संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चशीतितमः पटलः| हाकिनीसहस्त्रनामविन्यासः १ पञ्चशीतितमः पटलः हाकिनीसहस्त्रनामविन्यासः १ हाकिनीसहस्त्रनामविन्यासः २ हाकिनीसहस्त्रनामविन्यासः ३ हाकिनीसहस्त्रनामविन्यासः ४ हाकिनीसहस्त्रनामविन्यासः ५ पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः १ हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीसहस्त्रनामविन्यासः १ Translation - भाषांतर श्रीआनन्दभैरवी उवाचआनन्दार्णवमध्यभावघटितश्रौतप्रवाहोज्ज्वले कान्ते दत्तसुशान्तिदे यमदमाहलादैकशक्तिप्रभे ।स्नेहानन्दकटाक्षदिव्यकृपया शीघ्रं वदस्वाद्भुतंहाकिन्याः शुभनाम सुन्दरसहस्त्राष्टोत्तरं श्रीगुरोः ॥१॥श्री आनन्दभैरवी उवाचसाक्षात्ते कथयामि नाथ सकलं पुण्यं पवित्रं गुरोनाम्नां शक्तिसहस्त्रनाम भविकं ज्ञानादि चाष्टोत्तरम् ।योगीन्द्रैर्जयकाङ्क्षिभिः प्रियकलाप्रेमाभिलाषार्चितैःसेव्य्म पाठ्यमतीव गोप्यमखिले शीघ्रं पठस्व प्रभो ॥२॥अस्य श्रीपरनाथमहाशक्तिहाकिनीपरमेश्वरीदेव्यष्टोत्तरसहस्त्रनाम्नः स्तोत्रस्य सदाशिव ऋषिः गायत्रीच्छन्दः श्रीपरमेश्वरीहाकिनीमहाशक्तिर्देवता क्लीं बीजं स्वाहा शक्तिः सिद्धलक्ष्मीमूलकीलकं देहान्तर्गत महाकायज्ञानसिद्ध्यर्थे जपे विनियोगःॐ हाकिनी वसुधा लक्ष्मी परमात्मकला परा ।परप्रिया परातीता परमा परमप्रिया ॥३॥परेश्वरी परप्रेमा परब्रह्मस्वरुपिणी ।परन्तपा परानन्दा परनाथनिसेविनी ॥४॥पराकाशस्थिता पारा पारापारनिरुपिणी ।पराकङ्क्ष्या पराशक्तिः पुरातनतनुः प्रभा ॥५॥पञ्चाननप्रिया पूर्वा परदारा परादरा ।परदेशगता नाथा परमाहलादवर्धिनी ॥६॥पार्वती परकुलाख्या पराञ्जनसुलोचना ।परंब्रह्मप्रिया माया परंब्रह्मप्रकाशिनी ॥७॥परंब्रह्माज्ञानगम्या परंब्रह्मश्वरप्रिया ।पूर्वातीता परातीता अपारमहिमस्थिता ॥८॥अपारसागरोद्धारा अपारदुस्तरोद्धरा ।परानलशिखाकारा परभ्रूध्यवासिनी ॥९॥परश्रेष्ठा परक्षेत्रवासिनी परमालिनी ।पर्वतेश्वरकन्या च पराग्निकोटिसम्भवा ॥१०॥परच्छाया परच्छत्रा परिच्छिद्रविनिर्गता ।परदेवगतिः प्रेमा पञ्चचूडामणिप्रहा ॥११॥पञ्चमी पशुनाथेशी त्रिपञ्चा पञ्चसुन्दरी ।पारिजातवनस्था च पारिजातस्त्रजप्रिया ॥१२॥परापरविभेदा च परलोकविमुक्तिदा ।परतानलाकारा परस्त्री परजापिनी ॥१३॥परास्त्रधारिणी पूरवासिनी परमेश्वरी ।प्रेमोल्लासकरी प्रेमसन्तानभक्तिदायिनी ॥१४॥परशब्दप्रिया पौरा परामर्षनकारिणी ।प्रसन्ना परयन्त्रस्था प्रसन्ना पद्ममालिनी ॥१५॥प्रियंवदा परत्राप्ता परधान्यार्थवर्धिनी ।परभूमिरता पीता परकातरपूजिता ॥१६॥परास्यवाक्यविनता पुरुषस्था पुरञ्जना ।प्रौढा मेयहरा प्रीतिवर्धनी प्रियवर्धिनी ॥१७॥प्रपञ्चदुःखहन्त्री च प्रपञ्चसारनिर्गता ।पुराणनिर्गता पीना पीनस्तनभोवज्ज्वला ॥१८॥पट्टवस्त्रपरीधाना पट्टसूत्रप्रचालिनी ।परद्र्व्यप्रदा प्रीता परश्रद्धा परान्तरा ॥१९॥पावनीया परक्षुब्धा परसारविनाशिनी ।परमेव निगूढार्थत्त्वचिन्ताप्रकाशिनी ॥२०॥प्रचुरार्थप्रदा पृथ्वी पद्मपत्रद्वयस्थिता ।प्रसन्नह्रदयानन्दा प्रसन्नासनसंस्थिता ॥२१॥प्रसन्नरत्नमालाढ्या प्रसन्नवनमालिनी ।प्रसन्नकरुणानन्दा प्रसन्नह्रदयस्थिता ॥२२॥पराभासरता पूर्वपश्चिमोत्तरदक्षिणा ।पवनस्था पानरता पवनाधारविग्रहा ॥२३॥प्रभुप्रिया प्रभुरता प्रभुभक्तिप्रदायिनी ।परतृष्णावर्धिनी च प्रचया परजन्मदा ॥२४॥परजन्मनिरस्ता च परसञ्चारकारिणी ।परजाता पारिजाता पवित्रा पुण्यवर्धिनी ॥२५॥पापहर्त्री पापकोटिनाशिनी परमोक्षदा ।परमाणुरता सूक्ष्मा परमाणुविभञ्जिनी ॥२६॥परमाणुस्थूलकरी परात्परतरा पथा ।पूषणः प्रियकर्त्री च पूषणा पोषणत्रपा ॥२७॥भूपपाला पाशहस्ता प्रचण्डा प्राणरक्षिणी ।पयःशिलाऽपूपभक्षा पीयूषपानतत्परा ॥२८॥पीयूषतृप्तदेहा च पीयूषमथनक्रिया ।पीयूषसागरोद्भूता पीयूषीस्निग्धदोहिनी ॥२९॥पीयूषनिर्मलाकारा पीयूषघनविग्रहा ।प्राणापानसमानादिपवनस्तम्भनप्रिया ॥३०॥पवनांशप्रभाकारा प्रेमोद्स्वभक्तिदा ।पाषानतनुसंस्था च पाषाणचित्तविग्रहा ॥३१॥पश्चिमानन्दनिरता पश्चिमा पश्चिमप्रिया ।प्रभाकारतनूग्रा च प्रभाकरमुखी प्रभा ॥३२॥सुप्रभा प्रान्तरस्था च प्रेयत्वसाधनप्रिया ।अस्थिता पामसी पूर्वनाथपूजितपादुका ॥३३॥पादुकामन्त्रसिद्धा च पादुकामन्त्रजापिनी ।पादुकामङुलस्था च पादुकाम्भोजराजिनी ॥३४॥प्रभाभारुणकोटिस्था प्रचण्डसूर्यकोटिगा ।पालयन्ती त्रिलोकानां परमा परहाकिनी ॥३५॥परावरानना प्रज्ञा प्रान्तरान्तःप्रसिद्धिदा ।पारिजातवनोन्मादा परमोन्दादरागिणी ॥३६॥परमाहलादमोदा च परमाकाशवाहिनी ।परमाकाशदेवी च प्रथात्रिपुरसुन्दरी ॥३७॥प्रतिकूलकरी प्राणाकूलपरिकारिणी ।प्राणरुद्रेश्वरप्रीता प्रचण्डगणनायिका ॥३८॥पोष्ट्री पौत्रादिरक्षत्री पुण्ड्रका पञ्चचामरा ।परयोषा परप्राया परसन्तानरक्षका ॥३९॥परयोगिरता पाशपाशुपाशविमोहिनी ।पशुपाशप्रदा पूज्या प्रदासगुणदायिनी ॥४०॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP