द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् ३
हाकिनीपरशिवपूजनम्
श्रीकण्ठादिन्यासविधानम्
मन्त्रेण पुटितं रुद्रं मातृस्थाने प्रविन्यसेत् ।
श्रीकण्ठोऽनन्तसूक्ष्मेश त्रिमूर्तीशामरेशकौ ॥८५॥
अर्घीशो भारभूतीशोऽतिथीशो हि ततः परम् ।
स्थाणुकेशो हरेशश्च झिण्टीशो भौतिकेश्वरः ॥८६॥
सद्योजातेश्वरः पश्चादनुग्राहेश्वरस्ततः ।
अक्रूरेशो महासेनः सूराणामधिपेश्वरः ॥८७॥
क्रोधीशश्चापि चण्डेशः पञ्चान्तकेश एव च ।
शिवोक्तमेशश्चात्रापि चैकरुद्रेश्वरस्ततः ॥८८॥
कूर्मेश एकनेत्रेशश्चतुरानन एव च ।
अजेशश्चापि सर्वेसः सोमेशस्तदनस्तरम् ॥८९॥
लाङुलीशो दारुकेशोऽर्धनारीश्वर एव च ।
उमाकान्तेश्वरः पश्चादाषाढीशस्ततः परम् ॥९०॥
दण्डीशो द्रीशमीनेशौ मेघेशस्तदनस्तरम् ।
लोहितेशः शिखीशश्च छागलण्डेश एव च ॥९१॥
द्विरण्डेशो महाकालेश्वरो वाणीश एव च ।
भुजङेशः पिनाकीशः खड्गीशस्तदनन्तरम् ॥९२॥
बकेश्वरश्च श्वेतशो भृग्वीशस्तदनन्तरम् ।
नकुलीशः शिवेशश्च संवर्तकेश एव च ॥९३॥
पञ्चाशदेकयुक्ताः स्यू रुद्राद्याः क्रोधभैरवाः ।
आदौ मूलं ततो मातृवर्णमेक्म क्रमेण तु ॥९४॥
मातृकास्थानमध्ये तु श्रीकण्ठदीश्वरास्ततः ।
चतुर्थ्यन्ते नमः शब्दं ततो मूलं पुनः पुनः ॥९५॥
इति श्री कण्ठविन्यासः कथितः कुलभैरव ।
तदिदानी ग्रहन्यासं श्रृणु वक्ष्यामि तत्त्वतः ॥९६॥
ह्रदये च भ्रुवोर्मध्ये लोचनत्रितये ततः ।
ह्रदये च कण्ठकूपे गलदेशे ततः परम् ॥९७॥
नाभिमूले मुखाम्भोजे गुह्ये च विन्यसेद् ग्रहान् ।
रविसोमौ मङुलश्च बुधो बृहस्पतिस्तथा ॥९८॥
शुक्रः शनैश्चः पश्चाद् राहुः केतुस्ततः परम् ।
न्यसेत्तु स्वस्वमुद्रया ममोक्तस्थानमण्डले ॥९९॥
ग्रहन्यासविधानम्
स्वरैः सूर्यं यादिरान्तैः सोमं कादिशरैः कुजम् ।
चादिपञ्चाक्षरं नाथ बुधं टादिशरैर्गुरुम् ॥१००॥
डादिहान्तैस्तथा शुक्रं पादिमान्तैः शनैश्चरम् ।
शादिहान्तैस्तथा राहुं लक्षाद्यां केतुमेव च ॥१०१॥
लोकपालन्यासमादौ वक्ष्यामि कुलभैरव ।
शिरोमण्डलमध्ये तु दक्षिणावर्तयोगतः ॥१०२॥
अधःपर्यन्तमाल्यस्य मूलेन पुटितं सदा ।
इन्द्राय शक्तिहस्ताय सवाहनाय ॐ नमः ॥१०३॥
ह्रस्वपञ्चस्वरेणापि मूलान्त संन्यसेत् सुधीः ।
एकादशस्वरेणापि युक्ताय वहनये नमः ॥१०४॥
सवाहनाय सर्वास्त्रधारिणे तादृशाय च ।
यमाय वाहस्थाय शूलास्त्रधारिणे नमः ॥१०५॥
कादिपञ्चवर्णसारैर्मूलेन पुटिततैरपि ।
कर्णे दक्षिणमूलोर्ध्वे हस्तस्य तत्त्वमुद्रया ॥१०६॥
यमन्यासं प्रकृत्याशु नैऋत्ये न्यासमाचरेत् ।
आदौ बीजं चादिञ्चबीजान्ते नैऋताय च ॥१०७॥
वसोऽधिपतये सर्वास्त्रादिवाहनवाहिने ।
नमोऽन्ते मूलमन्त्रं तु इति सर्वत्र भावना ॥१०८॥
मूलं टादिपञ्चवर्णं वरुणाय ततः परम् ।
सवाहनाय सर्वास्त्रधारिणे नम एव च ॥१०९॥
तदन्ते मूलमन्त्रं तु वरुणाय समाचरेत् ।
मूलान्ते तादिपञ्चार्ण सवाहनाय वायवे ॥११०॥
सर्वास्त्रधारिणे पश्चान्नमो मूलं ततः परम् ।
ततः कुर्यात् कुबेरस्य न्यासं परमदुर्लभम् ॥१११॥
आदौ मूलं पादिपञ्चाक्षरमुच्चार्य साधकः ।
कुबेराय सर्वास्त्रधारिणे नरवाहिने ॥११२॥
नमोऽन्ते मूलमन्त्रं तु वामकर्णोपरि न्यसेत् ।
आदौ मूलं पादिवान्तमीशानाय ततः परम् ॥११३॥
सवाहनाय सर्वास्त्रधारिणे नम उच्चरेत् ।
तदन्ते बीजविन्यासमीशानन्यास ईरितः ॥११४॥
आदौ मूलं शादिहान्तं शक्रोर्ध्वे हस्तमर्पयन् ।
अधोऽनन्ताय देवाय सर्वास्त्रधारिणे ततः ॥११५॥
सवाहनाय ह्रच्छब्दं मूलं चापि तदन्तरे ।
आदौ मूलं ततो लक्षं ब्रह्मणेऽस्त्रादिधारिणे ॥११६॥
सवाहनाय ह्रच्छब्दं मूलञ्च तदनन्तरम् ।
ब्रह्मरन्ध्रे प्रविन्यस्य ब्रह्मज्ञानमवाप्नुयात् ॥११७॥
N/A
References : N/A
Last Updated : May 01, 2011
TOP