संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|अष्टमप्रपाठकः| तृतीयोऽर्द्धः अष्टमप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयोऽर्द्धः अष्टमप्रपाठकः - तृतीयोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद तृतीयोऽर्द्धः Translation - भाषांतर अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ं स्वां ।कविर्विप्रेण ववृधे ॥१७११॥ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषं ।अस्मिन्यज्ञे स्वध्वरे ॥१७१२॥स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।देवैरा सत्सि बर्हिषि ॥१७१३॥उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।नुदस्व याः परिस्पृधः ॥१७१४॥अया निजघ्निरोजसा रथसङ्गे धने हिते ।स्तवा अबिभ्युषा हृदा ॥१७१५॥अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।रुज यस्त्वा पृतन्यति ॥१७१६॥तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनं ।इन्दुमिन्द्राय मत्सरं ॥१७१७॥आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि ॥१७१८॥वृत्रखादो वलं रुजः पुरां दर्मो अपामजः ।स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥१७१९॥गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव ।प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥१७२०॥यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणं ।आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥१७२१॥मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥१७२२॥त्वमङ्ग प्र शुंसिषो देवः शविष्ठ मर्त्यं ।न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१७२३॥मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥१७२४॥प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।दिवो अदर्शि दुहिता ॥१७२५॥अश्वेव चित्रारुषी माता गवामृतावरी ।सखा भूदश्विनोरुषाः ॥१७२६॥उत सखास्यश्विनोरुत माता गवामसि ।उतोषो वस्व ईशिषे ॥१७२७॥एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः ।स्तुषे वामश्विना बृहत्॥१७२८॥या दस्रा सिन्धुमातरा मनोतरा रयीणां ।धिया देवा वसुविदा ॥१७२९॥वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।यद्वां रथो विभिष्पतात्॥१७३०॥उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।येन तोकं च तनयं च धामहे ॥१७३१॥उषो अद्येह गोमत्यश्वावति विभावरि ।रेवदस्मे व्युच्छ सूनृतावति ॥१७३२॥युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः ।अथा नो विश्वा सौभगान्या वह ॥१७३३॥अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।अर्वाग्रथं समनसा नि यच्छतं ॥१७३४॥एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी ।उषर्बुधो वहन्तु सोमपीतये ॥१७३५॥यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।आ न ऊर्जं वहतमश्विना युवं ॥१७३६॥अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥१७३७॥अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥१७३८॥सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥१७३९॥महे नो अद्य बोधयोषो राये दिवित्मती ।यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१७४०॥या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१७४१॥सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते ॥१७४२॥प्रति प्रियतमं रथं वृशणं वसुवाहनं ।स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवं ॥१७४३॥अत्यायातमश्विना तिरो विश्वा अहं सना ।दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवं ॥१७४४॥आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवं ।रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवं ॥१७४५॥अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासं ।यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥१७४६॥अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥१७४७॥यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥१७४८॥इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक्॥१७४९॥रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥१७५०॥समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥१७५१॥आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥१७५२॥न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥१७५३॥उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥१७५४॥एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥१७५५॥उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥१७५६॥अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥१७५७॥अबोध्यग्निर्ज्म उदेति सूर्यो व्यू३षाश्चन्द्रा मह्यावो अर्चिषा ।आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक्॥१७५८॥यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतं ।अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥१७५९॥अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥१७६०॥प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।अच्छा वाजं सहस्रिणं ॥१७६१॥अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।हरिस्तुञ्जान आयुधा ॥१७६२॥स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।श्येनो न वंसु षीदति ॥१७६३॥स नो विश्वा दिवो वसूतो पृथिव्या अधि ।पुनान इन्दवा भर ॥१७६४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP