संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद १| खण्ड ३६ पाद १ खण्ड ३१ खण्ड ३२ खण्ड ३३ खण्ड ३४ खण्ड ३५ खण्ड ३६ पाद १ - खण्ड ३६ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ३६ Translation - भाषांतर १ - ११ - स्थग्रहणम् किमर्थम् ।२ - ११ - तत्र उपपदम् सप्तमी इति इयति उच्यमाने यत्र एव सप्तमी श्रूयते तत्र एव स्यात् स्तम्बेरमः कर्णेजपः ।३ - ११ - यत्र वा एतेन शब्देन निर्देशः क्रियते ।४ - ११ - सप्तम्याम् जनेः डः इति ।५ - ११ - इह न स्यात् ।६ - ११ - कुम्भकारः नगरकारः ।७ - ११ - स्थग्रहणे पुनः क्रियमाणे यत्र च सप्तमी श्रूयते य च न श्रूयते यत्र च एतेन शब्देन निर्देशः क्रियते यत्र च अन्येन सप्तमीस्थमात्रे सिद्धम् भवति ।८ - ११ - अथ तत्रग्रहणम् किमर्थम् ।९ - ११ - तत्रग्रहणम् विषयार्थम् ।१० - ११ - विषयः प्रतिनिर्दिश्यते ।११ - ११ - तत्र एतस्मिन् धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तत् उपपदसञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।१ - ५५ - उपपदसञ्ज्ञायाम् समर्थवचनम् । उपपदसञ्ज्ञायाम् समर्थग्रहणम् कर्तव्यम् ।२ - ५५ - समर्थम् उपपदम् प्रत्ययस्य इति वक्तव्यम् ।३ - ५५ - इह मा भूत् ।४ - ५५ - आहर कुम्भम् ।५ - ५५ - करोति कटम् इति ।६ - ५५ - क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति ।७ - ५५ - न वा भवितव्यम् महाकुम्भकारः इति ।८ - ५५ - भवैतव्यम् यदा एतत् वाक्यम् भवति ।९ - ५५ - महान् कुम्भः महाकुम्भः महाकुम्भम् करोति इति महाकुम्भकारः ।१० - ५५ - यदा तु एतत् वाक्यम् भवति महान्तम् कुम्भम् करोति इति तदा न भवितव्यम् ।११ - ५५ - तदा च प्राप्नोति ।१२ - ५५ - तदा मा भूत् इति ।१३ - ५५ - यत् तावत् उच्यते समर्थग्रहणम् कर्तव्यम् इति ।१४ - ५५ - न कर्तव्यम् ।१५ - ५५ - धातोः इति वर्तते ।१६ - ५५ - धातोः कर्मणि अण् भवति ।१७ - ५५ - तत्र सम्बन्धात् एतत् गन्तव्यम् ।१८ - ५५ - यस्य धातोः यत् कर्म इति ।१९ - ५५ - यत् अपि उच्यते क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति इति ।२० - ५५ - उपपदम् इति महतीइहम् सञ्ज्ञा क्रियते ।२१ - ५५ - सञ्ज्ञा च नाम यतः न लघीयः ।२२ - ५५ - कुतः एतत् ।२३ - ५५ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।२४ - ५५ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत उपोच्चारि पदम् उपपदम् ।२५ - ५५ - यत् च अत्र उपोच्चारि न तत् पदम् यत् च पदम् न तत् उपोच्चारि ।२६ - ५५ - यावता च इदानीम् पदगन्धः अस्ति पदविधिः अयम् भवति ।२७ - ५५ - पदविधिः च समर्थानाम् भवति ।२८ - ५५ - तत्र असामार्थ्यान् न भविष्यति ।२९ - ५५ - अथ च्व्यन्ते उपपदे किम् अणा भवितव्यम् ।३० - ५५ - अकुम्भम् कुम्भम् करोति कुम्भीकरोति मृदम् इति ।३१ - ५५ - न भवितव्यम् ।३२ - ५५ - किम् कारणम् ।३३ - ५५ - प्रकृतिविवक्षायाम् च्विः विधीयते ।३४ - ५५ - तत् सापेक्षम् ।३५ - ५५ - सापेक्षम् च असमर्थम् भवति ।३६ - ५५ - न तर्हि इदानीम् इदम् भवति इच्छामि अहम् काशकटीकारम् इति ।३७ - ५५ - इष्टम् एव एतत् गोनर्दीयस्य ।३८ - ५५ - निमित्तोपादनम् च ।३९ - ५५ - निमित्तोपादनम् च कर्तव्यम् ।४० - ५५ - निमित्तम् उपपदम् प्रत्ययस्य इति वक्तव्यम् ।४१ - ५५ - अनुपादाने हि अनुपपदे प्रत्ययप्रसङ्गः ।४२ - ५५ - अक्रियमाणे हि निमित्तोपादाने अनुपपदे अपि प्रसज्येत ।४३ - ५५ - निर्देशः इदानीम् किमर्थः स्यात् ।४४ - ५५ - निर्देशः सञ्ज्ञाकरणार्थः ।४५ - ५५ - यदा उपपदे प्रत्ययः तदा उपपदसञ्ज्ञाम् वक्ष्यामि इति ।४६ - ५५ - तत् तर्हि निमित्तोपादनम् कर्तव्यम् ।४७ - ५५ - न कर्तव्यम् ।४८ - ५५ - तत्रवचनम् उपपदसन्नियोगार्थम् ।४९ - ५५ - तत्रवचनम् क्रियते ।५० - ५५ - तत् उपपदसन्नियोगार्थम् भविष्यति ।५१ - ५५ - कर्मणि अण् विधीयते तत्र चेत् प्रत्ययः भवति इति ।५२ - ५५ - ननु च अन्यत् तत्रग्रहणस्य प्रयोजनम् उक्तम् ।५३ - ५५ - किम् ।५४ - ५५ - तत्रग्रहणम् विषयार्थम् इति ।५५ - ५५ - अधिकारात् अपि एतत् सिद्धम् ।१ - ३३ - अतिङ् इति किमर्थम् ।२ - ३३ - पचति करोति ।३ - ३३ - अतिङ् इति शक्यम् अकर्तुम् ।४ - ३३ - कस्मात् न भवति पचति करोति इति ।५ - ३३ - धातोः परस्य कृत्सञ्ज्ञा ।६ - ३३ - प्राक् च लादेशात् धात्वधिकारः ।७ - ३३ - एवम् अपि स्थानिवद्भावात् कृत्सञ्ज्ञ प्राप्नोति ।८ - ३३ - यथा अतिङ् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।९ - ३३ - प्रतिषेधवचनसामर्थ्यात् ।१० - ३३ - अथ वा तिङ्भाविनः लकारस्य कृत्सञ्ज्ञाप्रतिषेधः ।११ - ३३ - किम् च स्यात् यति अत्र कृत्सञ्ज्ञा स्यात् ।१२ - ३३ - कृत्प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा स्यात् ।१३ - ३३ - प्रातिपदिकात् इति स्वाद्युत्पत्तिः प्रसज्येत ।१४ - ३३ - न एषः दोषः ।१५ - ३३ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।१६ - ३३ - ते च अत्र तिङोक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वात् न भविष्यन्ति ।१७ - ३३ - टाबादयः तर्हि तिङन्तात् मा भूवन् इति ।१८ - ३३ - स्त्रियाम् टाबादयः विधीयन्ते ।१९ - ३३ - न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति ।२० - ३३ - अणादयः तर्हि तिङन्तात् मा भूवन् इति ।२१ - ३३ - अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।२२ - ३३ - न च तिङन्तस्य अपत्यादिभिः योगः अस्ति ।२३ - ३३ - अथ अपि कथम् चित् योगः स्यात् ।२४ - ३३ - एवम् अपि न दोषः ।२५ - ३३ - आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति ।२६ - ३३ - अतिशायने तमबिष्ठनौ तिङः च इति ।२७ - ३३ - इह तर्हि पचति पठति इति ।२८ - ३३ - ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।२९ - ३३ - धातोः इति वर्तते ।३० - ३३ - एवम् अपि चिकीर्षति इति अत्र प्राप्नोति ।३१ - ३३ - अत्र अपि शपा व्यवधानम् ।३२ - ३३ - एकादेशे कृते न अस्ति व्यवधानम् ।३३ - ३३ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव इति ।१ - ८ - कथम् इदम् विज्ञायते ।२ - ८ - स्त्रियाम् अभिधेयायाम् वा अस्रूपः न भवति इति आहोस्वित् स्त्रीप्रत्ययेषु इति ।३ - ८ - किम् च अतः ।४ - ८ - यदि स्त्रियाम् अभिधेयायाम् इति लव्या लवितव्या अत्र वा असरूपः न प्राप्नोति ।५ - ८ - अथ विज्ञायते स्त्रीप्रत्ययेषु इति व्यावक्रोशी वयतिक्रुष्टिः इति न सिध्यति ।६ - ८ - एवम् तर्हि न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् न अपि स्त्रीप्रत्ययेषु इति ।७ - ८ - कथम् तर्हि स्त्रीग्रहणम् स्वरयिष्यते ।८ - ८ - तत्र स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति अधिकृत्य ये प्रतयाः विहिताः तेषाम् प्रतिषेधः विज्ञास्यते ।१ - ११७ - किमर्थम् पुनः इदम् उच्यते ।२ - ११७ - असरूपस्य वावचनम् उत्सर्गस्य बाधकविषये अनिवृत्त्यर्थम् ।३ - ११७ - असरूपस्य वावचनम् क्रियते उत्सर्गस्य बाधकविषये अनिवृत्तिः यथा स्यात् ।४ - ११७ - तव्यत्तव्यानीयरः उत्सर्गाः ।५ - ११७ - तेषाम् अजन्तात् यत् अपवादः ।६ - ११७ - चेयम् , चेतव्यम् इति अपि यथा स्यात् ।७ - ११७ - न एतत् अस्ति प्रयोजनम् ।८ - ११७ - अजन्तात् यत् विधीयते ।९ - ११७ - हलन्तात् ण्यत् विधीयते ।१० - ११७ - एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च ।११ - ११७ - उच्यन्ते च तव्यादयः ।१२ - ११७ - ते वचनात् भविष्यन्ति ।१३ - ११७ - एवम् तर्हि ण्वुल्तृचौ उत्सर्गौ ।१४ - ११७ - तयोः पचादिभ्यः अच् अपवादः ।१५ - ११७ - पचति इति पचः ।१६ - ११७ - पक्ता पाचकः इति अपि यथा स्यात् ।१७ - ११७ - एतत् अपि न अस्ति प्रयोजनम् ।१८ - ११७ - वक्ष्यति एतत् ।१९ - ११७ - अच् अपि सर्वधातुभ्यः वक्तव्यः इति ।२० - ११७ - एवम् तर्हि ण्वुल्तृजचः उत्सर्गाः तेषाम् इगुपधात् कः अपवादः ।२१ - ११७ - विक्षिपः विलिखः ।२२ - ११७ - विक्षेप्ता विक्षेपकः इति अपि यथा स्यात् ।२३ - ११७ - अस्ति प्रयोजनम् एतत् ।२४ - ११७ - किम् तर्हि इति ।२५ - ११७ - तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते ।२६ - ११७ - तत्र उत्पत्तिः विभाषा प्राप्नोति यथा तद्धिते ।२७ - ११७ - अस्तु ।२८ - ११७ - यदा विक्षिपः विलिखः इति एतत् न तदा विक्षेप्ता विक्षेपकः इति एतत् भविष्यति ।२९ - ११७ - यदि एतत् लभ्येत कृतम् स्यात् ।३० - ११७ - तत् तु न लभ्यम् ।३१ - ११७ - किम् कारणम् ।३२ - ११७ - यथा तद्धिते इति उच्यते ।३३ - ११७ - तद्दितेषु च सर्वम् एव उत्सर्गापवादम् विभाषा ।३४ - ११७ - उत्पद्यते वा न वा ।३५ - ११७ - सिद्धम् तु असरूपस्य बाधकस्य वावचनात् ।३६ - ११७ - सिद्धम् एतत् ।३७ - ११७ - कथम् ।३८ - ११७ - असरूपस्य बाधकस्य वावचनात् ।३९ - ११७ - असरूपः बाधकः वा बाधकः भवति इति वक्तव्यम् ।४० - ११७ - सिध्यति ।४१ - ११७ - सूत्रम् तर्हि भिद्यते ।४२ - ११७ - यथान्यासम् एव अस्तु ।४३ - ११७ - ननु च उक्तम् तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते इति ।४४ - ११७ - न एषः दोषः ।४५ - ११७ - अस्ति कारणम् येन तद्धिते विभाषा उत्पत्तिः भवति ।४६ - ११७ - किम् कारणम् ।४७ - ११७ - प्रकृतिः तत्र प्रकृत्यर्थे वर्तते ।४८ - ११७ - अन्येन शब्देन प्रत्ययार्थः अभिधीयते ।४९ - ११७ - इह पुनः न केवला प्रकृतिः प्रकृत्यर्थे वर्तते न च अन्यः शब्दः अस्ति यः तम् अर्थम् अभिदधीत इति कृत्वा अनुत्पत्तिः न भविष्यति ।५० - ११७ - अथ वा समयः कृतः ।५१ - ११७ - न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति ।५२ - ११७ - एतस्मात् समयात् अनुत्पत्तिः न भविष्यति ।५३ - ११७ - ननु च यः एव तस्य समयस्य कर्ता सः एव इदम् अपि आह ।५४ - ११७ - यदि असौ तत्र प्रमाणम् इह अपि प्रमाणम् भवितुम् अर्हति ।५५ - ११७ - प्रमाणम् असौ तत्र च इह च ।५६ - ११७ - सामर्थ्यम् तु इह द्रष्टव्यम् प्रयोगे ।५७ - ११७ - न च अनुत्पत्तौ सामर्थ्यम् अस्ति ।५८ - ११७ - तेन अनुत्पत्तिः न भविष्यति ।५९ - ११७ - कथम् तर्हि तद्धितेषु अनुत्पत्तौ सामर्थ्यम् भवति ।६० - ११७ - अन्येन प्रत्ययेन सामर्थ्यम् ।६१ - ११७ - केन ।६२ - ११७ - षष्ठ्या ।६३ - ११७ - अथ वा रूपवत्ताम् आश्रित्य वाविधिः उच्यते ।६४ - ११७ - न च अनुत्पत्तिः रूपवती ।६५ - ११७ - तेन अनुत्पत्तिः न भविष्यति ।६६ - ११७ - एवम् अपि कुतः एतत् अपवादः विभाषा भविष्यति न पुनः उत्सर्गः इति ।६७ - ११७ - न च एव अस्ति विशेषः यत् अपवादः विभाषा स्यात् उत्सर्गः वा ।६८ - ११७ - अपि च सापेक्षः अयम् निर्देशः क्रियते वा असरूपः इति ।६९ - ११७ - न च उत्सर्गवेलायाम् किम् चित् अपेक्ष्यम् अस्ति ।७० - ११७ - अपवादवेलायाम् पुनः उत्सर्गः अपेक्ष्यते ।७१ - ११७ - तेन यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भविष्यति ।७२ - ११७ - कः पुनः असौ ।७३ - ११७ - अपवादः ।७४ - ११७ - यदि यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भवति इति उच्यते क्विबादिषु समावेशः न प्राप्नोति ।७५ - ११७ - ग्रामणीः ग्रामणायः इति ।७६ - ११७ - न हि एते रूपवन्तः ।७७ - ११७ - एते अपि रूपवन्तः ।७८ - ११७ - कस्याम् अवस्थायाम् ।७९ - ११७ - उपदेशावस्थायाम् ।८० - ११७ - यदि एवम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः ।८१ - ११७ - अनुबन्धभिन्नेषु विभाषा प्राप्नोति ।८२ - ११७ - कर्मणि अण् आतः अनुपसर्गे कः इति कविषये अण् अपि प्राप्नोति ।८३ - ११७ - सिद्धम् अनुबन्धस्य अनेकान्तत्वात् ।८४ - ११७ - सिद्धम् एतत् ।८५ - ११७ - कथम् ।८६ - ११७ - अनुबन्धस्य अनेकान्तत्वात् ।८७ - ११७ - अनेकान्ताः अनुबन्धाः ।८८ - ११७ - अथ वा प्रयोगे असरूपाणाम् वाविधिः न्याय्यः ।८९ - ११७ - प्रयोगे चेत् लादेशेषु प्रतिषेधः ।९० - ११७ - प्रयोगे चेत् लादेशेषु प्रतिषेधः वक्तव्यः ।९१ - ११७ - ह्यः अपचत् इति अत्र लुङ् अपि प्राप्नोति ।९२ - ११७ - श्वः पक्ता इति अत्र लृट् अपि प्राप्नोति ।९३ - ११७ - न एषः दोषः ।९४ - ११७ - आचार्यप्रवृत्तिः ज्ञापयति न लादेशेषु वा असरूपः भवति इति यत् अयम् हशश्वतोः लङ् च इति आह ।९५ - ११७ - अथ वा प्रयोगे असरूपाणाम् वाविधौ न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा द्वितीयः प्रयोगः उपास्यते ।९६ - ११७ - कः असौ ।९७ - ११७ - उपदेशः नाम ।९८ - ११७ - उपदेशे च एते सरूपाः ।९९ - ११७ - ननु च उक्तम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः इति ।१०० - ११७ - परिहृतम् एतत् ।१०१ - ११७ - कथम् ।१०२ - ११७ - सिद्धम् अनुबन्धस्य अनेकान्तत्वात् ।१०३ - ११७ - अथ एकान्ते दोषः एव ।१०४ - ११७ - एकान्ते च न दोषः ।१०५ - ११७ - आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददादिदधात्योः विभाषा शम् शास्ति ।१०६ - ११७ - अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते ।१०७ - ११७ - अपवादः नाम अनुबन्धभिन्नः वा भवति रूपान्यत्वेन वा ।१०८ - ११७ - तेन अनेन अवश्यम् किम् चित् त्याज्यम् किम् चित् तु सङ्ग्रहीतव्यम् ।१०९ - ११७ - तत् यत् अनुबन्धकृतम् असारूप्यम् तत् न आश्रयिष्यामः यत् तु रूपान्यत्वेन असारूप्यम् तत् आश्रयिष्यामः ।११० - ११७ - अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते सर्वः च असरूपः ।१११ - ११७ - तत्र प्रकर्षगतिः विज्ञास्यते साधीयः यः असरूपः इति ।११२ - ११७ - कः च साधीयः ।११३ - ११७ - यः प्रयोगे च प्राक् च प्रयोगात् ।११४ - ११७ - अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते ।११५ - ११७ - न च एवम् कः चित् अपि सरूपः ।११६ - ११७ - ते एवम् विज्ञास्यामः क्वत् चित् ये असरूपाः ।११७ - ११७ - अनुबन्धभिन्नाः च प्रयोगे सरूपाः ।१ - २५ - अथ कथम् इदम् विज्ञायते अस्त्रियाम् इति ।२ - २५ - किम् स्त्रियाम् न भवति आहोस्वित् प्राक् स्त्रियाः भवति इति ।३ - २५ - कः च अत्र विशेषः ।४ - २५ - स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः ।५ - २५ - स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति ।६ - २५ - क्त ।७ - २५ - हसितम् छात्रस्य्स् शोभनम् ।८ - २५ - घञ् अपि प्राप्नोति ।९ - २५ - ल्युट् ।१० - २५ - हसनम् छात्रस्य्स् शोभनम् ।११ - २५ - घञ् अपि प्राप्नोति ।१२ - २५ - तुमुन् ।१३ - २५ - इच्छति भोक्तुम् ।१४ - २५ - लिङ्लोटौ अपि प्राप्नुतः ।१५ - २५ - खलर्थः ।१६ - २५ - ईषत्पानः सोमः भवता ।१७ - २५ - खल् अपि प्राप्नोति ।१८ - २५ - एवम् तर्हि स्त्रियाः प्राक् इति वक्ष्यामि ।१९ - २५ - स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् । स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् कर्तव्यम् ।२० - २५ - आसित्वा भुङ्क्ते ।२१ - २५ - आस्यते भोक्तुम् इति अपि यथा स्यात् ।२२ - २५ - कालादिषु तुमुनि ।२३ - २५ - कालादिषु तुमुनि वावचनम् कर्तव्यम् ।२४ - २५ - कालः भोक्तुम् ।२५ - २५ - कालः भोजनस्य इति अपि यथा स्यात्१ - ११ - अर्हे तृज्विधानम् ।२ - ११ - अर्हे तृच् विधेयः ।३ - ११ - इमे अर्हे कृत्याः विधीयन्ते ।४ - ११ - ते विशेषविहिताः सामान्यविहितम् तृचम् बाधेरन् ।५ - ११ - न एषः दोषः ।६ - ११ - भावकर्मणोः कृत्याः विधीयन्ते कर्तरि तृच् ।७ - ११ - कः प्रसङ्गः यत् भावकर्मणोः कृत्याः कर्तरि तृचम् बाधेरन् ।८ - ११ - एवम् तर्हि अर्हे कृत्यतृज्विधानम् ।९ - ११ - अर्हे कृत्यतृचः विधेयाः ।१० - ११ - अयम् अर्हे लिङ् विधीयते ।११ - ११ - सः विशेषविहितः सामान्यविहितान् कृत्यतृचः बाधेत ।१ - ८ - कृत्यसञ्ज्ञायाम् प्राङ्ण्वुल्वचनम् ।२ - ८ - कृत्यसञ्ज्ञायाम् प्राक् ण्वुलः इति वक्तव्यम् ।३ - ८ - किम् प्रयोजनम् ।४ - ८ - ण्वुलः कृत्यसञ्ज्ञा मा भूत् ।५ - ८ - अर्हे कृत्यत्र्ज्वचनम् तु ज्ञापकम् प्राङ्ण्वुलवनानर्थ्यस्य ।६ - ८ - यत् अयम् अर्हे कृत्यतृचः च इति तृज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् ण्वुलः कृत्यसञ्ज्ञा भवति इति ।७ - ८ - एवम् अपि ण्वुलः कृत्यसञ्ज्ञा प्राप्नोति ।८ - ८ - योगापेक्षम् ज्ञापकम् ।१ - १२ - केलिमरः उपसङ्ख्यानम् ।२ - १२ - केलिमरः उपसङ्ख्यानम् कर्तव्यम् ।३ - १२ - पचेलिमाः माषाः ।४ - १२ - पक्तव्याः ।५ - १२ - भिदेलिमाः सरलाः ।६ - १२ - भेत्तव्याः ।७ - १२ - वसेः तव्यत् कर्तरि णित् च ।८ - १२ - वसेः तव्यत् कर्तरि वक्तव्यः ।९ - १२ - णित् च असौ भवति इति वक्तव्यम् ।१० - १२ - वसति इति वास्तव्यः ।११ - १२ - तद्धितः वा । तद्धितः वा पुनः एषः भविष्यति ।१२ - १२ - वास्तुनि भवः वास्तव्यः ।१ - २० - अज्ग्रहणम् किमर्थम् ।२ - २० - अजन्तात् यथा स्यात् ।३ - २० - हलन्तात् मा भूत् इति ।४ - २० - न एतत् अस्ति प्रयोजनम् ।५ - २० - हलन्तात् ण्यत् विधीयते ।६ - २० - सः बाधकः भविष्यति ।७ - २० - यथा एव तर्हि ण्यत् यतम् बाधते एवम् तव्यादीन् अपि बाधेत ।८ - २० - अज्ग्रहणे पुनः क्रियमाणे अजन्तात् यत् विधीयते हलन्तात् ण्यत् ।९ - २० - एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च ।१० - २० - उच्यन्ते च तव्यादयः ।११ - २० - ते वचनात् भविष्यन्ति ।१२ - २० - न एतत् अस्ति प्रयोजनम् ।१३ - २० - वासरूपेण तव्यादयः भविष्यन्ति ।१४ - २० - इदम् तर्हि प्रयोजनम् ।१५ - २० - अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् ।१६ - २० - लव्यम् पव्यम् ।१७ - २० - आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तात् इति ण्यत् प्राप्नोति ।१८ - २० - तथा दित्स्यम् धित्स्यम् ।१९ - २० - आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति ।२० - २० - अज्ग्रहणसामर्थ्यात् यत् एव भवति ।१ - २१ - यति जातेः उपसङ्ख्यानम् ।२ - २१ - यति जातेः उपसङ्ख्यानम् कर्तव्यम् ।३ - २१ - जन्यम् वत्सेन ।४ - २१ - अत्यल्पम् इदम् उच्यते ।५ - २१ - तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् इति वक्तव्यम् ।६ - २१ - तकि तक्यम् शसि शस्यम् ।७ - २१ - यति यत्यम् जनि जन्यम् ।८ - २१ - हनः वा वध च ।९ - २१ - हनः वा यत् वक्तव्यः वध इति अयम् च आदेशः वक्तव्यः ।१० - २१ - वध्यः घात्यः ।११ - २१ - तद्धितः वा ।१२ - २१ - तद्धितः वा पुनः एषः भविष्यति ।१३ - २१ - वधम् अर्हति वध्यः ।१४ - २१ - यदि तद्धितः समासः न प्राप्नोति असिवध्यः , मुसलवध्यः इति ।१५ - २१ - यदि पुनः सति साधनम् कृता इति वा पादहारकाद्यर्थम् इति समासः सिद्धः भवति ।१६ - २१ - यदि पुनः असिवधशब्दात् उत्पत्तिः स्यात् ।१७ - २१ - असिवधम् अर्हति इति ।१८ - २१ - न एवम् शक्यम् ।१९ - २१ - स्वरे हि दोषः स्यात् ।२० - २१ - असिवध्यः एवम् स्वरः प्रसज्येत ।२१ - २१ - असिवध्यः इति च इष्यते ।१ - ५ - अनुपसर्गात् चरेः आङि च अगुरौ ।२ - ५ - अनुपसर्गात् चरेः इति अत्र आङि च अगुरौ इति वक्तव्यम् ।३ - ५ - आचर्यः देशः ।४ - ५ - अगुरौ इति किमर्थम् ।५ - ५ - आचार्यः उपनयमानः ।१ - ३ - स्वामिनि अन्तोदात्तत्वम् च ।२ - ३ - स्वामिनि अन्तोदात्तत्वम् च वक्तव्यम् ।३ - ३ - आर्यः स्वामी ।१ - १९ - सङ्गतम् इति किम् प्रत्युदाह्रियते ।२ - १९ - अजरः कम्बलः ।३ - १९ - अजरिता कम्बलः इति ।४ - १९ - किम् पुनः कारणम् कर्तृसाधनः प्रत्युदाह्रियते ।५ - १९ - न भावसाधनः प्रत्युदाहार्यः ।६ - १९ - एवम् तर्हि अजर्यम् कर्तरि ।७ - १९ - अजर्यम् कर्तरि इति वक्तव्यम् ।८ - १९ - तत् तर्हि वक्तव्यम् ।९ - १९ - न वक्तव्यम् ।१० - १९ - गत्यर्थानाम् क्तः कर्तरि विधीयते ।११ - १९ - तेन योगात् अजर्यम् कर्तरि भविष्यति ।१२ - १९ - गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते ।१३ - १९ - तेन योगात् अजर्यम् कर्मणि अपि प्राप्नोति ।१४ - १९ - जीर्यतिः अकर्मकः ।१५ - १९ - भावे तर्हि प्राप्नोति ।१६ - १९ - सङ्गतग्रहणम् इदानीम् किमर्थम् स्यात् ।१७ - १९ - कर्तृविशेषणम् सङ्गतग्रहणम् ।१८ - १९ - सङ्गतम् चेत् कर्तृ भवति इति ।१९ - १९ - तत् यथा हृषेः लोमसु इति लोमानि चेत् कर्तृ̄णि भवन्ति ।१ - १० - वदः सुपि अनुपसर्गग्रहणम् ।२ - १० - वदः सुपि अनुपसर्गग्रहणम् कर्तव्यम् ।३ - १० - इह मा भूत् ।४ - १० - प्रवाद्यम् अपवाद्यम् इति ।५ - १० - तत् तर्हि वक्तव्यम् ।६ - १० - न वक्तव्यम् ।७ - १० - अनुपसर्गे इति वर्तते ।८ - १० - एवम् तर्हि अन्वाचष्टे अनुपसर्गे इति वर्तते ।९ - १० - न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।१० - १० - एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।१ - १३ - भावग्रहणम् किमर्थम् ।२ - १३ - कर्मणि मा भूत् इति ।३ - १३ - न एतत् अस्ति प्रयोजनम् ।४ - १३ - भवतिः अयम् अकर्मः ।५ - १३ - अकर्मकाः अपि वै धातवः सोपसर्गाः सकर्मकाः भवन्ति ।६ - १३ - तेन अनुभव्यम् आमन्त्रणम् इति अत्र अपि प्राप्नोति ।७ - १३ - एतत् अपि न अस्ति प्रयोजनम् ।८ - १३ - अनुपसर्गे इति वर्तते ।९ - १३ - उत्तरार्थम् तर्हि भावग्रहणम् कर्तव्यम् ।१० - १३ - हनः त च भावे यथा स्यात् ।११ - १३ - श्वहत्या वर्तते ।१२ - १३ - क्व मा भूत् ।१३ - १३ - श्वघात्यः वृषालः इति१ - ८ - हनः तः चित् स्त्रियाम् छन्दसि ।२ - ८ - हनः तः च इति अत्र चित् स्त्रियाम् छन्दसि वक्तव्यः ।३ - ८ - ताम् भ्रूणहत्याम् निगृह्य अनुचरणम् ।४ - ८ - अस्यै त्वाम् भ्रूणहत्यायै चतुर्थम् प्रतिगृहाण ।५ - ८ - स्त्रियाम् इति किमर्थम् ।६ - ८ - आघ्नते दस्युहत्याय ।७ - ८ - छन्दसि इति किमर्थम् ।८ - ८ - दस्युहत्या श्वहत्या वर्तते ।१ - २५ - क्यप् इति वर्तमाने पुनः क्यब्ग्रहणम् किमर्थम् ।२ - २५ - क्यप् एव यथा स्यात् ।३ - २५ - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।४ - २५ - किम् च अन्यत् प्राप्नोति ।५ - २५ - ण्यत् ।६ - २५ - ओः आवश्यके ण्यतः स्तोतेः क्यप् पूर्वविप्रतिषिद्धम् इति वक्ष्यति ।७ - २५ - सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।८ - २५ - अथ वा हनः तः चित् स्त्रियाम् छन्दसि चोदितः ।९ - २५ - सः न वक्तव्यः भवति ।१० - २५ - क्यब्विधौ वृञ्ग्रहणम् । क्यब्विधौ वृञ्ग्रहणम् कर्तव्यम् ।११ - २५ - इह मा भूत् ।१२ - २५ - वार्याः ऋत्विजः इति ।१३ - २५ - अञ्जेः च उपसङ्ख्यानम् सञ्ज्ञायाम् ।१४ - २५ - सञ्ज्ञायाम् अञ्जेः च उपसङ्ख्यानम् कर्तव्यम् ।१५ - २५ - आज्यम् ।१६ - २५ - यदि क्यप् वृद्धिः न प्राप्नोति ।१७ - २५ - तस्मात् ण्यत् एषः ।१८ - २५ - यदि ण्यत् उपधालोपः न प्राप्नोति ।१९ - २५ - तस्मात् क्यप् एषः ।२० - २५ - ननु च उक्तम् वृद्धिः न प्राप्नोति इति ।२१ - २५ - आङ्पूर्वस्य एषः प्रयोगः भविष्यति ।२२ - २५ - यदि एवम् अवग्रहः प्राप्नोति ।२३ - २५ - न लक्षणेन पदकाराः अनुवर्त्याः ।२४ - २५ - पद्कारैः नाम लक्षणम् अनुवर्त्यम् ।२५ - २५ - यथालक्षणम् पदम् कर्तव्यम् ।१ - ९ - दीर्घोच्चारणम् किमर्थम् न इ च खनः इति एव उच्येत ।२ - ९ - का रूपसिद्धिः खेयम् ।३ - ९ - आद्गुणेन सिद्धम् ।४ - ९ - न सिध्यति ।५ - ९ - षत्वतुकोः असिद्धः एकादेशः इति एकादेशस्य असिद्धत्वात् तुक् प्रसज्येत ।६ - ९ - न एतत् अस्ति ।७ - ९ - पदान्तपदाद्योः एकादेशः असिद्धः ।८ - ९ - न च एषः पदान्तपदाद्योः एकादेशः ।९ - ९ - तस्मात् इ च खनः इति एव वक्तव्यम् ।१ - ४० - असञ्ज्ञायाम् इति किमर्थम् ।२ - ४० - भार्या ।३ - ४० - भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् ।४ - ४० - भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः ।५ - ४० - अनर्थकः प्रतिषेधः अप्रतिषेधः ।६ - ४० - किम् कारणम् ।७ - ४० - अन्येन विहितत्वात् ।८ - ४० - अन्येन लक्षणेन स्त्रियाम् क्यप् विधीयते ।९ - ४० - सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति ।१० - ४० - प्रतिषेधः इदानीम् किमर्थः स्यात् ।११ - ४० - प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञाप्रतिषेधार्थः ।१२ - ४० - प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात् ।१३ - ४० - भार्याः नाम क्षत्रियाः ।१४ - ४० - सिद्धम् तु स्त्रियाम् सञ्ज्ञाप्रतिषेधात् ।१५ - ४० - सिद्धम् एतत् ।१६ - ४० - कथम् ।१७ - ४० - स्त्रियाम् सञ्ज्ञाप्रतिषेधः वक्तव्यः ।१८ - ४० - सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियाम् भृञः इति ।१९ - ४० - सिध्यति ।२० - ४० - सूत्रम् तर्हि भिद्यते ।२१ - ४० - यथान्यासम् एव अस्तु ।२२ - ४० - ननु च उक्तम् भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् इति ।२३ - ४० - न एषः दोषः ।२४ - ४० - भावे इति तत्र अनुवर्तते ।२५ - ४० - कर्मसाधनः च अयम् ।२६ - ४० - अथ वा ये एते सञ्ज्ञायाम् विधीयन्ते तेषु न एवम् विज्ञायते सञ्ज्ञायाम् अभिधेयायाम् इति ।२७ - ४० - किम् तर्हि ।२८ - ४० - प्रत्ययान्तेन चेत् सञ्ज्ञा गम्यते इति ।२९ - ४० - अपरः आह सञ्ज्ञायाम् पुंसि दृष्टत्वात् न ते भार्या प्रसिध्यति ।३० - ४० - सञ्ज्ञायाम् पुंसि दृष्टत्वात् तव भार्याशब्दः न सिध्यति ।३१ - ४० - स्त्रियाम् भावाधिकारः अस्ति तेन भार्या प्रसिध्यति ।३२ - ४० - भावे इति तत्र वर्तते ।३३ - ४० - कर्मसाधनः च अयम् ।३४ - ४० - अथ वा बहुलम् कृत्याः सञ्ज्ञायाम् इति तत् स्मृतम् ।३५ - ४० - अथ वा कृत्यल्युटः बहुलम् इति एवम् अत्र अपि ण्यत् भविष्यति ।३६ - ४० - यथा यत्यम् जन्यम् यथा भित्तिः तथा एव सा ।३७ - ४० - समः च बहुलम् ।३८ - ४० - समः च बहुलम् उपसङ्ख्यानम् कर्तव्यम् ।३९ - ४० - सम्भृत्याः एव सम्भाराः ।४० - ४० - सम्भार्याः एव सम्भाराः ।१ - १६ - सूर्यरुच्याव्यथ्याः कर्तरि ।२ - १६ - सूर्य रुचि अव्यथ्य इति कर्तरि निपात्यन्ते ।३ - १६ - किम् निपात्यते ।४ - १६ - सूर्यः ।५ - १६ - सूसर्तिभ्याम् सर्तेः उत्वम् सुवतेः वा रुडागमः । सरणात् वा सुवति वा कर्मणि इति सूर्यः ।६ - १६ - रुच्य ।७ - १६ - रोचते असौ रुच्यः ।८ - १६ - न व्यथथे अव्यथ्यः ।९ - १६ - कुप्यम् सञ्ज्ञायाम् ।१० - १६ - कुप्यम् सञ्ज्ञायाम् इति वक्तव्यम् ।११ - १६ - गोप्यम् अन्यत् ।१२ - १६ - कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च ।१३ - १६ - कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च इति वक्तव्यम् ।१४ - १६ - कृष्टे पच्यन्ते स्वयम् एव ।१५ - १६ - कृष्टपच्याः च मे अकृष्टपच्याः च मे ।१६ - १६ - यः हि कृष्टे पक्तव्यः क्ष्टपाक्यः स भवति ।१ - ६ - प्रत्यपिभ्याम् ग्रहेः छन्दसि ।२ - ६ - प्रत्यपिभ्याम् ग्रहेः छन्दसि इति वक्तव्यम् ।३ - ६ - मत्तस्य न प्रतिगृह्यम् ।४ - ६ - अनृतम् हि मत्तः भवति ।५ - ६ - तस्मात् न अपिगृह्यम् ।६ - ६ - प्रतिग्राह्यम् अपिग्राह्यम् इति एव अन्यत्र ।१ - ९ - कस्य अयम् अनुबन्धः ।२ - ९ - प्रधानस्य ।३ - ९ - यदि प्रधानस्य अमावस्या एवम् स्वरः प्रसज्येत ।४ - ९ - अमावस्या इति च इष्यते ।५ - ९ - तथा अमावास्याग्रहणेन अमावस्याग्रहणम् न प्राप्नोति ।६ - ९ - एवम् तर्हि निपातनस्य ।७ - ९ - यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति श्रोत्रियन् छन्दः अधीते इति व्यपवर्गाभावात् ञ्निति इति आद्युदात्तत्वम् न प्राप्नोति ।८ - ९ - एवम् तर्हि अमावसोः अहम् ण्यतोः निपातयामि अवृद्धिताम् ।९ - ९ - तथा एकवृत्तिता तयोः स्वरः च मे प्रसिध्यति ।१ - २४ - निष्टर्क्य इति किम् निपात्यते ।२ - २४ - निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः ।३ - २४ - यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः ।४ - २४ - अपरः आह निष्टर्क्ये व्यत्ययम् विद्यात् निसः षत्वम् निपातनात् ।५ - २४ - ण्यत् आयादेशः इति एतौ उपचाय्ये निपातितौ । निष्टर्क्यम् चिन्वीत पशुकामः ।६ - २४ - ण्यत् एकस्मात् चतुर्भ्यः क्यपा- चतुर्भ्यः यतः विधिः ।७ - २४ - ण्यत् एकस्मात् यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः । ण्यत् एकस्मात् ।८ - २४ - निष्टर्क्यः ।९ - २४ - चतुर्भ्यः क्यप् ।१० - २४ - देवहूयः प्रणीयः उन्नीयः उच्छिष्यः ।११ - २४ - चतुर्भ्यः च यतः विधिः ।१२ - २४ - मर्यः स्तर्या ध्वर्यः खन्यः ।१३ - २४ - ण्यत् एकस्मात् ।१४ - २४ - खान्यः ।१५ - २४ - यशब्दः च ।१६ - २४ - देवयज्या ।१७ - २४ - द्वौ क्यपौ ।१८ - २४ - आपृच्छ्यः प्रतिषीव्यः ।१९ - २४ - ण्यद्विधिः चतुः ।२० - २४ - ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडम् ।२१ - २४ - उपपूर्वात् चिनोतेः आयादेशः निपात्यते ।२२ - २४ - न हि ण्यता एव सिध्यति ।२३ - २४ - हिरण्ये इति वक्तव्यम् ।२४ - २४ - उपचेयपृडम् एव अन्यत्र ।१ - ८ - पाणौ सृजेः ण्यद्विधिः ।२ - ८ - पाणौ सृजेः ण्यत् विधेयः ।३ - ८ - पाणिसर्ग्या रज्जुः ।४ - ८ - समवपूर्वात् च ।५ - ८ - समवपूर्वात् च इति वक्तव्यम् ।६ - ८ - समवसर्ग्यः ।७ - ८ - लपिदमिभ्याम् च. लपिदमिभ्याम् च इति वक्तव्यम् ।८ - ८ - अपलप्यम् अवदाम्यम् ।१ - १२ - कथम् इदम् विज्ञायते ।२ - १२ - आवश्यके उपपदे आहोस्वित् ध्योत्ये इति ।३ - १२ - कः च अत्र विशेषः ।४ - १२ - आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् ।५ - १२ - आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् कर्तव्यम् ।६ - १२ - लाव्यम् पाव्यम् ।७ - १२ - अस्तु तर्हि द्योत्ये ।८ - १२ - द्योत्ये इति चेत् स्वरसमासानुपपत्तिः ।९ - १२ - द्योत्ये इति चेत् स्वरसमासानुपपत्तिः ।१० - १२ - आवश्यलाव्यम् आवश्यपाव्यम् ।११ - १२ - न एषः दोषः ।१२ - १२ - मयूरव्यंसकादित्वात् समासः विश्पष्टादिवत् स्वरः भविष्यति ।१ - १२ - ओः आवश्यके ण्यतः स्तौतेः क्यपा- पूर्वविप्रतिषिद्धम् । ओः आवश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिष्धेन ।२ - १२ - ओः आवश्यके ण्यत् भवति इति अस्य अवकाशः ।३ - १२ - अवश्यलाव्यम् अवश्यपाव्यम् ।४ - १२ - क्यपः अवकाशः ।५ - १२ - स्तुत्यः ।६ - १२ - इह उभयम् प्राप्नोति ।७ - १२ - अवश्यस्तुत्यः ।८ - १२ - क्यप् भवति पूर्वविप्रतिष्धेन ।९ - १२ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।१० - १२ - न वक्तव्यः ।११ - १२ - उक्तम् तत्र क्यप् इति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् क्यप् एव यथा स्यात् ।१२ - १२ - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।१ - ५ - दक्षिणाग्नौ इति वक्तव्यम् ।२ - ५ - आनेयः अन्यः ।३ - ५ - आनाय्यः अनित्यः इति चेत् दक्षिणाग्नौ कृतम् भवेत् ।४ - ५ - एकयोनौ तु तम् विद्यात् ।५ - ५ - आनेयः हि अन्यथा भवेत् ।१ - ३ - पाय्यनिकाय्ययोः किम् निपात्यते ।२ - ३ - पाय्यनिकाय्ययोः आदिपत्वकत्वनिपातनम् । पाय्यनिकाय्ययोः आदिपत्वम् आदिकत्वम् च निपात्यते ।३ - ३ - मेयम् निचेयम् इति एव अन्यत्र ।१ - ३ - कुण्डपाय्ये यद्विधिः ।२ - ३ - कुण्डपाय्ये यत् विधेयः ।३ - ३ - कुण्डपाय्यः क्रतुः ।१ - १८ - समूह्यः इति अनर्थकम् वचनम् सामान्येन कृतत्वात् ।२ - १८ - समूह्यः इति वचनम् अनर्थकम् ।३ - १८ - किम् कारणम् ।४ - १८ - सामान्येन कृतत्वात् ।५ - १८ - सामान्येन एव ण्यत् भविष्यति ऋहलोः ण्यत् इति ।६ - १८ - वह्यर्थम् तर्हि निपातनम् कर्तव्यम् ।७ - १८ - वहेः ण्यत् यथा स्यात् ।८ - १८ - वह्यर्थम् इति चेत् ऊहेः तदर्थत्वात् सिद्धम् ।९ - १८ - ऊहिः अपि वह्यर्थे वर्तते ।१० - १८ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।११ - १८ - कथम् ऊहिः वह्यर्थे वर्तते ।१२ - १८ - बह्वर्थाः अपि धातवः भवन्ति इति ।१३ - १८ - अस्ति पुनः क्व चित् अन्यत्र अपि ऊहिः वह्यर्थे वर्तते ।१४ - १८ - अस्ति इति आह ।१५ - १८ - ऊहिविग्रहात् च ब्राह्मणे सिद्धम् । ऊहिविग्रहात् च ब्राह्मणे सिद्धम् एतत् ।१६ - १८ - समूह्यम् चिन्वीत पशुकामः ।१७ - १८ - पशवः वै पुरीषम् ।१८ - १८ - पशून् एव अस्मै तत् समूहति ।१ - ३ - अग्निचित्या भावे अन्तोदात्तः ।२ - ३ - अग्निचित्या इति भावे अन्तोदात्तः ।३ - ३ - अग्निचयनम् एव अग्निचित्या ।१ - १८ - किमर्थः चकारः ।२ - १८ - स्वरार्थः ।३ - १८ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।४ - १८ - न एतत् अस्ति प्रयोजनम् ।५ - १८ - एकाच् अयम् ।६ - १८ - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।७ - १८ - प्रत्ययस्वरेण एव सिद्धम् ।८ - १८ - विशेषणार्थः तर्हि ।९ - १८ - क्व विशेषणार्थेन अर्थः अप्तृन्तृच् इति ।१० - १८ - तृ इति उच्यमाने मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत ।११ - १८ - स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति ।१२ - १८ - एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।१३ - १८ - सामान्यग्रहणाविघातार्थः तर्हि ।१४ - १८ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।१५ - १८ - अत्र एव ।१६ - १८ - यत् एतत् तृन्तृचोः ग्रहणम् एतत् तृ इति वक्ष्यामि ।१७ - १८ - यदि तृ इचि उच्यते मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत ।१८ - १८ - स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।१ - २२ - ण्वुलि सकर्मकग्रहणम् ।२ - २२ - ण्वुलि सकर्मकग्रहणम् कर्तव्यम् ।३ - २२ - इह मा भूत् ।४ - २२ - आसिता शयिता इति ।५ - २२ - न वा धातुमात्रात् दर्शनात् ण्वुलः । न वा वक्तव्यम् ।६ - २२ - किम् कारणम् ।७ - २२ - धातुमात्रात् ण्वुल् दृश्यते ।८ - २२ - इमे अस्य आसकाः इमे ।९ - २२ - अस्य शायकाः ।१० - २२ - उत्थिताः आसका वैश्रवणस्य इति ।११ - २२ - तृजादिषु वर्तमानकालोपादानम् अध्यायकवेदाध्यायकार्थम् ।१२ - २२ - तृजादिषु वर्तमानकालोपादानम् कर्तव्यम् ।१३ - २२ - किम् कारणम् ।१४ - २२ - अध्यायकवेदाध्यायकार्थम् ।१५ - २२ - अध्यायकः वेदाध्यायः ।१६ - २२ - अधीतवति अध्येष्यमाणे वा मा भूत् ।१७ - २२ - न वा कालमात्रे दर्शनात् अन्येषाम् ।१८ - २२ - न वा वक्तव्यम् ।१९ - २२ - किम् कारणम् ।२० - २२ - कालमात्रे दर्शनात् अन्येषाम् ।२१ - २२ - कालमात्रे हि अन्ये प्रत्ययाः दृश्यन्ते ।२२ - २२ - चर्चापारः शमनीपारः ।१ - १२ - अच् अपि सर्वधातुभ्यः ।२ - १२ - अच् अपि सर्वधातुभ्यः वक्तव्यः ।३ - १२ - इह अपि यथा स्यात् ।४ - १२ - भवः शर्वः ।५ - १२ - न तर्हि इदानीम् इदम् पचाद्यनुक्रमणम् कर्तव्यम् ।६ - १२ - कर्तव्यम् च ।७ - १२ - किम् प्रयोजनम् ।८ - १२ - पचाद्यनुक्रमणम् अनुबन्धासञ्जार्थम् अपवादबाधनार्थम् च ।९ - १२ - अनुबन्धासञ्जनार्थम् तावत् ।१० - १२ - नदट् नदी चोरट् चोरी ।११ - १२ - अपवादबाधनार्थम् ।१२ - १२ - जारभरा श्वपचा इति ।१ - ११ - इगुपधेभ्यः उपसर्गे कविधिः मेषाद्यर्थः ।इगुपधेभ्यः उपसर्गे कः विधेयः ।२ - ११ - किम् प्रयोजनम् ।३ - ११ - मेषाद्यर्थः ।४ - ११ - मेषः देवः सेवः ।५ - ११ - न वा बुधादीनाम् दर्शनात् अनुपसर्गे अपि ।६ - ११ - न वा वक्तव्यः ।७ - ११ - किम् कारणम् ।८ - ११ - बुधादीनाम् अनुपसर्गे अपि कः दृश्यते ।९ - ११ - बुधः भिदः युधः सिवः इति ।१० - ११ - कथम् मेषः देवः सेवः इति ।११ - ११ - पचाचिषु पाठः करिष्यते ।१ - ७ - जिघ्रः सञ्ज्ञायाम् प्रतिषेधः ।२ - ७ - जिघ्रः सञ्ज्ञायाम् प्रतिषेधः वक्तव्यः ।३ - ७ - व्याजिघ्रति इति व्याघ्रः ।४ - ७ - इह के चित् शस्य एव प्रतिषेधम् आहुः के चित् जिघ्रभावस्य ।५ - ७ - किम् पुनः अत्र न्याय्यम् ।६ - ७ - शस्य एव प्रतिषेधः न्याय्यः ।७ - ७ - जिघ्रभावे हि प्रतिषिद्धे केन शे आकारलोपः स्यात् ।१ - ९ - अनुपसर्गात् नौ लिम्पेः ।२ - ९ - अनुपसर्गात् नौ लिम्पेः इति वक्तव्यम् ।३ - ९ - निलिम्पाः नाम देवाः ।४ - ९ - गवि च विन्देः सञ्ज्ञायाम् ।५ - ९ - गवि च उपपदे विन्देः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् ।६ - ९ - गोविन्दः इति ।७ - ९ - अत्यल्पम् इदम् उच्यते गवि इति ।८ - ९ - गवादिषु इति वक्तव्यम् ।९ - ९ - गोविन्दः अरविन्दः ।१ - २ - तनोतेः णः उपसङ्ख्यानम् । तनोतेः णः उपसङ्ख्यानम् कर्तव्यम् ।२ - २ - अवतनोति इति अवतानः ।१ - ३ - नृतिखनिरञ्जिभ्यः इति वक्तव्यम् ।२ - ३ - इह मा भूत् ।३ - ३ - ह्वायकः इति ।१ - ४ - प्रुसृल्वः साधुकारिणि वुन्विधानम् ।२ - ४ - प्रुसृल्वः साधुकारिणि वुन् विधेयः ।३ - ४ - सकृत् अपि यः सुष्ठु करोति तत्र यथा स्यात् ।४ - ४ - बहुशः यः दुष्ठु करोति तत्र मा भूत् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP