संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|एकविंशः पटलः| तुलाचक्रम् एकविंशः पटलः वीरभावस्य माहात्म्यम् भूमिचक्रम् स्वर्गचक्रम् तुलाचक्रम् वारिचक्रम् एकविंशः पटलः - तुलाचक्रम् सिद्धमंत्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल तुलाचक्रम् Translation - भाषांतर दलमध्ये तुलाचक्रं चतुष्कोणो गृहाणि च ।द्वात्रिंशद् ग्रन्थिरुपाणि सन्ति ग्रन्थिविभेदने ॥८२॥तुलाचक्रस्य नाडीभिर्द्वात्रिंशद् ग्रन्थिभेदनम् ।गलएशावधि ध्यानं मेरुमध्ये प्रकारयेत् ॥८३॥द्वात्रिंशद्ग्रन्थिगेहस्य मध्ये वृत्तत्रयं शुभम् ।तन्मध्ये च त्रिकोणे च खं मूर्द्धन्यं भजेद् वशी ॥८४॥एतद्गेहे विभाव्यानि वर्णजालफलानि च ।दक्षिणावर्तयोगेन विभाव्य वाक्पतिर्भवेत् ॥८५॥अकारमाद्यगेहे च अनुस्वारं द्वितीयके ।विसर्गं तु तृतीये च यो भजेत्स भवेद्वशी ॥८६॥एतदन्यमन्दिरेषु कादिहान्तं विभावयेत् ।वादिसान्तं वर्जयित्वा सबिन्दुं स भवेद्वशी ॥८७॥आज्ञाचक्रे यथानामफलं प्राप्नोति साधकः ।वर्णानां मूलपद्मे तु तत्फलं हि तुलागृहे ॥८८॥भजेमध्यं सकारस्य त्रिवृत्तस्थ त्रिकोणके ।ज्वालामाल सहस्त्राढ्यं स्वर्णालड्कृतमाश्रयेत् ॥८९॥प्रत्येकवर्णपुटितं तुलाचके च मौनवान् ।मौनं जपं यः करोति षकारं व्याप्य योगिराट् ॥९०॥एतद्योगप्रसादेन चैतन्या कुण्डली भवेत् ।वाक्सिद्धिश्च भवेत्तस्य तापत्रयविनाशिनी ॥९१॥सिद्धिर्मन्त्रस्य वर्णानां जपमात्रेण शङ्कर ।तुलाचक्रान्तरस्थानं विभाव्य मन्त्रसिद्धिभाक् ॥९२॥एतच्चक्रं विना नाथ कुण्डली नापि सिद्धयति ।भावज्ञानं बिना कुत्र योगी भवति भारते ॥९३॥अन्यदलमाहात्म्यम् अथान्यदलमाहात्म्यं श्रृणु वक्ष्यामि तत्त्वतः ।योगसञ्चारसारं यत् कुण्डलीशक्तिसाधनम् ॥९४॥शक्तिबीजं बिन्दुयुक्तम् अष्टकोणस्थनिर्मलम् ।विद्युत्पुञ्चं स्वर्णमालावेष्टितं भावयेद्यतिः ॥९५॥चतुष्कोणं विभेद्यापि चतुष्कोणं मनोहरम् ।तन्मध्ये च चतुष्कोणं सबीजं भावयेत्ततः ॥९६॥कोटिसूर्यसमां देवीं कुण्डलीदेवमातरम् ।पादाङगुष्ठावधिं ध्यात्वा सर्वसिद्धीश्वरो भवेत् ॥९७॥ N/A References : N/A Last Updated : April 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP