संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग १० अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग १० अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १० Translation - भाषांतर १०.०१शासने शासनम् इत्य् आचक्षते ॥१०.०२शासन.प्रधाना हि राजानः, तन्.मूलत्वात् संधि.विग्रहयोः ॥१०.०३तस्माद् अमात्य.सम्पदा_उपेतः सर्व.समयविद् आशु.ग्रन्थश् चारु.अक्षरो लेखन.वाचन.समर्थो लेखकः स्यात् ॥१०.०४सो_अव्यग्र.मना राज्ञः संदेशं श्रुत्वा निश्चित.अर्थं लेखं विदध्यात् देश.ऐश्वर्य.वंश.नामधेय.उपचारम् ईश्वरस्य, देश.नामधेय.उपचारम् अनीश्वरस्य ॥१०.०५जातिं कुलं स्थान.वयः.श्रुतानि कर्म.ऋद्धि.शीलान्य् अथ देश.कालौ ।१०.०५यौन.अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुष.अनुरूपम् ॥१०.०६अर्थ.क्रमः सम्बन्धः परिपूर्णता माधुर्यम् औदार्यं स्पष्टत्वम् इति लेख.सम्पत् ॥१०.०७तत्र यथावद् अनुपूर्व.क्रिया प्रधानस्य_अर्थस्य पूर्वम् अभिनिवेश इत्य् अर्थ.क्रमः ॥१०.०८प्रस्तुतस्य_अर्थस्य_अनुपरोधाद् उत्तरस्य विधानम् आ.समाप्तेर् इति सम्बन्धः ॥१०.०९अर्थ.पद.अक्षराणाम् अन्यून.अतिरिक्तता हेतु.उदाहरण.दृष्टान्तैर् अर्थ.उपवर्णना_अश्रान्त.पदता_इति परिपूर्णता ॥१०.१०सुख.उपनीत.चारु.अर्थ.शब्द.अभिधानं माधुर्यम् ॥१०.११अग्राम्य.शब्द.अभिधानम् औदार्यम् ॥१०.१२प्रतीत.शब्द.प्रयोगः स्पष्टत्वम् इति ॥१०.१३अ.कार.आदयो वर्णास् त्रिषष्टिः ॥१०.१४वर्ण.संघातः पदम् ॥१०.१५तच् चतुर्विधं नाम.आख्यात.उपसर्ग.निपाताश् च_इति ॥१०.१६तत्र नाम सत्त्व.अभिधायि ॥१०.१७अविशिष्ट.लिङ्गम् आख्यातं क्रिया.वाचि ॥१०.१८क्रिया.विशेषकाः प्र.आदय उपसर्गाः ॥१०.१९अव्ययाश् च.आदयो निपाताः ॥१०.२०पद.समूहो वाक्यम् अर्थ.परिसमाप्तौ ॥१०.२१एक.पद.अवरस् त्रि.पद.परः पर.पद.अर्थ.अनुपरोधेन वर्गः कार्यः ॥१०.२२लेख.परिसंहरण.अर्थ इति.शब्दो वाचिकम् अस्य_इति च ॥१०.२३निन्दा प्रशंसा पृच्छा च तथा_आख्यानम् अथ_अर्थना ।१०.२३प्रत्याख्यानम् उपालम्भः प्रतिषेधो_अथ चोदना ॥१०.२४सान्त्वम् अभ्युपपत्तिश् च भर्त्सन.अनुनयौ तथा ।१०.२४एतेष्व् अर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥१०.२५तत्र_अभिजन.शरीर.कर्मणां दोष.वचनं निन्दा ॥१०.२६गुण.वचनम् एतेषाम् एव प्रशंसा ॥१०.२७"कथम् एतद्" इति पृच्छा ॥१०.२८"एवम्" इत्य् आख्यानम् ॥१०.२९"देहि" इत्य् अर्थना ॥१०.३०"न प्रयच्छामि" इति प्रत्याख्यानम् ॥१०.३१"अननुरूपं भवतः" इत्य् उपालम्भः ॥१०.३२"मा कार्षीः" इति प्रतिषेधः ॥१०.३३"इदं क्रियताम्" इति चोदना ॥१०.३४"यो_अहं स भवान्, यन् मम द्रव्यं तद् भवतः" इत्य् उपग्रहः सान्त्वम् ॥१०.३५व्यसन.साहाय्यम् अभ्युपपत्तिः ॥१०.३६सदोषम् आयति.प्रदर्शनम् अभिभर्त्सनम् ॥१०.३७अनुनयस् त्रिविधो_अर्थ.कृताव् अतिक्रमे पुरुष.आदि.व्यसने च_इति ॥१०.३८प्रज्ञापन.आज्ञा.परिदान.लेखास् तथा परीहार.निसृष्टि.लेखौ ।१०.३८प्रावृत्तिकश् च प्रतिलेख एव सर्वत्रगश् च_इति हि शासनानि ॥१०.३९अनेन विज्ञापितम् एवम् आह तद् दीयतां चेद् यदि तत्त्वम् अस्ति ।१०.३९राज्ञः समीपे वर.कारम् आह प्रज्ञापना_एषा विविधा_उपदिष्टा ॥१०.४०भर्तुर् आज्ञा भवेद् यत्र निग्रह.अनुग्रहौ प्रति ।१०.४०विशेषेण तु भृत्येषु तद्.आज्ञा.लेख.लक्षणम् ॥१०.४१यथा.अर्ह.गुण.सम्युक्ता पूजा यत्र_उपलक्ष्यते ।१०.४१अप्य् आधौ परिदाने वा भवतस् ताव् उपग्रहौ ॥१०.४२जातेर् विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु ।१०.४२अनुग्रहो यो नृप्तेर् निदेशात् तज्.ज्ञः परीहार इति व्यवस्येत् ॥१०.४३निसृष्टिस्था_आपना कार्य.करणे वचने तथा ।१०.४३एष वाचिक.लेखः स्याद् भवेन् नैसृष्टिको_अपि वा ॥१०.४४विविधां दैव.सम्युक्तां तत्त्वजां चैव मानुषीम् । १०.४४द्वि.विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥१०.४५दृष्ट्वा लेखं यथा.तत्त्वं ततः प्रत्यनुभाष्य च ।१०.४५प्रतिलेखो भवेत् कार्यो यथा राज.वचस् तथा ॥१०.४६यत्र_ईश्वरांश् च_अधिकृतांश् च राजा रक्षा.उपकारौ पथिक.अर्थम् आह । १०.४६सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः ॥१०.४७उपायाः साम.उपप्रदान.भेद.दण्डाः ॥१०.४८तत्र साम पञ्चविधं - गुण.संकीर्तनम्, सम्बन्ध.उपाख्यानम्, परस्पर.उपकार.संदर्शनम्, आयति.प्रदर्शनम्, आत्म.उपनिधानम् इति ॥१०.४९तत्र_अभिजन.शरीर.कर्म.प्रकृति.श्रुत.द्रव्य.आदीनां गुण.ग्रहणं प्रशंसा स्तुतिर् गुण.संकीर्तनम् ॥१०.५०ज्ञाति.यौन.मौख.स्रौव.कुल.हृदय.मित्र.संकीर्तनं सम्बन्ध.उपाख्यानम् ॥१०.५१स्व.पक्ष.पर.पक्षयोर् अन्योन्य.उपकार.संकीर्तनं परस्पर.उपकार.संदर्शनम् ॥१०.५२"अस्मिन्न् एवं कृत इदम् आवयोर् भवति" इत्य् आशा.जननम् आयति.प्रदर्शनम् ॥१०.५३"यो_अहं स भवान्, यन् मम द्रव्यं तद् भवता स्व.कृत्येषु प्रयोज्यताम्" इत्य् आत्म.उपनिधानम् । इति ॥१०.५४उपप्रदानम् अर्थ.उपकारः ॥१०.५५शङ्का.जननं निर्भर्त्सनं च भेदः ॥१०.५६वधः परिक्लेशो_अर्थ.हरणं दण्डः । इति ॥१०.५७अकान्तिर् व्याघातः पुनर्.उक्तम् अपशब्दः सम्प्लव इति लेख.दोषः ॥१०.५८तत्र काल.पत्त्रकम् अचारु.विषम् अविराग.अक्षरत्वम् अकान्तिः ॥१०.५९पूर्वेण पश्चिमस्य_अनुपपत्तिर् व्याघातः ॥१०.६०उक्तस्य_अविशेषेण द्वितीयम् उच्चारणं पुनर्.उक्तम् ॥१०.६१लिङ्ग.वचन.काल.कारकाणाम् अन्यथा.प्रयोगो_अपशब्दः ॥१०.६२अवर्गे वर्ग.करणं च_अवर्ग.क्रिया गुण.विपर्यासः सम्प्लवः । इति ॥१०.६३सर्व.शास्त्राण्य् अनुक्रम्य प्रयोगम् उपलभ्य च ।१०.६३कौटिल्येन नर.इन्द्र.अर्थे शासनस्य विधिः कृतः ॥ E N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP