संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|ऐश्वर्य कादम्बिनी| षष्ठी वृष्टिः ऐश्वर्य कादम्बिनी प्रथमा वृष्टिः द्वितीया वृष्टिः तृतीया वृष्टिः चतुर्थी वृष्टिः पञ्चमी वृष्टिः षष्ठी वृष्टिः सप्तमी वृष्टिः ऐश्वर्य कादम्बिनी - षष्ठी वृष्टिः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत षष्ठी वृष्टिः Translation - भाषांतर अम्भोजचक्रदरजम्बुयवार्धचन्द्रमीनाङ्कुशध्वजपविप्रमुखान्व्रजेशौ ।अङ्कान्सुतस्य करयोः पदयोश्च वीक्ष्यसोऽयं महानिति परां मुदमापतुस्तौ ॥१॥धृत्वा कूतं कालकूतं च पापायासौ धात्री पूतना हन्तुमागात।तस्यै तुष्टो वेश मात्रात्सडिम्भःपादाद्धात्रीस्थानकं शुद्धिपूर्वम् ॥२॥कपटावृतं शकटासुरं हरिरञ्जसा तमखण्डम् ।मरुतं च तं बलिनं विभुर्वनवासिनां सुखदः शिशुः ॥३॥यदा यदा मातुरङ्के निविष्टः सचापलं दिव्यडिम्भो व्यतानीत।तदा तदा मातृवर्गा न्यमाङ्क्षुर्व्रजौकसश्चाखिलसौख्यसिन्धौ ॥४॥गर्गाचार्यादात्मनामानि भेजेगूढं भावं व्यञ्जयन्पूतनारिः ।तेनेऽन्वर्थं चोरिकानर्मदेवोगोपालिभिर्वर्ण्यमानं मुकुन्दः ॥५॥यदा शिशुर्धूलिकेलौ रतोऽभूत्महामना स तदा कामुकेभ्यः ।ददौ महान्धूलिमुष्टिच्छलेन प्रभुर्वरानमृतान्तान्मुनिभ्यः ॥६॥जनकमुपागतः सदसि नन्दनृपं चपलोधृतवरभूषणो मधुरभाषणो मोदकरः ।अलिकलसन्मसीकलितचन्द्रकलः कुतुकीहरिरखिलान्व्यधादतिचिरं विरमत्करणान॥७॥किङ्किणीवलयनूपुरधारीनिष्ककुण्डलवराङ्गदहारी ।पीतचीनवसनः सडिम्भःशिञ्जितैरपि मनांसि जहार ॥८॥रथशिबिकाञ्चितो हरिरभसादुटजेषु यदापरिचरितुं मुनीन्स्वनिरतान्जननीसहितः ।धृतदधिमोदकादिबलिकः सबलश्च विभुःप्रमुदमगुस्तदा सुबहु ते विबुधाश्च पराम् ॥९॥बलकृष्णयोः स जग्धौ मुदा दमीयां समाददुः फेलाम् ।वेलां प्रतीत्य देवाश्चित्रं शकुन्ताः सुरेश्वराः नित्यम् ॥१०॥मुष्णन्गव्यं गोपिकानां समित्रः युष्णन्कीशान्मुक्तवत्यश्च कृष्णाः ।नोपालब्धोऽप्युक्तयापि सधात्र्याप्रीतिं नीता साभ्यनन्दोत्सुतेन ॥११॥मृत्साप्राशी ज्ञापितः स्वाग्रजेनक्रोधान्मात्रा भर्त्सितः पूतनारिः ।भीतः स्वास्ये विश्वमेतत्प्रदर्श्यक्रोधं तस्याः श्रंसयन्नभ्यनन्दीत॥१२॥विलोक्यापराधं जनन्या निबद्धोविभुत्वं स्वकीयं मुदा दर्शयत्ताम् । विभज्यार्जुनौ तौ च मुक्तौ चकार स्वयं बद्धमूर्तिर्बतासौ मुकुन्दः ॥१३॥वृन्दाटवीमधिवसन्हरिरम्बुजाक्षःसञ्चारयन्सखिकुलैः सह तर्णकौघान।वत्सासुरं बकमघं च जघान सद्यः शुद्धं व्यधात्कमलजं च स जग्धिमुग्धः ॥१४॥कालियं बत विमर्द्य सनागः सूरजां रचितवान्परिशुद्धाम् ।निर्विवार खलु गोकुलभाजां भावमद्भुतमुदारमुदीक्ष्य ॥१५॥दीव्यन्द्वन्द्वीभावतोऽहन्प्रलम्बंदेवारातिं धेनुकद्वेषिणा यः ।मुञ्जाटव्यां दाववह्निं निपीयव्यक्तीचक्रे साधुसौहार्दमीशः ॥१६॥गोपकुमारीवसननिकायंस्कन्धे निदधौ स खलु विमाथम् ।वीक्षितसकलकलेवरशोभःसूचितशुद्धजना मित्रलोभः ॥१७॥स्तोत्रयत्सु न च यस्य कटाक्षःसनतेष्वपि भवेद्विबुधेषु ।संस्तुवन्व्रजभुवस्तरुसङ्घान्सस्वजेऽतिमुदितः स भुजाभ्याम् ॥१८॥भुक्त्वान्नानि ब्राह्मणीनां मुकुन्दः प्रादात्ताभ्यः स्वाङ्घ्रिलाभं वरं सः ।संस्काराद्यान्हेलयन्नात्मभक्तेः श्रद्धामेव ख्यापयामास हेतुम् ॥१९॥कैशोरे वयसिहरिर्धरं सा दध्रेगर्विष्टं त्रिदशपतिं जिगाय शक्रम् ।उद्द्रावं व्रजवनितामनांसि यस्मात्सम्प्रापुर्मदनकुलानिवाग्निपुञ्जात॥२०॥गान्धर्वी विधिरभवद्व्रजाङ्गनानांदाम्पत्यै व्रजविधुना सखाखिलानाम् ।गीर्वाण्यः कुसुमकिरो जगुर्विचित्रंनृत्यन्त्यो ध्वनितमृदङ्गिकाः प्रहर्षात॥२१॥विधिं स्तावकं भावकं चन्द्रचूडंततो निर्जरान्किङ्करानिन्द्रमुख्यान।हरेर्नन्दसूनो रमयन्त गोपास्तृणेभ्योऽसुरान्कंसपक्षाश्रितांस्ते ॥२२॥श्रीकान्तं प्रणतैकबन्धुमतसीपुष्पप्रभं चिद्घनंचन्द्रास्यं कमलेक्षणं मलयजालिप्तं लसद्भूषणम् ।चित्रोष्णीषमुदारगौरवसनं कृष्णं सुरेन्द्रार्चितंवीक्ष्य स्वानुगमुद्ययुः परमिकां प्रीतिं व्रजस्था भृशम् ॥२३॥अथ व्रजपतिरुदीक्ष्य सद्गुणैर्वरंहरिं विनयिनमात्मजं मुदा ।शुभक्षणे शुभविधिना व्रजावनेरजीगमत्किल युवराजतामसौ ॥२४॥बलभद्रं च चकार मौमिकं व्रजभूमैर्हरिमन्त्रिणं च तम् ।सदनं तस्य सुचारु निर्ममेसुखसिन्धौ निखिलान्निममज्जयत॥२५॥आदिदेश निजशिल्पिकुमारं बुद्धिसागरमपारबलं सः ।सौधमद्भुततमं रचय त्वंयेन रज्यति हरिस्तव मित्रम् ॥२६॥पुरुकान्तिवलीकजालरम्यंवरवेदीगृहसन्धिलाञ्छितं सः ।वलिताश्रयमम्बुयन्त्रराजिव्रजचन्द्रस्य चकार सद्मसद्यः ॥२७॥मणिबद्धतटैः स्फुटत्सरोजैःशुशुभे यद्विमलाम्बुभिः सरोभिः ।अलिगुञ्जितमञ्जुभिश्चतुर्भिःस्फुटप्रकरैः सुनिष्कुटैश्च ॥२८॥स च रचयाञ्चकार गिरिसानुषु भूरिविधान्मणिनिलयांस्तथैव सुरशिल्पिमनोहरणान।सपदि सर्वैस्तुतोष रसिकः खलु तत्र मुदासह मनसा ददौ समणिभूषणचेलसञ्चयान॥२९॥स्मितवीक्षणविद्धचेतसावरसौन्दर्यसुधासुधामनी ।स्वजनैः सह राधिकाच्युतैःस्फुरतस्तेषु सदैव मेदुरौ ॥३०॥व्रजनृपतिर्जगाम स यदा सह दारकुमारपार्षदोर्अथ शिबिकाहयैः सुरुचिरैर्वृषभानुपुरं निमन्त्रितः ।सुमणिधरः सतुर्यनिनदो वरचामरसेवितोद्युतिमतुलां विलोक्य दिविषन्निकरोऽपि तदा विसिस्मिये ॥३१॥अधिगम्य भानुनृपतिर्व्रजेश्वरंभवनं निनाय रचितार्चनक्रमः ।परिभोज्यतं बहुविधान्रसान्प्रभुःसहपार्षदः प्रमुदितो बभूव सः ॥३२॥सखिवृन्दैर्निखिलः समुज्जिहानमधुरा सेचनकं विलोक्य कृष्णम् ।जनता तत्र सुखाम्बुधौ न्यमज्जत्पुरुभावास्तु विशेषतस्तरुण्यः ॥३३॥पिबतोरपि सुस्मिता मृतानिरतितृष्णकुलयोरधिस्नुयुनोः ।समुदैदसिताम्बुज च्छदाभातडिदभ्रप्रभयोः कटाक्षवृष्टिः ॥३४॥अथो भानुभूपो वरैर्मण्डनाद्यैःसमर्च्य व्रजाधारवरं सानुगं सः ।अनुव्रज्य तं सानुगस्तद्विसृष्टःस्वकं कृच्छ्रतो मञ्जु भेजे निकुञ्जम् ॥३५॥तदा सारविन्दा जनन्या सवृन्दासमाराधि सा राधिका भूषणाद्यैः ।हरेः प्रेमपात्री यदा राजपुत्री व्रजक्षेमधात्री प्रयातु सहैच्छत॥३६॥शिविकाश्च रथाश्च रुक्मचेलैः पिहिता जालिभिरभ्रकाचकैश्च ।तदुपाययुरुज्ज्वलैर्ललामैर्बहुभासो नृपचत्वरं तदानीम् ॥३७॥बलैरुद्धतानां किशोरीवृतानांलसद्यौवनानां रणद्भूषणानाम् ।तदा गुज्जरीणां ततिर्वाग्मिनीनांमुदायान संवाहनार्थाध्यतिष्ठत॥३८॥समारूढयाना बलद्भूरिगानाःशनैर्वीज्यमाना वरैश्चामराद्यैः ।प्रिया नन्दसूनोः परेशस्यवध्वस्ततो निर्ययुः सुभ्रुवो राधिकाद्याः ॥३९॥बभौ काम्बवो भैरिकं सौषिरापिध्वनिर्मङ्गलो राजपुत्र्याः प्रयाणे ।लसत्स्वर्णवेत्रासि चापेषु हस्तादधावुः पुरः पार्श्वतोऽपि प्रवीराः ॥४०॥ववौ मन्दमन्दं तदा गन्धवाहोदधारातपत्रं महद्वारिदोऽपि ।वितेनुर्वरं नृत्यगीतं च देव्योमृदङ्गादिनादं नुतिं चातिचित्रम् ॥४१॥ फणिफक्किकामिव वीक्ष्य तां सकुण्डलनामपुरीम् ।द्युलतामिवाखिलदां नुतां प्रमदा हरेः प्रमुदं ददुः ॥४२॥अवतीर्यतामणियानतः परितोष्य सार्थिकसञ्चयान।प्रणिपत्य गोकुलभूमिपांजगृहुस्ततो वरवीटिकाः ॥४३॥अथ शिञ्जितामृतवन्दितप्रियमानसाः स्वगृहान्गताः ।कृतमज्जनाः कमलेक्षणाःप्रियकर्म तत्प्रतिपेदिरे ॥४४॥सम्पालयन्नैचिकीनां कदम्बंतम्पाकिमं भावमेणी दृशां सः ।कम्पाकुलः सन्दधे दीप्तकीर्तिर्लम्पाकहृत्सुन्दरो नन्दसूनुः ॥४५॥तातमम्बुपतितापनीतं वन्दितो विरचीतार्चन ईशः ।आनिनाय भवनं पुरुतेजामोदयन्व्रजभुवं बभाषे ॥४६॥वृन्दारण्यचन्दिकावृन्दरम्यंपश्यन्वंशी वदायामास कृष्णः ।आयाताभिस्तत्र गोपाङ्गनाभिर्दीव्यन्तीभिर्मण्डितोऽसौ बभूव ॥४७॥माधव्यस्ता मञ्जुतौर्यत्रिकाद्यैर्मञ्जुरूप्यैश्च कृष्णाम् ।प्रेम्नानर्चुः सार्थिका सौचकाशेअनन्तानन्दाख्यायिनी वाक्तदैव ॥४८॥वीणावेणुमृदङ्गनूपुरलसत्काञ्च्यादिनादैरभूत्ताताथै ततथैश्च तालमिलितैर्नृत्यैश्च गीतैश्च यत।चित्रैः पाणिविधूननैस्तनुमणिद्योतनैश्च रासाङ्गनेतद्वक्तुं प्रमवते कथं सुखमहो वाग्देवतापि स्वयम् ॥४९॥कुण्डलित्वमनयत्सुदर्शनं कुण्डलित्वमपहायन्विभुः ।शङ्खचूडमपि तं स्वमन्तकंप्रापयन्नुदहरत्स्वमन्तकम् ॥५०॥व्रजवनिता वनान्तनिरतं हरिमम्बुदसोदरं यदाविरहधुताः पुराणपुरुषं जगुरम्बुजलोचनाश्चिरम् ।भुवनतलं तदेदमखिलं सरिदुष्णसुखाम्बुसङ्कुलादुरधिगमा समाधिनिलयैरपि हंसकुलैः सभाददे ॥५१॥व्रजविपिने विचित्रविहगो हरिवेणुरवो यदा बभौविधिशिवशक्रतुम्बुरुमुखा विबुधोऽपि दधुर्विचित्रताम् ।प्रकृतिविपर्ययं तु सरितो गिरयश्च ययुर्मिथस्तदाव्रजमहिलास्तु भेजुरखिलाश्चलता सरसीषु मज्जनम् ॥५२॥जातोऽरिष्टः कष्टकासारवासीयस्मात्केशी मृत्युवेशी बभूव ।व्योमः प्राप व्योमतामेव सद्यः सोऽयं कृष्णो देववृन्दैर्ववन्दे ॥५३॥हरिरथ मथुरां गतः स कंसं प्रणिहतवान्वृजिनं जहार पित्रोः ।यदुनृपमकृताहुकिं परेशःसपदि कुशस्थलिकामधिष्ठितोऽभूत॥५४॥कुरुपतितनयान्निहत्य दुष्टान्व्यधित पतिं निखिलस्य धर्मपुत्रम् ।क्षतखलनिचयो विवेश गोष्ठंसफलमिदं कृतवानसौ तु माभ्याम् ॥५५॥इत्यैश्वर्यकादम्बिन्यां भगवद्बाल्यादिक्रमलीलावर्णनं नामषष्ठी वृष्टिः॥६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP