संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|एकविंशः पटलः| स्वर्गचक्रम् एकविंशः पटलः वीरभावस्य माहात्म्यम् भूमिचक्रम् स्वर्गचक्रम् तुलाचक्रम् वारिचक्रम् एकविंशः पटलः - स्वर्गचक्रम् सिद्धमंत्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल स्वर्गचक्रम् Translation - भाषांतर द्वितीये दक्षिणे पत्रे वान्तबीजं महाप्रभम् ।मनो विद्याय योगीन्द्रो ध्यायेद् योगार्थीसिद्धये ॥५७॥तत्र ध्यायेत् स्वर्गचक्रं स्वर्गशोभासमाकुलम् ।विभाव्य स्वर्गनाथः स्याद्देवेन्द्रसदृशो भुवि ॥५८॥पञ्चकोणं विभेद्यापि पञ्चकोणं विभति यत् ।तन्मध्ये वृत्तयुगलं तत्र षट्कोणगं भजेत् ॥५९॥एतत् स्वर्गाख्यचक्रं तु भूपुरद्वयमध्यके ।दक्षिणोत्तरपत्रस्थे विभाव्य वान्तमीश्वरम् ॥६०॥षट्कोणान्तर्गतं वान्तं विद्युत्कोटिसमप्रभम् ।तमाश्रित्य सुराः सर्वे दशकोणे वशन्ति ते ॥६१॥पूर्वकोणे महेन्द्रश्च सर्वदेवसमास्थितः ।इन्द्राणी सहितं ध्यात्वा योगीन्द्रो भवति ध्रुवम् ॥६२॥तद्दक्षिणे रक्तकोणे वहिनं स्वाहन्वितं स्मरेत् ।कोटिकाला नलालोलं परिवारगणान्वितम् ॥६३॥तद्दक्षिणे कामरुपी भाति शक्तियुतः प्रभुः ।परिवारान्वितं ध्यात्वा तं मृत्यु(त्यु)वशमानयेत् ॥६४॥नैऋतं विद्युदाकारं कन्दर्पदमनं प्रियम् ।शक्तियुक्त स्वरानन्दं विभाव्य योगिनीपतिः ॥६५॥तदधो वरुणं ध्यात्वा सुशक्तिपरिलालितम् ।जलानामधिपं सत्त्वं नित्यसत्त्वश्रियो भवेत् ॥६६॥तद्वामे मरुतः कोणं मरुद्गणविभाकरम् ।वायुस्थानं लयस्थानं वायुव्याप्तं भवेत् सुधीः ॥६७॥तत्पश्चाद् गणनाथञ्च मत्तं शक्तिसमन्वितम् ।परिवारगणानन्दं विभाव्य स्याद् गणेश्वरः ॥६८॥तत्पश्चात् परमं स्थानमीशं शक्तिसमन्वितम् ।परिवारान्वितं ध्यात्वा कामरुपी भवेद्यतिः ॥६९॥तत्पश्चात् कोणगेहे च चन्द्रसूर्याग्नितेजसम् ।एकरुपमूद्र्ध्वसंस्थं ब्रह्माणं भावयेद्यतिः ॥७०॥इन्द्रवामकोणगेहे अनन्तं वहिनरुपिणम् ।अनन्तसदृशं ध्यात्वा अनन्तसदृशो भवेत् ॥७१॥एतत् स्वचक्रमध्ये तु वृत्तयुग्मं महाप्रभम् ।सर्वदा वहिनना व्याप्तं ज्वलदग्निं विभावयेत् ॥७२॥वृत्तमध्ये च षट्कोणं कोणे कोणे रिपुक्षयम् ।लोभमोहादिषट्कञ्च हरेत् षट्कोणसंस्थितान् ॥७३॥लोभं हरति इन्द्राणी(ग्नी)मोहं हरति दण्डधृक् ।कामं नैऋवरुणौ क्रोधं वायुश्च योगिनाम् ॥७४॥मदं हरेदधीशश्च ब्रह्मानन्ती हि योगिनाम् ।मात्सर्यं संहत्येव मासत्रयनिषेवणात् ॥७५॥षट्कोणमध्यदेशस्थं वान्तबीजं शशिप्रभम् ।स्वर्णालङ्कारजडितं भावयेद् योगसिद्धये ॥७६॥सदा व्याप्तं कुण्डलिन्या पालितं मण्डितं सुधीः ।तैले यथा दीपपुञ्चं विभाव्य योगिराड् भवेत् ॥७७॥स्वयंभूलिङुं तत्रैव विभाव्य चन्द्रमण्डलम् ।आप्लुतं कारयेन्मन्त्री कुण्डलीसहितं वशी ॥७८॥एवं क्रमेण सिद्धः स्यात् कुण्डल्याकुञ्चनेन च ।सदाभ्यासी महायोगी संस्थाप्य वायवीं ततः ॥७९॥वायव्याभासयुक्तेन एतच्चक्राश्रयेण च ।मूकोऽपि वाक्पतिर्भूयात् फलभागी दिने दिने ॥८०॥तृतीयदलामाहात्म्यम् तृतीयदलामाहात्म्यं योगिज्ञानोदयं परम् ।भाअसिद्धिर्भवेत्तस्य यो भजेदात्मचिन्तनम् ॥८१॥ N/A References : N/A Last Updated : April 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP