर्तुं शक्या प्रतिक्रिया ।यस्योदरदरीकोणे लीना शेते जगत्त्रयी ॥४२॥आशाकाशावकाशप्रविसृतवपुषा व्याप्तनिःशेषविश्वःश्वासोल्लासावहेलातलतरलतरोतालकल्लोलभाग्भिः ।शुण्डोच्चण्डाभिघातस्फुटितमपि पुनः स्फाटिकस्फारवार्भिश्चक्रे मत्स्यावतारस्त्रिभुवनमिव यः कस्य देवः स जेयः ॥४३॥यस्याकरोद्विकचनाभिभवाब्जकोषेसामस्वरेण विदधद्भ्रमराभिशङ्काम् ।यज्ञोपवीतमुरसा धवलं दधानःसंलग्ननालतनुतन्तुरिवाब्जयोनिः ॥४४॥दृष्ट्वैवावर्तमानं घनभुवनगणं जातलोकानुकम्पःसम्पन्ने सर्वबन्धे स्थितिधृतिदलनातङ्कमाशङ्कमानः ।पृष्ठे ब्रह्माण्डमन्यत्पृथुतरमकरोत्कूर्मरूपः कवाटंयस्तस्याचिन्त्यशक्तेर्वदति मितमतिः कः स्तुतिं कश्च निन्दाम् ॥४५॥परोक्षेऽधोक्षजाक्षेपमधिक्षेपविवक्षया ।राहोर्व्याहरतो देहविरहात्तस्य शोभते ॥४६॥न वैरे वाच्यता राहोर्यस्याद्यापि न शाम्यति ।कण्ठे कठिनवैकुण्ठचक्रधारोद्धतव्यथा ॥४७॥आक्रान्तिभरवक्त्रेण क्रूरचक्रेऽस्य चक्रिणः ।किं दृष्टं नष्टचेष्टेन विश्वरूपं न राहुणा ॥४८॥कुचितं दैत्यवीरेण तारकेण महात्मना ।कथितं यत्स कालेन दयितो मत्पितामहः ॥४९॥कालश्च भगवान्विष्णुः विश्वव्यापी सनातनः ।अनाद्यनन्तस्य यस्यान्तर्यान्ति कल्पान्तकोटयः ॥५०॥पूज्यतां विनय्¸अद्विष्णुस्त्यज्यतां मोहदुर्ग्रहः ।रक्ष्यतां यक्षिणी लक्ष्मीः स्वहिते धीर्निधीयताम् ॥५१॥मूर्खमन्त्रः खलप्रीतिः पथ्यद्वेषः प्रमादिता ।प्रभविष्णुविरोधश्च विधिवैमुख्यलक्षणम् ॥५२॥प्रह्लादगदितं श्रुत्वा निःशश्वासासुरेश्वरः ।अङ्कुशाकर्षकर्षणक्लेशी वन्य इव द्विपः ॥५३॥सोऽवदद्बत दैत्यानां दुर्निमित्तमुपस्थितम् ।यदादिशति वृद्धानामुपदेशमयं शिशुः ॥५४॥कुलस्यान्तनिमित्तेन स्त्रीणां दुश्चरितेन वा ।पापशापेन वा नूनं जायन्ते कुलपांसनाः ॥५५॥स्वकुलत्यागनिःस्नेहाश्चपला मलिनाः खलाः ।कोकिला इव कुर्वन्ति परपक्षसमाश्रयम् ॥५६॥कुलक्रमागतेयं श्रीः प्रह्लादाय न रोचते ।यस्य वन्दिपदे शत्रोः स्तोत्राङ्के रमते मतिः ॥५७॥तेजोजीवदरिद्राणां दैन्यम्लानयशस्त्विषाम् ।जायते शत्रुषु त्रासात्क्लीबानामिव संनतिः ॥५८॥वंशक्षयक्षमः कृष्णवर्त्मा भवति दारुणः ।दाहाय जनकस्यादौ टङ्कारमुखरः खलः ॥५९॥सेक्तारं जनकं त्यक्त्वा परेषां वेश्मसंश्रयाः ।वक्त्रवृक्षाः कुजन्मानः फलन्ति च नमन्ति च ॥६०॥कुठारिकेण येनैव च्छिन्नमूलः कृतस्तरुः ।तस्यैव निर्माणतया मूढः पतति पादयोः ॥६१॥कस्य प्रह्लाद मत्स्यादिमहाकारविकारिणः ।विष्णोः स्तुत्या करोषि त्वमेताः शिशुविभीषिकाः ॥६२॥भवत्येव भवे स्थूलाः सूक्ष्माश्चान्ये किमद्भुतम् ।ब्रह्माण्डपरमाणुभ्यां दर्शिता स्थूलसूक्ष्मता ॥६३॥अब्धौ धूमसमूहतुच्छतनवस्तोयं पिबन्त्यम्बुदापीत्वा लम्बनशून्यमम्बरतलं व्याप्यातताः शेरते ।तद्गर्भाम्भसि विस्फुरन्ति दहनोद्गारोद्गता विद्युतःसंसारे किमभित्तिचित्ररुचिरे नालोक्यते कौतुकम् ॥६४॥वृत्रे शत्रुहरे मघौ जयनिधौ सुम्भासुरे भासुरेमायाधाम्नि मये रणार्णवयशः सन्तारके तारके ।जृम्भे स्तम्भितलोकनाथपृतने रुद्धाम्बरे शम्बरेवातापिन्यपि तापने प्रतपति स्वस्तिच्युतः क्वाच्युतः ॥६५॥उपदेशस्त्वया प्राप्तः कस्य मूर्खगुरोर्मुखात।जलशायी जलपतिर्दैवतं यस्य सोऽच्युतः ॥६६॥विचार्यमाणस्तस्यास्ति गुणलेशो न कश्चन ।एतावदेव जानेऽहं दम्भसिद्धोऽयमच्युतः ॥६७॥ध्यानं नेत्रनिमीलनं विहसनं भ्रूकुञ्चनं घूर्णनंशूत्कारश्वसनं विमूढगणनं शिष्यस्पृहोल्लासनम् ।मूर्खत्रासनमुन्नतासनमतिप्रह्वस्य पादार्पणंधूर्तानां स्तुतिभूतिसूतिसदनं दम्भप्रभावादिदम् ॥६८॥विश्वव्यापी स चेद्देवः सर्वस्यात्मा हृदि स्थितः ।न तद्विरहितं किंचिदचरेषु चरेषु च ॥६९॥योऽयं मरकतस्तम्भः सभायां मे पुरःस्थितः ।अस्यान्तःस्थं न पश्यामि दुष्पुत्र तव दैवतम् ॥७०॥इत्युक्ते दितिजेन्द्रेण सहसा महसां निधिः ।दीर्णान्मरकतस्तम्भान्निर्ययौ नरकेसरी ॥७१॥सुवर्णशुक्तिद्वन्द्वाभं विभ्राणः श्रवणद्वयम् ।अन्तःस्फुरत्प्रकोपाग्निर्यज्ज्वालायुगोपमम् ॥७२॥सितः केसरभारोऽस्य बभौ स्कन्धद्वयाश्रयः ।मेरुशृङ्गयुगासङ्गिशुभ्राभ्रवलयप्रभः ॥७३॥जृम्भमाणस्य तस्यास्ये ललास रसना मुहुः ।कल्प्¸अन्तानललेखेव हेमाचलगुहागृहे ॥७४॥नखास्तस्य बभुर्भीतिभग्नेनाङ्ककलोज्ज्वलाः ।दैत्यासृक्पानसन्नद्धमृत्युस्फटिकशुक्तयः ॥७५॥तस्य रौद्रतयोन्निद्ररोमाञ्चोत्कटकण्टकाः ।असूचयन्बहिर्घोरक्रौर्यकर्कशतामिव ॥७६॥दैत्यकल्पान्तकालेन द्वादशार्कोदयत्विषा ।तत्तेजसा व्यदीर्यन्त तेजांसि च तमांसि च ॥७७॥करालकेसरिमुखं दृष्ट्वा दितिजकुञ्जराः ।ते भग्नवदनोत्साहा ययुर्मददरिद्रताम् ॥७८॥तद्दर्शनाद्भुताक्रान्तः किमप्यातङ्कशङ्कितः ।आसनादुच्चलन्नूचे हिरण्यकशिपुः श्वसन॥७९॥नायं सिंहो न चायं पुरुषवपुरहो कोऽप्यपूर्वप्रकारःक्षिप्रोपेक्षाक्षमास्मिन्न हि न हि तरसा गृह्यतां गृह्यतां भोः ।आस्तां सज्जोऽहमस्य स्वयमिह दमनायेत्युदार्यासुरेन्द्रस्तं चक्रे शस्त्रवृष्ट्या निचितमुपचितादञ्चिरोमाञ्चपूर्णम् ॥८०॥व्याप्तः शस्त्रास्त्रवर्षेण हेलोन्मीलितलोचनः ।हरिर्दैत्येन्द्रमादाय विस्फुरन्तमपीडयत॥८१॥उत्तानमङ्के विन्यस्य पिङ्गभ्रूभङ्गया दृशा ।अकालसन्ध्यामसृजन्नृहरिस्तं विलोकयन॥८२॥दैत्येन्द्रहाररत्नाङ्के स्ववक्त्रं प्रतिबिम्बितम् ।करालक्रूरमालोक्य सोऽभूदद्भुतविस्मयः ॥८३॥अयं मां योद्धुमायात इतीव हसितच्छलात।दैत्यवक्षसि चिक्षेप हरिर्नखपरम्पराम् ॥८४॥तस्योग्रसिंहनखशुक्तिशिखावखातवक्षःस्थलव्रणगुहाप्रतिशब्दधीरः ।भोस्तिष्ठ तिष्ठ चपल क्व गमिष्यसीतिकण्ठे स्वनः सह यया वसुभिः समाप्तिम् ॥८५॥विदीर्णे दैत्येन्द्रे खरनखरदानैर्नरहरेश्चकाशे रक्ताक्तत्रुटितततहाराग्रगलितः ।शुकीतुण्डाघातव्यतिकरदलद्दाडिमरुचिर्व्रजद्भिर्जीवांशैश्चित्त इव लुठन्मौक्तिकभरः ॥८६॥वृत्रश्चित्रार्पिताभस्तिमिततमनमत्तारकस्तारकोऽपि ध्वस्तः स्तम्भेन जम्भः प्रणिहितनयनः शम्बरोऽप्यम्बराग्रे ।वातापिः सानुतापः क्षतधृतिरभवन्निर्ममः कालनेमिःदैत्येन्द्रे रौद्रवृत्त्या नरहरिदलिते विप्रचित्तिर्विचित्तः ॥८७॥हत्वा हिरण्यकशिपुं हरिर्हरिणलीलया ।हर्षेण दर्शनायातान्ददर्श त्रिदशान्पुरः ॥८८॥भीमग्नै रावणाग्रात्सुरपतिरचलद्विद्रुताश्वश्च भानुस्त्रस्तं तत्याज वाहं महिषमपि यमश्चन्द्रमा निर्मृगोऽभूत।पार्श्वे वक्त्रं विविग्नं गणपतिरकरोदित्यमर्त्योत्तमानाम्अग्रे तस्योग्रमूर्तेः स्थगितगतिरभूत्सम्भ्रमः सप्रहर्षः ॥८९॥इति स भगवान्कृत्वा विष्णुर्जगज्जनितोदयंकुशलमचलं प्रह्लादाय प्रदाय सहायुषा ।निजनिजपदे देवान्धृत्वा स्थिरस्थितिपालनेदमितमगमत्सौम्यां मूर्तिं विधाय सुधाम्बुधिम् ॥९०॥इति श्रीव्यासदासापराख्यश्रीक्षेमेद्रविरचितेदशावतारचरिते नरसिंहावतारश्चतुर्थः ॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP