संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|वाक्यपदीय|ब्रह्मकांड| भाग २ ब्रह्मकांड भाग १ भाग २ भाग ३ भाग ४ ब्रह्मकांड - भाग २ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग २ Translation - भाषांतर आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥५१॥आण्डभावम् इवापन्नो यः क्रतुः शब्दसंज्ञकः ।वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् ॥५२॥यथैकबुद्धिविषया मूर्तिर् आक्रियते पटे ।मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते ॥५३॥यथा प्रयोक्तुः प्राग् बुद्धिः शब्देष्व् एव प्रवर्तते ।व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते ॥५४॥अर्थोपसर्जनीभूतान् अभिधेयेषु केषु चित् ।चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते ॥५५॥ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते ॥५६॥विषयत्वम् अनापन्नैः शब्दैर् नार्थः प्रकाश्यते ।न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः ॥५७॥अतो ऽनिर्ज्ञातरूपत्वात् किम् आहेत्य् अभिधीयते ।नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा ॥५८॥भेदेनावगृहीतौ द्वौ शब्दधर्माव् अपोद्धृतौ ।भेदकारेषु हेतुत्वम् अविरोधेन गच्छतः ॥५९॥वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥६०॥अग्निशब्दस् तथैवायम् अग्निशब्दनिबन्धनः ।अग्निश्रुत्यैति संबन्धम् अग्निशब्दाभिधेयया ॥६१॥यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् ।अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते ॥६२॥उच्चरन् परतन्त्रत्वाद् गुणः कार्यैर् न युज्यते ।तस्मात् तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥६३॥सामान्यम् आश्रितं यद् यद् उपमानोपमेययोः ।तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते ॥६४॥गुणः प्रकर्षहेतुर् यः स्वातन्त्र्येणोपदिश्यते ।तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते ॥६५॥तस्याभिधेयभावेन यः शब्दः समवस्थितः ।तसाप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते ॥६६॥प्राक् सम्ज्ञिनाभिसंबन्धात् संज्ञा रूपपदार्थिका ।षष्ट्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते ॥६७॥तत्रार्थवत्त्वात् प्रथमा संज्ञाशब्दाद् विधीयते ।अस्येते व्यतिरेकश् च तदर्थाद् एव जायते ॥६८॥स्वं रूपम् इति कैश् चित् तु व्यक्तिः संज्ञोपदिश्यते ।जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते ॥६९॥संज्ञिनीं व्यक्तिम् इच्छन्ति सूत्रे ग्राह्याम् अथापरे ।जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥७०॥कार्यत्वे नित्यतायां वा के चिद् एकत्ववादिनः ।कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः ॥७१॥पदभेदे ऽपि वर्णानाम् एकत्वं न निवर्तते ।वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते ॥७२॥न वर्णव्यतिरेकेण पदम् अन्यच् च विद्यते ।वाक्यं वर्णपदाभ्यां च प्रविभागो न कश् चन ॥७३॥पदे न वर्णा विद्यन्ते वर्णेष्व् अवयवा न च ।वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् चन ॥७४॥भिन्नदर्शनम् आश्रित्य व्यवहारो ऽनुगम्यते ।तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः ॥७५॥स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥७६॥स्वभावभेदान् नित्यत्वे ह्रस्वदीर्घप्लुतादिषु ।प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते ॥७७॥शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिर् इष्यते ।स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥७८॥शब्दस्योर्ध्वम् अभिव्यक्तेर् वृत्तिभेदं तु वैकृतः ।ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते ॥७९॥इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा ।क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् ॥८०॥इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः ।विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥८१॥चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोर् अपि ।विषयेन्द्रिययोर् इष्टा संस्कारः स क्रमो ध्वनेः ॥८२॥स्फोटरूपाविभागेन ध्वनेर् ग्रहणम् इष्यते ।कैश् चित् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः ॥८३॥यथानुवाकः श्लोको वा सोढत्वम् उपगच्छते ।आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥८४॥प्रत्ययैर् अनुपाख्येयैर् ग्रहणानुगुणैस् तथा ।ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते ॥८५॥नादैर् आहितबीजायाम् अन्त्येन ध्वनिना सह ।आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते ॥८६॥असतश् चान्तराले याञ् छब्दान् अस्तीति मन्यते ।प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः ॥८७॥भेदानुकारो ज्ञानस्य वाचश् चोपप्लवो ध्रुवः ।क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥८८॥ज्ञेयेन न विना ज्ञानं व्यवहारे ऽवतिष्ठते ।नालब्धक्रमया वाचा कश् चिद् अर्थो ऽभिधीयते ॥८९॥यथाद्यसंख्याग्रहणम् उपायः प्रतिपत्तये ।संख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः ॥९०॥प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये ।तेषाम् अत्यन्तभेदे ऽपि संकीर्णा इव शक्तयः ॥९१॥यथैव दर्शनैः पूर्वैर् दूरात् संतमसे ऽपि वा ।अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति ॥९२॥व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ।भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥९३॥यथानुपूर्वीनियमो विकारे क्षीरबीजयोः ।तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥९४॥भागवत्स्व् अपि तेष्व् एव रूपभेदो ध्वनेः क्रमात् ।निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् ॥९५॥अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।कैश् चित् व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः ॥९६॥अविकारस्य शब्दस्य निमित्तैर् विकृतो ध्वनिः ।उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् ॥९७॥न चानित्येष्व् अभिव्यक्तिर् नियमेन व्यवस्थिता ।आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते ॥९८॥देशादिभिश् च संबन्धो दृष्टः कायवताम् अपि ।देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः ॥९९॥ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा ।व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः ॥१००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP