संधिः - आरंभः

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


पुनः कथारंभ-काले राज-पुत्रैर् उक्तम्-आर्य ! विग्रहः श्रुतो स्माभिः । संधिर् अधुनाभिधीयताम् ।
विष्णुशर्मेणोक्तम्-श्रूयताम् । संधिम् अपि कथयामि । यस्यायम् आद्यः श्लोकः-
वृत्ते महति संग्रामे राज्ञोर् निहत-सेनयोः । स्थेयाभ्यां गृध्र-चक्राभ्यां वाचा संधिः कृतं क्षणत् ॥१॥
राजपुत्रा ऊचुः-कथम् एतत् ?
विष्णुशर्मा कथयति-ततस् तेन राजहंसेन उक्तम्-केनास्मद्-दुर्गे निक्षिप्तो ग्निः ? किं पारक्येण ? किं वास्मद्-दुर्ग-वासिना केनापि विपक्ष-प्रयुक्तेन ?
चक्रवाको ब्रूते-देव ! भवतो निष्कारण-बंधुर् असौ मेघवर्णः सपरिवारो न दृश्यते । तन् मंये तस्यैव विचेष्टितम् इदम् ।
राजा क्षणं विचिंत्याह-अस्ति तावद् एवम् । मम दुर्दैवम् एतत् । तथा चोक्तम्-
अपराधः स दैवस्य न पुनर् मंत्रिणाम् अयम् । कार्यं सुचरितं क्वापि दैव-योगाद् विनश्यति ॥२॥विषमां हि दशां प्राप्य दैवं गर्हयते नरः । आत्मनः कर्म-दोषांश् च नैव जानात्य् अपंडितः ॥३॥अपरं च- सुहृदां हित-कामानां यो वाक्यं नाभिनंदति । स कूर्म इव दुर्बुढिः काष्ठाद् भ्रष्टो विनश्यति ॥४॥अंयच् च- रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् । हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥५॥
राहाह-कथम् एतत् ?
मंत्री कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP