संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|वाक्यपदीय|ब्रह्मकांड| भाग ४ ब्रह्मकांड भाग १ भाग २ भाग ३ भाग ४ ब्रह्मकांड - भाग ४ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ४ Translation - भाषांतर वेदशास्त्राविरोधी च तर्कश् चक्शुर् अपश्यताम् ।रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति ॥१५१॥सतो ऽविवक्षा पारार्थ्यं व्यक्तिर् अर्थस्य लैङ्गिकी ।इति न्यायो बहुविधस् तर्केण प्रविभज्यते ॥१५२॥शब्दानाम् एव सा शक्तिस् तर्को यः पुरुषाश्रयः ।स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः ॥१५३॥यद् उदुम्बरवर्णानां घटीनां मण्डलं महत् ।पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् ॥१५४॥रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः ।शब्दास् तथैव दृश्यन्ते विषापहरणादिषु ॥१५५॥यथैषां तत्र सामर्थ्यं धर्मे ऽप्य् एवं प्रतीयताम् ।साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् ॥१५६॥सर्वो ऽदृष्टफलान् अर्थान् आगमात् प्रतिपद्यते ।विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे ॥१५७॥साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः ।अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् ॥१५८॥वैखर्या मध्यमायाश् च पश्यन्त्याश् चैतद् अद्भुतम् ।अनेकतीर्थभेदायास् त्रय्या चाचः परं परम् ॥१५९॥गौर् इव प्रक्षरत्य् एका रसम् उत्तमशालिनी ।दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥१६०॥एतयोर् अन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः ।प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति ॥१६१॥अन्या त्व् अप्रेर्यमाणैव विना प्राणेन वर्तते ।जायते हि ततः प्राणो वाचम् आप्याययन् पुनः ॥१६२॥प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी ।सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् ॥१६३॥घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते ।तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी ॥१६४॥स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥१६५॥केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी ।प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते ॥१६६॥अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी ॥१६७॥पीयूषापूर्यमाणापि नित्यम् आगन्तुभिर् मलैः ।अन्त्या कलेव सोमस्य नात्यन्तम् अभिधीयते ॥१६८॥यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते ।पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् ॥१६९॥प्राप्तोपरागरूपा सा विप्लवैर् अनुषङ्गिभिः ।वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते ॥१७०॥तद्विभागाविभागाभ्यां क्रियमाणाम् अवस्थितम् ।स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः ॥१७१॥अनादिम् अव्यवच्छिन्नां श्रुतिम् आहुर् अकर्तृकाम् ।शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥१७२॥अविभागाद् विवृत्तानाम् अभिख्या स्वप्नवच् छ्रुतौ ।भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥१७३॥कायवाग्बुद्धिविषया ये मलाः समवस्थिताः ।चिकित्सालक्षणाध्यात्म- शास्त्रैस् तेषां विशुद्धयः ॥१७४॥शब्दः संस्कारहीनो यो गौर् इति प्रयुयुक्ष्यते ।तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् ॥१७५॥अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे ।निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥१७६॥ते साधुष्व् अनुमानेन प्रत्ययोत्पत्तिहेतवः ।तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः ॥१७७॥न शिष्टैर् अनुगम्यन्ते पर्याया इव साधवः ।ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः ॥१७८॥अंब्वंब्व् इति यथा बालः शिक्षमाणो ऽपभाषते ।अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥१७९॥एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते ।तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते ॥१८०॥पारंपर्याद् अपभ्रंशा विगुणेष्व् अभिधातृषु ।प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः ॥१८१॥दैवी वाग् व्यतिकीर्णेयम् अशक्तैर् अभिधातृभिः ।अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः ॥१८२॥उभयेषाम् अविच्छेदाद् अन्यशब्दविवक्षया ।यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः ॥१८३॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP