संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षड्विंशः पटलः| योगीनां सूक्ष्मस्नानम् षड्विंशः पटलः देव्या वीरध्येयरूपम् योगीनां सूक्ष्मस्नानम् कौलानां संध्या कौलतर्पणम् मानसपूजा मानसहोमः पंञ्चमकार माहात्म्यम् षड्विंशः पटलः - योगीनां सूक्ष्मस्नानम् षट्चक्रभेदः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल योगीनां सूक्ष्मस्नानम् Translation - भाषांतर कुलस्नानं महास्नानं योगिनामतिदुर्लभम् ।कृत्वा जितेन्द्रियो वीरः कुलध्यानं समाचरेत् ॥७६॥स्नानं तु त्रिविधं प्रोक्तं मज्जनं गात्रमार्जनम् ।मन्त्रज्ञानादिभिः स्नानमुत्तमं परिकीर्तितम् ॥७७॥तत्प्रकारं श्रॄणु प्राणवल्लभ प्रियकारक ।स्नानमात्रेण मुक्तः स्यात् पापशैलादनन्तगः ॥७८॥स्नानञ्च विमले तीर्थे ह्रदयोम्भोजपुष्करे ।बिन्दुतीर्थेऽथवा स्यायात् सर्वजन्माघमुक्तये ॥७९॥इडासुषुम्ने शिवतीर्थऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे ।ब्रह्मादिभिः स्नाति तयोस्तु नीरे किं तस्य गाङैरपि पुष्करैर्वा ॥८०॥इडामलस्थान निवासिनी य सूर्यात्मिकायां यमुना प्रवाहिका ।तथा सुषुम्ना मलदेशगामिनी सरस्वती मज्जति भक्षणार्थकम् ॥८१॥मनोगतस्नानपरो मनुष्यो मन्त्रक्रियायोग विशिष्ट तत्त्ववित् ।महीस्थतीर्थे विमले जले मुदा मूलाम्बुजे स्नाति च मुक्तिभाग् भवेत् ॥८२॥सर्वादितीर्थे सुरतीर्थपावनी गङा महासत्वविनिर्गता सती ।करोति पापक्षयमेव मुक्तिं ददाति साक्षादतुलार्थपुण्यदा ॥८३॥सर्गस्थं यावदातीर्थं स्वाधिष्ठाने सुपङ्कजे ।मनो निधाय योगीन्द्रः स्नाति गङाजले तथा ॥८४॥मणिपूरे देवतीर्थे पञ्चकुण्डं सरोवरम् ।एतत् श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति ॥८५॥अनाहते सर्वतीर्थे सूर्यमण्डलमध्यगम् ।विभव सर्वतीर्थानि स्नाति यो मुक्तिमिच्छति ॥८६॥विशुद्धाख्ये महापद्मे अष्टतीर्थं समुद्भवम् ।कैवल्यमुक्तिदं ध्यात्वा स्नाति वीरो विमुक्तये ॥८७॥मानसं बिन्दुतीर्थञ्च कालीकुण्डं कलात्मकम् ।आज्ञाचक्रे सदा ध्यात्वा स्नाति निर्वानसिद्धये ॥८॥एतत् कुले प्रियस्नानं कुर्वन्ति योगिनो मुदा ।अतो वीरोः सत्त्वयुक्ता सर्वसिद्धयुताः सुरा ॥८९॥नाना पापं सदा कृत्वा ब्रह्महत्याविनिर्गतम् ।कृत्वा स्नानं महातीर्थ सिद्धाः स्युरणिमादिगा ॥९०॥स्नानमात्रेण निष्पापी शक्तः स्याद्वायुसङ्ग्रहे ।तीर्थानां दर्शनं येषां शक्तो योगी भवेद् ध्रुवम् ॥९१॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP