संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्|संधिः| कथा ५ संधिः आरंभः कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ कथा १० कथा ११ संधिः - कथा ५ हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश कथा ५ Translation - भाषांतर अस्ति गौतमस्य महर्षेस् तपोवने महातपा नाम मुनिः । तत्र तेन आश्रम-संनिधाने मूषिक-शावकः काक-मुखाद् भ्रष्टो दृष्टः । ततो दया-युक्तेन तेन मुनिआ नीवार-कणैः संवर्धितः । ततो बिडालस् तं मूषिकं खादितुम् उपधावति । तम् अवलोक्य मूषिकस् तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम्-मूषिक ! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तं-कुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद् बिभेति ततस् तेन मुनिना कुक्कुरो व्याघ्रः कृतः ।अथ तं व्याघ्रं मुनिर् मूषिको यम् इति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदंति-अनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच् छ्रुत्वा स-व्यथो व्याघ्रो चिंतयत्-यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस् तं मुनिं हंतुं गतः । ततो मुनिना तज् ज्ञात्वा-पुनर् मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः । अतो हं ब्रवीमि-नीचः श्लाघ्य-पदं प्राप्येत्य् आदि ॥अपरं च, देव ! सुकरम् इदम् इति न मंतव्यम् । शृणु-भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् । अतिलोभाद् बकः पश्चान् मृतः कर्कटक-ग्रहात् ॥१६॥चित्रवर्णः पृच्छति--कथम् एतत् ?मंत्री कथयति- N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP