संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद १| खण्ड ३४ पाद १ खण्ड ३१ खण्ड ३२ खण्ड ३३ खण्ड ३४ खण्ड ३५ खण्ड ३६ पाद १ - खण्ड ३४ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ३४ Translation - भाषांतर १ - ६४ - गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः ।२ - ६४ - गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः वक्तव्यः ।३ - ६४ - इयेष उवोष ।४ - ६४ - गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति ।५ - ६४ - गुरुमद्वचनम् इदानीम् किमर्थम् स्यात् ।६ - ६४ - गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादिप्रतिषेधाऋथम् ।७ - ६४ - गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादीनाम् मा भूत् इति ।८ - ६४ - इयज अहम् उवप अहम् ।९ - ६४ - उपदेशवचनात् सिद्धम् ।१० - ६४ - उपदेशे गुरुमतः इति वक्तव्यम् ।११ - ६४ - यदि उपदेशग्रहणम् क्रियते उच्छेः आम् वक्तव्यः ।१२ - ६४ - व्युच्छाम् चकार इति ।१३ - ६४ - ऋच्छिप्रतिषेधः ज्ञापकः उच्छेः आम्भावस्य ।१४ - ६४ - यत् अयम् अनृच्छः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः तुग्निमित्ता यस्य गुरुमत्ता भवति तस्मात् आम् इति ।१५ - ६४ - स तर्हि ज्ञापकार्थः ऋच्छिप्रतिषेधः वक्तव्यः ।१६ - ६४ - ननु च अवश्यम् प्राप्त्यर्थः अपि वक्तव्यः ।१७ - ६४ - न अर्थः प्राप्त्यर्थेन ।१८ - ६४ - ऋच्छत्यृ̄ताम् इति ऋच्छेः लिटि गुणवचनम् ज्ञापकम् न ऋच्छेः लिटि आम् भवति इति ।१९ - ६४ - न एतत् अस्ति ज्ञापकम् ।२० - ६४ - अर्त्यर्थम् एतत् स्यात् ।२१ - ६४ - कथम् पुनः ऋच्छेः लिटि गुणः उच्यमानः अर्त्यर्थः शक्यः विज्ञातुम् ।२२ - ६४ - सामर्थ्यात् ।२३ - ६४ - ऋच्छिः लिटि न अस्ति इति कृत्वा प्रकृत्यर्थम् विज्ञायते ।२४ - ६४ - तत् यथा ।२५ - ६४ - तिष्ठतेः इत् जिघ्रतेः वा इति चङि तिष्ठतिजिघ्रती न स्तः इति कृत्वा प्रकृत्यर्थम् विज्ञायते ।२६ - ६४ - किम् पुनः अर्तेः गुणवचने प्रयोजनम् ।२७ - ६४ - आरतुः आरुः एतत् रूपम् यथा स्यात् ।२८ - ६४ - किम् पुनः कारणम् न सिध्यति ।२९ - ६४ - द्विर्वचने कृते सवर्णदीर्घत्वे च यदि तावत् धातुग्रहणेन ग्रहणम् ऋ̄कारान्तानाम् लिटि गुणः भवति इति गुणे कृते रपरते अरतुः अरुः इति एतत् रूपम् प्रसज्येत ।३० - ६४ - अथ अभ्यासग्रहणेन ग्रहणम् उः अत्त्वम् रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् आतः लोपः इटि च इति आकारलोपः अतुः उः इति वचनम् एव श्रूयेत ।३१ - ६४ - गुण पुनः सति गुणे कृते रपरत्वे च द्विर्वचनम् अतः आदेः इति दीर्घत्वम् ।३२ - ६४ - ततः सिद्धम् भवति यथा आटतुः आटुः इति ।३३ - ६४ - किम् पुनः सवर्णदीर्घत्वम् तावत् भवति न पुनः उः अत्त्वम् ।३४ - ६४ - परत्वात् उः अत्त्वेन भवितव्यम् ।३५ - ६४ - अन्तरङ्गत्वात् ।३६ - ६४ - अन्तरङ्गम् सवर्णदीर्घत्वम् ।३७ - ६४ - बहिरङ्गम् उः अत्त्वम् ।३८ - ६४ - का अन्तरङ्गता ।३९ - ६४ - वर्णौ आश्रित्य सवर्णदीर्घत्वम् ।४० - ६४ - अङ्गस्य उः अत्त्वम् ।४१ - ६४ - उः अत्त्वम् अपि अन्तरङ्गम् ।४२ - ६४ - कथम् ।४३ - ६४ - वक्ष्यति एतत् ।४४ - ६४ - प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः इति ।४५ - ६४ - उभयोः अन्तरङ्गयोः परत्वात् उः अत्त्वम् ।४६ - ६४ - उः अत्त्वे कृते रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् परस्य रूपस्य यणादेशः ।४७ - ६४ - सिद्धम् भवति आरतुः आरुः इति ।४८ - ६४ - अथ अपि कथम् चित् अर्तेः लिटि गुणेन अर्थः स्यात् ।४९ - ६४ - एवम् अपि न दोषः ।५० - ६४ - ऋच्छत्यृ̄ताम् इति ऋकारः अपि निर्दिश्यते ।५१ - ६४ - कथम् ।५२ - ६४ - अयम् ।५३ - ६४ - ऋच्छति ऋ ऋताम् ऋच्छत्यृ̄ताम् इति ।५४ - ६४ - इह अपि तर्हि प्राप्नोति ।५५ - ६४ - चक्रतुः चक्रुः इति ।५६ - ६४ - संयोगादिग्रहणम् नियमार्थम् भविष्यति ।५७ - ६४ - संयोगादेः एव अकेवलस्य न अन्यस्य अकेवलस्य इति ।५८ - ६४ - तत् एतत् अन्तरेण अर्तेः लिटि गुणवचनम् रूपम् सिद्धम् अन्तरेण च ऋच्छिग्रहणम् अर्तेः लिटि गुणः सिद्धः ।५९ - ६४ - सः एषः अनन्यार्थः ऋच्छिप्रतिषेधः वक्तव्यः उच्छेः वा आम् वक्तव्यः ।६० - ६४ - उभयम् न वक्तव्यम् ।६१ - ६४ - उपदेशग्रहणम् न करिष्यते ।६२ - ६४ - कस्मात् न भवति इयेष उवोष ।६३ - ६४ - उक्तम् वा ।किम् उक्तम् ।६४ - ६४ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।१ - ११ - ऊर्णोतेः च उपसङ्ख्यानम् ।२ - ११ - ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् ।३ - ११ - प्रोर्णुनाव ।४ - ११ - न वक्तव्यम् ।५ - ११ - वाच्यः ऊर्णोः णुवद्भावः ।६ - ११ - यङ्प्रसिद्धिः प्रयोजनम् ।७ - ११ - आमः च प्रतिषेधार्थम् ।८ - ११ - एकाचः च इडुपग्रहात् । अथ वा उकारः अपि अत्र निर्दिश्यते ।९ - ११ - कथम् ।१० - ११ - अविभक्तिकः निर्देशः ।११ - ११ - अनृच्छ उ अनृच्छो दयायासः च इति ।१ - ११ - विदेः आम् कित् ।२ - ११ - विदेः आम् कित् वक्तव्यः ।३ - ११ - विदाम् चकार ।४ - ११ - न वक्तव्यः ।५ - ११ - विदिः अकारान्तः ।६ - ११ - यदि अकारान्तः वेत्ति इति गुणः न सिध्यति ।७ - ११ - लिट्सन्नियोगेन ।८ - ११ - एवम् अपि विवेद इति न सिध्यति ।९ - ११ - एवम् तर्हि आम्सन्नियोगेन ।१० - ११ - भारद्वाजीयाः पठन्ति ।११ - ११ - विदेः आम् कित् निपातनात् वा अगुणत्वम् इति ।१ - ३ - श्लुवदतिदेशे किम् प्रयोजनम् ।२ - ३ - श्लुवदतिदेशे प्रयोजनम् द्वित्वेत्त्वे ।३ - ३ - बिभराम् चकार ।१ - ७६ - किमर्थम् इदम् उच्यते ।२ - ७६ - अनुप्रयोगः यथा स्यात् ।३ - ७६ - न एतत् अस्ति प्रयोजनम् ।४ - ७६ - आमन्तम् अव्यक्तपदार्थकम् ।५ - ७६ - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।६ - ७६ - अतः उत्तरम् पठति ।७ - ७६ - कृञः अनुप्रयोगवचनम् अस्तिभूप्रतिषेधार्थम् ।८ - ७६ - कृञः अनुप्रयोगवचनम् क्रियते अस्तिभूप्रतिषेधार्थम् ।९ - ७६ - अस्तिभुवोः अनुप्रयोगः मा भूत् इति ।१० - ७६ - आत्मनेपदविध्यर्थम् च ।११ - ७६ - आत्मनेपदविध्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते ।१२ - ७६ - आत्मनेपदम् यथा स्यात् ।१३ - ७६ - उच्यमाने अपि एतस्मिन् अवश्यम् आत्मनेपदार्थः यत्नः कर्तव्यः ।१४ - ७६ - अस्तिभूप्रतिषेधार्थेन च अपि न अर्थः ।१५ - ७६ - इष्टः सर्वानुप्रयोगः ।१६ - ७६ - सर्वेषाम् एव कृभ्वस्तीनाम् अनुप्रयोगः इष्यते ।१७ - ७६ - किम् इष्यते एव आहोस्वित् प्राप्नोति अपि ।१८ - ७६ - इष्यते च प्राप्नोति च ।१९ - ७६ - कथम् ।२० - ७६ - कृञ् इति न एतत् धातुग्रहणम् ।२१ - ७६ - किम् तर्हि ।२२ - ७६ - प्रत्याहारग्रहणम् ।२३ - ७६ - क्व सन्निविष्टानाम् प्रत्याहारः ।२४ - ७६ - कृभ्वस्तियोगे इति अतः प्रभृति आ कृञः ञकारात् ।२५ - ७६ - सर्वानुप्रयोगः इति चेत् अशिष्यम् अर्थाभावात् ।२६ - ७६ - सर्वानुप्रयोगः इति चेत् अशिष्यम् कृञः अनुप्रयोगवचनम् ।२७ - ७६ - किम् कारणम् ।२८ - ७६ - अर्थाभावात् ।२९ - ७६ - आमन्तम् अव्यक्तपदार्थकम् ।३० - ७६ - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।३१ - ७६ - इदम् तर्हि प्रयोजनम् ।३२ - ७६ - कृभ्वस्तीनाम् एव अनुप्रयोगः यथा स्यात् पचादीनाम् मा भूत् इति ।३३ - ७६ - एतत् अपि न अस्ति प्रयोजनम् ।३४ - ७६ - अर्थाभावात् च अन्यस्य ।३५ - ७६ - अर्थाभावात् च अन्यस्य सिद्धम् ।३६ - ७६ - कृभ्वस्तयः क्रियासामान्यवाचिनः ।३७ - ७६ - क्रियाविशेषवाचिनः पचादयः ।३८ - ७६ - न च सामान्यवाचिनोः एव विशेषवाचिनोः एव व प्रयोगः भवति ।३९ - ७६ - तत्र विशेषवाचिनः उत्पत्तिः ।४० - ७६ - सामान्यवाचिनः अनुप्रयोक्ष्यन्ते ।४१ - ७६ - लिट्परार्थम् वा ।४२ - ७६ - लिट्परार्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते ।४३ - ७६ - लिट्परस्य एव अनुप्रयोगः यथा स्यात् ।४४ - ७६ - अन्यपरस्य मा भूत् इति ।४५ - ७६ - किम्परस्य पुनः प्राप्नोति ।४६ - ७६ - लट्परस्य ।४७ - ७६ - न लट्परस्य अनुप्रयोगेण भूतकालः विशेषितः स्यात् ।४८ - ७६ - निष्ठापरस्य तर्हि ।४९ - ७६ - ननिष्ठापरस्य अनुप्रयोगेण पुरुषोपग्रहौ विशेइषितौ स्याताम् ।५० - ७६ - लुङ्परस्य तर्हि ।५१ - ७६ - न लुङ्परस्य अनुप्रयोगेण अनद्यतनः भूतकालः विशेषितः स्यात् ।५२ - ७६ - लङ्परस्य तर्हि ।५३ - ७६ - न लङ्परस्य अनुप्रयोगेण अनद्यतनः परोक्षः कालः विशेषितः स्यात् ।५४ - ७६ - अयम् तर्हि भूते परोक्षे अनद्यतने लङ् विधीयते ।५५ - ७६ - हशश्वतोः लङ् च इति ।५६ - ७६ - तत्परस्य मा भूत् इति ।५७ - ७६ - अतत् अपि न अस्ति प्रयोजनम् ।५८ - ७६ - एकस्याः आकृतेः चरितः प्रयोगः द्वितीयस्याः तृतीयस्याः च न भवति ।५९ - ७६ - तत् यथा गोषु स्वामि अश्वेषु च इति ।६० - ७६ - न च भवति गोषु च अश्वानाम् च स्वामी इति ।६१ - ७६ - अर्थसमाप्तेः वा अनुप्रयोगः न स्यात् ।६२ - ७६ - अर्थसमाप्तेः तर्हि अनुप्रयोगः न स्यात् ।६३ - ७६ - आमन्तेन परिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः न स्यात् ।६४ - ७६ - एतत् अपि न अस्ति प्रयोजनम् ।६५ - ७६ - इदानीम् एव उक्तम् आमन्तम् अव्यक्तपदार्थकम् ।६६ - ७६ - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति इति ।६७ - ७६ - विपर्यासनिवृत्त्यर्थम् वा ।६८ - ७६ - विपर्यासनिवृत्त्यर्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते ।६९ - ७६ - ईहाम् चक्रे ।७० - ७६ - चक्रे ईहाम् इति मा भूत् ।७१ - ७६ - व्यवहित्निवृत्त्यर्थम् च ।७२ - ७६ - व्यवहित्निवृत्त्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते ।७३ - ७६ - अन्व् एव च अनुप्रयोगः यथा स्यात् ।७४ - ७६ - ईहाम् चक्रे ।७५ - ७६ - व्यवहितस्य मा भूत् ।७६ - ७६ - ईहाम् देवदत्तः चक्रे इति ।१ - ८५ - क्व अयम् च्लिः श्रूयते ।२ - ८५ - न क्व चित् श्रूयते ।३ - ८५ - सिजादयः आदेशाः उच्यन्ते ।४ - ८५ - यद् न क्व चित् श्रूयते किमर्थः तर्हि च्लुः उत्सर्गः क्रियते ।५ - ८५ - न सिच् उत्सर्गः एव कर्तव्यः ।६ - ८५ - तस्य क्सादयः अपवादाः भविष्यन्ति ।७ - ८५ - अत उत्तरम् पठति ।८ - ८५ - च्ल्युत्सर्गः सामान्यग्रहणार्थः ।९ - ८५ - च्लिः उत्सर्गः क्रियते सामान्यग्रहणार्थः ।१० - ८५ - क्व सामान्यग्रहणार्थेन अर्थः ।११ - ८५ - मन्त्र घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति ।१२ - ८५ - तत्र अवरतः त्रयाणाम् ग्रहणम् कर्तव्यम् स्यात् ।१३ - ८५ - चङङोः सिचः च ।१४ - ८५ - क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः । क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः च्लिः उत्सर्गः क्रियते ।१५ - ८५ - च्लेः अनिटः क्सः सिद्धः भवति ।१६ - ८५ - घस्ल्̥भावे च ।१७ - ८५ - घस्ल्̥भावे च च्लव् एव कृते लृदितः इति अङ् सिद्धः भवति ।१८ - ८५ - अथ चित्करणम् किमर्थम् ।१९ - ८५ - च्लेः चित्करणम् विशेषणाऋथम् ।२० - ८५ - च्लेः चित्करणम् क्रियते विशेषणार्थम् ।२१ - ८५ - क्व विशेषणार्थेन अर्थः ।२२ - ८५ - च्लेः सिच् इति ।२३ - ८५ - लेः सिच् इति उच्यमाने लिङ्लिटोः अपि प्रसज्येत ।२४ - ८५ - न एतत् अस्ति प्रयोजनम् ।२५ - ८५ - लुङि इति उच्यते ।२६ - ८५ - न च लुङि लिङ्लिटौ भवतः ।२७ - ८५ - अथ इदित्करणम् किमर्थम् ।२८ - ८५ - इदित्करणम् सामान्यग्रहणार्थम् । इदित्करणम् क्रियते च सामान्यग्रहणार्थम् ।२९ - ८५ - क्व सामान्यग्रहणार्थेन अर्थः ।३० - ८५ - मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति आमः इति च ।३१ - ८५ - इकारे च इदानीम् सामान्यग्रहणार्थे क्रियमाणे अवश्यम् सामान्यग्रहणाविघातार्थः चकारः कर्तव्यः ।३२ - ८५ - क्व सामान्यग्रहणाविघातार्थेन अर्थः चकारेण ।३३ - ८५ - अत्र एव ।३४ - ८५ - यत् तावत् उच्यते च्ल्युत्सर्गः सामान्यग्रहणार्थः इति ।३५ - ८५ - क्रियमाणे अपि वै च्ल्युत्सर्गे तानि एव त्रीणि ग्रहणानि भवन्ति ।३६ - ८५ - च्लु लुङि च्लेः सिच् लेः इति ।३७ - ८५ - यत् एतत् लेः इति तत् परार्थम् भविष्यति ।३८ - ८५ - कथम् ।३९ - ८५ - यत् एतत् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् एतत् लेः इति वक्ष्यामि ।४० - ८५ - यदि लेः इति उच्यते धेटः चातुःशब्द्यम् प्राप्नोति ।४१ - ८५ - अदधत् अधात् अधासीत् ।४२ - ८५ - अदधात् इति अपि प्राप्नोति ।४३ - ८५ - न चङः लुकि द्विर्वचनेन भवितव्यम् ।४४ - ८५ - किम् कारणम् ।४५ - ८५ - चङि इति उच्यते ।४६ - ८५ - न च अत्र चङम् पश्यामः ।४७ - ८५ - प्रत्ययलक्षणेन ।४८ - ८५ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।४९ - ८५ - बहुवचने तर्हि चातुःशब्द्यम् प्राप्नोति ।५० - ८५ - अदधन् अधुः अधासिषुः ।५१ - ८५ - अधान् इति अपि प्राप्नोति ।५२ - ८५ - न एषः दोषः ।५३ - ८५ - आतः इति जुस्भावः भविष्यति ।५४ - ८५ - न सिध्यति ।५५ - ८५ - सिज्ग्रहणम् तत्र अनुवर्तते ।५६ - ८५ - सिज्ग्रहणम् निवर्तिष्यते ।५७ - ८५ - यदि निवर्तते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।५८ - ८५ - एवम् तर्हि लुक् सिजपवादः विज्ञास्यते ।५९ - ८५ - यदि लुक् सिजपवादः विज्ञायते मा हि दाताम् मा हि धाताम् इति अत्र आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति ।६० - ८५ - तस्मात् न एतत् शक्यम् वक्तुम् लुक् सिजपवादः इति ।६१ - ८५ - न चेत् उच्यते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।६२ - ८५ - तस्मात् आतः इति अत्र सिज्ग्रहणम् अनुवर्त्यम् ।६३ - ८५ - तस्मिन् च अनुवर्तमाने धेटः चातुःशब्द्यम् प्राप्नोति ।६४ - ८५ - तस्मात् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् कर्तव्यम् ।६५ - ८५ - तस्मिन् च क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति च्लि लुङि च्लेः सिच् लेः इति ।६६ - ८५ - यत् अपि उच्यते क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः इति ।६७ - ८५ - धातुम् एव अत्र अनिट्वेन विशेषयिष्यामः ।६८ - ८५ - धातोः अनिटः इति ।६९ - ८५ - कथम् पुनः धातुः नाम अनिट् स्यात् ।७० - ८५ - धातुः एव अनिट् ।७१ - ८५ - कथम् ।७२ - ८५ - अनिमित्तम् वा इटः अनिटः न वा तस्मात् इट् अस्ति सः अयम् अनिट् इति ।७३ - ८५ - अथ धातौ विशेष्यमाणे क्व यः अनिट् इति विशेषयिष्यसि ।७४ - ८५ - किम् च अतः ।७५ - ८५ - यदि विज्ञायते निष्ठायाम् अनिटः इति भूयिष्ठेभ्यः प्राप्नोति ।७६ - ८५ - भूयिष्ठाः हि शलन्ताः इगुपधाः निष्ठायाम् अनिटः ।७७ - ८५ - अथ विज्ञायते लिटि यः अनिट् इति न कुतः चित् प्राप्नोति ।७८ - ८५ - सर्वे हिस् शलन्ताः इगुपधाः लिटि सेटः ।७९ - ८५ - किम् पुनः कारणम् धातौ विशेष्यमाणे एतयोः विशेषयोः विशेषयिष्यते ।८० - ८५ - न पुनः अत्र सामान्येन इटः विधिप्रतिषेधौ ।८१ - ८५ - क्व सामन्येन ।८२ - ८५ - वलादौ आर्धधातुके ।८३ - ८५ - यत् अपि उच्यते घस्ल्̥भावे च इति ।८४ - ८५ - आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।८५ - ८५ - तत्र आर्धधातुकसामान्ये घस्ल्̥भावे कृते लृदितः इति अङ् भविष्यति ।१ - ५६ - किमर्थः चकारः ।२ - ५६ - विशेषणार्थः ।३ - ५६ - क्व विशेषणार्थेन अर्थः ।४ - ५६ - सिचि वृद्धिः परस्मैपदेषु इति ।५ - ५६ - सौ वृद्धिः इति उच्यमाने अग्निः वायुः इति अत्र अपि प्रसज्येत ।६ - ५६ - न एतत् अस्ति प्रयोजनम् ।७ - ५६ - परस्मैपदेषु इति उच्यते ।८ - ५६ - न च अत्र परस्मैपदम् पश्यामः ।९ - ५६ - स्वरार्थः तर्हि ।१० - ५६ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।११ - ५६ - एतत् अपि न अस्ति प्रयोजनम् ।१२ - ५६ - अनच्कः अयम् ।१३ - ५६ - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।१४ - ५६ - इटि कृते साच्कः भविष्यति ।१५ - ५६ - तत्र प्रत्ययाद्युदात्तत्वेन इटः उदात्तत्वम् भविष्यति ।१६ - ५६ - न सिध्यति ।१७ - ५६ - आगमाः अनुदात्ताः भवन्ति इति अनुदात्तत्वम् प्राप्नोति ।१८ - ५६ - अतः उत्तरम् पठति ।१९ - ५६ - सिचः चित्करणानर्थक्यम् स्थानिवत्वात् ।२० - ५६ - सिचः चित्करणम् नर्थयम् ।२१ - ५६ - किम् कारणम् ।२२ - ५६ - स्थानिवत्वात् ।२३ - ५६ - स्थानिवद्भावात् चित् भविष्यति ।२४ - ५६ - अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् ।२५ - ५६ - अर्थवत् तु चित्करणम् ।२६ - ५६ - कः अर्थः ।२७ - ५६ - चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् भविष्यति ।२८ - ५६ - न अप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वम् आरभ्यते ।२९ - ५६ - तत् यथा एव प्रत्ययस्वरम् बाधते एवम् स्थानिवद्भावात् अपि या प्राप्तिः ताम् अपि बाधेत ।३० - ५६ - तस्मात् चित्करणम् ।३१ - ५६ - तस्मात् चकारः कर्तव्यः ।३२ - ५६ - अथ इदित्करणम् किमर्थम् ।३३ - ५६ - इदित्करणम् नकारलोपाभावार्थम् ।३४ - ५६ - इदित्करणम् क्रियते नकारलोपः मा भूत् इति ।३५ - ५६ - अमंस्त अमंस्थाः ।३६ - ५६ - अनिदिताम् हलः उपधायाः क्ङिति इति ।३७ - ५६ - न वा हन्तेः सिचः कित्करणम् नकारलोपाभावस्य ।३८ - ५६ - न वा एतत् प्रयोजनम् अस्ति ।३९ - ५६ - किम् कारणम् ।४० - ५६ - यत् अयम् हनः सिच् इति हन्तेः सिचः कित्त्वम् शास्ति तत् ज्ञापयति आचार्यः न सिजन्तस्य नकार्लोपः भवति इति ।४१ - ५६ - न एतत् अस्ति ज्ञापकम् ।४२ - ५६ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।४३ - ५६ - किम् ।४४ - ५६ - सिचि एव नलोपः यथा स्यात् ।४५ - ५६ - परस्मिन् निमित्ते मा भूत् इति ।४६ - ५६ - कः पुनः अत्र विशेषः सिचि वा नलोपे सति परस्मिन् वा निमित्ते ।४७ - ५६ - अयम् अस्ति विशेषः ।४८ - ५६ - सिचि नलोपे सति नलोपस्य असिद्धत्वात् अकारलोपः न भवति ।४९ - ५६ - परस्मिन् पुनः निमित्ते नलोपे सति अकारलोपः प्राप्नोति ।५० - ५६ - समानाश्रयम् असिद्धम् व्याश्रयम् च इदम् ।५१ - ५६ - ननु च परस्मिन् अपि निमित्ते नलोपे सति अकारलोपः न भविष्यति ।५२ - ५६ - कथम् ।५३ - ५६ - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति टत् एतत् हन्तेः सिचः कित्करणम् ज्ञापकम् एव न सिजन्तस्य नलोपः भवति इति ।५४ - ५६ - इदित्त्वात् वा स्थानिवत्त्वात् ।५५ - ५६ - अथ अपि अनेन इदिता अर्थः स्यात् ।५६ - ५६ - अयम् आदेशः स्थानिवद्भावात् इदित् भविष्यति.१ - ५४ - स्पृशमृशकृषतृपदृपः सिच् वा ।२ - ५४ - स्पृश्मृशकृषतृपदृपः सिच् वा इति वक्तव्यम् ।३ - ५४ - स्पृश ।४ - ५४ - अस्पृक्षत् अस्प्राक्षीत् ।५ - ५४ - स्पृश ।६ - ५४ - मृश ।७ - ५४ - अमृक्षत् अम्राक्षीत् ।८ - ५४ - मृश ।९ - ५४ - कृष ।१० - ५४ - अकृक्षत् अक्राक्षीत् ।११ - ५४ - कृष ।१२ - ५४ - तृप ।१३ - ५४ - अतृपत् अत्राप्सीत् ।१४ - ५४ - तृप ।१५ - ५४ - दृप ।१६ - ५४ - अदृपत् अद्रप्सीत् ।१७ - ५४ - किम् प्रयोजनम् ।१८ - ५४ - सिच् यथा स्यात ।१९ - ५४ - अथ क्सः सिद्धः ।२० - ५४ - सिद्धः शलः इगुपधात् अनिटः इति ।२१ - ५४ - सिच् अपि सिद्धः ।२२ - ५४ - कथम् ।२३ - ५४ - च्लेः चित्करणम् प्रत्याख्यायते ।२४ - ५४ - तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात् क्सः न भविष्यति ।२५ - ५४ - यदि एवम् अन्त्यसय सिजादयः प्राप्नुवन्ति ।२६ - ५४ - सिद्धम् तु सिचः यादित्वात् ।२७ - ५४ - सिद्धम् एतत् ।२८ - ५४ - कथम् ।२९ - ५४ - यादिः सिच् करिष्यते ।३० - ५४ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।३१ - ५४ - किम् न श्रूयते यकारः ।३२ - ५४ - लुप्तनिर्दिष्टः यकारः ।३३ - ५४ - चङङोः कथम् ।३४ - ५४ - चङङोः प्रश्लिष्टनिर्देशात् सिद्धम् ।३५ - ५४ - चङङोः अपि प्रश्लिष्टनिर्देशः अयम् ॒ च अङ् चङ् अ अङ् अङ् ।३६ - ५४ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।३७ - ५४ - चिणः कथम् ।३८ - ५४ - चिणः अनित्त्वात् सिद्धम् ।३९ - ५४ - चिणः अनित्त्वात् सिद्धम् ।४० - ५४ - किम् इदम् अनित्त्वात् ।४१ - ५४ - अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।४२ - ५४ - असत्यायाम् प्रत्ययसञ्ज्ञयाम् इत्सञ्ज्ञा न. असत्याम् इत्सञ्ज्ञायाम् लोपः न ।४३ - ५४ - असति लोपे अनेकाल् ।४४ - ५४ - यदा अनेकाल् तदा सर्वादेशः ।४५ - ५४ - यदा सर्वादेशः तदा प्रययः ।४६ - ५४ - यदा प्रत्ययः तदा इत्सञ्ज्ञा ।४७ - ५४ - यदा इत्सञ्ज्ञा तदा लोपः ।४८ - ५४ - एवम् च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनम् चित्करणम् इति ।४९ - ५४ - अपि च त्रैशब्द्यम् न प्रकल्पते ।५० - ५४ - अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षीत् इति न सिध्यति ।५१ - ५४ - सिचि पुनः सति विभाषा सिच् ।५२ - ५४ - सिचि अपि झल्लक्षणः अमागमः विभाषा ।५३ - ५४ - यस्य खलु अपि अमा निमित्तम् न विहन्यते सः स्यात् एव ।५४ - ५४ - तस्मात् सुष्ठु उच्यते स्पृश्मृशकृषतृपदृपः सिच् वा इति१ - ३५ - क्सविधाने इगुपधाभावः च्लेः गुणनिमित्तत्वात् ।२ - ३५ - क्सविधाने इगुपधाभावः ।३ - ३५ - किम् कारणम् ।४ - ३५ - च्लेः गुणनिमित्तत्वात् ।५ - ३५ - च्लिः गुणनिमित्तम् ।६ - ३५ - तत्र च्लौ एव गुणे कृते इगुपधात् इति क्सः न प्राप्नोति ।७ - ३५ - न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य ।८ - ३५ - न वा एषः दोषः ।९ - ३५ - किम् कारणम् ।१० - ३५ - क्सस्य अनवकाशत्वात् ।११ - ३५ - अनवकाशः क्सः गुणम् बाधिष्यते ।१२ - ३५ - अनिड्वचनम् अविशेषणम् च्लेः नित्यादिष्टत्वात् ।१३ - ३५ - अनिड्वचनम् अविशेषणम् ।१४ - ३५ - किम् कारणम् ।१५ - ३५ - च्लेः नित्यादिष्टत्वात् ।१६ - ३५ - नित्यादिष्टः च्लिः न क्व चित् श्रूयते ।१७ - ३५ - तत्र च्लेः अनिटः इति क्सः न प्राप्नोति ।१८ - ३५ - न वा क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिटि प्रसिद्धे क्सविद्धिः ।१९ - ३५ - न वा एषः दोषः ।२० - ३५ - किम् कारणम् ।२१ - ३५ - क्सस्य सिजपवादत्वात् ।२२ - ३५ - सिजपवादः क्सः ।२३ - ३५ - सः च अनिडाश्रयः ।२४ - ३५ - न च अपवादविषये उपसर्गः अभिनिविशते ।२५ - ३५ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।२६ - ३५ - प्रकल्प्य वा अपवादविषयम् उत्सर्गः अभिनिविशते ।२७ - ३५ - तत् न तावत् अत्र कदा चित् सिच् भवति ।२८ - ३५ - अपवादम् क्सम् प्रतीक्षते ।२९ - ३५ - क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिट्त्वम् प्रसिद्धम् ।३० - ३५ - अनिटि प्रसिद्धे क्सविद्धिः ।३१ - ३५ - अनिटि प्रसिद्धे क्सः भविष्यति ।३२ - ३५ - सिच् इदानीम् क्व भविष्यति ।३३ - ३५ - शेषे सिज्विधानम् ।३४ - ३५ - शेषे सिज्विधानम् भविष्यति ।३५ - ३५ - अकोषीत् अमोषीत् इति ।१ - ५२ - किमर्थम् इदम् उच्यते ।२ - ५२ - नियमार्थम् ।३ - ५२ - श्लिषः आलिङ्गने एव क्सः यथा स्यात् ।४ - ५२ - इह मा भूत् ॒ उपाश्लिषत् जतु च काष्ठम् च ।५ - ५२ - समाश्लिषत् ब्राह्मणकुलम् इति ।६ - ५२ - अतः उत्तरम् पठति ।७ - ५२ - श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् ।८ - ५२ - श्लिषः आलिङ्गने नियमस्य अनुपपत्तिः ।९ - ५२ - किम् कारणम् ।१० - ५२ - विधेयभावात् ।११ - ५२ - कैमर्थक्यात् नियमः भवति ।१२ - ५२ - विधेयम् न अस्ति इति कृत्वा ।१३ - ५२ - इह च अस्ति विधेयम् ।१४ - ५२ - किम् ।१५ - ५२ - पुषादिपाठात् अङ् प्राप्तः ।१६ - ५२ - तद्बाधनार्थः क्सः विधेयः ।१७ - ५२ - तत्र अपूर्वः विधिः अस्तु नियमः वा इति अपूर्वः एव विधिः स्यात् न नियमः ।१८ - ५२ - किम् च स्यात् यदि अयम् नियमः न स्यात् ।१९ - ५२ - आत्मनेपदेषु आलिङ्गने च क्सः प्रसज्येत ।२० - ५२ - यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत ।२१ - ५२ - उपाश्लेषि कन्या देवदत्तेन इति ।२२ - ५२ - सिद्धम् तु श्लिषः आलिङ्गने अचिण्विषये ।२३ - ५२ - सिद्धम् एतत् ।२४ - ५२ - कथम् ।२५ - ५२ - श्लिषः आलिङ्गने अचिण्विषये क्सः भवति इति वक्तव्यम् ।२६ - ५२ - अङ्विधाने च श्लिषः अनालिङ्गने ।२७ - ५२ - अङ्विधाने च श्लिषः अनालिङ्गने इति वक्तव्यम् ।२८ - ५२ - सिध्यति ।२९ - ५२ - सूत्रम् तर्हि भिद्यते ।३० - ५२ - यथान्यासम् एव अस्तु ।३१ - ५२ - ननु च उक्तम् श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् इति ।३२ - ५२ - न एषः दोषः ।३३ - ५२ - योगविभागात् सिद्धम् ।३४ - ५२ - योगविभागः करिष्यते ।३५ - ५२ - श्लिषः ।३६ - ५२ - श्लिषः क्सः भवति ।३७ - ५२ - किमर्थम् इदम् ।३८ - ५२ - पुषादिपाठात् अङ् प्राप्नोति ।३९ - ५२ - तद्बाधनार्थम् ।४० - ५२ - ततः आलिङ्गने ।४१ - ५२ - आलिङ्गने च श्लिषः क्सः भवति ।४२ - ५२ - इदम् इदानीम् किमर्थम् ।४३ - ५२ - नियमार्थम् ।४४ - ५२ - श्लिषः आलिङ्गने एव ।४५ - ५२ - क्व मा भूत् ।४६ - ५२ - उपाश्लिषत् जतु च काष्ठम् च ।४७ - ५२ - समाश्लिषत् ब्राह्मणकुलम् इति ।४८ - ५२ - यत् अपि उच्यते यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत इति ।४९ - ५२ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति एवम् क्सः अङम् बाधिष्यते ।५० - ५२ - चिणम् न बाधिष्यते ।५१ - ५२ - अथ वा तत्र वक्ष्यति ॒ चिण्ग्रहणस्य प्रयोजनम् चिण् एव यथा स्यात् ।५२ - ५२ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।१ - २४ - णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् । णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् कर्तव्यम् ।२ - २४ - नाकम् इष्टमुखम् यान्ति सुयुक्तैः वडवारथैः ।३ - २४ - अथ पत्काषीणः यान्ति ये अचीकमतभाषिणः ।४ - २४ - कर्मकर्तरि च ।५ - २४ - कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् ।६ - २४ - कारयति कटम् देवदत्तः ।७ - २४ - अचीकरत कटः स्वयम् एव ।८ - २४ - उच्छ्रययति कटम् देवदत्तः ।९ - २४ - औदशिश्रियत कटः स्वयम् एव ।१० - २४ - न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् ।११ - २४ - न वा कर्तव्यम् ।१२ - २४ - किम् कारणम् ।१३ - २४ - कर्मणि अविधानात् ।१४ - २४ - न हि कः चित् कर्मणि विधीयते यः चङम् बाधेत ।१५ - २४ - कर्तृत्वात् च कर्मकर्तुः सिद्धम् ।१६ - २४ - अस्ति च कर्मकर्तरि कर्तृत्वम् इति कृत्वा चङ् भविष्यति ।१७ - २४ - ननु च अयम् कर्मणि विधीयते ।१८ - २४ - चिण् भावकर्मणोः इति ।१९ - २४ - प्रतिषिध्येते तत्र यक्चिणौ ।२० - २४ - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति ।२१ - २४ - यः तर्हि अहेतुमण्णिच् ।२२ - २४ - उदपुपुच्छत गौः स्वयम् एव ।२३ - २४ - अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन ।२४ - २४ - यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञाम् आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।१ - ११ - अस्यतिग्रहणम् किमर्थम् ।२ - ११ - अस्यतिग्रहणम् आत्मनेपदार्थम् ।३ - ११ - अस्यतिग्रहणम् आत्मनेपदार्थम् द्रष्टव्यम् ।४ - ११ - किम् उच्यते आत्मनेपदार्थम् इति ।५ - ११ - न पुनः परस्मैपदार्थम् अपि स्यात् ।६ - ११ - पुषादित्वात् ।७ - ११ - पुषादिपाठात् परस्मैपदेषु अङ् भविष्यति ।८ - ११ - कर्मकर्तरि च ।९ - ११ - कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् ।१० - ११ - पर्यास्थेताम् कुण्डले स्वयम् एव ।११ - ११ - अत्र अपि न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् इति एव ।१ - ९ - इदम् लुचिग्रहणम् ग्लुञ्चिग्रहणम् च क्रियते ।२ - ९ - अन्यतरत् शक्यम् अकर्तुम् ।३ - ९ - कथम् ।४ - ९ - यदि तावत् ग्लुचिग्रहणम् क्रियते ग्लुञ्चिग्रहणम् न करिष्यते ।५ - ९ - तेन एव सिद्धम् न्यग्लुचत् न्यग्लोचीत् ।६ - ९ - इदम् इदानीम् ग्लुञ्चेः रूपम् न्यग्लुञ्चीत् ।७ - ९ - अथ ग्लुञ्चिग्रहणम् क्रियते ग्लुचेः ग्रहणम् न करिष्यते ।८ - ९ - तेन एव सिद्धम् न्यग्लुचत् न्यग्लुञ्चीत् ।९ - ९ - इदम् इदानीम् ग्लुचेः रूपम् न्यग्लोचीत् ।१ - ५ - अयम् तशब्दः अस्ति एव आत्मनेपदम् अस्ति परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् ।२ - ५ - कस्य इदम् ग्रहणम् ।३ - ५ - यः पदेः अस्ति ।४ - ५ - कः च पदेः अस्ति ।५ - ५ - पदिः अयम् आत्मनेपदी ।१ - ८ - चिण् इति वर्तमाने पुनः चिण्ग्रहणम् किमर्थम् ।२ - ८ - न इति एवम् तत् अभूत् ।३ - ८ - विध्यर्थम् इदम् ।४ - ८ - अथ वा वा इति एवम् तत् अभूत् ।५ - ८ - नित्यार्थम् इदम् ।६ - ८ - अथ वा चिण् इति वर्तमाने पुनः चिण्ग्रहणस्य एतत् प्रयोजनम् ।७ - ८ - चिण् एव यथा स्यात् ।८ - ८ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।१ - ४५ - इह पश्यामः कर्मणि द्विवचनबहुवचनानि उदाह्रियन्ते ।२ - ४५ - पच्येते* ओदनौ , पच्यन्ते ओदनाः इति ।३ - ४५ - भावे पुनः एकवचनम् एव ॒ आस्यते भवता , आस्यते भवद्भ्याम् , आस्यते भवद्भिः इति ।४ - ४५ - केन एतत् एवम् भवति ।५ - ४५ - कर्म अनेकम् ।६ - ४५ - तस्य अनेकत्वात् द्विवचनबहुवचनानि भवन्ति ।७ - ४५ - भावः पुनः एकः एव ।८ - ४५ - कथम् तर्हि इह द्विवचनबहुवचनानि भवन्ति ।९ - ४५ - पाकौ पाकाः इति ।१० - ४५ - आश्रयभेदात् ।११ - ४५ - यत् असौ द्रव्यम् श्रितः भवति भावः तस्य भेदात् द्विवचनबहुवचनानि भवन्ति ।१२ - ४५ - इह अपि तर्हि यावन्तः ताम् क्रियाम् कुर्वन्ति सर्वे ते तस्याः आश्रया भवन्ति ।१३ - ४५ - तद्भेदात् द्विवचनबहुवचनानि प्राप्नुवन्ति ।१४ - ४५ - एवम् तर्हि इदम् तावत् अयम् प्रष्टव्यः ।१५ - ४५ - किम् अभिसमीक्ष्य एतत् प्रयुज्यते ।१६ - ४५ - पाकौ पाकाः इति ।१७ - ४५ - यदि तावत् पाकविशेषान् अभिसमीक्ष्य यः च ओदनस्य पाकः यः च गुडस्य यः च तिलानाम् बहवः ते शब्दाः सरूपाः च ।१८ - ४५ - तत्र युक्तम् बहुवचनम् एकशेषः च ।१९ - ४५ - तिङभिहिते च अपि तदा भावे बहुवचनम् श्रूयते ।२० - ४५ - तत् यथा ॒ उष्टृआसिका आस्यन्ते ।२१ - ४५ - हतशायिकाः शय्यन्ते इति ।२२ - ४५ - अथ कालविशेषान् अभिसमीक्ष्य यः च अद्यतनः पाकः यः ह्यस्तनः यः श्वस्तनः ते अपि बहवः शब्दाः सरूपाः च ।२३ - ४५ - तत्र युक्तम् बहुवचनम् एकशेषः च ।२४ - ४५ - तिङभिहिते च अपि तदा भावे असारूप्यात् एकशेषः न भवति ।२५ - ४५ - आसि आस्यते , आसिष्यते ।२६ - ४५ - अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।२७ - ४५ - कृदभिहितः भावः द्रव्यवत् भवति ।२८ - ४५ - किम् इदम् द्रव्यवत् इति ।२९ - ४५ - द्रव्यम् क्रियया समवायम् गच्छति ।३० - ४५ - कम् समवायम् ।३१ - ४५ - द्रव्यम् क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति ।३२ - ४५ - तद्वत् च अस्य भावस्य कृदभिहितस्य भवति ।३३ - ४५ - पाकः वर्तते इति ।३४ - ४५ - क्रियावत् न भवति ।३५ - ४५ - किम् इदम् क्रियावत् इति ।३६ - ४५ - क्रिया क्रियया समवायम् न गच्छति ।३७ - ४५ - पचति पठति इति ।३८ - ४५ - तद्वच् च अस्य कृतभिहितस्य न भवति ।३९ - ४५ - पाकः वर्तते इति ।४० - ४५ - अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।४१ - ४५ - तिङभिहितेन भावेन कालपुरुषोपग्रहाः अभिव्यज्यन्ते ।४२ - ४५ - कृदभिहितेन पुनः न व्यज्यन्ते ।४३ - ४५ - अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।४४ - ४५ - तिङभिहितः भावः कर्त्रा सम्प्रयुज्यते. कृदभिहितः पुनः न सम्प्रयुज्यते ।४५ - ४५ - यावता किम् चित् सामान्यम् कः चित् विशेषः युक्तम् यत् अयम् अपि विशेषः स्यात् लिङ्गकृतः सङ्ख्याकृतः च इति ।१ - ५३ - इदम् विचार्यते ।२ - ५३ - भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति ।३ - ५३ - कथम् च सार्वधातुकार्थः स्युः कथम् वा विकरणार्थाः ।४ - ५३ - भावकर्मवाचिनि सार्वधातुके यक् भवति कर्तृवाचिनि शर्वधातुके शप् भवति इति सार्वधातुकार्थाः ।५ - ५३ - भावकर्मणोः यग् भवति सार्वधातुके कर्तरि शप् भवति सार्वधातुके इति विकरणार्थाः ।६ - ५३ - कः च अत्र विशेषः ।७ - ५३ - भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् ।८ - ५३ - भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमस्य अनुपपत्तिः ।९ - ५३ - किम् कारणम् ।१० - ५३ - अतदर्थत्वात् ।११ - ५३ - न हि तदानीम् एकत्वादयः एव विभक्त्यर्थाः ।१२ - ५३ - किम् तर्हि भावकर्मकर्तारः अपि ।१३ - ५३ - सन्तु तर्हि विकरणार्थाः ।१४ - ५३ - विकरणार्थाः इति चेत् कृता अभिहिते विकरणाभावः ।१५ - ५३ - विकरणार्थाः इति चेत् कृता अभिहिते विकरणः न प्राप्नोति ।१६ - ५३ - धारयः पारयः इति ।१७ - ५३ - किम् उच्यते कृता अभिहिते ।१८ - ५३ - न लेन अपि अभिधानम् भवति ।१९ - ५३ - अशक्यम् लेन अभिधानम् आश्रयितुम् ।२० - ५३ - पक्षान्तरम् इदम् आस्थितम् भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति ।२१ - ५३ - यदि च लेन अपि अभिधानम् स्यात् न इदम् पक्षान्तरम् स्यात् ।२२ - ५३ - कथम् अशक्यम् यदा भवान् एव आह लः कर्मणि च भावे च अकर्मकेभ्यः इति ।२३ - ५३ - एवम् वक्ष्यामि ।२४ - ५३ - लः कर्मणः भावात् च अकर्मकेभ्यः ।२५ - ५३ - यस्मिन् तर्हि ले विकरणाः न श्रूयन्ते कः तत्र भावकर्मकर्तृ̄न् अभिधास्यति ।२६ - ५३ - क्व च न श्रूयन्ते ।२७ - ५३ - ये एते लुग्विकरणाः श्लुविकरणाः च ।२८ - ५३ - अत्र अपि उक्ते कर्तृत्वे लुक् भविष्यति ।२९ - ५३ - यस्मिन् तर्हि ले विकरणाः न एव उत्पद्यन्ते कः तत्र भावकर्मकर्तृ̄न् अभिधास्यति ।३० - ५३ - क्व च न एव उत्पद्यन्ते ।३१ - ५३ - लिङ्लिटोः ।३२ - ५३ - तस्मात् न एतत् शक्यम् वक्तुम् ।३३ - ५३ - न लेन अभिधानम् भवति इति ।३४ - ५३ - भवति चेत् अभिहिते विकरणाभावः एव ।३५ - ५३ - एवम् तर्हि इदम् स्यात् ।३६ - ५३ - यदा भावकर्मणोः लः तदा कर्तरि विकरणाः ।३७ - ५३ - यदा कर्तरि लः तदा भावकर्मणोः विकरणाः ।३८ - ५३ - इदम् अस्य यदि एव स्वाभाविकम् अथ अपि वाचनिकम् ॒ प्रकृतिप्रत्ययौ प्रत्ययार्थम् सह ब्रूतः इति ।३९ - ५३ - न च अस्ति सम्भवः यत् एकस्याः प्रकृतेः द्वयोः नानार्थयोः युगपत् अनुसहायीभावः स्यात् ।४० - ५३ - एवम् च कृत्वा एकपक्षीभूतम् इदम् भवति ॒ सार्वधातुकार्थाः एव इति ।४१ - ५३ - ननु च उक्तम् भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् इति ।४२ - ५३ - न एषः दोषः ।४३ - ५३ - सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।४४ - ५३ - तथा तिङाम् ।४५ - ५३ - प्रसिद्धः नियमः तत्र ।४६ - ५३ - प्रसिद्धः तत्र नियमः ।४७ - ५३ - नियमः प्रकृतेषु वा ।४८ - ५३ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।४९ - ५३ - के च प्रकृताः ।५० - ५३ - एकत्वादयः ।५१ - ५३ - एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।५२ - ५३ - द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।५३ - ५३ - बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।१ - ८७ - भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् । भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् कर्तव्यम् ।२ - ८७ - पच्यते स्वयम् एव ।३ - ८७ - पठ्यते स्वयम् एव ।४ - ८७ - किम् पुनः कारणम् न सिध्यति ।५ - ८७ - विप्रतिषेधात् हि शपः बलीयस्त्वम् । विप्रतिषेधात् हि शपः बलीयस्त्वम् प्राप्नोति ।६ - ८७ - शपः अवकाशः ।७ - ८७ - पचति पठति ।८ - ८७ - यकः अवकाशः ।९ - ८७ - पच्यते ओदनः देवदत्तेन ।१० - ८७ - पठ्यते विद्या देवदत्तेन ।११ - ८७ - इह उभयम् प्राप्नोति ।१२ - ८७ - पच्यते स्वयम् एव ।१३ - ८७ - पठ्यते स्वयम् एव ।१४ - ८७ - परत्वात् शप् प्राप्नोति ।१५ - ८७ - योगविभागात् सिद्धम् ।१६ - ८७ - योगविभागः करिष्यते ।१७ - ८७ - चिण् भावकर्मणोः ।१८ - ८७ - सार्वधातुके यक् भावकर्मणोः ।१९ - ८७ - ततः कर्तरि ।२० - ८७ - कर्तरि च यक् भवति भावकर्मणोः ।२१ - ८७ - यथा एव तर्हि कर्मणि कर्तरि यक् भवति एवम् भावे कर्तरि प्राप्नोति ।२२ - ८७ - एति जीवन्तम् आनन्दः ।२३ - ८७ - न अस्य किम् चित् रुजति रोगः इति ।२४ - ८७ - द्वितीयः योगविभागः करिष्यते ।२५ - ८७ - चिण् भावे ।२६ - ८७ - ततः कर्मणि ।२७ - ८७ - कर्मणि च चिण् भवति ।२८ - ८७ - ततः सार्वधातुके यक् भवति भावे च कर्मणि च ।२९ - ८७ - ततः कर्तरि ।३० - ८७ - कर्तरि च यक् भवति ।३१ - ८७ - कर्मणि इति अनुवर्तते ।३२ - ८७ - भावे इति निवृत्तम् ।३३ - ८७ - ततः शप् ।३४ - ८७ - शप् च भवति ।३५ - ८७ - कर्तरि इति एव ।३६ - ८७ - कर्मणि इति अपि निवृत्तम् ।३७ - ८७ - एवम् अपि उपसङ्ख्यानम् कर्तव्यम् ।३८ - ८७ - विप्रतिषेधात् हि श्यनः बलीयस्त्वम् प्राप्नोति ।३९ - ८७ - श्यनः अवकाशः ।४० - ८७ - दीव्यति सीव्यति ।४१ - ८७ - यकः अवकाशः ।४२ - ८७ - पच्यते ओदनः देवदत्तेन ।४३ - ८७ - पठ्यते विद्या देवदत्तेन ।४४ - ८७ - इह उभयम् प्राप्नोति ।४५ - ८७ - दीव्यते स्वयम् एव ।४६ - ८७ - सीव्यते स्वयम् एव ।४७ - ८७ - परत्वात् श्यन् प्राप्नोति ।४८ - ८७ - ननु च एतत् अपि योगविभागात् एव सिद्धम् ।४९ - ८७ - न सिध्यति ।५० - ८७ - अनन्तरा या प्रप्तिः सा योगविभागेन शक्या बाधितुम् ।५१ - ८७ - कुतः एतत् ।५२ - ८७ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।५३ - ८७ - परा प्राप्तिः अप्रतिषिद्धा ।५४ - ८७ - तया प्राप्नोति ।५५ - ८७ - ननु च इयम् प्राप्तिः पराम् प्राप्तिम् बाधेत ।५६ - ८७ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।५७ - ८७ - एवम् तर्हि शबादेशाः श्यनादयः करिष्यन्ते ।५८ - ८७ - शप् च स्यादिभिः बाध्यते ।५९ - ८७ - तत्र दिवादिभ्यः यग्विषये शप् एव न अस्ति कुतः श्यनादयः ।६० - ८७ - तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।६१ - ८७ - न कर्तव्यम् ।६२ - ८७ - प्रकृतम् अनुवर्तते ।६३ - ८७ - क्व प्रकृतम् ।६४ - ८७ - कर्तरि शप् इति ।६५ - ८७ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।६६ - ८७ - दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।६७ - ८७ - प्रत्ययविधिः अयम् ।६८ - ८७ - न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।६९ - ८७ - न अयम् प्रत्ययविधिः ।७० - ८७ - विहितः प्रत्ययः ।७१ - ८७ - प्रकृतः च अनुवर्तते ।७२ - ८७ - अथ वा भावकर्मणोः इति अनुवृत्त्या एव सिद्धे सति अनिवृत्तिः यकः भावाय ।इह सार्वधातुके यक् इति अन्तरेण भावकर्मणोः इति अनुवृत्तिम् सिद्धम् ।७३ - ८७ - सः अयम् एवम् सिद्धे सति यत् भावकर्मणोः इति अनुवर्तयति तस्य एतत् प्रयोजनम् ।७४ - ८७ - कर्मकर्तरि अपि यथा स्यात् ।७५ - ८७ - कर्तरि इति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय ।७६ - ८७ - कर्तरि इति योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधम् मा वोचम् इति ।७७ - ८७ - अथ वा कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति ।७८ - ८७ - अस्ति अन्यत् कर्मवद्भाववचने प्रयोजनम् ।७९ - ८७ - किम् ।८० - ८७ - आत्मनेपदम् यथा स्यात् ।८१ - ८७ - वचनात् आत्मनेपदम् भविष्यति ।८२ - ८७ - चिण् तर्हि यथा स्यात् ।८३ - ८७ - चिण् अपि वचनात् भविष्यति ।८४ - ८७ - चिण्वद्भावः तर्हि यथा स्यात् ।८५ - ८७ - न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति ।८६ - ८७ - तत्र कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति ।८७ - ८७ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति कर्मकर्तरि यक् इति यत् अयम् न दुहस्न्नुनमाम् यक्चिणौ इति यक्चिणोः प्रतिषेधम् शास्ति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP