ब्रह्मकांड - भाग १

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


अनादिनिधनम् ब्रह्म शब्दतत्त्वं यद् अक्षरम् ।
विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥१॥

एकम् एव यद् आम्नातं भिन्नशक्तिव्यपाश्रयात् ।
अपृथक्त्वे ऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥२॥

अध्याहितकलां यस्य कालशक्तिम् उपाश्रिताः ।
जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥३॥

एकस्य सर्वबीजस्य यस्य चेयम् अनेकधा ।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥४॥

प्राप्त्युपायो ऽनुकारश् च तस्य वेदो महर्षिभिः ।
एको ऽप्य् अनेकवर्त्मेव समाम्नातः पृथक् पृथक् ॥५॥

भेदानां बहुमार्गत्वं कर्मण्य् एकत्र चाण्गता ।
शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते ॥६॥

स्मृतयो बहुरूपास् च दृष्टादृष्टप्रयोजनाः ।
तम् एवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥७॥

तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः ।
एकत्विनां द्वैतिनां च प्रवादा बहुधागता ॥८॥

सत्या विसुद्धिस् तत्रोक्ता विद्यैवेकपदागमा ।
युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥९॥

विधातुस् तस्य लोकानाम् अङ्गोपाङ्गनिबन्धनाः ।
विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥१०॥

आसन्नं ब्रह्मणस् तस्य तपसाम् उत्तमं तपः ।
प्रथमं छन्दसाम् अङ्गम् आहुर् व्याकरणं बुधाः ॥११॥

प्राप्तरूपविभागाया यो वाचः परमो रसः ।
यत् तत् पुण्यतमं ज्योतिस् तस्य मार्गो ऽयम् आन्जसस् ॥१२॥

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।
तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणाद् ऋते ॥१३॥

तद् द्वारम् अपवर्गस्य वाङ्मलानां चिकित्सितम् ।
पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकासते ॥१४॥

यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः ।
तथैव लोके विद्यानाम् एसा विद्या परायनम् ॥१५॥

इदम् आद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः ॥१६॥

अत्रातीतविपर्यासः केवलाम् अनुपस्यति ।
छन्दस्यस् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् ॥१७॥

प्रत्यस्थमितभेदाया यद् वाचो रूपम् उत्तमम् ।
यद् अस्मिन्न् एव तमसि ज्योतिः सुद्धं विवर्तते ॥१८॥

वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् ।
व्यतीत्यालोकतमसी प्रकाशं यम् उपासते ॥१९॥

यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः ।
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥२०॥

अथर्वणाम् अङ्गिरसां सांनाम् ऋग्यजुषस्य च ।
यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥२१॥

यद् एकं प्रक्रियाभेदैर् बहुधा प्रविभज्यते ।
तद् व्याकरणं आगम्य परं ब्रह्माधिगम्यते ॥२२॥

नित्याः शब्दार्थसंबन्धास् तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥२३॥

अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः ।
अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः ॥२४॥

कार्यकारणभावेन योग्यभावेन च स्थिताः ।
धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥२५॥

ते लिङ्गैश् च स्वशब्दैश् च शास्त्रे ऽस्मिन्न् उपवर्णिताः ।
स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् ॥२६॥

शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम् ।
अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः ॥२७॥

नित्यत्वे कृतकत्वे वा तेषाम् आदिर् न विद्यते ।
प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते ॥२८॥

नानर्थिकाम् इमां कश् चिद् व्यवस्थां कर्तुम् अर्हति ।
तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥२९॥

न चागमाद् ऋते धर्मस् तर्केण व्यवतिष्ठते ।
ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् ॥३०॥

धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः ।
न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते ॥३१॥

अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु ।
भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥३२॥

निर्ज्ञातशक्तेर् द्रव्यस्य तां तान् अर्थक्रियां प्रति ।
विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥३३॥

यत्नेनानुमितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥३४॥

परेषाम् असमाख्येयम् अभ्यासाद् एव जायते ।
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥३५॥

प्रत्यक्षम् अनुमानं च व्यतिक्रम्य व्यवस्थिताः ।
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥३६॥

आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते ॥३७॥

अतीन्द्रियान् असंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाधते ॥३८॥

यो यस्य स्वम् इव ज्ञानं दर्शनं नातिशङ्कते ।
स्थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् ॥३९॥

इदं पुण्यम् इदं पापम् इत्य् एतस्मिन् पदद्वये ।
आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥४०॥

चैतन्यम् इव यश् चायम् अविच्छेदेन वर्तते ।
आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते ॥४१॥

हस्तस्पर्शाद् इवान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥४२॥

तस्माद् अकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥४३॥

द्वाव् उपादानशब्देषु शब्दौ शब्दविदो विदुः ।
एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते ॥४४॥

अविभक्तो विभक्तेभ्यो जायते ऽर्थस्य वाचकः ।
शब्दस् तत्रार्थरूपात्मा संबन्धम् उपगच्छति ॥४५॥

आत्मभेदं तयोः के चिद् अस्तीत्य् आहुः पुराणगाः ।
बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते ॥४६॥

अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् ।
तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥४७॥

वितर्कितः पुरा बुद्ध्या क्व चिद् अर्थे निवेशितः ।
करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते ॥४८॥

नादस्य क्रमजातत्वान् न पूर्वो न परश् च सः ।
अक्रमः क्रमरूपेण भेदवान् इव जायते ॥४९॥

प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।
तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः ॥५०॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP