संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षड्विंशः पटलः| देव्या वीरध्येयरूपम् षड्विंशः पटलः देव्या वीरध्येयरूपम् योगीनां सूक्ष्मस्नानम् कौलानां संध्या कौलतर्पणम् मानसपूजा मानसहोमः पंञ्चमकार माहात्म्यम् षड्विंशः पटलः - देव्या वीरध्येयरूपम् षट्चक्रभेदः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल देव्या वीरध्येयरूपम् Translation - भाषांतर आनन्दभैरवी उवाचश्रृणु प्राणेश सकलं प्राणायामनिरुपणम् ।प्राणायामे जपं ध्यानं तत्त्वयुक्तं वदामि तत् ॥१॥प्रकारयेय मुल्लासं प्राणायामेषु शोभितम् ।देवताविधिविष्णवीशास्ते तु मध्यममध्यमाः ।कामक्रोधादिकं त्यक्त्वा योगी भवति योगवित् ॥३॥रजोगुणं नृपाणां तु तमोगुणमतीव च ।अधिकं तु पशूनां हि साधूनां सत्त्वमेव च ॥४॥सत्त्वं विष्णुं वेदरुपं निर्मलं द्वैतवर्जितम् ।आत्मोपलब्धिविषयं त्रिमूर्तिमूलमाश्रयेत् ॥५॥सत्त्वगुणाश्रयादेव निष्पापी सर्वसिद्धिभाक् ।जितेन्द्रियो भवेत् शीघ्रं ब्रह्मचारिव्रतेन च ॥६॥प्राणवायुवशेनापि वशीभूताश्चराचराः ।तस्यैव कारणे नाथ जपं ध्यानं समाचरेत् ॥७॥वक्ष्यामि तत्प्रकारं जपध्यानं विधिद्वयम् ।एतत्करणमात्रेण योगी स्यान्नात्र संशयः ॥८॥जपं च त्रिविधं प्रोक्तं व्यक्ताव्यक्तातिसूक्ष्मगम् ।व्यक्तं वाचिकमुपांशुमव्यक्तं सूक्ष्ममानसम् ॥९॥तत्र ध्यानं प्रवक्ष्यामि प्रकारमेकविंशातिम् ।ध्यानेन जपसिद्धिः स्यात् जपात् सिद्धिर्न संशयः ॥१०॥आदौ विद्यामहादेवीध्यानं वक्ष्यामि शङ्कर ।एषा देवी कुण्डलिनी यस्या मूलाम्बुजे मनः ॥११॥मनः करोति सर्वाणि धर्मकर्माणि सर्वदा ।यत्र गच्छति स श्रीमान् तत्र वायुश्च गच्छति ॥१२॥अतो मूले समारोप्य मानसं वायुरुपिणम् ।द्वादशाङ्गुलकं बाह्ये नासाग्रे चावधारयेत् ॥१३॥मनःस्थं रुपमाकल्प मनोधर्म मुहुर्मुहुः ।मनस्तत् सदृशं याति गतिर्यत्र सदा भवेत् ॥१४॥मनोविकाररुपं तु एकमेव न संशयः ।अज्ञानिनां हि देवेश ब्रह्मणो रुपकल्पना ॥१५॥अव्यक्तं ब्रह्मरुपं हि तच्च देहे व्यवस्थितम् ।धर्मकर्मविनिर्मुक्तं मनोगम्यं भजेद्यतिः ॥१६॥पद्मं चतुर्दलं मूले स्वर्णवर्ण मनोहरम् ।तत्कर्णिकामध्यदेशे स्वयम्भूवेष्टितां भजेत् ॥१७॥कोटिसूर्यप्रतिकाशां सुषुम्नारन्ध्रगामिनीम् ।ऊद्र्ध्वं गलत्सुधाधारामण्डितां कुण्डलीं भजेत् ॥१८॥स्वयम्भूलिङ परमं ज्ञानं चिरविवर्द्धनम् ।सूक्ष्मातिसूक्ष्ममाकाशं कुण्डलिजडितं भजेत् ॥१९॥पूर्वोक्तयोगपटलं तत्र मूले विभावयेत् ।कुण्डलीध्यानमात्रेण षट्चक्रभेदको भवेत् ॥२०॥ध्यायेद् देवीं कुण्डलिनीं परापरगुरुपियाम् ।आनन्दां भुवि मध्यस्थां योगिनीं योगमातरम् ॥२१॥कोटिविद्युल्लताभसां सूक्ष्मातिसूक्ष्मवर्त्मगाम् ।ऊद्र्ध्वमार्गव्याचलन्तीं प्रथमारुणविग्रहाम् ॥२२॥प्रथमोदगमने कौलीं ज्ञानमार्गप्रकाशिकाम् ।प्रति प्रयाणे प्रत्यक्षाममृतव्याप्तविग्रहाम् ॥२३॥धर्मोदयां भानुमतीं जगतस्थावरजङमाम् ।सर्वान्तस्थां निर्विकल्पाञ्चैतन्यानन्दनिर्मलाम् ॥२४॥आकाशवाहिनीं नित्यां सर्ववर्नस्वरुपिणीम् ।महाकुण्डलिनीं ध्येयां ब्रह्मविष्णुशिवादिभिः ॥२५॥प्रणवान्तः स्थितां शुद्धांशुद्धज्ञानश्रयां शिवाम् ।कुलकुण्डलिनीं सिद्धिं चन्द्रमण्डलभेदिनीम् ॥२६॥मूलाम्भोजस्थितामाद्यां जगद्योनिं जगत्प्रियाम् ।स्वाधिष्ठानादिपद्मस्थां सर्वशक्तिमयीं पराम् ॥२७॥आत्मविद्यां शिवानन्दां पीठस्थामतिसुन्दरीम् ।सर्पाकृतिं रक्तवर्णा सर्वरुपविमोहिनीम् ॥२८॥कामिनीं कामरुपस्थां मातृकामात्मदायिनीम् ।कुलमार्गानन्दमयीं कालीं कुण्डलिनीं भजेत् ॥२९॥इति ध्यात्वा मूलपद्मे निर्मले योगसाधने ।धर्मोदये ज्ञानरुपीं साधयेत् परकुण्डलीम् ॥३०॥कुण्डलीभावनादेव खेचराद्यष्टसिद्धिभाक् ।ईश्वरत्वमवाप्नोति साधको भूपतिर्भवेत् ॥३१॥योगाभ्यासे भावसिद्धो स्मृतो वायुर्महोदयः ।प्राणानामादुर्निवार्यो यत्नेन तं प्रचालयेत् ॥३२॥प्रतिक्षणं समाकृष्ण मूलपद्मस्थं कुण्डलीम् ।तदा प्राणमहावायुर्वशी भवति निश्चितम् ॥३३॥ये देवाश्चैव ब्रह्माण्डे क्षेत्रे पीठे सुतीर्थके ।शिलायां शून्यगे नाथ सिद्धाः स्युः प्राणवायुना ॥३४॥ब्रह्माण्डे यानि संसन्ति तानि सन्ति कलेवरे ।ते सर्वे प्राणसंलग्नाः प्राणातीतं निरञ्जनम् ॥३५॥यावत्प्राणः स्थितो देहे तावन्मृत्युभयं कुतः ।गते प्राणे समायान्ति देवताश्चेतनास्थिताः ॥३६॥सर्वेषां मूलभूता सा कुण्डली भूतदेवता ।वायुरुपा पाति सर्वमानन्दचेतनामयी ॥३७॥जगतां चेतनारुपी कुण्डली योगदेवता ।आत्ममनः समायुक्ता ददाति मोक्षमेव सा ॥३८॥अतस्तां भावयेन्मन्त्रीं भावज्ञानप्रसिद्धये ।भवानीं भोगमोक्षस्थां यदि योगमिहेच्छसि ॥३९॥वायुरोधनकाले च कुण्डली चेतनामयी ।ब्रह्मरन्ध्रावधि ध्येया योगिनं पाति कामिनी ॥४०॥वायुरुपां परां देवीं नित्यां योगेश्वरी जयाम् ।निर्विकल्पां त्रिकोणस्थां सदा ध्यायेत् कुलेश्वरीम् ॥४१॥अनन्तां कोटिसूर्याभां ब्रह्मविष्णुशिवात्मिकाम् ।अतन्तज्ञाननिलयां यां भजन्ति मुमुक्षवः ॥४२॥अज्ञानतिमिरे घोरे सा लग्ना मूढचेतसि ।सुप्ता सर्पासना मौला पाति साधकमीश्वरी ॥४३॥ईश्वरीं सर्वभूतानां ज्ञानज्ञानप्रकाशिनीम् ।धर्माधर्मफलव्याप्तां करुणामयविग्रहाम् ॥४४॥नित्यां ध्यायन्ति योगीन्द्राः काञ्चनाभाः कलिस्थिताः ।कुलकुण्डलिनां देवीं चैतन्यानन्दनिर्भराम् ॥४५॥ककारादिमान्तवर्णां मालाविद्युल्लतावृताम् ।हेमालङ्कारभूषाङी ये मां सम्भावयन्ति ते ॥४६॥ये वै कुण्डलिनीं विद्यां मुलमार्गप्रकाशिनीम् ।ध्यायन्ति वर्षसंयुक्तास्ते मुक्ता नात्र संशयः ॥४७॥ये मुक्ता पापराशेस्तु धर्मज्ञानसुमानसाः ।तेऽवश्यं ध्यानकुर्वन स्तुवन्ति कुण्डलीं पराम् ॥४८॥कुलकुण्डलिनीध्यानं भोगमोक्षप्रदायकम् ।यः करोति महायोगी भूतले नात्र संशयः ॥४९॥त्रिविधं कुण्डलिनीध्यानं दिव्यवीरपशुक्रमम् ।पशुभावादियोगेन सिद्धो भवति योगिराट् ॥५०॥दिव्यध्यानं प्रवक्ष्यामि सामान्यनन्तरं प्रभो ।आदौ सामान्यमाकृत्य दिव्यादीन् कारयेत्ततः ॥५१॥कोटिचन्द्रप्रतीकाशां तेजोबिम्बा निराकुलाम् ।ज्वालामाला सहस्त्राढ्यां कालानलशतोपमाम् ॥५२॥द्रंष्ट्राकरालदुर्धर्षां जटामण्डलमण्डिताम् ।घोररुपां महारौद्रीं सहस्त्रकोटिचञ्चलाम् ॥५३॥कोटिचन्द्रसमस्निग्धां सर्वत्रस्थां भयानकाम् ।अनन्तसृष्टिसंहारपालनोन्मत्तमानसाम् ॥५४॥सर्वव्यापकरुपाद्यामादिनीलाकलेवराम् ।अनन्तसृष्टिनिलयां ध्यायन्ति तां मुमुक्षवः ॥५५॥वीरध्यानं प्रवक्ष्यामि यत्कृत्वा वीरवल्लभः ।वराणां वल्लभो यो हि मुक्तो भोगी स उच्यते ॥५६॥वीराचारे सत्त्वगुणं निर्मलं दिव्यमुत्तमम् ।सम्प्राप्य च महावीरो योगी भवति तत्क्षणात् ॥५७॥वीराचारं बिना नाथ दिव्याचारं न लभ्यते ।ततो वीराचारधर्मं कृत्वा दिव्यं समाचरेत् ॥५८॥वीराचारं कोटिफलं वारैकजपसाधनम् ।कोटिकोटिजन्मपापदुःखनाशं स भक्तकः ॥५९॥कुलाचारं समाचारं वीराचारं महाफलम् ।कृत्वा सिद्धिश्च वै ध्यानं कुलध्यानं मदीयकम् ॥६०॥कुलकुण्डलिनीं देवीं मां ध्यात्वा पूजयन्ति ये ।मूलपद्मे महावीरो ध्यात्वा भवति योगिराट् ॥६१॥कालीं कौलां कुलेशीं कलकल-कलिजध्यानकालानलार्कांकल्योल्कां कालकवला किलिकिलिकलिकां केलिलावण्यलीलाम् ।सूक्ष्माख्यां संक्षयाख्या क्षयकुलकमले सूक्ष्मतेजोमयीन्ता-माद्यन्तस्थां भजन्ति प्रणतजनाः सुन्दरीं चारुवर्णाम् ॥६२॥अष्टादशभुजैर्युक्तां नीलेन्दीवरलोचनाम् ।मदिरासागरोत्पन्नां चन्द्सूर्याग्निरुपिणीम् ॥६३॥चन्द्रसूर्याग्निमध्यस्थां सुन्दरीं वरदायिनीम् ।कामिनीं कोटिकन्दर्पदर्पान्तकपतिप्रियाम् ॥६४॥आनन्दभैरवाक्रान्तामानन्दभैरवीं पराम् ।भोगिनीं कोटिशीतांशुगलद्गात्रमनोहराम् ॥६५॥कोटिविद्युल्लताकारां सदसद्व्यक्तिवर्जिताम् ।ज्ञानचैतन्यनिरतां तां वीरा भावयन्ति हि ॥६६॥अस्या ध्यानप्रसादेन त्वं तुष्टो भैरवः स्वयम् ।अहं च तुष्टा संसारे सर्वे तुष्टा न संशयः ॥६७॥प्राणायामान् स करोति साधकः स्थिरमानसः ।ध्यात्वा देवीं मूलपद्मे वीरो योगवाप्नुयात् ॥६८॥वीरभावं सूक्ष्मवायुधारणेन महेश्वर ।साधको भुवि जानाति स्वमृत्युं जन्मसङ्कटम् ॥६९॥मासादाकर्षणीसिद्धिर्वाक्सिद्धिश्च द्विमासतः ।मासत्रयेण संयोगाज्जायते देवल्लभः ॥७०॥एवञ्चतुष्टये मासि भवेदिदकपालगोचरः ।पञ्चमे पञ्चबाणः स्यात् षष्ठे रुद्रो न संशयः ॥७१॥वीरभावस्य माहात्म्यं कोटिजन्मफलेन च ।जानाति साधकश्रेष्ठी देवीभक्तः स योगिराट् ॥७२॥वीराचारं महाधर्मं चित्तस्थैर्यस्य कारणम् ।यस्य प्रसादमात्रेण दिव्यभावाश्रितो भवेत् ॥७३॥स्वयं रुद्रो महायोगी महाविष्णुः कृपानिधिः ।महावीरः स एवात्मा मोक्षभोगी न संशयः ॥७४॥अथ नाथ महावीर भावस्नानं कुलाश्रयम् ।यत्कृत्वा शुचिरेव स्यात् शुचिश्चेत् किं न सिद्ध्यति ॥७५॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP