नवमप्रपाठकः - प्रथमोऽर्द्धः
यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.
प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
देवां अनु प्रभूषतः ॥१७६५॥
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
ज्योतिर्जज्ञानमुक्थ्यं ॥१७६६॥
सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
वर्धा समुद्रमुक्थ्यं ॥१७६७॥
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥१७६८॥
त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥१७६९॥
वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥१७७०॥
आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि ।
तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिं ॥१७७१॥
तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
आ पप्राथ महित्वना ॥१७७२॥
यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
हस्ता वज्रं हिरण्ययं ॥१७७३॥
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व ।
सूरो न रुरुक्वाञ्छतात्मा ॥१७७४॥
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् ।
होता यजिष्ठो अपां सधस्थे ॥१७७५॥
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
मर्तो यो अस्मै सुतुको ददाश ॥१७७६॥
अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषं ।
ऋध्यामा त ओहैः ॥१७७७॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥१७७८॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥१७७९॥
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ॥१७८०॥
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणां ।
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत्॥१७८१॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥१७८२॥
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः ।
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥१७८३॥
ऐभिर्ददे वृष्ण्या प्ॐस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥१७८४॥
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
उत स्वराजो अश्विना ॥१७८५॥
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
त्रिषधस्थस्य जावतः ॥१७८६॥
उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः ।
प्रातर्होतेव मत्सति ॥१७८७॥
बण्महां असि सूर्य बडादित्य महां असि ।
महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि ॥१७८८॥
बट्सूर्य श्रवसा महां असि सत्रा देव महां असि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यं ॥१७८९॥
उप नो हरिभिः सुतं याहि मदानां पते ।
उप नो हरिभिः सुतं ॥१७९०॥
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
उप नो हरिभिः सुतं ॥१७९१॥
त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
उप नो हरिभिः सुतं ॥१७९२॥
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वं ।
विशः पूर्वीः प्र चर चर्षणिप्राः ॥१७९३॥
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
तस्य व्रतानि न मिनन्ति धीराः ॥१७९४॥
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
हर्यश्वाय बर्हया समापीन्॥१७९५॥
यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं ॥१७९६॥
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥१७९७॥
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषां ।
कृष्वा दुवांस्यन्तमा सचेमा ॥१७९८॥
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
सदा ते नाम स्वयशो विवक्मि ॥१७९९॥
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
मारे अस्मन्मघवञ्ज्योक्कः ॥१८००॥
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह ।
अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०१॥
त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिं ।
अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं ।
तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०२॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति ।
या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०३॥
रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
प्रेदु हरिवः सुतस्य ॥१८०४॥
उक्थं च न शस्यमानं नागो रयिरा चिकेत ।
न गायत्रं गीयमानं ॥१८०५॥
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
शिक्षा शचीवः शचीभिः ॥१८०६॥
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिं ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०७॥
अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०८॥
आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०९॥
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥१८१०॥
ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥१८११॥
असृग्रं देववीतये वाजयन्तो रथा इव ॥१८१२॥
अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥१८१३॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः ।
परिज्मानमिव द्यां होतारं चर्षणीनां ।
शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥१८१४॥
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरं ।
निष्षहमाणो यमते नायते धन्वासहा नायते ॥१८१५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP