संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|प्रथमप्रपाठकः| प्रथमोऽर्द्धः प्रथमप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः प्रथमप्रपाठकः - प्रथमोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमोऽर्द्धः Translation - भाषांतर उपास्मै गायता नरः पवमानायेन्दवे ।अभि देवां इयक्षते ॥६५१॥अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः ।देवं देवाय देवयु ॥६५२स नः पवस्व शं गवे शं जनाय शमर्वते ।शं राजन्नोषधीभ्यः ॥६५३॥दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।सोमाः शुक्रा गवाशिरः ॥६५४॥हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् ।सीदन्तो वनुषो यथा ॥६५५॥ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे ।पवस्व सूर्यो दृशे ॥६५६॥पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते ।अर्वन्तो न श्रवस्यवः ॥६५७॥अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।अवावशन्त धीतयः ॥६५८॥अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।अग्मन्नृतस्य योनिमा ॥६५९॥अग्न आ याहि वीतये गृणानो हव्यदातये ।नि होता सत्सि बर्हिषि ॥६६०॥तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि ।बृहच्छोचा यविष्ठ्य ॥६६१॥स नः पृथु श्रवाय्यमच्छा देव विवाससि ।बृहदग्ने सुवीर्यं ॥६६२॥आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।मध्वा रजांसि सुक्रतू ॥६६३॥उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।द्राघिष्ठाभिः शुचिव्रता ॥६६४॥गृणाना जमदग्निना योनावृतस्य सीदतं ।पातं सोममृतावृधा ॥६६५॥आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं ।एदं बर्हिः सदो मम ॥६६६॥आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥६६७॥ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः ।सुतावन्तो हवामहे ॥६६८॥इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यं ।अस्य पातं धियेषिता ॥६६९॥इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।अया पातमिमं सुतं ॥६७०॥इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।ता सोमस्येह तृम्पतां ॥६७१॥उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।उग्रं शर्म महि श्रवः ॥६७२॥स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।वरिवोवित्परि स्रव ॥६७३॥एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।सिषासन्तो वनामहे ॥६७४॥पुनानः सोम धारयापो वसानो अर्षसि ।आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥६७५॥दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥६७६॥प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥६७७॥स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः ।पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥६७८॥ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनां ॥६७९॥अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥६८०॥न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥६८१॥कया नश्चित्र आ भुवदूती सदावृधः सखा ।कया शचिष्ठया वृता ॥६८२कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।दृढा चिदारुजे वसु ॥६८३॥अभी षु णः सखीनामविता जरित्ऱीणां ।शतं भवास्यूतये ॥६८४॥तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥६८५॥द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसं ।क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥६८६॥तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥६८७॥न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः ।य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यं ॥६८८॥स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।इन्द्राय पातवे सुतः ॥६८९॥रक्षोहा विश्वचर्षणिरभि योनिमयोहते ।द्रोणे सधस्थमासदत्॥६९०॥वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः ।पर्षि राधो मघोनां ॥६९१॥पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।महि द्युक्षतमो मदः ॥६९२॥यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः ।स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥६९३॥इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।श्रुष्टे जातास इन्दवः स्वर्विदः ॥६९४॥अयं भराय सानसिरिन्द्राय पवते सुतः ।सोमो जैत्रस्य चेतति यथा विदे ॥६९५॥अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं ।वज्रं च वृषणं भरत्समप्सुजित्॥६९६॥पुरोजिती वो अन्धसः सुताय मादयित्नवे ।अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥६९७॥यो धारया पावकया परिप्रस्यन्दते सुतः ।इन्दुरश्वो न कृत्व्यः ॥६९८॥तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।यज्ञाय सन्त्वद्रयः ॥६९९॥अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः॥७००॥ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः ॥७०१॥अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये ।अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥७०२॥यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं ॥७०३॥ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनां ॥७०४॥एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।एभिर्वर्धास इन्दुभिः ॥७०५॥यत्र क्व च ते मनो दक्षं दधस उत्तरं ।तत्रा योनिं कृणवसे ॥७०६॥न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते ।अथा दुवो वनवसे ॥७०७॥वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।वज्रिञ्चित्रं हवामहे ॥७०८॥उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिं ॥७०९॥अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे ।उदेव ग्मन्त उदभिः ॥७१०॥वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।ववृध्वांसं चिदद्रिवो दिवेदिवे ॥७११॥पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा ।इन्द्रवाहा स्वर्विदा ॥७१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP