संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकोनसप्ततितमः पटलः| श्रीभुवनमङुल महास्तोत्र अथैकोनसप्ततितमः पटलः शाकिनीसदाशिवस्तवनम श्रीभुवनमङुल महास्तोत्र फलश्रुतिकथनम् अथैकोनसप्ततितमः पटलः - श्रीभुवनमङुल महास्तोत्र शाकिणीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्त्रनामविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल श्रीभुवनमङुल महास्तोत्र-अष्टोत्तरसहस्त्रनामकथनम् Translation - भाषांतर ॐ शाकिनी पीतवस्त्रा सदाशिव उमापतिः ।शाकम्भरी महादेवी भवानी भुवनप्रियः ॥१३॥योगिनी योगधर्मात्मो योगात्मा श्रीसदाशिवः ।युगाद्या युगधर्मा च योगविद्या सुयोगिराट् ॥१४॥योगिनी योगजेताख्यः सुयोग योगशङ्करः ।योगप्रिया योगविद्वान् योगदा योगषड्भुवि ॥१५॥त्रियोगा जगदीशात्मा जापिका जपसिद्धिदः ।यत्नी यत्नप्रियानन्दो विधिज्ञा वेदसारवित् ॥१६॥सुप्रतिष्ठा शुभकरो मदिरा मदनप्रियः ।मधुविद्या माधवीशः क्षितिः क्षोभविनाशनः ॥१७॥वीतिज्ञा मन्मथघ्नश्च चमरी चारुलोचनः ।एकान्तरा कल्पतरुः क्षमाबुद्धो रमासवः ॥१८॥वसुन्धरा वामदेवः श्रीविद्या मन्दरस्थितः ।अकलङ्का निरातङ्क उतङ्का शङ्कराश्रयः ॥१९॥निराकारा निर्विकल्पो रसदा रसिकाश्रयः ।रामा रामननाथश्च लक्ष्मी नीलेषुलोचनः ॥२०॥विद्याधरी धरानन्दः कनका काञ्चनाङुधृक् ।शुभा शुभकरोन्मत्तः प्रचण्डा चण्डविक्रमः ॥२१॥सुशीला देवजनकः काकिनी कमलाननः ।कज्जलाभा कृष्णदेहः शूलिनी खड्गचर्मधृक् ॥२२॥गतिग्राह्यः प्रभागौरः क्षमा क्षुब्धः शिवा शिवः ।जवा यतिः परा हरिर्हराहरोऽक्षराक्षरः ॥२३॥सनातनी सनातनः श्मशानवासिनीपतिः ।जयाक्षयो धराचरः समागतिः प्रमापतिः ॥२४॥कुलाकुलो मलाननो वलीवला मलामलः ।प्रभाधरः परापरः सरासरः कराकरः ॥२५॥मयामयः पयापयः पलापलो दयादयः ।भयाभयो जयाजयो गयागयः फलान्वयः ॥२६॥समागमो धमाधमो रमारमो वमावमः ।वराङुणा धराधरः प्रभाकरो भ्रमाभ्रमः ॥२७॥सती सुखी सुलक्षणा कृपाकरो दयानिधिः ।धरापतिः प्रियपतिर्विरागिणी मनोन्मनः ॥२८॥प्रधाविनी सदाचलः प्रचञ्चलातिचञ्चलः ।कटुप्रिया महाकटुः पटुप्रिया महापटुः ॥२९॥धनावली गणागणी खराखरः फणिः क्षणः ।प्रियान्विता शिरोमणिस्तु शाकिनी सदाशिवः ॥३०॥रुणारुणो घनाघनो हयी हयो लयी लयः ।सुदन्तरा सुदागमः खलापहा महाशयः ॥३१॥चलत्कुचा जवावृतो घनान्तरा स्वरान्तकः ।प्रचण्डघर्घरध्वनिः प्रिया प्रतापवहिनगः ॥३२॥प्रशान्तिरुन्दुरुस्थिता महेश्वरी महेश्वरः ।महाशिवाविनी घनी रणेश्वरी रणेश्वरः ॥३३॥प्रतापिनी प्रतापनः प्रमाणिका प्रमाणवित् ।विशुद्धवासिनी मुनिर्विशुद्धविन्मधूत्तमा ॥३४॥तिलोत्तमा महोत्तमः सदामया दयामयः ।विकारतारिणी तरुः सुरासुरोऽमरागुरुः ॥३५॥प्रकाशिका प्रकाशकः प्रचण्डिका विभाण्डकः ।त्रिशूलिनी गदाधरः प्रवालिका महाबलः ॥३६॥क्रियावती जरापतिः प्रभाम्बरा दिगम्बरः ।कुलाम्बरा मृगाम्बरा निरन्तरा जरान्तरः ॥३७॥श्मशाननिलया शम्भुर्भवानी भीमलोचनः ।कृतान्तहारिणीकान्तः कुपिता कामनाशन्ह ॥३८॥चतुर्भुजा पद्मनेत्रो दशहस्ता महागुरुः ।दशानना दशग्रीवः क्षित्पाक्षी क्षेपनप्रियः ॥३९॥वाराणसी पीठवासी काशी विश्वगुरुप्रियः ।कपालिनी महाकालः कालिका कलिपावनः ॥४०॥रन्ध्रवर्त्मस्थिता वाग्मी रती रामगुरुप्रभुः ।सुलक्ष्मीः प्रान्तरस्थश्च योगिकन्या कृतान्तकः ॥४१॥सुरान्तका पुण्यदाता तारिणी तरुणप्रियः ।महाभयतरा तारास्तारिका तारकाप्रभुः ॥४२॥तारकब्रह्मजननी महादृप्तः भवाग्रजः ।लिङुगम्या लिङुरुपी चण्डिका वृषवाहनः ॥४३॥रुद्राणी रुद्रदेवश्च कामजा काममन्थनः ।विजातीया जातितातो विधात्री धातृपोषकः ॥४४॥निराकारा महाकाशः सुप्रविद्या विभावसुः ।वासुकी पतितत्राता त्रिवेणी तत्त्वदर्शकः ॥४५॥पताका पद्मवासी च त्रिवार्ता कीर्तिवर्धनः ।धरणी धारणव्याप्तो विमलानन्दवर्धनः ॥४६॥विप्रचित्ता कुण्डकारी विरजा कालकम्पनः ।सूक्ष्माधारा अतिज्ञानी मन्त्रसिद्धिः प्रमाणगः ॥४७॥वाच्या वारणतुण्डश्च कमला कृष्णसेवकः ।दुन्दुभिस्था वाद्यभाण्डो नीलाङो वारणाश्रयः ॥४८॥वसन्ताद्या शीतरश्मिः प्रमाद्या शक्तिवल्लभः ।खडिगना चक्र्कुन्ताढ्यः शिशिराल्पधनप्रियः ॥४९॥दुर्वाच्या मन्त्रनिलयः खण्डकाली कुलाश्रयः ।वानरी हस्तिहाराद्यः प्रणया लिङुपूजकः ॥५०॥मानुषी मनुरुपश्च नीलवर्णा विधुप्रभः ।अधश्चन्द्रधरा कालः कमला दीर्घकेशधृक् ॥५१॥दीर्घकेशी विश्वकेशी त्रिवर्गा खण्डनिर्णयः ।गृहिणी ग्रहहर्ता च ग्रहपीडा ग्रहक्षयः ॥५२॥पुष्पगन्धा वारिचरः क्रोधादेवी दिवाकरः ।अञ्जना क्रूरहर्ता च केवला कातरप्रियः ॥५३॥पद्मामयी पापहर्ता विद्याद्या शैलमर्दकः ।कृष्णजिहवा रक्तमुखो भुवनेशी परात्परः ॥५४॥वदरी मूलसम्पर्कः क्षेत्रपाला बलानलः ।पितृभूमिस्थिताचार्यो विषया बादरायणिः ॥५॥पुरोगामा पुरोगामी वीरगा रुपुनाशकः ।महामाया महान्मायो वरदः कामदान्तकः ॥५६॥पशुलक्ष्मीः पशुपतिः पञ्चशक्तिः क्षपान्तकः ।व्यापिका विजयाच्छन्नो विजातीया वराननः ॥५७॥कटुमूर्तिः शाकमूर्तिस्त्रिपुरा पद्मगर्भजः ।अजाब्या जारकः प्रक्ष्या वातुलः क्षेत्रबान्धवा ॥५८॥अनन्तान्तरुपस्थो लावण्यस्था प्रसञ्चयः ।योगेज्ञो ज्ञानचक्रेशो बभ्रमा भ्रमणस्थितः ॥५९॥शिशुपाला भूतनाथो भूतकृत्या कुटुम्बपः ।तृप्ताश्वत्थो वरारोहा वटुकः प्रोटिकावशः ॥६०॥श्रद्धा श्रद्धन्वितः पुष्टिः पुष्टो रुष्टाष्टमाधवा ।मिलिता मेलनः पृथ्वी तत्त्वज्ञानी चरुप्रिया ॥६१॥अलब्धा भयहानत्या दशनः प्राप्तमानसा ।जीवनी परमानन्दो विद्याढ्या धर्मकर्मजः ॥६२॥अपवादरताकाङ्क्षी विल्वानाभद्रकम्बलः ।शिविवाराहनोन्मत्तो विशालाक्षी परन्तपः ॥६३॥गोपनीया सुगोप्ता च पार्वती परमेश्वरः ।श्रीमातङी त्रिपीठस्थो विकारी ध्याननिर्मलः ॥६४॥चातुरी चतुरानन्दः पुत्रिणी सुतवत्सलः ।वामनी विषयानन्दः किङ्करी क्रोधजीवनः ॥६५॥चन्द्रानना प्रियानन्दः कुशला केतकीप्रियः ।प्रचला तारकज्ञानी त्रिकर्मा नर्मदापतिः ॥६६॥कपाटस्था कलापस्थो विद्याज्ञा वर्धमानगः ।त्रिकूटा त्रिविधानन्दो नन्दना नन्दनप्रियः ॥६७॥विचिकित्सा समाप्ताङो मन्त्रज्ञा मनुवर्धनः ।मन्निका चाम्बिकानाथो विवाशी वंशवर्धनः ॥६८॥वज्रजिहवा वज्रदन्तो विक्रिया क्षेत्रपालनः ।विकारणी पार्वतीशः प्रियाङी पञ्चचामरः ॥६९॥आंशिका वामदेवाद्यां विमायाढ्या परापरः ।पायाङी परमैश्वर्या दाता भोक्त्री दिवाकरः ॥७०॥कामदात्री विचित्राक्षो रिपुरक्षा क्षपान्तकृत् ।घोरमुखी घर्घराख्यो विलज्वा ज्वालिनीपतिः ॥७१॥ज्वालामुखी धर्मकर्ता श्रीकर्त्री कारणात्मकः ।मुण्डाली पञ्चचूडाश्च त्रिशावर्णा स्थिताग्रजः ॥७२॥विरुपाक्षी बृहद्गर्भो राकिनी श्रीपितामहः ।वैष्णवी विष्णुभक्तश्च डाकिनी डिण्डिमप्रियः ॥७३॥रतिविद्या रामनाथो राधिका विष्णुलक्षणः ।चतुर्भुजा वेदहस्तो लाकिनी मीनकुन्तलः ॥७४॥मूर्धजा लाङुलीदेवः स्थविरा जीर्णविग्रहः ।लालिनीशा लाकिनीशः प्रियाख्या चारुवाहनः ॥७५॥जटिला त्रिजटाधारी चतुराङी चराचरः ।त्रिश्रोता पार्वंतीनाथो भुवनेशी नरेश्वरः ॥७६॥पिनाकिनी पिनाकी च चन्द्रचूडा विचारवित् ।जाड्यहन्त्री जडात्मा च जिहवायुक्तो जरामरः ॥७७॥अनाहताख्या राजेन्द्रः काकिनी सात्त्विकस्थितः ।मरुन्मूर्तिः पद्महस्तो विशुद्धा शुद्धवाहनः ॥७८॥वृषली वृषापृष्ठस्थो विभोगा भोगवर्धनः ।यौवनस्था युवासाक्षी लोकाद्या लोकसाक्षिणी ॥७९॥बगला चन्द्रचूडाख्यो भैरवी मत्तभैरवः ।क्रोधधिपा वज्रधारी इन्द्राणी वहिनवल्लभः ॥८०॥निर्विकारा सूत्रधारी मत्तपाना दिवाश्रयः ।शब्दगर्भा शब्दमयो वासवा वासवानुजः ॥८१॥दिकपाला ग्रहनाश्च ईशानी नरवाहनः ।यक्षिणीशा भूतिनीशो विभूतिर्भूतिवर्धनः ॥८२॥जयावती कालकारी कल्क्यविद्या विधानवित् ।लज्जातीता लक्षणाङो विषपायी मदाश्रयः ॥८३॥विदेशिनी विदेशस्थोऽपापा पापवर्जितः ।अतिक्षोभा कलातीतो निरिन्द्रिगणोदया ॥८४॥वाचालो वचनग्रन्थिमन्दरो वेदमन्दिरा ।पञ्चमः पञ्चमीदुर्गो दुर्गा दुर्गतिनाशनः ॥८५॥दुर्गन्धा गन्धराजश्च सुगन्धा गन्धचालनः ।चार्वङ्व्व चर्वणप्रीतो विशङ्का मरलारवित् ॥८६॥अतिथिस्था स्थावराद्या जपस्था जपमालिनी ।वसुन्धरसुता तार्क्षी ताकिर्कः प्राणतार्किकः ॥८७॥तालवृक्षावृतोन्नासा तालजाया जटाधरः ।जटिलेशी जटाधारी सप्तमीशः प्रसप्तमी ॥८८॥अष्टमीवेशकृत् काली सर्वः सर्वेश्वरीशरः ।शत्रुहन्त्री नित्यमन्त्री तरुणी तारकाश्रयः ॥८९॥धर्मगुप्तिः सारगुप्तो मनोयोगा विषापहः ।वज्रावीरः सुरासौरी चन्द्रिका चन्द्रशेखरः ॥९०॥विटपीन्द्रा वटस्थानी भद्रपालः कुलेश्वरः ।चातकाद्या चन्द्रदेहः प्रियाभार्या मनोयवः ॥९१॥तीर्थपुण्या तीर्थयोगी जलजा जलशायकः।भूतेश्वरप्रियाभूतो भगमाला भगाननः ॥९२॥भगिनी भगवान् भोग्या भवती भीमलोचनः ।भृगुपुत्री भार्गवेशः प्रलयालयकारणः ॥९३॥रुद्राणी रुदगणपो रौद्राक्षी क्षीणवाहनः ।कुम्भान्तका निकुम्भारिः कुम्भान्ती कुम्भिनीरगः ॥९४॥कूष्माण्डी धनरत्नाढ्यो महोग्राग्राहकः शुभा ।शिविरस्था शिवानन्दः शवासनकृतासनी ॥९५॥प्रसंशा समनः प्राज्ञा विभाव्या भव्यलोचनः ।कुरुविद्या कौरवंशः कुलकन्या मृणालधृक् ॥९६॥द्विदलस्था परानन्दो नन्दिसेव्या बृहन्नला ।व्याससेव्या व्यासपूज्यो धरनी धीरलोचनः ॥९७॥त्रिविधारण्या तुलाकोटिः कार्पासा खार्पराङुधृक् ।वशिष्ठाराधिताविष्टो वशगा वशजीवनः ॥९८॥खड्गहस्ता खड्गधारी शूलहस्ता विभाकरः ।अतुला तुलनाहीनो विविधा ध्याननिर्णयः ॥९९॥अप्रकाश्या विशोध्यश्च चामुण्डा चण्डवाहनः ।गिरिजा गायनोन्मत्तो मलामाली चलाधमः ॥१००॥पिङुदेहा पिङुकेशोऽसमर्था शीलवाहनः ।गारुडी गरुडनन्दो विशोका वंशवर्धनः ॥१०१॥वेणीन्द्रा चातकप्रायो विद्याद्या दोषमर्दकः ।अट्टहासा अट्टहासो मधुभक्षा मधुव्रतः ॥१०२॥मधुरानन्दसम्पन्ना माधवो मधुनाशिका ।माकरी मकरप्रेमो माघस्था मघवाहनः ॥१०३॥विशाखा सुसखा सूक्ष्मा ज्येष्ठो ज्येष्ठजनप्रिया ।आषाढनिलयाषाढो मिथिला मैथिलीश्वरः ॥१०४॥शीतशैत्यगतो वाणी विमलालक्षणेश्वरः ।अकार्यकार्यजनको भद्रा भाद्रपदीयकः ॥१०५॥प्रवरा वरहंसाख्य पवशोभा पुराणावित् ।श्रावणी हरिनाथश्च श्रवणा श्रवणाङ्कुरः ॥१०६॥सुकर्त्री साधकध्यक्षो विशोध्या शुद्धभावनः ।एकशेषा शशिधरो धरान्तः स्थावराधरः ॥१०७॥धर्मपुत्रो धर्ममात्रो विजया जयदायकः ।दासरक्षदि विदशकलापो विधवापतिः ॥१०८॥विधवाधवलो धूर्तः धूर्ताढ्यो धूर्तपालिका ।शङ्करः कामगामी च देवला देवमायिका ॥१०९॥विनाशो मन्दराच्छन्ना मन्दरस्थो महाद्वया ।अतिपुत्री त्रिमुण्डी च मुण्डमाला त्रिचण्डिका ॥११०॥कर्कटीशः कोटरश्च सिहिंका सिंहवाहनः ।नारसिंही नृसिंहश्च नर्मदा जाहनवीपतिः ॥१११॥त्रिविधस्त्री त्रिसर्गास्त्रो दिगम्बरो दिगम्बरी ।मुञ्चानो मञ्चभेदी च मालञ्चा चञ्चलाग्रजः ॥११२॥कटुतुङीः विकाशात्मा ऋद्धिस्पष्टक्षरोऽन्तरा ।विरिञ्चः प्रभवानन्दो नन्दिनी मन्दरद्रिधृक् ॥११३॥कालिकाभा काञ्चनाभो मदिराद्या मदोदयः ।द्रविडस्था दाडिमस्थो मज्जातीता मरुद्गतिः ॥११४॥क्षान्तिप्रज्ञो विधिप्रज्ञा वीतिज्ञोत्सुकनिश्चया ।अभावो मलिनाकारा कारागारा विचारहा ॥११५॥शब्दः कटाभेदात्मा शिशुलोकप्रपालिका ।अतिविस्तारवदनो विभवानन्दमानसा ॥११६॥आकाशवसनोन्मादी मेपुरा मांसचर्वणः ।अतिकान्ता प्रशान्तात्मा नित्यगुह्या गभीरगः ॥११७॥त्रिगम्भीरा तत्त्ववासी राक्ष्सी पूतनाक्षरः ।अभोगगणिका हस्ती गणेशजननीश्वरः ॥११८॥कुण्डपालककर्ता च त्रिरुण्डा रुण्डभालधृक् । अतिशक्ता विशक्तात्मा देव्याङी नन्दनाश्रयः ॥११९॥भावनीया भ्रान्तिहरः कापिलाभा मनोहरः ।आर्यादेवी नीलवर्णा सायको बलवीर्यदा ॥१२०॥सुखदो मोक्षदाताऽतो जननी वाञ्छितप्रदः ।चातिरुपा विरुपस्थो वाच्या वाच्यविवर्जिः ॥१२१॥महालिङुसमुत्पन्ना काकभेरी नदस्थितः ।आत्मारामकलाकायः सिद्धिदाता गणेश्वरी ॥१२२॥कल्पद्रुमः कल्पलता कुलवृक्षः कुलद्रुमा ।सुमना श्रीगुरुमयी गुरुमन्त्रप्रदायकः ॥१२३॥अनन्तशयनाऽनन्तो जलेशी जहनजेश्वरः ।गङा गङाधरः श्रीदा भास्करेशो महाबला ॥१२४॥गुप्ताक्षरो विधिरता विधानपुरुषेश्वरः ।सिद्धकलङ्का कुण्डाली वाग्देवः पञ्चदेवता ॥१२५॥अल्पातीता मनोहारी त्रिविधा तत्त्वलोचना ।अमायापतिर्भूभ्रान्तिः पाञ्चजन्यधरोऽग्रजा ॥१२६॥अतितप्तः कामतप्ता मायामोहविवर्जितः ।आर्या पुत्रीश्वरः स्थाणुः कृशानुस्था जलाप्लृतः ॥१२७॥वारुणी मदिरामत्तो मांसप्रेमदिगम्बरा ।अन्तरस्थो देहसिद्धा कलानलसुराद्रिपः ॥१२८॥आकाशवाहिनी देवः काकिनीशो दिगम्बरी ।काकचञ्चपुटमधुहरो गगनमाब्धिपा ॥१२९॥मुद्राहारी महामुद्रा मीनपो मीनभक्षिणी ।शाकिनी शिवनाथेशः काकोर्धेशी सदाशिवः ॥१३०॥कमला कण्ठकमलः स्थायुकः प्रेमनायिका ।मृणालमालाधारी च मृणालमालमालिनी ॥१३१॥अनादिनिधना तारा दुर्गतारा निराक्षरा ।सर्वाक्षरा सर्ववर्णा सर्वमन्त्राक्षमालिका ॥१३२॥आनन्दभैरवो नीलकण्ठो ब्रह्माण्डमण्डितः ।शिवो विश्वेशरोऽनन्तः सर्वातीतो निरञ्जनः ।१३३॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP