श्रीआनन्दभैरवी उवाच
श्रूतयां देव कल्याण त्रैलोक्यविजयात्मक ।
सदाशिवमनुं नाथ महापातकनाशनम् ॥१॥

आयुरारोग्यफलदं सर्वशत्रुनिवारण्‍ ।
अतिगुह्यतमं ध्यानं बालिशानां सुखावहम् ॥२॥

सदाशिवमन्त्रकथनम्
आद्याबीज समुद्धृत्य कामबीजं तदन्तरम् ।
रुद्रबीज रमाबीजं कालबीजं ततः सदा ॥३॥

शिवनाथप्रियानन्दं ज्ञानं देहि युगं द्विठः ।
फणिबीजं समुद्धृत्य राजराजेश्वरीमनुम् ॥४॥

वैष्णवीबीजमुद्धृत्य शिवबीजं तदन्तिके ।
सदाशिवाय शब्दान्ते ह्रल्लेखा वहिनसुन्दरी ॥५॥

आदिबीजं समुद्धृत्य ततो वामतनुस्थिता ।
शब्दबीजं मूलबीजं सदाशिव नमोऽस्तु ते ॥६॥

फलश्रुति
द्विठान्तोऽयं मनुः श्रेष्ठः सर्वरत्नसमृद्धिदः ।
वासुदेवसमो विद्वान् स भवेन्नात्र संशयः ॥७॥

वैष्णवो वा महाशाक्तो महाशैवोऽथवा पुनः ।
गृहणीयान्मनुराजेन्द्रं यत्प्रसादाच्छिवो भवेत् ॥८॥

विमला वाक्यसिद्धिः स्यात्कार्य सिद्धिर्न संशयः ।
शिवमन्त्रकथनम्
शिवमन्त्रं प्रवक्ष्यामि येन सर्वार्थपारगः ॥९॥

अकालेऽपि च योगी स्यात् कामधेनुस्वरुपवान् ।
हालाहलं समुद्धृत्य ततो माहेशबीजकम् ॥१०॥

श्रीबीजं धर्मबीजञ्च क्षेत्रपालमनुं तथा ।
नीलकण्ठमनुं पश्चात् प्रियागुं बीजमुद्धरेत् ॥११॥

शिवबीजं तदन्ते तु सदाशिवाय धीमहि ।
तन्नः शिवः प्रचोशब्दाद्दयादेवं द्विठो मनुः ॥१२॥

शिवपूजनम्
आवाहनं पाद्यमर्घ्यमाचमनीयमन्तरम् ।
गन्धपुष्पबिल्वपत्रकोटिभिः परिपूजयेत् ॥१३॥

स्तोषणं पोषणं पुष्टं दारणं मारणं तथा ।
सुप्तं कलहमुक्तानां पूजनं सुमहत्फलम् ॥१४॥

सर्वादीन् परिपूज्याथ सद्योजातादिमर्चयेत् ।
प्राणायामत्रयं कृत्वा जपेत् तद्गतमानसः ॥१५॥

ध्यानकथनम्
देवं पिनाकपाणिं च पञ्चवक्त्रं त्रिलोचनम् ।
शूलखट्‌वाङुमुशललगदापाणिं महाभुजम् ॥१६॥

देवदेवं महादेवं सर्वभूतात्मकं गुरुम् ।
त्रैलोक्यरक्षकं शम्भुं भुजङुहारभूषितम् ॥१७॥

अट्टाहासादिशक्तीनां सहस्त्रगणमण्डितम् ।
वृषासनस्थं नीलेशं नीलकण्ठं सदाशिवम् ॥१८॥

एवं ध्यात्वा जपेन्मन्त्रं सहस्त्रं प्रत्यहं शुचिः ।
विशेषेण दिवारात्रौ समभागेन सञ्जपेत् ॥१९॥

तत्रव त्र्यवकं ध्यात्वा तत्तद्रुपेण साधकः ।
तद्बुध्वा पूजयित्वा च त्र्यबकं यो जपेन्नरः ॥२०॥

तस्य हस्ते त्रिभुवनं हस्तामलकवद् भवेत् ।
भोगमोक्षौ करे तस्य किमन्यत् साधनेन च ॥२१॥

सदाशिवेन मनुना सम्पुटीकृत्य यो जपेत् ।
तस्य सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते ॥२२॥

प्रणवं पूर्वमुच्चार्य त्र्यबकं तदनन्तरम् ।
यजामहे समुद्धृत्य सुगन्धिं पुष्टिवर्धनम् ॥२३॥

उर्वारुकमिवान्ते तु बन्धनात् पदमुद्धरेत् ।
मृत्योर्मुक्षीयशब्दान्ते मामृताद्वहिनसुन्दरी ॥२४॥

सदाशिवेन पुटितं मन्त्रं यो जपते नरः ।
स भवेत् कल्पतरुपः पूजनेनामृतं लभेत् ॥२५॥

सर्वकालं सुखी भूत्वा मोक्षमाप्नोति निश्चितम् ।
अन्यं त्र्यम्बकमन्त्रं तु श्रुणुष्व सर्वकामदम् ॥२६॥

राज्यदं धनदं मन्त्रं महापातकनाशनम् ।
शब्दब्रह्ममयं साक्षात् सर्वज्ञानं लभेद् ध्रुवम् ॥२७॥

कालकूटं समुद्धृत्य मृत्युञ्जयं समुद्धरेत् ।
महापातकराशिं मे हरयुग्मं ततो द्विठः ॥२८॥

अन्यमन्त्रं प्रवक्ष्यामि सावधानोऽवधारय ।
विद्याद्ये प्रणवं दत्वा कामबीजद्वयं द्वयम् ॥२९॥

मृत्युञ्जयं क्षेत्रपालं विशुद्धेशं स्थिरं कुरु ।
युगलं कामबीजान्तं देव्यन्ते वहिनसुन्दरी ॥३०॥

अन्यं मन्त्रं प्रवक्ष्यामि सावधानोऽवधारय ।
कामकालीयुगं पश्चात् संज्ञाबीजद्वयं ततः ॥३१॥

बटुकं कामबीजञ्च षोडशारं प्रकाशय ।
युगलं शक्तिकूटञ्च शिवबीजं ततो द्विठः ॥३२॥

पूर्ववत् सकलं कुर्याज्जपपूजादिकं प्रभो ।
सदाशिवपूजनं च ध्यानहोमादितर्पणम् ॥३३॥

अन्यं मन्त्रं प्रवक्ष्यामि महादेवं समुद्धरेत् ।
बटुकं क्षेत्रपालं च गणेशस्य मनुं ततः ॥३४॥

कण्ठाब्जं मे सदानन्द प्रकाश युगं द्विठः ।
अस्यापि ध्यानमाकृत्य जप्त्वा लक्षं समापयेत् ॥३५॥

करकलितकपालः कुण्डली दण्डपाणि
स्तरुणतिमिरनीलो व्यालयज्ञोपवीती ।
क्रमसमयसपर्याविघ्नविच्छेदहेतु
र्जयति वटुकनाथः सिद्धिदः कौलिकानाम् ॥३६॥

वन्दे बालं स्फटिकसदृशं कुण्डलोल्लासवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।
दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां दधतमनिशं शूलदण्डौ दधानम् ॥३७॥

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङुरागोज्ज्वलं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारकौस्तुभधरं शीतांशुखण्डज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥३८॥

देवेशं बटुकं सदाशिवगुरुं त्रैलोक्यरक्षाकरं
नानालङ्‌कृतभूषणं शशधरं बन्धूकपुष्पोज्ज्वलम् ।
श्वेताश्वेतविभूषणं मणिमयं कृष्णं सनीलं शिवं
देवानामधिदैवतं सुखकरं नाथं सदा भावये ॥३९॥

एवं ध्यात्वा महायोगी नीलकण्ठं सदाशिवम् ।
कण्ठपद्मे स्थिरो शाकिनीदर्शनं लभेत् ॥४०॥

भूत्वा महावीरनाथो मनोयोगमवाप्नुयात् ।
सिद्धमन्त्रं प्रवक्ष्यामि येन सर्वत्र पारगः ॥४१॥

आकाशगामिनी सिद्धिः स्तम्भनादिसुसिद्धिभाक् ।
वाक्सिद्धिं कायसिद्धिञ्च जरामरणवर्जितः ॥४२॥

शिवबीजं समुद्धृत्य विजयाबीजमुद्धरेत् ।
कामकालीयुगान्ते तु रमात्रिकूटमुद्धरेत् ॥४३॥

बीजत्रयं समुद्धृत्य (स्फें स्फें स्फें)कामनाथाय शब्दतः ।
सदाशिवाय शब्दान्ते वरदाय नमो द्विठः ॥४४॥

एतन्मन्त्रप्रसादेन योगी स्यान्नात्र संशयः ।
अन्यं मन्त्रं प्रवक्ष्यामि यथावदवधारय ॥४५॥

क्षान्तबीजं समुद्धृत्य लान्तबीजत्रयं तथा ।
भवानीबीजमुद्धृत्य सङ्कट्टयुगलं ततः ॥४६॥

क्रोधराजबीजयुग्मं लक्ष्मीशपतये ततः ।
वरदाय ह्रत्पदान्ते कामदाय ततो द्विठः ॥४७॥

अन्यं मन्त्रं प्रवक्ष्यामि येन योगी भवेन्नरः ।
गगनाबीजमुद्धृत्य कामराजं समुद्धरेत् ॥४८॥

मायान्ते देवदेवाय ह्रच्छिवाय द्विठो मनुः ।
एतन्मन्त्रप्रसादेन किन्न सिद्धयति भूतले ॥४९॥

अनायासेन योगी स्यात् किं पुनः साधनेन च ।
केवलं जपमात्रेण योगी स्यान्नात्र संशयः ॥५०॥

अन्यं वक्ष्ये भैरवेन्द्र प्रणवं कामराजकम् ।
श्रीबीजं वहिनयुगलं रिपुहरयुगं ततः ॥५१॥

सिद्धिं देहि ततः स्वाहा मन्त्रोऽयं योगिदुर्लभः ।
पूर्ववद्धायानमेवं हि कृत्वाऽमरत्वश्नुते ॥५२॥

अन्यं मन्त्रं प्रवक्ष्यामि येन पीठस्थिरो भवेत् ।
अमादिबीजाभाष्य ततो महापदं स्मरेत् ॥५३॥

कालाय विकरणाय कलान्ते तु समुद्धरेत् ।
बलाय बलविकरणाय षोडशारदलं ततः ॥५४॥

निवेशाय युगं वित्तं स्थापयान्ते सदाशिव ।
काकिनीशाभावहिनसुन्दरीकामदो मनुः ॥५५॥

एकाक्षरं प्रवक्ष्यामि येन सिद्धो मनुर्भवेत् ।
क्षान्तबीजं बिन्दुयुक्तं चन्द्रबीजं तथोद्धरेत् ॥५६॥

अधो दन्तयुतं कृत्वा जपेत् तद्गतमानसः ।
प्रत्येकदलमध्ये तु ध्यात्वा देवं सदाशिवम् ॥५७॥

अनायासेन सिद्धिः स्यात् प्राणरक्षा सदा भवेत् ।
पुनरेकाक्षरं वक्ष्ये येन सिद्धयन्ति मानवाः ॥५८॥

न देयं पाशवेभ्यश्च निन्दकेभ्यो विशेषतः ।
शिवं चन्द्रबिन्दुयुक्तं महामन्त्रं प्रकीर्तितम् ॥५९॥

अस्य साधनमात्रेण योगिनां वल्लभो भवेत् ॥६०॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे एकसप्ततितमः पटलः ॥७१॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP