संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल १| सूक्तं ३० मण्डल १ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ मण्डल २ - सूक्तं ३० ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ३० Translation - भाषांतर ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः ।अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् ॥१॥यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच ।पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम् ॥२॥ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार ।मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः ॥३॥बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् ।यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ॥४॥अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः ।तोकस्य सातौ तनयस्य भूरेरस्माँ अर्धं कृणुतादिन्द्र गोनाम् ॥५॥प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ ।इन्द्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥६॥न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम् ।यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत् ॥७॥सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून् ।त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥८॥यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य ।बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥९॥अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि ।ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥१०॥तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् ।यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP