संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्वयशीतितमः पटलः| हाकिनीपरशिवपूजनम् २ द्वयशीतितमः पटलः हाकिनीपरशिवपूजनम् १ हाकिनीपरशिवपूजनम् २ हाकिनीपरशिवपूजनम् ३ हाकिनीपरशिवपूजनम् ४ हाकिनीपरशिवपूजनम् ५ हाकिनीपरशिवपूजनम् ६ द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् २ हाकिनीपरशिवपूजनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीपरशिवपूजनम् २ Translation - भाषांतर पीठनायिकानामानिकमला सुन्दरी रम्या मोहिनी हरमेखला ।तेजोरुपा शिखावहिनज्वालाकालानलेश्वरी ॥४९॥समया रमणी भीमा रतिः कामसरस्वती ।वीणावती मधुमती वामनाकर्षिणी तथा ॥५०॥ईरा शुद्धात्मिका भद्रा शान्तिर्निर्माल्यवासिनी ।अरुन्धती च सावित्री किरणाच्छादिनी तथा ॥५१॥स्वाहा स्वधा विशालाक्षी मदना मदनातुरा ।भ्रान्तिः प्रभावती ज्ञानदात्री विज्ञानदायिनी ॥५२॥कोकिलाक्षी कुरङाक्षी बोधिनी सप्तमण्डली ।हिरण्या मन्दिरा चेतः शुद्धिदा सिद्धिदा तथा ॥५३॥मन्दाकिनी बृहद्गङा सिद्धा भोगवती तथा ।तरश्मिनी च मोहा च त्रिवेणी मूर्तधारिणी ॥५४॥गुर्वी तरङुपूज्या च विमला त्रिपुरा परा ।त्रितारी तारिणी भद्रकालिका ग्रन्थिभेदिनी ॥५५॥रत्नमाला पापहरा पार्वती मानसीश्वरा ।भगमालिन्युमा देवी देवमाता कलावती ॥५६॥पञ्चानना कालजित्वा दृप्ता पञ्चशिखा तथा ।मर्दिनी रणमातङी खड्गहस्ता हसन्मुखी ॥५७॥पद्ममाला किङ्किणी च धरित्री च वसुन्धरा ।फाल्गुनी पञ्चपीठस्था दीप्ता घोषयसालसा ॥५८॥पवित्रा धूमिनी दीर्घजङ्वा व्याघ्रमुखी तथा ।कातरा तरुणी हक्षा हाकिनीन्द्रावती जया ॥५९॥जयदा पूजिता एताः शतच्छदनिकेतने ।पराशक्तिः पूजियित्वा मन्त्रशक्तिं प्रपूजयेत् ॥६०॥मनशक्तयःतरला चञ्चला धात्री चारुणा सूर्यगा दया ।स्मृतिर्दीक्षा धारणाक्षी दंशिनी भद्रकालिका ॥६१॥षट्कालतारिणी रुद्रवलिता वर्णरुपिणी ।एताः पूज्या महादेव योगिन्यो मन्त्रशक्तयः ॥६२॥ह्रदि ध्यानं प्रवक्ष्यामि ध्यानात्मा शाकदो यतः ।महाबीजं रक्तवर्णं विभावय न ... ... ... ॥६३॥महासुन्दररुपं तु कोटिसूर्यसमप्रभम् ।विभाव्य मनसा योगी भूतशुद्धिं समाचरेत् ॥६४॥वहिनना दह्यमानं तु देह ध्यात्वा पुनः पुनः ।वायुना शोष्य देहं तु जलेनाप्लावयन् पुनः ॥६५॥मूलमन्त्रेण सर्वाङुं सुधासागरसम्भवम् ।ध्यात्वा दिव्यमयं पश्चान्मनः पूजां समाचरेत् ॥६६॥न्यासजालं प्रवक्ष्यामि साधकानां हिताय च ।न्यासजालप्रभावेण साधको योगिराड् भवेत् ॥६७॥अच्छेद्याभेद्यकायः स्यान्मृत्युजेता स्वयं भवेत् ।ऋषिमातृकरन्यासं चाङुन्यासं ततः परम् ॥६८॥आचरेत् पूर्ववद् भक्त्या मूलं चाद्याक्षरेण च ।सदाशिव ऋषिः प्रोक्तो गायत्रीच्छन्द एव च ॥६९॥देवता हाकिनी देवी परनाथप्रियङ्करी ।देवता क्लीं बीजसारं कीलकं मूलदेव च ॥७०॥शीर्षे मुखे ह्रदि ग्रन्थौ मूलाधारे च विग्रहे ।ऋषिन्यासं सदा कुर्याद्धाकिनी प्रीतिवर्धनम् ॥७१॥ॐ पदान्ते च शिरसि सदाशिवाय शब्दतः ।ऋषये नम उच्चार्य मुखे शब्दं ततो वदेत् ॥७२॥गायत्रीच्छन्दसे पश्चान्नमःशब्दं ततो वदेत् ।ह्रदि श्रीहाकिनीदेव्यै परशक्त्यै ततो वदेत् ॥७३॥देवतायै नमः पश्चान्मूलाधारे ततो वदेत् ।क्लीं बीजाय नमः पश्चात् सर्वाङे ततो वदेत् ॥७४॥मूलमार्यदेवतायै नमः शब्दं ततो वदेत् ।ततः कुर्यान्महादेव सर्वाङुसिद्धये ॥७५॥ह्रदये हस्तमारोप्य श्रीतत्त्वमुद्रया सुधीः ।बिन्दुयुक्तं न्यसेदादौ ततो दक्षभुजे न्यसेत् ॥७६॥एकारादि चतुर्वर्ण्यं मूलेन पुटितं प्रभो ।बिन्दुयुक्तं दक्षहस्ते विन्यसेत् साधकोत्तमः ॥७७॥तथा वामभुजे न्यासमाचरेन्मनु सम्पुटम् ।ठादिढान्ताक्षरैर्बिन्दयुक्तैर्न्यासं समाचरेत् ॥७८॥नादिभान्ताक्षरैर्बिन्दुयुक्तैः स्वमनुसम्पुटैः ।दक्षपादे न्यसेद्धीमान् ततो वामपदे न्यसेत् ॥७९॥मादिक्षान्ताक्षरैर्बिन्दुसंयुतैर्मनुसम्पुटैः ।मातृकाकान्यासमाकृत्य करन्यासं समाचरेत् ॥८०॥ह्रींबीजेन करन्यासं षड्दीर्घभाक्स्वरेण च ।एवं चाङ्न्यासं कार्यं विधानेन कुलेश्वर ॥८१॥पूर्वोक्तेनापि सकलं न्यासजालं समापयेत् ।ततः षोढा समाकुर्याद्धाकिनीपरदेवयोः ॥८२।मुलाख्या मातृकास्थाने न्यासस्थानं सुलक्षणम् ।रुद्रैस्तु प्रथमो न्यासो द्वितीयस्तु ग्रहैर्युतः ॥८३॥लोकपालैस्तृतीयः स्याच्छिवशक्त्या चतुर्थकः ।शक्त्यादिभिः पञ्चमः स्यात् षष्ठः पीठैर्निगद्यते ॥८४॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP