संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चशीतितमः पटलः| हाकिनीसहस्त्रनामविन्यासः ५ पञ्चशीतितमः पटलः हाकिनीसहस्त्रनामविन्यासः १ हाकिनीसहस्त्रनामविन्यासः २ हाकिनीसहस्त्रनामविन्यासः ३ हाकिनीसहस्त्रनामविन्यासः ४ हाकिनीसहस्त्रनामविन्यासः ५ पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः ५ हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीसहस्त्रनामविन्यासः ५ Translation - भाषांतर लक्ष्मीर्लीलावती लोका लावण्यकोटिसम्भवा ।लोकातीता लक्षणाख्या लिङुधारा लवङुदा ॥१६१॥लवङुपुष्पनिरता लवङुतरुसंस्थिता ।लेलिहाना लयकारी लीलादेहप्रकाशिनी ॥१६२॥लाक्षाशोभाधरा लङ्का रत्नमासवधारिणी ।लक्षजापसिद्धिकरी लक्षमन्त्रप्रकाशिनी ॥१६३॥वशिनी वशकर्त्री च वश्यकर्मनिवासिनी ।वेशावेश्या वेशवेश्या वंशिनी वंशवर्धिनी ॥१६४॥वंशमाया वज्रशब्दमोहिनी शब्दरुपिणी ।शिवा शिवमयी शिक्षा शशिचूडामणिप्रभा ॥१६५॥शवयुग्मभीतिदा च शवयुग्मभयानका ।शवस्था शववक्षस्था शाब्दबोधप्रकाशिनी ॥१६६॥षट्पद्मभेदिनी षट्का षट्कोणयन्त्रमध्यगा ।षट्चक्रसारदा सारा सारात्सारसरोरुहा ॥१६७॥समनादिनिहन्त्री च सिद्धिदा संशयापहा ।संसारपूजिता धन्या सप्तमण्डलसाक्षिणी ॥१६८॥सुन्दरी सुन्दरप्रीता सुन्दरानन्दवर्धिनी ।सुन्दरास्या सुनवस्त्री सौन्दर्यसिद्धिदायिनी ॥१६९॥त्रिसुन्दरी सर्वरी च सर्वा त्रिपुरसुन्दरी ।श्यामला सर्वमाता च सख्यभावप्रिया स्वरा ॥१७०॥साक्षात्कारस्थिता साक्षात्साक्षिणी सर्वसाक्षिणी ।हाकिनी शाकिनीमाता शाकिनी काकिनीप्रिया ॥१७१॥हाकिनी लाकिनीमाता हाकिनी राकिणीप्रिया ।हाकिनी डाकिनीमाता हरा कुण्डलिनी हया ॥१७२॥हयस्था हयतेजः हसौंबीजप्रकाशिनी ।लवणाम्बुस्थिता लक्षग्रन्थिभेदनकारिणी ॥१७३॥लक्षकोटिभास्कराभा लक्षब्रह्माण्डकारिणी ।क्षणदण्डपलाकारा क्षपाक्षोभविनाशिनी ॥१७४॥क्षेत्रपालदिवटुकगणेशयोगिनीप्रिया ।क्षयरोगहरा क्षौणी क्षालनस्थाक्षरप्रिया ॥१७५॥क्षाद्यस्वरान्तसिद्धिस्था क्षादिकान्तप्रकाशिनी ।क्षाराम्बुतिक्तनिकरा क्षितिदुःखविनाशिनी ॥१७६॥क्षुन्निवृत्तिः क्षणज्ञानी वल्लभा क्षणभङ्गुराइत्येतत् कथितं नाथ हाकिन्याः कुलशेखर ॥१७७॥सहस्त्रनामयोगाङुमष्टोत्तरशतान्वितम् ।यः पठेन्नियतः श्रीमान् स योगी नात्र संशयः ॥१७८॥फलश्रुतिकथनम्अस्य स्मरणमात्रेण वीरो योगेश्वरो भवेत् ।अस्यापि च फलं वक्त्तु कोटिवर्षशतैरपि ॥१७९॥शक्यते नापि सहसा संक्षेपात् श्रृणु सप्फलम् ।आयुरारोग्यमाप्नोति विश्वासं श्रीगुरोः पदैः ॥१८०॥सारसिद्धिकरं पुण्यं पवित्रं पापनाशनम् ।अत्यन्तदुःखदहनं सर्वसौभाग्यदायकम् ॥१८१॥पठनात् सर्वदा योगसिद्धिमाप्नोति योगिराट् ।देहसिद्धिः काव्यसिद्धिर्ज्ञानसिद्धिर्भवेद् ध्रुवम् ॥१८२॥वाचां सिद्धिः खड्गसिद्धिह खेचरत्ववाप्नुयात् ।त्रिलोक्यवल्लभो योगी सर्वकामार्थसिद्धिभाक् ॥१८३॥अप्रकाश्यं महारत्नं पठित्वा सिद्धिमाप्नुयात् ।अस्य प्रपठनेनापि भ्रूपद्मे चित्तमर्पयन् ॥१८४॥यशोभाग्यमवाप्नोतिराजराजेश्वरो भवेत् ।डाकिनीनीसिद्धिमाप्नोति कुण्डलीवशमानयेत् ॥१८५॥ध्यानात्मा साधककेन्द्रश्च यतिर्भूत्वा शुभे दिने ।ध्यानं कुर्यात् पद्ममध्यकर्णिकायां शिखालये ॥१८६॥भ्रूमध्ये चक्रसारे च ध्यात्वा ध्यात्वा पठेद् यदि ।राकिणीसिद्धिमाप्नोति देवतादर्शनं लभेत् ॥१८७॥भाग्यसिद्धिमवाप्नोति नित्यं प्रपठनाद्यतः ।साक्षात्सिद्धिमाप्नोति शक्तियुक्तः पठेद्यदि ॥१८८॥हिरण्याक्षी लालिनीशा वशमाप्नोति धैर्यवान् ।रात्रिशेषे समुत्थाय पठेद् यदि शिवालये ॥१८९॥पूजान्ते वा जपान्ते वा वारमेकं पठेद्यदि ।वीरसिद्धिमवाप्नोति काकिनीवशमानयेत् ॥१९०॥रात्रिं व्याप्य पठेद्यस्तु शुद्धचेता जितेन्दियः ।शय्यायां चण्डिकागेहे मधुगेहेऽथवा पुनः ॥१९१॥शाकिनीसिद्धिमाप्नोति सर्वदेशे च सर्वदा ।प्रभाते च समुत्थाय शुद्धात्मा पञ्चमे दिने ॥१९२॥अमावास्यासु विज्ञायां श्रवणायां विशेषतः ।शुक्लपक्षे नवम्यां तु कृष्णपक्षेऽष्टमीदिने ॥१९३॥भार्यायुक्तः पठेद्यस्तु वशमाप्नोति भूपतिम् ।एकाकी निर्जने देशे कामजेता महाबली ॥१९४॥प्रपठेद् रात्रिशेषे च स भवेत् साधकोत्तमः ।कल्पद्रुमसमो दाता देवजेता न संशयः ॥१९५॥शिवशक्तिमध्यभागे यन्त्रं संस्थाप्य यत्नतः ।प्रपठेत् साधकेन्द्रश्च सर्वज्ञाता स्थिराशयः ॥१९६॥एकान्तनिर्जने रम्ये तपःसिद्धिफलोदये ।देशे स्थित्वा पठेद्यस्तु जीवन्मुक्ति फलं लभेत् ॥१९७॥अकालेऽपि सकालेऽपि पठित्वा सिद्धिमाप्नुयात् ।त्रिकालं यस्तु पठति प्रान्तरे वा चतुष्पथे ॥१९८॥योगिनीनां पतिः साक्षादायुर्वृद्धिर्दिन दिने ।वारमेकं पठेद्यस्तु मूर्खो वा पण्डितोऽपि वा ॥१९९॥वाचामीशो भवेत् क्षिप्रं योगयुक्तो भवेद् ध्रुवम् ।सम्भावितो भवेदेकं वारपाठेन भैरव ॥२००॥जित्वा कालमहामृत्युं देवीभक्तिमवाप्नुयात् ।पठित्वा वारमेकं तु यात्रां कुर्वन्ति ये जनाः ॥२०१॥देवीदर्शनसिद्धिञ्च प्राप्तो योगमाप्नुयात् ।प्रत्येकं नाममुच्चार्य यो यागमनुसञ्चरेत् ॥२०२॥स भवेन्मम पुत्रो हि सर्वकामफलं लभेत् ।सर्वयज्ञफलं ज्ञानसिद्धिमाप्नोति योगिराट् ॥२०३॥भूतले भूभृतांनाथो महासिद्धो महाकविः । कण्ठे शीर्षे दक्षभुजे पुरुषो धारयेद्यदि ॥२०४॥योषिद्वामभुजे धृत्वा सर्वसिद्धिमवाप्नुयात् ।गोरोचनाकुङ्कुमेन रक्तचन्दनकेन च ॥२०५॥यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः ।आद्या देवी परप्राणसिद्धिमाप्नोति निश्चितम् ॥२०६॥लिङु पीठे पूर्णिमायां कृष्णचतुर्दशीदिने ।भौमवारे मध्यरात्रौ पठित्वा कामसिद्धिभाक् ॥२०७॥किं न सिद्धयति भूखण्डे अजरामर एव सः ।रमणीकोटिभर्ता स्याद् वर्षद्वादशपाठतः ॥२०८॥अष्टवर्षप्राठेन कायप्रवेशसिद्धिभाक् ।शड्वर्षमात्रपाठेन कुबेरसदृशो धनी ॥२०९॥वारैकमात्रपाठेन वर्षे वर्षे दिने दिने ।स भवेत् पञ्चतत्त्वज्ञो तत्त्वज्ञानी न संशयः ॥२१०॥सर्वपापविनिर्मुक्तो वसेत् कल्पत्रयं भुवि ।यः पठेत् सप्तधा नाथ सप्ताहनि दिने दिने ॥२११॥रात्रौ वारत्रयं धीमान् पठित्वा खेचरो भवेत् ।अश्विनी शुक्लपक्षे च रोहिण्यसितपक्षके ॥२१२॥अष्टम्यां हि नवम्यां तु पठेद् वारत्रय्म निशि ।दिवसे वारमेकं तु स भवेत् पञ्चतत्त्ववित् ॥२१३॥अनायासेन देवेश पञ्चामरादिसिद्धिभाक् ।खेचरीमेलनं तस्य नित्यं भवति निश्चितम् ॥२१४॥स्वर्गे मर्त्ये च पाताले क्षणान्निःसरति ध्रुवम ।अग्निस्तम्भं जलस्तम्भं वातस्तम्भं करोति सः ॥२१५॥पञ्चतत्त्वक्रमेणैव श्मशाने यसु सम्पठेत् ।स भवेद् देवदेवेशः सिद्धान्तसारपण्डितः ॥२१६॥शूकरासवसंयुक्तः कुलद्रव्येण वा पुनः ।बिल्वमूले पीठमूले विधानेन प्रपूजयेत् ।परेण परमा देवी तुष्टा भवति सिद्धिदा ॥२१७॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरण षट्चक्रप्रकाशे भैरवभैरवीसंवादे हाकिनीसहस्त्रनाम विन्यासो नाम षडशीतितमः पटलः ॥८६॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP