पाद १ - खण्ड ३४

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ६४ - गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः ।

२ - ६४ - गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः वक्तव्यः ।

३ - ६४ - इयेष उवोष ।

४ - ६४ - गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति ।

५ - ६४ - गुरुमद्वचनम् इदानीम् किमर्थम् स्यात् ।

६ - ६४ - गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादिप्रतिषेधाऋथम् ।

७ - ६४ - गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादीनाम् मा भूत् इति ।

८ - ६४ - इयज अहम् उवप अहम् ।

९ - ६४ - उपदेशवचनात् सिद्धम् ।

१० - ६४ - उपदेशे गुरुमतः इति वक्तव्यम् ।

११ - ६४ - यदि उपदेशग्रहणम् क्रियते उच्छेः आम् वक्तव्यः ।

१२ - ६४ - व्युच्छाम् चकार इति ।

१३ - ६४ - ऋच्छिप्रतिषेधः ज्ञापकः उच्छेः आम्भावस्य ।

१४ - ६४ - यत् अयम् अनृच्छः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः तुग्निमित्ता यस्य गुरुमत्ता भवति तस्मात् आम् इति ।

१५ - ६४ - स तर्हि ज्ञापकार्थः ऋच्छिप्रतिषेधः वक्तव्यः ।

१६ - ६४ - ननु च अवश्यम् प्राप्त्यर्थः अपि वक्तव्यः ।

१७ - ६४ - न अर्थः प्राप्त्यर्थेन ।

१८ - ६४ - ऋच्छत्यृ̄ताम् इति ऋच्छेः लिटि गुणवचनम् ज्ञापकम् न ऋच्छेः लिटि आम् भवति इति ।

१९ - ६४ - न एतत् अस्ति ज्ञापकम् ।

२० - ६४ - अर्त्यर्थम् एतत् स्यात् ।

२१ - ६४ - कथम् पुनः ऋच्छेः लिटि गुणः उच्यमानः अर्त्यर्थः शक्यः विज्ञातुम् ।

२२ - ६४ - सामर्थ्यात् ।

२३ - ६४ - ऋच्छिः लिटि न अस्ति इति कृत्वा प्रकृत्यर्थम् विज्ञायते ।

२४ - ६४ - तत् यथा ।

२५ - ६४ - तिष्ठतेः इत् जिघ्रतेः वा इति चङि तिष्ठतिजिघ्रती न स्तः इति कृत्वा प्रकृत्यर्थम् विज्ञायते ।

२६ - ६४ - किम् पुनः अर्तेः गुणवचने प्रयोजनम् ।

२७ - ६४ - आरतुः आरुः एतत् रूपम् यथा स्यात् ।

२८ - ६४ - किम् पुनः कारणम् न सिध्यति ।

२९ - ६४ - द्विर्वचने कृते सवर्णदीर्घत्वे च यदि तावत् धातुग्रहणेन ग्रहणम् ऋ̄कारान्तानाम् लिटि गुणः भवति इति गुणे कृते रपरते अरतुः अरुः इति एतत् रूपम् प्रसज्येत ।

३० - ६४ - अथ अभ्यासग्रहणेन ग्रहणम् उः अत्त्वम् रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् आतः लोपः इटि च इति आकारलोपः अतुः उः इति वचनम् एव श्रूयेत ।

३१ - ६४ - गुण पुनः सति गुणे कृते रपरत्वे च द्विर्वचनम् अतः आदेः इति दीर्घत्वम् ।

३२ - ६४ - ततः सिद्धम् भवति यथा आटतुः आटुः इति ।

३३ - ६४ - किम् पुनः सवर्णदीर्घत्वम् तावत् भवति न पुनः उः अत्त्वम् ।

३४ - ६४ - परत्वात् उः अत्त्वेन भवितव्यम् ।

३५ - ६४ - अन्तरङ्गत्वात् ।

३६ - ६४ - अन्तरङ्गम् सवर्णदीर्घत्वम् ।

३७ - ६४ - बहिरङ्गम् उः अत्त्वम् ।

३८ - ६४ - का अन्तरङ्गता ।

३९ - ६४ - वर्णौ आश्रित्य सवर्णदीर्घत्वम् ।

४० - ६४ - अङ्गस्य उः अत्त्वम् ।

४१ - ६४ - उः अत्त्वम् अपि अन्तरङ्गम् ।

४२ - ६४ - कथम् ।

४३ - ६४ - वक्ष्यति एतत् ।

४४ - ६४ - प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः इति ।

४५ - ६४ - उभयोः अन्तरङ्गयोः परत्वात् उः अत्त्वम् ।

४६ - ६४ - उः अत्त्वे कृते रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् परस्य रूपस्य यणादेशः ।

४७ - ६४ - सिद्धम् भवति आरतुः आरुः इति ।

४८ - ६४ - अथ अपि कथम् चित् अर्तेः लिटि गुणेन अर्थः स्यात् ।

४९ - ६४ - एवम् अपि न दोषः ।

५० - ६४ - ऋच्छत्यृ̄ताम् इति ऋकारः अपि निर्दिश्यते ।

५१ - ६४ - कथम् ।

५२ - ६४ - अयम् ।

५३ - ६४ - ऋच्छति ऋ ऋताम् ऋच्छत्यृ̄ताम् इति ।

५४ - ६४ - इह अपि तर्हि प्राप्नोति ।

५५ - ६४ - चक्रतुः चक्रुः इति ।

५६ - ६४ - संयोगादिग्रहणम् नियमार्थम् भविष्यति ।

५७ - ६४ - संयोगादेः एव अकेवलस्य न अन्यस्य अकेवलस्य इति ।

५८ - ६४ - तत् एतत् अन्तरेण अर्तेः लिटि गुणवचनम् रूपम् सिद्धम् अन्तरेण च ऋच्छिग्रहणम् अर्तेः लिटि गुणः सिद्धः ।

५९ - ६४ - सः एषः अनन्यार्थः ऋच्छिप्रतिषेधः वक्तव्यः उच्छेः वा आम् वक्तव्यः ।

६० - ६४ - उभयम् न वक्तव्यम् ।

६१ - ६४ - उपदेशग्रहणम् न करिष्यते ।

६२ - ६४ - कस्मात् न भवति इयेष उवोष ।

६३ - ६४ - उक्तम् वा ।किम् उक्तम् ।

६४ - ६४ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

१ - ११ - ऊर्णोतेः च उपसङ्ख्यानम् ।

२ - ११ - ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् ।

३ - ११ - प्रोर्णुनाव ।

४ - ११ - न वक्तव्यम् ।

५ - ११ - वाच्यः ऊर्णोः णुवद्भावः ।

६ - ११ - यङ्प्रसिद्धिः प्रयोजनम् ।

७ - ११ - आमः च प्रतिषेधार्थम् ।

८ - ११ - एकाचः च इडुपग्रहात् । अथ वा उकारः अपि अत्र निर्दिश्यते ।

९ - ११ - कथम् ।

१० - ११ - अविभक्तिकः निर्देशः ।

११ - ११ - अनृच्छ उ अनृच्छो दयायासः च इति ।

१ - ११ - विदेः आम् कित् ।

२ - ११ - विदेः आम् कित् वक्तव्यः ।

३ - ११ - विदाम् चकार ।

४ - ११ - न वक्तव्यः ।

५ - ११ - विदिः अकारान्तः ।

६ - ११ - यदि अकारान्तः वेत्ति इति गुणः न सिध्यति ।

७ - ११ - लिट्सन्नियोगेन ।

८ - ११ - एवम् अपि विवेद इति न सिध्यति ।

९ - ११ - एवम् तर्हि आम्सन्नियोगेन ।

१० - ११ - भारद्वाजीयाः पठन्ति ।

११ - ११ - विदेः आम् कित् निपातनात् वा अगुणत्वम् इति ।

१ - ३ - श्लुवदतिदेशे किम् प्रयोजनम् ।

२ - ३ - श्लुवदतिदेशे प्रयोजनम् द्वित्वेत्त्वे ।

३ - ३ - बिभराम् चकार ।

१ - ७६ - किमर्थम् इदम् उच्यते ।

२ - ७६ - अनुप्रयोगः यथा स्यात् ।

३ - ७६ - न एतत् अस्ति प्रयोजनम् ।

४ - ७६ - आमन्तम् अव्यक्तपदार्थकम् ।

५ - ७६ - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

६ - ७६ - अतः उत्तरम् पठति ।

७ - ७६ - कृञः अनुप्रयोगवचनम् अस्तिभूप्रतिषेधार्थम् ।

८ - ७६ - कृञः अनुप्रयोगवचनम् क्रियते अस्तिभूप्रतिषेधार्थम् ।

९ - ७६ - अस्तिभुवोः अनुप्रयोगः मा भूत् इति ।

१० - ७६ - आत्मनेपदविध्यर्थम् च ।

११ - ७६ - आत्मनेपदविध्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते ।

१२ - ७६ - आत्मनेपदम् यथा स्यात् ।

१३ - ७६ - उच्यमाने अपि एतस्मिन् अवश्यम् आत्मनेपदार्थः यत्नः कर्तव्यः ।

१४ - ७६ - अस्तिभूप्रतिषेधार्थेन च अपि न अर्थः ।

१५ - ७६ - इष्टः सर्वानुप्रयोगः ।

१६ - ७६ - सर्वेषाम् एव कृभ्वस्तीनाम् अनुप्रयोगः इष्यते ।

१७ - ७६ - किम् इष्यते एव आहोस्वित् प्राप्नोति अपि ।

१८ - ७६ - इष्यते च प्राप्नोति च ।

१९ - ७६ - कथम् ।

२० - ७६ - कृञ् इति न एतत् धातुग्रहणम् ।

२१ - ७६ - किम् तर्हि ।

२२ - ७६ - प्रत्याहारग्रहणम् ।

२३ - ७६ - क्व सन्निविष्टानाम् प्रत्याहारः ।

२४ - ७६ - कृभ्वस्तियोगे इति अतः प्रभृति आ कृञः ञकारात् ।

२५ - ७६ - सर्वानुप्रयोगः इति चेत् अशिष्यम् अर्थाभावात् ।

२६ - ७६ - सर्वानुप्रयोगः इति चेत् अशिष्यम् कृञः अनुप्रयोगवचनम् ।

२७ - ७६ - किम् कारणम् ।

२८ - ७६ - अर्थाभावात् ।

२९ - ७६ - आमन्तम् अव्यक्तपदार्थकम् ।

३० - ७६ - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

३१ - ७६ - इदम् तर्हि प्रयोजनम् ।

३२ - ७६ - कृभ्वस्तीनाम् एव अनुप्रयोगः यथा स्यात् पचादीनाम् मा भूत् इति ।

३३ - ७६ - एतत् अपि न अस्ति प्रयोजनम् ।

३४ - ७६ - अर्थाभावात् च अन्यस्य ।

३५ - ७६ - अर्थाभावात् च अन्यस्य सिद्धम् ।

३६ - ७६ - कृभ्वस्तयः क्रियासामान्यवाचिनः ।

३७ - ७६ - क्रियाविशेषवाचिनः पचादयः ।

३८ - ७६ - न च सामान्यवाचिनोः एव विशेषवाचिनोः एव व प्रयोगः भवति ।

३९ - ७६ - तत्र विशेषवाचिनः उत्पत्तिः ।

४० - ७६ - सामान्यवाचिनः अनुप्रयोक्ष्यन्ते ।

४१ - ७६ - लिट्परार्थम् वा ।

४२ - ७६ - लिट्परार्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते ।

४३ - ७६ - लिट्परस्य एव अनुप्रयोगः यथा स्यात् ।

४४ - ७६ - अन्यपरस्य मा भूत् इति ।

४५ - ७६ - किम्परस्य पुनः प्राप्नोति ।

४६ - ७६ - लट्परस्य ।

४७ - ७६ - न लट्परस्य अनुप्रयोगेण भूतकालः विशेषितः स्यात् ।

४८ - ७६ - निष्ठापरस्य तर्हि ।

४९ - ७६ - ननिष्ठापरस्य अनुप्रयोगेण पुरुषोपग्रहौ विशेइषितौ स्याताम् ।

५० - ७६ - लुङ्परस्य तर्हि ।

५१ - ७६ - न लुङ्परस्य अनुप्रयोगेण अनद्यतनः भूतकालः विशेषितः स्यात् ।

५२ - ७६ - लङ्परस्य तर्हि ।

५३ - ७६ - न लङ्परस्य अनुप्रयोगेण अनद्यतनः परोक्षः कालः विशेषितः स्यात् ।

५४ - ७६ - अयम् तर्हि भूते परोक्षे अनद्यतने लङ् विधीयते ।

५५ - ७६ - हशश्वतोः लङ् च इति ।

५६ - ७६ - तत्परस्य मा भूत् इति ।

५७ - ७६ - अतत् अपि न अस्ति प्रयोजनम् ।

५८ - ७६ - एकस्याः आकृतेः चरितः प्रयोगः द्वितीयस्याः तृतीयस्याः च न भवति ।

५९ - ७६ - तत् यथा गोषु स्वामि अश्वेषु च इति ।

६० - ७६ - न च भवति गोषु च अश्वानाम् च स्वामी इति ।

६१ - ७६ - अर्थसमाप्तेः वा अनुप्रयोगः न स्यात् ।

६२ - ७६ - अर्थसमाप्तेः तर्हि अनुप्रयोगः न स्यात् ।

६३ - ७६ - आमन्तेन परिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः न स्यात् ।

६४ - ७६ - एतत् अपि न अस्ति प्रयोजनम् ।

६५ - ७६ - इदानीम् एव उक्तम् आमन्तम् अव्यक्तपदार्थकम् ।

६६ - ७६ - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति इति ।

६७ - ७६ - विपर्यासनिवृत्त्यर्थम् वा ।

६८ - ७६ - विपर्यासनिवृत्त्यर्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते ।

६९ - ७६ - ईहाम् चक्रे ।

७० - ७६ - चक्रे ईहाम् इति मा भूत् ।

७१ - ७६ - व्यवहित्निवृत्त्यर्थम् च ।

७२ - ७६ - व्यवहित्निवृत्त्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते ।

७३ - ७६ - अन्व् एव च अनुप्रयोगः यथा स्यात् ।

७४ - ७६ - ईहाम् चक्रे ।

७५ - ७६ - व्यवहितस्य मा भूत् ।

७६ - ७६ - ईहाम् देवदत्तः चक्रे इति ।

१ - ८५ - क्व अयम् च्लिः श्रूयते ।

२ - ८५ - न क्व चित् श्रूयते ।

३ - ८५ - सिजादयः आदेशाः उच्यन्ते ।

४ - ८५ - यद् न क्व चित् श्रूयते किमर्थः तर्हि च्लुः उत्सर्गः क्रियते ।

५ - ८५ - न सिच् उत्सर्गः एव कर्तव्यः ।

६ - ८५ - तस्य क्सादयः अपवादाः भविष्यन्ति ।

७ - ८५ - अत उत्तरम् पठति ।

८ - ८५ - च्ल्युत्सर्गः सामान्यग्रहणार्थः ।

९ - ८५ - च्लिः उत्सर्गः क्रियते सामान्यग्रहणार्थः ।

१० - ८५ - क्व सामान्यग्रहणार्थेन अर्थः ।

११ - ८५ - मन्त्र घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति ।

१२ - ८५ - तत्र अवरतः त्रयाणाम् ग्रहणम् कर्तव्यम् स्यात् ।

१३ - ८५ - चङङोः सिचः च ।

१४ - ८५ - क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः । क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः च्लिः उत्सर्गः क्रियते ।

१५ - ८५ - च्लेः अनिटः क्सः सिद्धः भवति ।

१६ - ८५ - घस्ल्̥भावे च ।

१७ - ८५ - घस्ल्̥भावे च च्लव् एव कृते लृदितः इति अङ् सिद्धः भवति ।

१८ - ८५ - अथ चित्करणम् किमर्थम् ।

१९ - ८५ - च्लेः चित्करणम् विशेषणाऋथम् ।

२० - ८५ - च्लेः चित्करणम् क्रियते विशेषणार्थम् ।

२१ - ८५ - क्व विशेषणार्थेन अर्थः ।

२२ - ८५ - च्लेः सिच् इति ।

२३ - ८५ - लेः सिच् इति उच्यमाने लिङ्लिटोः अपि प्रसज्येत ।

२४ - ८५ - न एतत् अस्ति प्रयोजनम् ।

२५ - ८५ - लुङि इति उच्यते ।

२६ - ८५ - न च लुङि लिङ्लिटौ भवतः ।

२७ - ८५ - अथ इदित्करणम् किमर्थम् ।

२८ - ८५ - इदित्करणम् सामान्यग्रहणार्थम् । इदित्करणम् क्रियते च सामान्यग्रहणार्थम् ।

२९ - ८५ - क्व सामान्यग्रहणार्थेन अर्थः ।

३० - ८५ - मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति आमः इति च ।

३१ - ८५ - इकारे च इदानीम् सामान्यग्रहणार्थे क्रियमाणे अवश्यम् सामान्यग्रहणाविघातार्थः चकारः कर्तव्यः ।

३२ - ८५ - क्व सामान्यग्रहणाविघातार्थेन अर्थः चकारेण ।

३३ - ८५ - अत्र एव ।

३४ - ८५ - यत् तावत् उच्यते च्ल्युत्सर्गः सामान्यग्रहणार्थः इति ।

३५ - ८५ - क्रियमाणे अपि वै च्ल्युत्सर्गे तानि एव त्रीणि ग्रहणानि भवन्ति ।

३६ - ८५ - च्लु लुङि च्लेः सिच् लेः इति ।

३७ - ८५ - यत् एतत् लेः इति तत् परार्थम् भविष्यति ।

३८ - ८५ - कथम् ।

३९ - ८५ - यत् एतत् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् एतत् लेः इति वक्ष्यामि ।

४० - ८५ - यदि लेः इति उच्यते धेटः चातुःशब्द्यम् प्राप्नोति ।

४१ - ८५ - अदधत् अधात् अधासीत् ।

४२ - ८५ - अदधात् इति अपि प्राप्नोति ।

४३ - ८५ - न चङः लुकि द्विर्वचनेन भवितव्यम् ।

४४ - ८५ - किम् कारणम् ।

४५ - ८५ - चङि इति उच्यते ।

४६ - ८५ - न च अत्र चङम् पश्यामः ।

४७ - ८५ - प्रत्ययलक्षणेन ।

४८ - ८५ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

४९ - ८५ - बहुवचने तर्हि चातुःशब्द्यम् प्राप्नोति ।

५० - ८५ - अदधन् अधुः अधासिषुः ।

५१ - ८५ - अधान् इति अपि प्राप्नोति ।

५२ - ८५ - न एषः दोषः ।

५३ - ८५ - आतः इति जुस्भावः भविष्यति ।

५४ - ८५ - न सिध्यति ।

५५ - ८५ - सिज्ग्रहणम् तत्र अनुवर्तते ।

५६ - ८५ - सिज्ग्रहणम् निवर्तिष्यते ।

५७ - ८५ - यदि निवर्तते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।

५८ - ८५ - एवम् तर्हि लुक् सिजपवादः विज्ञास्यते ।

५९ - ८५ - यदि लुक् सिजपवादः विज्ञायते मा हि दाताम् मा हि धाताम् इति अत्र आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति ।

६० - ८५ - तस्मात् न एतत् शक्यम् वक्तुम् लुक् सिजपवादः इति ।

६१ - ८५ - न चेत् उच्यते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।

६२ - ८५ - तस्मात् आतः इति अत्र सिज्ग्रहणम् अनुवर्त्यम् ।

६३ - ८५ - तस्मिन् च अनुवर्तमाने धेटः चातुःशब्द्यम् प्राप्नोति ।

६४ - ८५ - तस्मात् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् कर्तव्यम् ।

६५ - ८५ - तस्मिन् च क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति च्लि लुङि च्लेः सिच् लेः इति ।

६६ - ८५ - यत् अपि उच्यते क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः इति ।

६७ - ८५ - धातुम् एव अत्र अनिट्वेन विशेषयिष्यामः ।

६८ - ८५ - धातोः अनिटः इति ।

६९ - ८५ - कथम् पुनः धातुः नाम अनिट् स्यात् ।

७० - ८५ - धातुः एव अनिट् ।

७१ - ८५ - कथम् ।

७२ - ८५ - अनिमित्तम् वा इटः अनिटः न वा तस्मात् इट् अस्ति सः अयम् अनिट् इति ।

७३ - ८५ - अथ धातौ विशेष्यमाणे क्व यः अनिट् इति विशेषयिष्यसि ।

७४ - ८५ - किम् च अतः ।

७५ - ८५ - यदि विज्ञायते निष्ठायाम् अनिटः इति भूयिष्ठेभ्यः प्राप्नोति ।

७६ - ८५ - भूयिष्ठाः हि शलन्ताः इगुपधाः निष्ठायाम् अनिटः ।

७७ - ८५ - अथ विज्ञायते लिटि यः अनिट् इति न कुतः चित् प्राप्नोति ।

७८ - ८५ - सर्वे हिस् शलन्ताः इगुपधाः लिटि सेटः ।

७९ - ८५ - किम् पुनः कारणम् धातौ विशेष्यमाणे एतयोः विशेषयोः विशेषयिष्यते ।

८० - ८५ - न पुनः अत्र सामान्येन इटः विधिप्रतिषेधौ ।

८१ - ८५ - क्व सामन्येन ।

८२ - ८५ - वलादौ आर्धधातुके ।

८३ - ८५ - यत् अपि उच्यते घस्ल्̥भावे च इति ।

८४ - ८५ - आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।

८५ - ८५ - तत्र आर्धधातुकसामान्ये घस्ल्̥भावे कृते लृदितः इति अङ् भविष्यति ।

१ - ५६ - किमर्थः चकारः ।

२ - ५६ - विशेषणार्थः ।

३ - ५६ - क्व विशेषणार्थेन अर्थः ।

४ - ५६ - सिचि वृद्धिः परस्मैपदेषु इति ।

५ - ५६ - सौ वृद्धिः इति उच्यमाने अग्निः वायुः इति अत्र अपि प्रसज्येत ।

६ - ५६ - न एतत् अस्ति प्रयोजनम् ।

७ - ५६ - परस्मैपदेषु इति उच्यते ।

८ - ५६ - न च अत्र परस्मैपदम् पश्यामः ।

९ - ५६ - स्वरार्थः तर्हि ।

१० - ५६ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

११ - ५६ - एतत् अपि न अस्ति प्रयोजनम् ।

१२ - ५६ - अनच्कः अयम् ।

१३ - ५६ - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

१४ - ५६ - इटि कृते साच्कः भविष्यति ।

१५ - ५६ - तत्र प्रत्ययाद्युदात्तत्वेन इटः उदात्तत्वम् भविष्यति ।

१६ - ५६ - न सिध्यति ।

१७ - ५६ - आगमाः अनुदात्ताः भवन्ति इति अनुदात्तत्वम् प्राप्नोति ।

१८ - ५६ - अतः उत्तरम् पठति ।

१९ - ५६ - सिचः चित्करणानर्थक्यम् स्थानिवत्वात् ।

२० - ५६ - सिचः चित्करणम् नर्थयम् ।

२१ - ५६ - किम् कारणम् ।

२२ - ५६ - स्थानिवत्वात् ।

२३ - ५६ - स्थानिवद्भावात् चित् भविष्यति ।

२४ - ५६ - अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् ।

२५ - ५६ - अर्थवत् तु चित्करणम् ।

२६ - ५६ - कः अर्थः ।

२७ - ५६ - चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् भविष्यति ।

२८ - ५६ - न अप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वम् आरभ्यते ।

२९ - ५६ - तत् यथा एव प्रत्ययस्वरम् बाधते एवम् स्थानिवद्भावात् अपि या प्राप्तिः ताम् अपि बाधेत ।

३० - ५६ - तस्मात् चित्करणम् ।

३१ - ५६ - तस्मात् चकारः कर्तव्यः ।

३२ - ५६ - अथ इदित्करणम् किमर्थम् ।

३३ - ५६ - इदित्करणम् नकारलोपाभावार्थम् ।

३४ - ५६ - इदित्करणम् क्रियते नकारलोपः मा भूत् इति ।

३५ - ५६ - अमंस्त अमंस्थाः ।

३६ - ५६ - अनिदिताम् हलः उपधायाः क्ङिति इति ।

३७ - ५६ - न वा हन्तेः सिचः कित्करणम् नकारलोपाभावस्य ।

३८ - ५६ - न वा एतत् प्रयोजनम् अस्ति ।

३९ - ५६ - किम् कारणम् ।

४० - ५६ - यत् अयम् हनः सिच् इति हन्तेः सिचः कित्त्वम् शास्ति तत् ज्ञापयति आचार्यः न सिजन्तस्य नकार्लोपः भवति इति ।

४१ - ५६ - न एतत् अस्ति ज्ञापकम् ।

४२ - ५६ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

४३ - ५६ - किम् ।

४४ - ५६ - सिचि एव नलोपः यथा स्यात् ।

४५ - ५६ - परस्मिन् निमित्ते मा भूत् इति ।

४६ - ५६ - कः पुनः अत्र विशेषः सिचि वा नलोपे सति परस्मिन् वा निमित्ते ।

४७ - ५६ - अयम् अस्ति विशेषः ।

४८ - ५६ - सिचि नलोपे सति नलोपस्य असिद्धत्वात् अकारलोपः न भवति ।

४९ - ५६ - परस्मिन् पुनः निमित्ते नलोपे सति अकारलोपः प्राप्नोति ।

५० - ५६ - समानाश्रयम् असिद्धम् व्याश्रयम् च इदम् ।

५१ - ५६ - ननु च परस्मिन् अपि निमित्ते नलोपे सति अकारलोपः न भविष्यति ।

५२ - ५६ - कथम् ।

५३ - ५६ - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति टत् एतत् हन्तेः सिचः कित्करणम् ज्ञापकम् एव न सिजन्तस्य नलोपः भवति इति ।

५४ - ५६ - इदित्त्वात् वा स्थानिवत्त्वात् ।

५५ - ५६ - अथ अपि अनेन इदिता अर्थः स्यात् ।

५६ - ५६ - अयम् आदेशः स्थानिवद्भावात् इदित् भविष्यति.

१ - ५४ - स्पृशमृशकृषतृपदृपः सिच् वा ।

२ - ५४ - स्पृश्मृशकृषतृपदृपः सिच् वा इति वक्तव्यम् ।

३ - ५४ - स्पृश ।

४ - ५४ - अस्पृक्षत् अस्प्राक्षीत् ।

५ - ५४ - स्पृश ।

६ - ५४ - मृश ।

७ - ५४ - अमृक्षत् अम्राक्षीत् ।

८ - ५४ - मृश ।

९ - ५४ - कृष ।

१० - ५४ - अकृक्षत् अक्राक्षीत् ।

११ - ५४ - कृष ।

१२ - ५४ - तृप ।

१३ - ५४ - अतृपत् अत्राप्सीत् ।

१४ - ५४ - तृप ।

१५ - ५४ - दृप ।

१६ - ५४ - अदृपत् अद्रप्सीत् ।

१७ - ५४ - किम् प्रयोजनम् ।

१८ - ५४ - सिच् यथा स्यात ।

१९ - ५४ - अथ क्सः सिद्धः ।

२० - ५४ - सिद्धः शलः इगुपधात् अनिटः इति ।

२१ - ५४ - सिच् अपि सिद्धः ।

२२ - ५४ - कथम् ।

२३ - ५४ - च्लेः चित्करणम् प्रत्याख्यायते ।

२४ - ५४ - तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात् क्सः न भविष्यति ।

२५ - ५४ - यदि एवम् अन्त्यसय सिजादयः प्राप्नुवन्ति ।

२६ - ५४ - सिद्धम् तु सिचः यादित्वात् ।

२७ - ५४ - सिद्धम् एतत् ।

२८ - ५४ - कथम् ।

२९ - ५४ - यादिः सिच् करिष्यते ।

३० - ५४ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

३१ - ५४ - किम् न श्रूयते यकारः ।

३२ - ५४ - लुप्तनिर्दिष्टः यकारः ।

३३ - ५४ - चङङोः कथम् ।

३४ - ५४ - चङङोः प्रश्लिष्टनिर्देशात् सिद्धम् ।

३५ - ५४ - चङङोः अपि प्रश्लिष्टनिर्देशः अयम् ॒ च अङ् चङ् अ अङ् अङ् ।

३६ - ५४ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

३७ - ५४ - चिणः कथम् ।

३८ - ५४ - चिणः अनित्त्वात् सिद्धम् ।

३९ - ५४ - चिणः अनित्त्वात् सिद्धम् ।

४० - ५४ - किम् इदम् अनित्त्वात् ।

४१ - ५४ - अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।

४२ - ५४ - असत्यायाम् प्रत्ययसञ्ज्ञयाम् इत्सञ्ज्ञा न. असत्याम् इत्सञ्ज्ञायाम् लोपः न ।

४३ - ५४ - असति लोपे अनेकाल् ।

४४ - ५४ - यदा अनेकाल् तदा सर्वादेशः ।

४५ - ५४ - यदा सर्वादेशः तदा प्रययः ।

४६ - ५४ - यदा प्रत्ययः तदा इत्सञ्ज्ञा ।

४७ - ५४ - यदा इत्सञ्ज्ञा तदा लोपः ।

४८ - ५४ - एवम् च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनम् चित्करणम् इति ।

४९ - ५४ - अपि च त्रैशब्द्यम् न प्रकल्पते ।

५० - ५४ - अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षीत् इति न सिध्यति ।

५१ - ५४ - सिचि पुनः सति विभाषा सिच् ।

५२ - ५४ - सिचि अपि झल्लक्षणः अमागमः विभाषा ।

५३ - ५४ - यस्य खलु अपि अमा निमित्तम् न विहन्यते सः स्यात् एव ।

५४ - ५४ - तस्मात् सुष्ठु उच्यते स्पृश्मृशकृषतृपदृपः सिच् वा इति

१ - ३५ - क्सविधाने इगुपधाभावः च्लेः गुणनिमित्तत्वात् ।

२ - ३५ - क्सविधाने इगुपधाभावः ।

३ - ३५ - किम् कारणम् ।

४ - ३५ - च्लेः गुणनिमित्तत्वात् ।

५ - ३५ - च्लिः गुणनिमित्तम् ।

६ - ३५ - तत्र च्लौ एव गुणे कृते इगुपधात् इति क्सः न प्राप्नोति ।

७ - ३५ - न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य ।

८ - ३५ - न वा एषः दोषः ।

९ - ३५ - किम् कारणम् ।

१० - ३५ - क्सस्य अनवकाशत्वात् ।

११ - ३५ - अनवकाशः क्सः गुणम् बाधिष्यते ।

१२ - ३५ - अनिड्वचनम् अविशेषणम् च्लेः नित्यादिष्टत्वात् ।

१३ - ३५ - अनिड्वचनम् अविशेषणम् ।

१४ - ३५ - किम् कारणम् ।

१५ - ३५ - च्लेः नित्यादिष्टत्वात् ।

१६ - ३५ - नित्यादिष्टः च्लिः न क्व चित् श्रूयते ।

१७ - ३५ - तत्र च्लेः अनिटः इति क्सः न प्राप्नोति ।

१८ - ३५ - न वा क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिटि प्रसिद्धे क्सविद्धिः ।

१९ - ३५ - न वा एषः दोषः ।

२० - ३५ - किम् कारणम् ।

२१ - ३५ - क्सस्य सिजपवादत्वात् ।

२२ - ३५ - सिजपवादः क्सः ।

२३ - ३५ - सः च अनिडाश्रयः ।

२४ - ३५ - न च अपवादविषये उपसर्गः अभिनिविशते ।

२५ - ३५ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

२६ - ३५ - प्रकल्प्य वा अपवादविषयम् उत्सर्गः अभिनिविशते ।

२७ - ३५ - तत् न तावत् अत्र कदा चित् सिच् भवति ।

२८ - ३५ - अपवादम् क्सम् प्रतीक्षते ।

२९ - ३५ - क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिट्त्वम् प्रसिद्धम् ।

३० - ३५ - अनिटि प्रसिद्धे क्सविद्धिः ।

३१ - ३५ - अनिटि प्रसिद्धे क्सः भविष्यति ।

३२ - ३५ - सिच् इदानीम् क्व भविष्यति ।

३३ - ३५ - शेषे सिज्विधानम् ।

३४ - ३५ - शेषे सिज्विधानम् भविष्यति ।

३५ - ३५ - अकोषीत् अमोषीत् इति ।

१ - ५२ - किमर्थम् इदम् उच्यते ।

२ - ५२ - नियमार्थम् ।

३ - ५२ - श्लिषः आलिङ्गने एव क्सः यथा स्यात् ।

४ - ५२ - इह मा भूत् ॒ उपाश्लिषत् जतु च काष्ठम् च ।

५ - ५२ - समाश्लिषत् ब्राह्मणकुलम् इति ।

६ - ५२ - अतः उत्तरम् पठति ।

७ - ५२ - श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् ।

८ - ५२ - श्लिषः आलिङ्गने नियमस्य अनुपपत्तिः ।

९ - ५२ - किम् कारणम् ।

१० - ५२ - विधेयभावात् ।

११ - ५२ - कैमर्थक्यात् नियमः भवति ।

१२ - ५२ - विधेयम् न अस्ति इति कृत्वा ।

१३ - ५२ - इह च अस्ति विधेयम् ।

१४ - ५२ - किम् ।

१५ - ५२ - पुषादिपाठात् अङ् प्राप्तः ।

१६ - ५२ - तद्बाधनार्थः क्सः विधेयः ।

१७ - ५२ - तत्र अपूर्वः विधिः अस्तु नियमः वा इति अपूर्वः एव विधिः स्यात् न नियमः ।

१८ - ५२ - किम् च स्यात् यदि अयम् नियमः न स्यात् ।

१९ - ५२ - आत्मनेपदेषु आलिङ्गने च क्सः प्रसज्येत ।

२० - ५२ - यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत ।

२१ - ५२ - उपाश्लेषि कन्या देवदत्तेन इति ।

२२ - ५२ - सिद्धम् तु श्लिषः आलिङ्गने अचिण्विषये ।

२३ - ५२ - सिद्धम् एतत् ।

२४ - ५२ - कथम् ।

२५ - ५२ - श्लिषः आलिङ्गने अचिण्विषये क्सः भवति इति वक्तव्यम् ।

२६ - ५२ - अङ्विधाने च श्लिषः अनालिङ्गने ।

२७ - ५२ - अङ्विधाने च श्लिषः अनालिङ्गने इति वक्तव्यम् ।

२८ - ५२ - सिध्यति ।

२९ - ५२ - सूत्रम् तर्हि भिद्यते ।

३० - ५२ - यथान्यासम् एव अस्तु ।

३१ - ५२ - ननु च उक्तम् श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् इति ।

३२ - ५२ - न एषः दोषः ।

३३ - ५२ - योगविभागात् सिद्धम् ।

३४ - ५२ - योगविभागः करिष्यते ।

३५ - ५२ - श्लिषः ।

३६ - ५२ - श्लिषः क्सः भवति ।

३७ - ५२ - किमर्थम् इदम् ।

३८ - ५२ - पुषादिपाठात् अङ् प्राप्नोति ।

३९ - ५२ - तद्बाधनार्थम् ।

४० - ५२ - ततः आलिङ्गने ।

४१ - ५२ - आलिङ्गने च श्लिषः क्सः भवति ।

४२ - ५२ - इदम् इदानीम् किमर्थम् ।

४३ - ५२ - नियमार्थम् ।

४४ - ५२ - श्लिषः आलिङ्गने एव ।

४५ - ५२ - क्व मा भूत् ।

४६ - ५२ - उपाश्लिषत् जतु च काष्ठम् च ।

४७ - ५२ - समाश्लिषत् ब्राह्मणकुलम् इति ।

४८ - ५२ - यत् अपि उच्यते यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत इति ।

४९ - ५२ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति एवम् क्सः अङम् बाधिष्यते ।

५० - ५२ - चिणम् न बाधिष्यते ।

५१ - ५२ - अथ वा तत्र वक्ष्यति ॒ चिण्ग्रहणस्य प्रयोजनम् चिण् एव यथा स्यात् ।

५२ - ५२ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

१ - २४ - णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् । णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् कर्तव्यम् ।

२ - २४ - नाकम् इष्टमुखम् यान्ति सुयुक्तैः वडवारथैः ।

३ - २४ - अथ पत्काषीणः यान्ति ये अचीकमतभाषिणः ।

४ - २४ - कर्मकर्तरि च ।

५ - २४ - कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् ।

६ - २४ - कारयति कटम् देवदत्तः ।

७ - २४ - अचीकरत कटः स्वयम् एव ।

८ - २४ - उच्छ्रययति कटम् देवदत्तः ।

९ - २४ - औदशिश्रियत कटः स्वयम् एव ।

१० - २४ - न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् ।

११ - २४ - न वा कर्तव्यम् ।

१२ - २४ - किम् कारणम् ।

१३ - २४ - कर्मणि अविधानात् ।

१४ - २४ - न हि कः चित् कर्मणि विधीयते यः चङम् बाधेत ।

१५ - २४ - कर्तृत्वात् च कर्मकर्तुः सिद्धम् ।

१६ - २४ - अस्ति च कर्मकर्तरि कर्तृत्वम् इति कृत्वा चङ् भविष्यति ।

१७ - २४ - ननु च अयम् कर्मणि विधीयते ।

१८ - २४ - चिण् भावकर्मणोः इति ।

१९ - २४ - प्रतिषिध्येते तत्र यक्चिणौ ।

२० - २४ - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति ।

२१ - २४ - यः तर्हि अहेतुमण्णिच् ।

२२ - २४ - उदपुपुच्छत गौः स्वयम् एव ।

२३ - २४ - अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन ।

२४ - २४ - यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञाम् आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।

१ - ११ - अस्यतिग्रहणम् किमर्थम् ।

२ - ११ - अस्यतिग्रहणम् आत्मनेपदार्थम् ।

३ - ११ - अस्यतिग्रहणम् आत्मनेपदार्थम् द्रष्टव्यम् ।

४ - ११ - किम् उच्यते आत्मनेपदार्थम् इति ।

५ - ११ - न पुनः परस्मैपदार्थम् अपि स्यात् ।

६ - ११ - पुषादित्वात् ।

७ - ११ - पुषादिपाठात् परस्मैपदेषु अङ् भविष्यति ।

८ - ११ - कर्मकर्तरि च ।

९ - ११ - कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् ।

१० - ११ - पर्यास्थेताम् कुण्डले स्वयम् एव ।

११ - ११ - अत्र अपि न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् इति एव ।

१ - ९ - इदम् लुचिग्रहणम् ग्लुञ्चिग्रहणम् च क्रियते ।

२ - ९ - अन्यतरत् शक्यम् अकर्तुम् ।

३ - ९ - कथम् ।

४ - ९ - यदि तावत् ग्लुचिग्रहणम् क्रियते ग्लुञ्चिग्रहणम् न करिष्यते ।

५ - ९ - तेन एव सिद्धम् न्यग्लुचत् न्यग्लोचीत् ।

६ - ९ - इदम् इदानीम् ग्लुञ्चेः रूपम् न्यग्लुञ्चीत् ।

७ - ९ - अथ ग्लुञ्चिग्रहणम् क्रियते ग्लुचेः ग्रहणम् न करिष्यते ।

८ - ९ - तेन एव सिद्धम् न्यग्लुचत् न्यग्लुञ्चीत् ।

९ - ९ - इदम् इदानीम् ग्लुचेः रूपम् न्यग्लोचीत् ।

१ - ५ - अयम् तशब्दः अस्ति एव आत्मनेपदम् अस्ति परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् ।

२ - ५ - कस्य इदम् ग्रहणम् ।

३ - ५ - यः पदेः अस्ति ।

४ - ५ - कः च पदेः अस्ति ।

५ - ५ - पदिः अयम् आत्मनेपदी ।

१ - ८ - चिण् इति वर्तमाने पुनः चिण्ग्रहणम् किमर्थम् ।

२ - ८ - न इति एवम् तत् अभूत् ।

३ - ८ - विध्यर्थम् इदम् ।

४ - ८ - अथ वा वा इति एवम् तत् अभूत् ।

५ - ८ - नित्यार्थम् इदम् ।

६ - ८ - अथ वा चिण् इति वर्तमाने पुनः चिण्ग्रहणस्य एतत् प्रयोजनम् ।

७ - ८ - चिण् एव यथा स्यात् ।

८ - ८ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

१ - ४५ - इह पश्यामः कर्मणि द्विवचनबहुवचनानि उदाह्रियन्ते ।

२ - ४५ - पच्येते* ओदनौ , पच्यन्ते ओदनाः इति ।

३ - ४५ - भावे पुनः एकवचनम् एव ॒ आस्यते भवता , आस्यते भवद्भ्याम् , आस्यते भवद्भिः इति ।

४ - ४५ - केन एतत् एवम् भवति ।

५ - ४५ - कर्म अनेकम् ।

६ - ४५ - तस्य अनेकत्वात् द्विवचनबहुवचनानि भवन्ति ।

७ - ४५ - भावः पुनः एकः एव ।

८ - ४५ - कथम् तर्हि इह द्विवचनबहुवचनानि भवन्ति ।

९ - ४५ - पाकौ पाकाः इति ।

१० - ४५ - आश्रयभेदात् ।

११ - ४५ - यत् असौ द्रव्यम् श्रितः भवति भावः तस्य भेदात् द्विवचनबहुवचनानि भवन्ति ।

१२ - ४५ - इह अपि तर्हि यावन्तः ताम् क्रियाम् कुर्वन्ति सर्वे ते तस्याः आश्रया भवन्ति ।

१३ - ४५ - तद्भेदात् द्विवचनबहुवचनानि प्राप्नुवन्ति ।

१४ - ४५ - एवम् तर्हि इदम् तावत् अयम् प्रष्टव्यः ।

१५ - ४५ - किम् अभिसमीक्ष्य एतत् प्रयुज्यते ।

१६ - ४५ - पाकौ पाकाः इति ।

१७ - ४५ - यदि तावत् पाकविशेषान् अभिसमीक्ष्य यः च ओदनस्य पाकः यः च गुडस्य यः च तिलानाम् बहवः ते शब्दाः सरूपाः च ।

१८ - ४५ - तत्र युक्तम् बहुवचनम् एकशेषः च ।

१९ - ४५ - तिङभिहिते च अपि तदा भावे बहुवचनम् श्रूयते ।

२० - ४५ - तत् यथा ॒ उष्टृआसिका आस्यन्ते ।

२१ - ४५ - हतशायिकाः शय्यन्ते इति ।

२२ - ४५ - अथ कालविशेषान् अभिसमीक्ष्य यः च अद्यतनः पाकः यः ह्यस्तनः यः श्वस्तनः ते अपि बहवः शब्दाः सरूपाः च ।

२३ - ४५ - तत्र युक्तम् बहुवचनम् एकशेषः च ।

२४ - ४५ - तिङभिहिते च अपि तदा भावे असारूप्यात् एकशेषः न भवति ।

२५ - ४५ - आसि आस्यते , आसिष्यते ।

२६ - ४५ - अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।

२७ - ४५ - कृदभिहितः भावः द्रव्यवत् भवति ।

२८ - ४५ - किम् इदम् द्रव्यवत् इति ।

२९ - ४५ - द्रव्यम् क्रियया समवायम् गच्छति ।

३० - ४५ - कम् समवायम् ।

३१ - ४५ - द्रव्यम् क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति ।

३२ - ४५ - तद्वत् च अस्य भावस्य कृदभिहितस्य भवति ।

३३ - ४५ - पाकः वर्तते इति ।

३४ - ४५ - क्रियावत् न भवति ।

३५ - ४५ - किम् इदम् क्रियावत् इति ।

३६ - ४५ - क्रिया क्रियया समवायम् न गच्छति ।

३७ - ४५ - पचति पठति इति ।

३८ - ४५ - तद्वच् च अस्य कृतभिहितस्य न भवति ।

३९ - ४५ - पाकः वर्तते इति ।

४० - ४५ - अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।

४१ - ४५ - तिङभिहितेन भावेन कालपुरुषोपग्रहाः अभिव्यज्यन्ते ।

४२ - ४५ - कृदभिहितेन पुनः न व्यज्यन्ते ।

४३ - ४५ - अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।

४४ - ४५ - तिङभिहितः भावः कर्त्रा सम्प्रयुज्यते. कृदभिहितः पुनः न सम्प्रयुज्यते ।

४५ - ४५ - यावता किम् चित् सामान्यम् कः चित् विशेषः युक्तम् यत् अयम् अपि विशेषः स्यात् लिङ्गकृतः सङ्ख्याकृतः च इति ।

१ - ५३ - इदम् विचार्यते ।

२ - ५३ - भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति ।

३ - ५३ - कथम् च सार्वधातुकार्थः स्युः कथम् वा विकरणार्थाः ।

४ - ५३ - भावकर्मवाचिनि सार्वधातुके यक् भवति कर्तृवाचिनि शर्वधातुके शप् भवति इति सार्वधातुकार्थाः ।

५ - ५३ - भावकर्मणोः यग् भवति सार्वधातुके कर्तरि शप् भवति सार्वधातुके इति विकरणार्थाः ।

६ - ५३ - कः च अत्र विशेषः ।

७ - ५३ - भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् ।

८ - ५३ - भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमस्य अनुपपत्तिः ।

९ - ५३ - किम् कारणम् ।

१० - ५३ - अतदर्थत्वात् ।

११ - ५३ - न हि तदानीम् एकत्वादयः एव विभक्त्यर्थाः ।

१२ - ५३ - किम् तर्हि भावकर्मकर्तारः अपि ।

१३ - ५३ - सन्तु तर्हि विकरणार्थाः ।

१४ - ५३ - विकरणार्थाः इति चेत् कृता अभिहिते विकरणाभावः ।

१५ - ५३ - विकरणार्थाः इति चेत् कृता अभिहिते विकरणः न प्राप्नोति ।

१६ - ५३ - धारयः पारयः इति ।

१७ - ५३ - किम् उच्यते कृता अभिहिते ।

१८ - ५३ - न लेन अपि अभिधानम् भवति ।

१९ - ५३ - अशक्यम् लेन अभिधानम् आश्रयितुम् ।

२० - ५३ - पक्षान्तरम् इदम् आस्थितम् भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति ।

२१ - ५३ - यदि च लेन अपि अभिधानम् स्यात् न इदम् पक्षान्तरम् स्यात् ।

२२ - ५३ - कथम् अशक्यम् यदा भवान् एव आह लः कर्मणि च भावे च अकर्मकेभ्यः इति ।

२३ - ५३ - एवम् वक्ष्यामि ।

२४ - ५३ - लः कर्मणः भावात् च अकर्मकेभ्यः ।

२५ - ५३ - यस्मिन् तर्हि ले विकरणाः न श्रूयन्ते कः तत्र भावकर्मकर्तृ̄न् अभिधास्यति ।

२६ - ५३ - क्व च न श्रूयन्ते ।

२७ - ५३ - ये एते लुग्विकरणाः श्लुविकरणाः च ।

२८ - ५३ - अत्र अपि उक्ते कर्तृत्वे लुक् भविष्यति ।

२९ - ५३ - यस्मिन् तर्हि ले विकरणाः न एव उत्पद्यन्ते कः तत्र भावकर्मकर्तृ̄न् अभिधास्यति ।

३० - ५३ - क्व च न एव उत्पद्यन्ते ।

३१ - ५३ - लिङ्लिटोः ।

३२ - ५३ - तस्मात् न एतत् शक्यम् वक्तुम् ।

३३ - ५३ - न लेन अभिधानम् भवति इति ।

३४ - ५३ - भवति चेत् अभिहिते विकरणाभावः एव ।

३५ - ५३ - एवम् तर्हि इदम् स्यात् ।

३६ - ५३ - यदा भावकर्मणोः लः तदा कर्तरि विकरणाः ।

३७ - ५३ - यदा कर्तरि लः तदा भावकर्मणोः विकरणाः ।

३८ - ५३ - इदम् अस्य यदि एव स्वाभाविकम् अथ अपि वाचनिकम् ॒ प्रकृतिप्रत्ययौ प्रत्ययार्थम् सह ब्रूतः इति ।

३९ - ५३ - न च अस्ति सम्भवः यत् एकस्याः प्रकृतेः द्वयोः नानार्थयोः युगपत् अनुसहायीभावः स्यात् ।

४० - ५३ - एवम् च कृत्वा एकपक्षीभूतम् इदम् भवति ॒ सार्वधातुकार्थाः एव इति ।

४१ - ५३ - ननु च उक्तम् भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् इति ।

४२ - ५३ - न एषः दोषः ।

४३ - ५३ - सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।

४४ - ५३ - तथा तिङाम् ।

४५ - ५३ - प्रसिद्धः नियमः तत्र ।

४६ - ५३ - प्रसिद्धः तत्र नियमः ।

४७ - ५३ - नियमः प्रकृतेषु वा ।

४८ - ५३ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

४९ - ५३ - के च प्रकृताः ।

५० - ५३ - एकत्वादयः ।

५१ - ५३ - एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।

५२ - ५३ - द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।

५३ - ५३ - बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।

१ - ८७ - भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् । भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् कर्तव्यम् ।

२ - ८७ - पच्यते स्वयम् एव ।

३ - ८७ - पठ्यते स्वयम् एव ।

४ - ८७ - किम् पुनः कारणम् न सिध्यति ।

५ - ८७ - विप्रतिषेधात् हि शपः बलीयस्त्वम् । विप्रतिषेधात् हि शपः बलीयस्त्वम् प्राप्नोति ।

६ - ८७ - शपः अवकाशः ।

७ - ८७ - पचति पठति ।

८ - ८७ - यकः अवकाशः ।

९ - ८७ - पच्यते ओदनः देवदत्तेन ।

१० - ८७ - पठ्यते विद्या देवदत्तेन ।

११ - ८७ - इह उभयम् प्राप्नोति ।

१२ - ८७ - पच्यते स्वयम् एव ।

१३ - ८७ - पठ्यते स्वयम् एव ।

१४ - ८७ - परत्वात् शप् प्राप्नोति ।

१५ - ८७ - योगविभागात् सिद्धम् ।

१६ - ८७ - योगविभागः करिष्यते ।

१७ - ८७ - चिण् भावकर्मणोः ।

१८ - ८७ - सार्वधातुके यक् भावकर्मणोः ।

१९ - ८७ - ततः कर्तरि ।

२० - ८७ - कर्तरि च यक् भवति भावकर्मणोः ।

२१ - ८७ - यथा एव तर्हि कर्मणि कर्तरि यक् भवति एवम् भावे कर्तरि प्राप्नोति ।

२२ - ८७ - एति जीवन्तम् आनन्दः ।

२३ - ८७ - न अस्य किम् चित् रुजति रोगः इति ।

२४ - ८७ - द्वितीयः योगविभागः करिष्यते ।

२५ - ८७ - चिण् भावे ।

२६ - ८७ - ततः कर्मणि ।

२७ - ८७ - कर्मणि च चिण् भवति ।

२८ - ८७ - ततः सार्वधातुके यक् भवति भावे च कर्मणि च ।

२९ - ८७ - ततः कर्तरि ।

३० - ८७ - कर्तरि च यक् भवति ।

३१ - ८७ - कर्मणि इति अनुवर्तते ।

३२ - ८७ - भावे इति निवृत्तम् ।

३३ - ८७ - ततः शप् ।

३४ - ८७ - शप् च भवति ।

३५ - ८७ - कर्तरि इति एव ।

३६ - ८७ - कर्मणि इति अपि निवृत्तम् ।

३७ - ८७ - एवम् अपि उपसङ्ख्यानम् कर्तव्यम् ।

३८ - ८७ - विप्रतिषेधात् हि श्यनः बलीयस्त्वम् प्राप्नोति ।

३९ - ८७ - श्यनः अवकाशः ।

४० - ८७ - दीव्यति सीव्यति ।

४१ - ८७ - यकः अवकाशः ।

४२ - ८७ - पच्यते ओदनः देवदत्तेन ।

४३ - ८७ - पठ्यते विद्या देवदत्तेन ।

४४ - ८७ - इह उभयम् प्राप्नोति ।

४५ - ८७ - दीव्यते स्वयम् एव ।

४६ - ८७ - सीव्यते स्वयम् एव ।

४७ - ८७ - परत्वात् श्यन् प्राप्नोति ।

४८ - ८७ - ननु च एतत् अपि योगविभागात् एव सिद्धम् ।

४९ - ८७ - न सिध्यति ।

५० - ८७ - अनन्तरा या प्रप्तिः सा योगविभागेन शक्या बाधितुम् ।

५१ - ८७ - कुतः एतत् ।

५२ - ८७ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

५३ - ८७ - परा प्राप्तिः अप्रतिषिद्धा ।

५४ - ८७ - तया प्राप्नोति ।

५५ - ८७ - ननु च इयम् प्राप्तिः पराम् प्राप्तिम् बाधेत ।

५६ - ८७ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

५७ - ८७ - एवम् तर्हि शबादेशाः श्यनादयः करिष्यन्ते ।

५८ - ८७ - शप् च स्यादिभिः बाध्यते ।

५९ - ८७ - तत्र दिवादिभ्यः यग्विषये शप् एव न अस्ति कुतः श्यनादयः ।

६० - ८७ - तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

६१ - ८७ - न कर्तव्यम् ।

६२ - ८७ - प्रकृतम् अनुवर्तते ।

६३ - ८७ - क्व प्रकृतम् ।

६४ - ८७ - कर्तरि शप् इति ।

६५ - ८७ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

६६ - ८७ - दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

६७ - ८७ - प्रत्ययविधिः अयम् ।

६८ - ८७ - न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

६९ - ८७ - न अयम् प्रत्ययविधिः ।

७० - ८७ - विहितः प्रत्ययः ।

७१ - ८७ - प्रकृतः च अनुवर्तते ।

७२ - ८७ - अथ वा भावकर्मणोः इति अनुवृत्त्या एव सिद्धे सति अनिवृत्तिः यकः भावाय ।इह सार्वधातुके यक् इति अन्तरेण भावकर्मणोः इति अनुवृत्तिम् सिद्धम् ।

७३ - ८७ - सः अयम् एवम् सिद्धे सति यत् भावकर्मणोः इति अनुवर्तयति तस्य एतत् प्रयोजनम् ।

७४ - ८७ - कर्मकर्तरि अपि यथा स्यात् ।

७५ - ८७ - कर्तरि इति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय ।

७६ - ८७ - कर्तरि इति योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधम् मा वोचम् इति ।

७७ - ८७ - अथ वा कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति ।

७८ - ८७ - अस्ति अन्यत् कर्मवद्भाववचने प्रयोजनम् ।

७९ - ८७ - किम् ।

८० - ८७ - आत्मनेपदम् यथा स्यात् ।

८१ - ८७ - वचनात् आत्मनेपदम् भविष्यति ।

८२ - ८७ - चिण् तर्हि यथा स्यात् ।

८३ - ८७ - चिण् अपि वचनात् भविष्यति ।

८४ - ८७ - चिण्वद्भावः तर्हि यथा स्यात् ।

८५ - ८७ - न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति ।

८६ - ८७ - तत्र कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति ।

८७ - ८७ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति कर्मकर्तरि यक् इति यत् अयम् न दुहस्न्नुनमाम् यक्चिणौ इति यक्चिणोः प्रतिषेधम् शास्ति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP