संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|तृतीयप्रपाठकः| द्वितीयोऽर्द्धः तृतीयप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयप्रपाठकः - द्वितीयोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद द्वितीयोऽर्द्धः Translation - भाषांतर गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥९५६॥ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः ।तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥९५७॥पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।सूर्यस्येव न रश्मयः ॥९५८॥केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि ।समुद्रः सोम पिन्वसे ॥९५९॥जज्ञानो वाचमिष्यसि पवमान विधर्मणि ।क्रन्दं देवो न सूर्यः ॥९६०॥प्र सोमासो अधन्विषुः पवमानास इन्दवः ।श्रीणाना अप्सु वृञ्जते ॥९६१॥अभि गावो अधन्विषुरापो न प्रवता यतीः ।पुनाना इन्द्रमाशत ॥९६२॥प्र पवमान धन्वसि सोमेन्द्राय मादनः ।नृभिर्यतो वि नीयसे ॥९६३॥इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे ।अरमिन्द्रस्य धाम्ने ॥९६४॥त्वं सोम नृमादनः पवस्व चर्षणीधृतिः ।सस्निर्यो अनुमाद्यः ॥९६५॥पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः ।शुचिः पावको अद्भुतः ॥९६६॥शुचिः पावक उच्यते सोमः सुतः स मधुमान् ।देवावीरघशंसहा ॥९६७॥प्र कविर्देववीतयेऽव्या वारेभिरव्यत ।साह्वान्विश्वा अभि स्पृधः ॥९६८॥स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति ।पवमानः सहस्रिणं ॥९६९॥परि विश्वानि चेतसा मृज्यसे पवसे मती ।स नः सोम श्रवो विदः ॥९७०॥अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिं ।इषं स्तोतृभ्य आ भर ॥९७१॥त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ ।पुनानो वह्ने अद्भुत ॥९७२॥स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।सोमश्चमूषु सीदति ॥९७३॥क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।दधत्स्तोत्रे सुवीर्यं ॥९७४॥यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव ।विश्वा च सोम सौभगा ॥९७५॥इन्दो यथा तव स्तवो यथा ते जातमन्धसः ।नि बर्हिषि प्रिये सदः ॥९७६॥उत नो गोविदश्ववित्पवस्व सोमान्धसा ।मक्षूतमेभिरहभिः ॥९७७॥यो जिनाति न जीयते हन्ति शत्रुमभीत्य ।स पवस्व सहस्रजित्॥९७८॥यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये ।ताभिः पवित्रमासदः ॥९७९॥सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया ।सीदन्नृतस्य योनिमा ॥९८०॥त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।वरिवोविद्धृतं पयः ॥९८१॥तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः ।यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ॥९८२॥वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।आ ते यतन्ते रथ्यो३ यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः ॥९८३॥मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिं ।त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत्॥९८४॥पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।मित्र वंसि वां सुमतिं ॥९८५॥ता वां सम्यगद्रुह्वाणेषमश्याम धाम च ।वयं वां मित्रा स्याम ॥९८६॥पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा ।साह्याम दस्यूं तनूभिः ॥९८७॥उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः ।सोममिन्द्र चमूसुतं ॥९८८॥अनु त्वा रोदसी उभे स्पर्धमानमददेतां ।इन्द्र यद्दस्युहाभवः ॥९८९वाचमष्टापदीमहं नवस्रक्तिमृतावृधं ।इन्द्रात्परितन्वं ममे ॥९९०॥इन्द्राग्नी युवामिमे३ऽभि स्तोमा अनूषत ।पिबतं शम्भुवा सुतं ॥९९१॥या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।इन्द्राग्नी ताभिरा गतं ॥९९२॥ताभिरा गच्छतं नरोपेदं सवनं सुतं ।इन्द्राग्नी सोमपीतये ॥९९३॥अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।सीदन्योनौ योनेष्वा ॥९९४॥अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।सोमा अर्षन्तु विष्णवे ॥९९५॥इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।आ पवस्व सहस्रिणं ॥९९६॥सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥९९७॥अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥९९८॥यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु ।तन्नः पुनान आ भर ॥९९९॥वृषा पुनान आयुंषि स्तनयन्नधि बर्हिषि ।हरिः सन्योनिमासदः ॥१०००॥युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती ।ईशाना पिप्यतं धियः ॥१००१॥इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥१००२॥असि हि वीर सेन्योऽसि भूरि पराददिः ।असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥१००३॥यदुदीरत आजयो धृष्णवे धीयते धनां ।युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥१००४॥स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यं ॥१००५॥ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं ॥१००६॥ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यं ॥१००७॥असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।श्येनो न योनिमासदत॥१००८॥शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतं ।स्वदन्ति गावः पयोभिः ॥१००९॥आदीमश्वं न हेतारमशूशुभन्नमृताय ।मधो रसं सधमादे ॥१०१०॥अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुं ।वि कोशं मध्यमं युव ॥१०११॥आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥१०१२॥प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।विश्वा परि प्रिया भुवदध द्विता ॥१०१३॥उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदं ।यज्ञस्य सप्त धामभिरध प्रियं ॥१०१४॥त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिं ।मिमीते अस्य योजना वि सुक्रतुः ॥१०१५॥पवस्व वाजसातये पवित्रे धारया सुतः ।इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ॥१०१६॥त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः ।वत्सं जातं न मातरः पवमान विधर्मणि ॥१०१७॥त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥१०१८॥इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥१०१९॥अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥१०२०॥अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् ।इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥१०२१॥आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥१०२२॥आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते ।सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥१०२३॥ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥१०२४॥इन्द्राय साम गायत विप्राय बृहते बृहत् ।ब्रह्माकृते विपश्चिते पनस्यवे ॥१०२५॥त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।विश्वकर्मा विश्वदेवो महां असि ॥१०२६॥विभ्राजं ज्योतिषा त्व३रगच्छो रोचनं दिवः ।देवास्त इन्द्र सख्याय येमिरे ॥१०२७॥असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥१०२८॥आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥१०२९॥इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसं ।ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणां ॥१०३०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP