संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकोनसप्ततितमः पटलः| फलश्रुतिकथनम् अथैकोनसप्ततितमः पटलः शाकिनीसदाशिवस्तवनम श्रीभुवनमङुल महास्तोत्र फलश्रुतिकथनम् अथैकोनसप्ततितमः पटलः - फलश्रुतिकथनम् शाकिणीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्त्रनामविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल फलश्रुतिकथनम् Translation - भाषांतर इति ते कथितं नाथ त्रैलोक्यसारमङुलम् ।भुवनमङुलं नाम महापातकानाशनम् ॥१३४॥अस्य प्रपठेऽपि च यत्फलं लभते नरः ।तत्सर्वं कथितुं नालं कोटिवर्षशतैरपि ॥१३५॥तथापि तव यत्नेन फलं श्रृणु दयार्णव ।राजद्वारे नदीतीरे सङ्ग्रामे विजनेऽनले ॥१३६॥शून्यागारे निर्जने वा घोरान्धकाररात्रिके ।चतुष्टये श्मशाने वा पठित्वा षोडशे दले ॥१३७॥रक्ताम्भोजैः पूजयित्वा मनसा कामचिन्तयन् ।घृताक्तैर्जुहुयान्नित्यं नाम प्रत्येकमुच्चरन् ॥१३८॥मूलमन्त्रेण पुटितमाज्यं वहनौ समर्पयेत् ।अन्तरे स्वसुखे होमः सर्वसिद्धिसुखप्रदः ॥१३९॥सद्योमधुयुतैर्मांसैः सुसुखे मन्त्रमुच्चरन् ।प्रत्येकं नामपुटितं हुत्वा पुनर्मुखाम्बुजे ॥१४०॥कुण्डलीरसजिहवायां जीवन्मुक्तो भवेन्नरः ।धृत्वा वापि पठित्वा वा स्तुत्वा वा विधिना प्रभो ॥१४१॥महारुद्रो भवेत्साक्षान्मम देहान्वितो भवेत् ।योगी ज्ञानी भवेत् सिद्धः सारसङ्केतदर्शकः ॥१४२॥अपराजितः सर्वलोके किमन्यत् फलसाधनम् ।धृत्वा राजत्वमाप्नोति कण्ठे पृथ्वीश्वरो भवेत् ॥१४३॥दक्षहस्ते तथा धृत्वा धनवान् गुणवान् भवेत् ।अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥१४४॥हुत्वा राजेन्द्रनाथश्च महावाग्मी सदाऽभयः ।सर्वेषां मथनं कृत्वा गणेशो मम कार्तिकः ॥१४५॥देवनामधिपो भूत्वा सर्वज्ञो भवति प्रभो ।यथा तथा महायोगी भ्रमत्येव न संशयः ॥१४६॥प्रातःकाले पठेद् यस्त्य मस्तके स्तुतिधारकः ।जलस्तम्भं करोत्येव रसस्तम्भं तथैव च ॥१४७॥राज्यस्तम्भं नरस्तम्भं वीर्यस्तम्भं तथैव च ।विद्यास्तम्भं सुखस्तम्भं क्षेत्रस्तम्भं तथैव च ॥१४८॥राजस्तम्भं धनस्तम्भं ग्रामस्तम्भं तथैव च ।मध्याहने च पठेद् यस्य वहिनस्तम्भं करोत्यपि ॥१४९॥कालस्तम्भं वयः स्तम्भं श्वासस्तम्भं तथैव च ।रसस्तम्भं वायुस्तम्भं बाहुस्तम्भं करोत्यपि ॥१५०॥सायाहने च पठेद् यस्तु कण्ठोदरे च धारयन् । मन्त्रस्तम्भं शिलास्तम्भं शास्त्रस्तम्भं करोत्यपि ॥१५१॥हिरण्यरजतस्तम्भं वज्रस्तम्भं तथैव च ।अकालत्वादिसंस्तम्भं वातस्तम्भं करोत्यपि ॥१५२॥पारदस्तम्भनं शिल्पकल्पना ज्ञानस्तम्भनम् ।आसनस्तम्भनं व्याधिस्तम्भनं बन्धनं रिपोः ॥१५३॥षट्पद्मस्तम्भनं कृत्वा योगी भवति निश्चितम् ।वन्ध्या नारी लभेत् पुत्र सुन्दरं सुमनोहरम् ॥१५४॥भ्रष्टो मनुष्यो राजेन्द्रः किमन्ये साधवो जनाः ।श्रवणान्मकरे लग्ने चित्रायोगे च पर्वणि ॥१५५॥हिरण्ययोगे वायव्यां लिखित्वा माघमासके ।वैशाखे राजयोगे वा रोहिण्याख्या विशेषतः ॥१५६॥श्रीमद्भुवनमगलं नाम यशोदातृ भवेद् ध्रुवम् ।जायन्ते राजवल्लभा अमराः खेचरा लिखनेन ॥१५७॥धर्मार्थकाममोक्षं च प्राप्नुवन्ति च पाठकाः ।कीर्तिरात्मदृष्टिपातं लभते नात्र संशयः ॥१५८॥॥ श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरव शाकिनीसदाशिवस्तवनमङुलाष्टोत्तरसहस्तनामविन्यासो नाम एकोनसपतितमः पटलः ॥७९॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP