संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - चतुर्थप्रपाठकः| पञ्चमी दशतिः छन्द आर्चिकः - चतुर्थप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः चतुर्थप्रपाठकः - पञ्चमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद पञ्चमी दशतिः Translation - भाषांतर त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानां ।अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥३३२॥त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रं ।हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः ॥३३३॥यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य३ं विव्रतानां ।प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा ॥३३४॥सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रं ।हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥३३५॥यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा ।क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः ॥३३६॥यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते ।यं शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ॥३३७॥इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः ।वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता ॥३३८॥इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् ।यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्यां ॥३३९॥आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः ।पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः ॥३४०॥को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥३४१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP