संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|ऐश्वर्य कादम्बिनी| पञ्चमी वृष्टिः ऐश्वर्य कादम्बिनी प्रथमा वृष्टिः द्वितीया वृष्टिः तृतीया वृष्टिः चतुर्थी वृष्टिः पञ्चमी वृष्टिः षष्ठी वृष्टिः सप्तमी वृष्टिः ऐश्वर्य कादम्बिनी - पञ्चमी वृष्टिः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत पञ्चमी वृष्टिः Translation - भाषांतर प्रादुर्भूतो नन्दमेवं स कृष्णःश्रीमान्शौरीं चाविवेशाम्बुजाक्षः ।ताभ्यां न्यस्तं वैधदीक्षान्विताभ्यांतत्पत्न्यौ सम्प्राप्य तं दध्रतुस्ते ॥१॥सख्योस्तयोर्देवगर्भत्वयोगाद्विद्युन्निभा कायकान्तिर्बभासे ।सङ्घसतां मोदयन्ती समन्ताद्वृन्दं द्विषां तापयन्ती समासीत॥२॥प्रादुर्भावं भजन्माने मुकुन्देवादित्राणि स्वयमेव प्रणेदुः ।सम्फुल्लाभूद्वनराजीसमन्तात्सार्धं चित्तैर्द्विजभक्तव्रजानाम् ॥३॥नमस्यभासि पाद्मभेऽसिताष्टमीनिशार्धकेव्रजेश्वरी सदुर्गकं हरिं सुखादजीजनत।असूत देवकी च तं तदैव केवलं मुदाबभूव मोदसञ्चयः सतां विशुद्धचेतसाम् ॥४॥दृष्ट्वा पुत्रं वसुदेवः परेशंहृष्टः प्रादादयुतङ्गाः हृदैव ।कंसाद्भीतो व्रजराजस्य गेहं निन्येभ्रातुस्त्वरितं तं प्रवीरम् ॥५॥हित्वा तस्मिन्नात्मपुत्रं यशोदाकन्यां नीत्वा सोऽभ्यदात्कंसराजे ।ऐक्यं बिम्बीरर्भयोर्वा तदाभूद्एकानंशाचिन्त्यशक्तिर्यतोऽसौ ॥६॥सूतंवदन्परिजनवक्त्रतो हरिंपरिप्लुतः परिहितवेशभूषणः ।अचीकरन्निजतनयस्य जातकंद्विजोत्तमैः श्रुतविधिना व्रजाधिपः ॥७॥पुत्रोत्सवे सम्प्रददौ सनन्दोहर्षार्दितो भूपतिरत्युदारः ।स्वलङ्कृता वत्सयुताश्च धेनूःश्रद्धान्वितो द्वे नियुते द्विजेभ्यः ॥८॥सप्तप्रासाद्ब्राह्मणेभ्यस्तिलाद्रीन्रौक्मैश्चैलै रत्नवृन्दैश्च जुष्टान।जातः सर्वेइस्तत्र चित्रो व्रजेऽसौगावः सर्वा मण्डिताङ्गा बभूवुः ॥९॥सोमाङ्गल्यं भूसुरास्तत्र पेठुःसूतास्तद्वन्मागधा वन्दिनश्च ।वादित्राणि स्फोतमाशु प्रणेदुर्गीतिं नृत्यं चातिचित्रं दिदीपे ॥१०॥सुतममितगुणं निशम्य गोपाव्रजनृपतेर्मुदिताः सुरम्यवेशाः ।धृतमणिमयभूषणाः सुयत्नाः सदनमथ बलिपाणयः समीयुः ॥११॥व्रजपुरवनिता विचित्रवेशावरमणिकुण्डलनूपुरोरुहाराः ।तमुपाययुरुपायनाग्रहस्तानृपनिलयं हरिमीक्षितुं प्रहर्षात॥१२॥घृतदधिरजनीरसात्किरन्तोव्रजनिलया जयघोषभूषितास्याः ।विधिशिवसनकादयश्च तस्मिन्परिननृतुर्नृपचत्वरेऽतिमत्ताः ॥१३॥व्रजपतिरथ भूषणैरनर्घ्यैर्वसनचयैर्वरसौरभैश्च बन्धून।परिजनसहितानपि प्रपूर्णान्मुदितमनाः सकलानपि समार्चीत॥१४॥तनयजन्ममहे नृपतिर्बभौ रचितकोशकपाटविमोचनः ।प्रतिजगुर्निजवाञ्छितपूरणंप्रमदसम्प्लुतियाचकसञ्चयः ॥१५॥परिमितमिव यद्बभूव सौख्यंव्रजनगरे व्रजभूपतत्प्रजानाम् ।तदपरिमिततामवाप सद्योयदवधि तत्परमो जगाम कृष्णः ॥१६॥श्रीराम श्रीदाममुख्या बभुर्येपूर्वपश्चादुज्ज्वलाद्याश्च डिम्भाः ।ज्योतिष्मद्भिर्भ्राजमानो व्रजस्तैरत्नव्यूहै रत्नसानुर्यथाभूत॥१७॥नन्दादीनां तिष्ठतां गोष्ठभूम्यांगोविन्दाद्यैरात्मजैर्लक्ष्मवद्भिः ।नानासम्पत्सेवितानां समेषांगेहे गेहे सौख्यपुञ्जोजजृम्भे ॥१८॥यां नन्दसूनुर्मनुते पुमर्थःपुमर्थभूतोऽपि परः परेशः ।राधादिरूपादिगुणैरगाधाबभूव सा धामनि कीर्तिदायाः ॥१९॥जन्मोत्सवेनैव जगत्सुतृप्तंयस्याः सुरेशैरपि संस्तुतेन ।पादाब्जलक्ष्माणि निरीक्ष्य नार्योरमेव कन्येयमिति प्रतीयुः ॥२०॥यां वर्णयन्तः कवयोऽपि बिभ्युश्चन्द्रारविन्दादि निनिन्दुरुच्चैः ।धान्येन यस्या नतिभिश्च शश्वत्प्रमोदमुच्चैर्हृदयेषु भेजुः ॥२१॥कटाक्षपातादभजन्त यस्याविभूतयः सर्वविद्याः प्रकाशम् ।गुणव्रजान्वक्तुमधीश्वरोऽपिशशाक नो नन्दसुतः समस्तान॥२२॥सख्यस्तु तस्याः समरूपशीलगुणाः स्वसेवातिपटुत्वभाजः ।प्रादुर्बभूवुर्व्रजराजधान्यांतदैव गोपप्रवरालयेषु ॥२३॥इत्यैश्वर्यकादम्बिन्यां सपरिकरभगवज्जन्मोत्सववर्णनं नामपञ्चमी वृष्टिः॥५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP