संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|सप्तमप्रपाठकः| तृतीयोऽर्द्धः सप्तमप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयोऽर्द्धः सप्तमप्रपाठकः - तृतीयोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद तृतीयोऽर्द्धः Translation - भाषांतर अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यं ॥१५७३॥अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥१५७४॥प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।इन्द्राग्नी इष आ वृणे ॥१५७५॥इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।साकमेकेन कर्मणा ॥१५७६॥इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।ऋतस्य पथ्याऽऽ३ अनु ॥१५७७॥इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च ।युवोरप्तूर्यं हितं ॥१५७८॥शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः ।भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१५७९॥पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ॥१५८०॥त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ॥१५८१॥त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥१५८२॥यो विश्वा दयते वसु होता मन्द्रो जनानां ।मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥१५८३॥अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनां ॥१५८४॥इमं मे वरुण श्रुधी हवमद्या च मृडय ।त्वामवस्युरा चके ॥१५८५॥कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।कया स्तोतृभ्य आ भर ॥१५८६॥इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥१५८७॥इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥१५८८॥विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ं स्वा हि ते ।मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥१५८९॥अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥१५९०॥प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।अग्मन्नुक्थानि प्ॐस्येन्द्रं जैत्राय हर्षयत ।वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥१५९१॥त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।परावतो न साम तद्यत्रा रणन्ति धीतयः ।त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे । १५९२॥उत नो गोषणिं धियमश्वसां वाजसामुत ।नृवत्कृणुह्यूतये ॥१५९३॥शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।विदा कामस्य वेनतः ॥१५९४॥उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।सुमृडीका भवन्तु नः ॥१५९५॥प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।शुची उप प्रशस्तये ॥१५९६॥पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।ऊह्याथे सनादृतं ॥१५९७॥मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतं ।परि यज्ञं नि षेदथुः ॥१५९८॥अयमु ते समतसि कपोत इव गर्भधिं ।वचस्तच्चिन्न ओहसे ॥१५९९॥स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।विभूतिरस्तु सूनृता ॥१६००॥ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।समन्येषु ब्रवावहै ॥१६०१॥गाव उप वदावटे महि यज्ञस्य रप्सुदा ।उभा कर्णा हिरण्यया ॥१६०२॥अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।अवटस्य विसर्जने ॥१६०३॥सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानं ।नीचीनबारमक्षितं ॥१६०४॥मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुं ॥१६०५॥सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति ।मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥१६०६॥इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१६०७॥अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥१६०८॥यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥१६०९॥तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः ।अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः ॥१६१०॥गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।शुचिं च वर्णमधि गोषु धार्य ॥१६११॥स नो हरीणां पत इन्दो देवप्सरस्तमः ।सखेव सख्ये नर्यो रुचे भव ॥१६१२॥सनेमि त्वमस्मदा अदेवं कं चिदत्रिणं ।साह्वां इन्दो परि बाधो अप द्वयुं ॥१६१३॥अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते ।सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ॥१६१४॥विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥१६१५॥अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥१६१६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP