अर्थशास्त्रम् अध्याय ०२ - भाग २९
अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.
२९.०१
गो.अध्यक्षो वेतन.उपग्राहिकं कर.प्रतिकरं भग्न.उत्सृष्टकं भाग.अनुप्रविष्टकं व्रज.पर्यग्रं नष्टं विनष्टं क्षीर.घृत.संजातं च_उपलभेत ॥
२९.०२
गो.पालक.पिण्डारक.दोहक.मन्थक.लुब्धकाः शतं शतं धेनूनां हिरण्य.भृताः पालयेयुः ॥
२९.०३
क्षीर.घृत.भृता हि वत्सान् उपहन्युः । इति वेतन.उपग्राहिकम् ॥
२९.०४
जरद्गु.धेनु.गर्भिणी.पष्ठौही.वत्सतरीणां सम.विभागं रूप.शतम् एकः पालयेत् ॥
२९.०५
घृतस्य_अष्टौ वारकान् पणिकं पुच्छम् अङ्क.चर्म च वार्षिकं दद्यात् । इति कर.प्रतिकरः ॥
२९.०६
व्याधिता.न्यङ्गा.अनन्य.दोही.दुर्दोहा.पुत्रघ्नीनां च सम.विभागं रूप.शतं पालयन्तस् तज्.जातिकं भागं दद्युः । इति भग्न.उत्षृष्टकम् ॥
२९.०७
पर.चक्र.अटवी.भयाद् अनुप्रविष्टानां पशूनां पालन.धर्मेण दश.भगं दद्युः । इति भाग.अनुप्रविष्टकम् ॥
२९.०८
वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश् च पुंगवाः, युग.वाहन.शकट.वहा वृषभाः सूना.महिषाः पृष्ट.स्कन्ध.वाहिनश् च महिषाः, वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश् च_अप्रजाता वन्ध्याश् च गावो महिष्यश् च, मास.द्वि.मास.जातास् तासाम् उपजा वत्सा वत्सिकाश् च ॥
२९.०९
मास.द्वि.मास.जातान् अङ्कयेत् ॥
२९.१०
मास.द्वि.मास.पर्युषितम् अङ्कयेत् ॥
२९.११
अङ्कं चिह्नं वर्णं शृङ्ग.अन्तरं च लक्षणम् एवम् उपजा निबन्धयेत् । इति व्रज.पर्यग्रम् ॥
२९.१२
चोर.हृतम् अन्य.यूथ.प्रविष्टम् अवलीनं वा नष्टम् ॥
२९.१३
पङ्क.विषम.व्याधि.जरा.तोय.आहार.अवसन्नं वृक्ष.तट.काष्ठ.शिला.अभिहतम् ईशान.व्याल.सर्प.ग्राह.दाव.अग्नि.विपन्नं विनष्टम् ॥
२९.१४
प्रमादाद् अभ्यावहेयुः ॥
२९.१५
एवं रूप.अग्रं विद्यात् ॥
२९.१६
स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ॥
२९.१७
पर.पशूनां राज.अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस.दण्डं दद्यात् ॥
२९.१८
स्व.देशीयानां चोर.हृतं प्रत्यानीय पणितं रूपं हरेत् ॥
२९.१९
पर.देशीयानां मोक्षयिता_अर्धं हरेत् ॥
२९.२०
बाल.वृद्ध.व्याधितानां गो.पालकाः प्रतिकुर्युः ॥
२९.२१
लुब्धक.श्व.गणिभिर् अपास्तस् तेन_अव्याल.पराबाध.भयम् ऋतु.विभक्तम् अरण्यं चारयेयुः ॥
२९.२२
सर्प.व्याल.त्रासन.अर्थं गो.चर.अनुपात.ज्ञान.अर्थं च त्रस्नूनां घण्टा.तूर्यं च बध्नीयुः ॥
२९.२३
सम.व्यूढ.तीर्थम् अकर्दम.ग्राहम् उदकम् अवतारयेयुः पालयेयुश् च ॥
२९.२४
स्तेन.व्याल.सर्प.ग्राह.गृहीतं व्याधि.जरा.अवसन्नं च_आवेदयेयुः, अन्यथा रूप.मूल्यं भजेरन् ॥
२९.२५
कारण.मृतस्य_अङ्क.चर्म गो.महिषस्य, कर्ण.लक्षणम् अज.अविकानाम्, पुच्छम् अङ्क.चर्म च_अश्व.खर.उष्ट्राणाम्, बाल.चर्म.बस्ति.पित्त.स्नायु.दन्त.खुर.शृङ्ग.अस्थीनि च_आहरेयुः ॥
२९.२६
मांसम् आर्द्रं शुष्कं वा विक्रीणीयुः ॥
२९.२७
उदश्वित्.श्व.वराहेभ्यो दद्युः ॥
२९.२८
कूर्चिकां सेना.भक्त.अर्थम् आहरेयुः ॥
२९.२९
किलाटो घाण.पिण्याक.क्लेद.अर्थः ॥
२९.३०
पशु.विक्रेता पादिकं रूपं दद्यात् ॥
२९.३१
वर्षा.शरद्द्.हेमन्तान् उभयतः.कालं दुह्युः, शिशिर.वसन्त.ग्रीष्मान् एक.कालम् ॥
२९.३२
द्वितीय.काल.दोग्धुर् अङ्गुष्ठच्.छेदो दण्डः ॥
२९.३३
दोहन.कालम् अतिक्रामतस् तत्.फल.हानं दण्डः ॥
२९.३४
एतेन नस्य.दम्य.युग.पिङ्गन.वर्तन.काला व्याख्याताः ॥
२९.३५
क्षीर.द्रोणे गवां घृत.प्रस्थः, पञ्च.भाग.अधिको महिषीणाम्, द्वि.भाग.अधिको_अज.अवीनाम् ॥
२९.३६
मन्थो वा सर्वेषां प्रमाणम् ॥
२९.३७
भूमि.तृण.उदक.विशेषाद्द् हि क्षीर.घृत.वृद्धिर् भवति ॥
२९.३८
यूथ.वृषं वृषेण_अवपातयतः पूर्वः साहस.दण्डः, घातयत उत्तमः ॥
२९.३९
वर्ण.अवरोधेन दशती रक्षा ॥
२९.४०
उपनिवेश.दिग्.विभागो गो.प्रचाराद् बल_अन्वयतो वा गवां रक्षा.सामर्थ्याच् च ॥
२९.४१
अजावीनां षण्.मासिकी.मूर्णां ग्राहयेत् ॥
२९.४२
तेन_अश्व.खर.उष्ट्र.वराह.व्रजा व्याख्याताः ॥
२९.४३
बलीवर्दानां नस्य.अश्व.भद्र.गति.वाहिनां यव.सस्य.अर्ध.भारस् तृणस्य द्वि.गुणम्, तुला घाण.पिण्याकस्य, दश.आढकं कण.कुण्डकस्य, पञ्च.पलिकं मुख.लवनाम्, तैल.कुडुबो नस्यं प्रस्थः पानं, मांस.तुला, दध्नश् च_आढकम्, यव.द्रोणं माषाणां वा पुलाकः, क्षीर.द्रोणम् अर्ध.आढकं वा सुरायाः स्नेह.प्रस्थः क्षार.दश.पलं शृङ्गिबेर.पलं च प्रतिपानम् ॥
२९.४४
पाद.ऊनम् अश्वतर.गो.खराणाम्, द्वि.गुणं महिष.उष्ट्राणाम् ॥
२९.४५
कर्म.कर.बलीवर्दानां पायन.अर्थानां च धेनूनां कर्म.कालतः फलतश् च विधा.दानम् ॥
२९.४६
सर्वेषां तृण.उदक.प्राकाम्यम् ॥
२९.४७
इति गो.मण्डलं व्याख्यातम् ॥
२९.४८
पञ्च.ऋषभं खर.अश्वानाम् अज.अवीनां दश.ऋषभम् ।
२९.४८
शत्यं गो.महिष.उष्ट्राणां यूथं कुर्याच् चतुर्.वृषम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP